विस्तारः (द्रष्टुं नोद्यम्)
(चातुर्मास्येषु तृतीयं साकमेधपर्व) साकमेधहविषां ब्राह्मणम्, दर्विहोमयाज्यानुवाक्ये
- साकमेधपर्वणि प्रथमेहनि कार्याणि हवींषि, तदीयौ मन्त्रौ २-३, द्वितीयेह्नि कार्याणि हवींषि च
२-३ अनुष्टुप् विश्वेदेवा ऋषयः
भास्करोक्त-विनियोगः
1अथ साकमेधहवींषि विधीयन्ते । तत्र प्रथमे ऽहनि यानि भवन्ति तानि विदधाति - अग्नयेनीकवत इति ॥ ‘देवासुरास्संयत्ता आसन् । सोग्निरब्रवीत् । ममेयमनीकवती तनूः’ इत्यादि ब्राह्मणम् ।
विश्वास-प्रस्तुतिः
अ॒ग्नये ऽनी॑कवते (→सूर्याय)
पुरो॒डाश॑म् अ॒ष्टाक॑पाल॒न् निर्व॑पति, सा॒कꣳ सूर्ये॑णोद्य॒ता …
Keith
To Agni Anikavant he offers a cake on eight potsherds as the sun rises,
मूलम्
अ॒ग्नयेऽनी॑कवते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पति सा॒कꣳ सूर्ये॑णोद्य॒ता …
भट्टभास्कर-टीका
‘असौ वा आदित्यो ऽग्निर् अनीकवान् । तस्य रश्मयो ऽनीकानि’ । यदा सूर्यश्चोदयं करोति, अध्वर्युश्च पुरोडाशं निर्वपति ;
तदानीं सूर्येणोद्यता साकं निर्वपति तदा सूर्योदयकाले निर्वपतीत्यर्थः ।
‘राजसूय’ इत्यादौ सूर्यशब्दो निपातितः, ‘शतुरनुमः’ इत्युद्यच्छब्दात्तृतीयाया उदात्तत्वम् ।
विश्वास-प्रस्तुतिः
म॒रुद्भ्य॑स् सान्तप॒नेभ्यो॑ म॒ध्यन्दि॑ने च॒रुम्,
म॒रुद्भ्यो॑ गृहमे॒धिभ्य॒स् सर्वा॑सान् दु॒ग्धे सा॒यञ् च॒रुम् (निर्वपति) ।
Keith
an oblation to the Maruts as the heaters at midday,
and to the Maruts as lords of the house he milks at evening an oblation of all (the cows).
मूलम्
म॒रुद्भ्य॑स्सान्तप॒नेभ्यो॑ म॒ध्यन्दि॑ने च॒रुम् (निर्वपति) ।
म॒रुद्भ्यो॑ गृहमे॒धिभ्य॒स्सर्वा॑सान्दु॒ग्धे सा॒यञ्च॒रुम् (निर्वपति) ।
भट्टभास्कर-टीका
अथ मध्यन्दिने मरुद्भ्यस्सान्तपनेभ्यश्चरुं निर्वपति । अह्नो मध्यं मध्यंदिनम् । ‘मध्यो मध्यं दिनञ्चास्मात्’ इति दिनञ्प्रत्ययः ? सम्यक्समन्ताच्च शोषणं सन्तपनं, तत्सम्बन्धिनस्सान्तपनाः सन्तापनसमर्थाश्शत्रूणाम् । ‘तेऽसुराः पराजिता यन्तः’ इत्यादि ब्राह्मणम् ।
अथ सायमस्तकाले मरुद्भ्यो गृहमेधिभ्यः गृहमेधवद्भ्यः सर्वासां गवां यजमानसम्बन्धिनीनां दुग्धे चरुं निर्वपति । ‘ते देवाश्श्वो विजयिनः’ इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
2अव्युष्टायां रजन्यां पूर्णदर्व्येण चरन्ति, शरनिष्कासस्य दर्वीं पूरयित्वा गार्हपत्ये जुहोति । तत्र पुरोनुवाक्या - पूर्णेत्यनुष्टुप् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
पू॒र्णा द॑र्वि॒ परा॑ पत॒
सुपू᳚र्णा॒ पुन॒र् आप॑त ।
व॒स्नेव॒(=वसुनेव) वि क्री॑णावहा॒
इष॒म् ऊर्जꣳ॑ शत-क्रतो ॥
सर्वाष् टीकाः ...{Loading}...
Keith
O ladle, fly away filled,
And well filled do thou fly back;
Like wares, O Śatakratu,
Let us barter food and strength.
मूलम्
पू॒र्णा द॑र्वि॒ परा॑ पत॒ सुपू᳚र्णा॒ पुन॒राप॑त ।
व॒स्नेव॒ वि क्री॑णावहा॒ इष॒मूर्जꣳ॑ शतक्रतो ॥
भट्टभास्कर-टीका
हे दर्वि पूर्णा शरनिष्कासस्य पूरिता । ‘वा दान्तशान्त’ इति ण्यन्तस्य निपात्यते ।
ईदृशी परापत इन्द्रं प्रति गच्छ । ततस् सुपूर्णा सुष्ठु धनस्य पूर्णा पुनरस्मान् प्रत्यापत आगच्छ । एवं वस्नेव वस्नेन मूल्येनेव । ‘सुपां सलुक्’ इत्याकारः ।
क्रीणावहै इन्द्रश्चाहं च परस्परतः वणिग्वद्विनिमयं करवावहै । किं विक्रीणावहा इत्युच्यते - इषम् ऊर्जम् अन्नं रसादिकं धनादिकं च ; अतोत्रावयोस्त्वं गतागतकारिणी साधनभावमाचरेति । तदेवाह - हे शतक्रतो बहुविधकर्मकरणकुशले गतागतसमर्थे ॥
भास्करोक्त-विनियोगः
3अथ याज्या - देहीत्यनुष्टुप् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒हि मे॒, ददा॑मि ते॒
नि मे॑ धेहि॒, नि ते॑ दधे ।
नि॒हार॒म् इन् नि मे॑ हरा
नि॒हारं॒ [5] नि ह॑रामि ते ॥
सर्वाष् टीकाः ...{Loading}...
Keith
Give thou to me; I shall give to thee;
Bestow upon me; I shall bestow upon thee;
Accept my offering;
I shall accept thy offering [1].
मूलम्
दे॒हि मे॒ ददा॑मि ते॒ नि मे॑ धेहि॒ नि ते॑ दधे ।
नि॒हार॒मिन्नि मे॑ हरा नि॒हार᳚म् [5] +नि ह॑रामि ते ॥
भट्टभास्कर-टीका
देहि मे मह्यं अभिमतं धनं, अहमपि ते तुभ्यं ददामि । निधेहि स्थापय मे मदर्थं, अहमपि ते त्वदर्थं निदधे स्थापयामि । तथा निहारमित् निहारमेव निर्हृत्यनिर्हृत्यैव मे मम निहर, अहमपि ते निहारं निर्हृत्यनिहृत्य निहरामि । नियमेन नितरां निर्हृत्य वा समुदायाद्धरणं निहरणम् । आभीक्ष्ण्ये णमुल्, कृदुत्तरपदप्रकृतिस्वरत्वम् लित्स्वरः । एवमुपकारप्रत्युपकारितया आवयोर्वृत्तिरस्त्विति लोकवृत्तानानिदर्शनम् ॥
भास्करोक्त-विनियोगः
4अथ द्वितीयेह्नि साकं सूर्येणोद्यता मरुद्भ्यः क्रीडिभ्यः पुरोडाशं सप्तकपालं निर्वपति ॥
विश्वास-प्रस्तुतिः
म॒रुद्भ्य॑ᳵ क्री॒डिभ्यᳶ॑ पुरो॒डाशꣳ॑ स॒प्तक॑पाल॒न् निर्व॑पति,
सा॒कꣳ सूर्ये॑णोद्य॒ता ।
Keith
To the Maruts, the playful, he offers a cake on seven potsherds at the rising of the sun;
मूलम्
म॒रुद्भ्य॑ᳵ क्री॒डिभ्यᳶ॑ पुरो॒डाशꣳ॑ स॒प्तक॑पाल॒न्निर्व॑पति सा॒कꣳ सूर्ये॑णोद्य॒ता ।
भट्टभास्कर-टीका
क्रीडन्तीति क्रीडिनः, ग्रह्याडित्वाण्णिनिः । ‘त एनमत्यक्रीडन् । तत्क्रीडिनां क्रीडित्वम्’ इति ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
5अथ महाहविस्सम्बन्धीन्यष्टौ हवींषि विदधाति - आग्नेयमष्टाकपालमित्यादि ॥
विश्वास-प्रस्तुतिः
आग्ने॒यम् अ॒ष्टाक॑पाल॒न् निर्व॑पति,
सौ॒म्यञ् च॒रुम् सा॑वि॒त्रन् द्वाद॑श-कपालं,
सारस्व॒तञ्च॒रुं,
पौ॒ष्णञ् च॒रुम्,
ऐ᳚न्द्रा॒ग्नम् एका॑दश-कपालम्,
ऐ॒न्द्रञ् च॒रुव्ँ,
वै᳚श्वकर्म॒णम् एक॑कपालम्॥ [6]
Keith
he offers to Agni on eight potsherds,
an oblation to Soma,
to Savitr on twelve potsherds,
to Sarasvati an oblation,
to Pusan an oblation,
to Indra and Agni on eleven potsherds,
to Indra an oblation,
to Viśvakarman on eleven potsherds.
मूलम्
आग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पति सौ॒म्यञ्च॒रुꣳ सा॑वि॒त्रन्द्वाद॑शकपालꣳ सारस्व॒तञ्च॒रुम्पौ॒ष्णञ्च॒रुमै᳚न्द्रा॒ग्नमेका॑दशकपालमै॒न्द्रञ्च॒रुव्ँवै᳚श्वकर्म॒णमेक॑कपालम् ॥
भट्टभास्कर-टीका
तत्र पौष्णान्तानि पञ्च सञ्चराणि प्रागेवाम्नातान्यपि पुनः पठित्वा दर्शयति । ऐन्द्राग्रमपि वरुणप्रघासेषु षष्ठतयाम्नातमेव पुनः पठति । ब्राह्मणं च भवति ‘एतद्ब्राह्मान्येव पञ्च हवींषि । एतद्ब्राह्मण ऐन्द्राग्नः’ इति । ‘अथैष ऐन्द्रश्चरुर्भवति’ । ऐन्द्रस्यापूर्वं विधानम् । ‘उद्धारं वा एतम्’ इत्यादि ब्राह्मणम् । वैश्वकर्मणस्यैककपालस्य चापूर्वं विधानम् ॥
इत्यष्टमे चतुर्थोनुवाकः ॥