०७

दर्भस्तम्बं पुष्करपर्णं रुक्मपुरुषौ हिरण्येष्टकां शर्करां स्वयमातृण्णां दूर्वेष्टका नैवारमिति मध्यं । तस्मिन्कुम्भेष्टका या मध्ये दक्षिणोत्तरे च स्रुचावनूपमध्येषु शेषाः । पश्चात्स्वयमातृण्णायाः कुलायिनीं द्विय-जुश्च वंशयोः पार्श्वसंहिते द्वियजुरुत्तरे पुरस्ताद्रेतःसिचौ द्वे । दक्षिणे तस्मिन्वंशे द्वितीयामृतव्यां च पुरस्ताच्चतुर्थे लोके रेतःसिचं विश्वज्योतिषं मण्डलामृतव्यां घर्मेष्टकामषाढां कूर्मं वृषभमिति प्राञ्चमुत्तरे वंशे दक्षि-णतः पुरस्तात्स्वयमातृण्णायाः पञ्च मुलूखलमुसलमुत्तरपूर्वे चोखां मध्ये शिरसां शिरोभिः संहितामुपदधाति १
तस्याः पश्चात्पुरुषशिरसः पुरुषचितिमुपदधाति षट्त्रिंशतं प्रतीचीस्त्रिवर्गेण श्रोण्याम् २
तत्र श्लोको भवति तिस्रो ग्रीवाः षडंसयोर्द्वे द्वे बाह्वोर्नवात्मनि जङ्घयोरु पञ्च पश्चादस्मानामेकैकं पाणिपादयोः ३
अष्टवथापस्याः समं विभज्य वंशेषु नवमेनवमे प्राणभृतः पुरस्तादुत्तरे वंशे प्रथमं पश्चाद्दक्षिणे दक्षिणतः पूर्व उत्तरतः पश्चाद्दक्षिणतः स्वयमा-तृण्णाया द्वितीये पञ्चममनूपेषु संयतो नवमेऽतिमात्रा यथा प्राणभृतः पुरस्ताद्दक्षिणे वंशे प्रथमं पश्चादुत्तरे दक्षिणतः पश्चादुत्तरतः पूर्व उत्तरतः पश्चाद्दक्षिणतः उत्तरतः स्वयमातृण्णाया द्वितीये पञ्चमम् । वैश्वदेव्यश्चा-नूपेषु प्रतिदिशमुत्तरपूर्वेषु वंशेष्वाद्या । दक्षिणोत्तरे च संयान्यावप्यये तयोर्वंशयोराद्यात् पुरस्ताद्वाथर्वशिरः ४
समं विभज्य वंशेषु शिरः प-क्षपुच्छानि प्रथमेषु वंशेषु लोकान्विजानीयात् ५
शिरसि प्रथमे वंश उत्तरामुत्तरामितरेषां पक्षपुच्छानां चतुर्थे पक्षयोः प्राचीः पुच्छे चोदीची-र्लोकेष्टका उपदध्याच्छेषाः पश्चात्स्वयमातृण्णाया एकैकं पूर्वं संहिताम् । दक्षिणे वंशे वैश्वदेव्याद्य उत्तरे च पुरीषाद्याः ६
गायत्रं मध्ये शिरसि रथन्तरं बृहद्यज्ञायमिति यथाम्नातम् ७