यावती
शोषपाकाभ्यामिष्टका ह्रसते कृता तावत्समधिकं कार्यं करणं
सममिच्छत १
सदा च त्रिंशकं भागमिष्टका ह्रसते कृता तावत् समधिकं कार्यं
करणं सममिच्छत २
एकैकं शतमध्यर्धं तदूतं षडभिरङ्गुलैः इष्टकानां परिमाणं
वैकृतं यदतोऽन्यथा ३
नवाङ्गुलसहस्राणि द्वे शते षोडशोत्तरे
अङ्गुलानां परिमाणं व्यायामस्य तु निर्दिशेत् ४
इतरेषां तु धिष्ण्यानां सर्वेषामेव निश्चयः एकैकस्य सहस्रं
स्याच्छते षण्णवतिः परा ५
एकादश सहस्राणि अङ्गुलानां शतानि षट् शतं चैव
सहस्राणां क्षेत्रमग्नेर्विधीयते ६
प्राकृतं वैकृतं वापि
क्षेत्रमर्धाष्टमान्तरे पञ्चविंशं
शिरः कृत्वा ततः क्षेत्रे समावपेत् ७
शतान्यष्टौ पदोनानि पदानामिह
कीर्त्यन्ते साङ्गस्य सशिरस्कस्य क्षेत्रं क्षेत्रविदो विदुः ८
आत्मा
चतुःशतः कार्यः पक्षौ त्रिंशच्छतौ स्मृतौ दश पुच्छे शतं चैव शिरः
स्यात् पञ्चविंशकम् ९
एकत्रिंशस्त्रयस्त्रिंशैर्वर्गैः पञ्चाशकैरपि
असम्भवत्सु वर्गेषु द्विधा भिद्येत इष्टका १०
इष्टकाह्रासवृद्धिभ्यां
दृढासु शतकेषु च मतिमानिष्टका भागैर्मन्त्रात्सन्नाशयेदिति ११
चतुरश्रे पृष्टौ वापि पक्षपुच्छशिरेष्टकाः दिक्तोऽपधानं लोकाच्च तथा
लोकस्तु लुप्यते १२
अध्यात्मनि ह विज्ञेयमुपधानं विजानता
रथन्तरबृहल्लोकैरन्यं गायत्रयाज्ञियैः १३
यजुष्मतीनां सङ्ख्या तु सर्वासां चैव निश्चिता एकैकस्यां
चितौ वापि तां मे निगदतः शृणु १४
षडशीतिः शतं त्वाद्या द्वितीया दश
सप्ततिः त्रयोदश तृतीया स्याच्छतं चाहुर्मनीषिणः चतुर्थी
शतमेका स्यात्तिस्रश्चैवेष्टकाः स्मृताः शतानि त्रीणि
पञ्चाशत्षट्चैव चितिरुत्तमा १५
एताः सर्वा यजुष्मत्यो
याभिरग्निः प्रसूर्यते शेषं लोकम्पृणाभिस्तु चितीनामभिपूरयेत् १६
एताः
सर्वा समाम्नाताः यजुर्यावत्प्रवर्तते तदेतद्धि सहस्रं स्याच्छर्कराभिः
सहोच्यते १७
एता उपहिताः सम्यग्धेनवस्तु प्रजायन्ते
अमुष्मिन्यजमानाय कामान्दुह्यति सर्वशः १८
षष्टिं प्रजापतिं वेद यो हि संवत्सरः स्मृतः गच्छति ब्रह्मणो लोकं नाकं
ब्रध्नस्य विष्टपम् १९