१४

सप्तत्रिंशत्सार्धाः पक्षः सव्यश्च शिरसि चत्वारः षड्विंशकस्तथात्म श्येने पञ्चदशकं पुच्छम् । सप्तदशकं पुच्छं द्वयं शिरस्यात्मपक्षयोः कॢप्तमलजस्य । भागसन्धान्तयज्ञैः प्रमितान्नरचतुर्थे १
अष्टौ भागाः पुच्छं कङ्कचिते भवन्ति पादयोश्चतुरः शिरसि तु सप्त ज्ञेयाः श्येनवदात्मा च पक्षौ च २
श्येनालजकङ्कानामष्टौ सार्धा विस्तृतं पुच्छं चत्वारोत्मा द्वौ च शिरः सर्वेषां पञ्चकौ पक्षौ ३ श्येनालजकङ्कानां द्वित्रिचतुः कुष्ठ-मित्युच्यते पुच्छम् । पञ्चाक्ष्णाः पक्षपात्रास्त्वक्ष्णाभिः परिश्रिताः ४
पुच्छे द्वौ भागावानयेत्पुच्छमलजेन त्रिकुष्ठवत्त्रीन्श्येनपुच्छाच्छिरसि कङ्के पादौ तु हरेत् ५
प्राचीर्द्वादश सार्धा विंशतिरुदीचीर्भवेन्मिता भागा । दश पञ्च कङ्कचितावलज उदीचीस्त्रयोदश सार्धाश्च ६
त्रिचतुर्भागमानी स्याद्रज्जुरर्धत्रयोदशी मध्ये च लक्षणं तस्याश्चतुर्भागैर्निराञ्छनम् ७
भागिकाश्चत्वारस्तोदा अर्धषष्ठेऽपरः स्मृतः अर्धाश्च मेऽष्टमे चैव नवमे दशमेऽपरः अर्धद्वादशो वान्यः ८
ततः प्राचीः प्रसार्य तु तस्या निखानयेच्छङ्कुम् । पाशयोर्मध्यमेऽष्टमे । चतुर्थे वाहत्य पाशम् । आसज्य मध्यमे निराञ्छनम् ९
निरायम्य विनुद्योन्मुच्य मध्यमात् । अभितो दशम आयम्य भागा द्विकचतुष्काः । अर्धषष्ठेऽपि चाहत्य पूर्वादेवं समाचरेत् । तुल्यं शङ्कुं तुर्ये १०
ततः प्राचीः प्रसार्य तु अर्धषष्ठकयोः पाशौ । शङ्कू अर्धाष्टमेऽष्टमे । प्रगृह्य पश्चिमशङ्कू । द्विकयोर्वोत्सृजेत्ततः ११ चतुर्थनवमौ शङ्कू प्रवृहेदन्तिमावुभौ १२
अष्टमे पाशमासृज्य अष्टमेनैव निग्रहः । भागेभागे ततः शङ्कू तयोः १३
अष्टमे पाशमासृज्य आदिशङ्कौ निगृह्य च दशमे शङ्कुमाहन्यात्पुच्छार्धे अलजस्य तु १४
स्यार्धाष्टमे शङ्कुः कङ्कस्य दर्शने स्मृतः १५
त्रिके पाशं समासृज्य दशकेन निगृह्य च एताभ्यामेव तोदाभ्यां शङ्कू देयौ तथोत्तरौ १६ अर्धद्वादशमे पाशस्त्रिको निग्रहणो भवेत् आदिपाशे द्विके चैव शङ्कू देयौ तथोत्तरौ १७
उत्तरे द्विकमासज्य दक्षिणं समयोर्हरेत् १८
चतुर्थे शङ्कुमाहन्याद्विपरीतं समाचरेत् चतुर्थे तु तदर्थेन निर्गृह्य च –१९
इति श्येनस्य रज्जुर्द्वादशलक्षणा २०
चत्वारि करणान्येषां त्रिचतुर्थेन कारयेत् नवभागा अक्ष्णार्धाक्ष्णाः पञ्चकोणाः च भागशः २१
प्राचीने पञ्चकोणे द्वे अथार्धाक्ष्णाद्वयं न्यसेत् अंसाग्रयोरथैकैका एवं पक्षविपक्षयोः २२ नवभागैश्चितं मध्यमक्ष्णाभिः परिषिञ्चते पक्षाग्रे पञ्च पत्राण्येवं चाक्ष्णा विधीयते २३
व्यत्यासाक्ष्णाद्वयं तुन्दे पञ्चकोणे प्रत्यक्स्थिते अर्धाक्ष्णे कण्ठसन्ध्योश्च पूरयेदमितं शिरः २४
द्वे पक्षसन्ध्योरर्धाक्ष्णे पुच्छसन्ध्योस्तथापरे दश पञ्च च पुच्छाग्रे पक्षाग्र एकविंशतिम् २५
औपमाने चयने चैषां व्यत्यासे करणेषु च रज्ज्वाश्चावपनं ह्रासो श्येनसिद्धिरिति स्थितिः २६
अवक्रपक्षमलजं च पूर्वपक्षे तथायुतम् मध्यात् प्रसिद्धं पुच्छं श्येने दाम्ना प्रसिध्यत इति २७
नवमात्प्राग्भागे शङ्कू तुरीयस्य करणम् अलजे पक्षार्धमवक्रताद्ध्येवं भवेत् २८