०६

व्यायामस्याष्टममेकतस्तुरीयमेकत उभयतस्तुरीयं च ते गार्हपत्यचितेः करणे १
पुरुषस्य दशमेन भागेन प्रथमं चतुरश्रं करणं कारयेद्दशम-मेकतोऽर्धमेकतस्तद्द्वितीयं दशममेकतोऽध्यर्धमेकतस्तत्तृतीयमुभयत-स्तुरीयं तच्चतुर्थम् २ तासामुत्सेधस्त्रिंशत्पञ्चमभागेनान्यत्र नाकसद्भ्यश्च चूडाभ्य ऋतव्याभ्योऽथ मध्यमायां पञ्चमषष्ठीभ्यश्च वैश्वदेवीभ्यस्ता अर्धोत्सेधाः ३ पुरीषमन्तर्धायोत्तरामुपदध्याद्गणसंसर्गायाविच्छेदाय ४
गर्तेषूपदध्याद्यदन्यदिष्टकाभ्यः ५
तत्र श्लोको भवति उखायाः पशु-शीर्षाणां कूर्मस्योलूखलस्य च स्रुचोः कुम्भेष्टकानां च चरोश्चैवा-वटान्खनेत् ६ प्रतिदिशमुपदध्यादात्मनि मध्ये प्राचीः शिरसि पुच्छे पक्षयोश्चात्मन्यप्ययेषु समं विभज्योत्तरामुत्तरामप्ययसंहितां पूर्वापरद-क्षिणोत्तरा विषयवचनादन्यच्चतस्रः पुरस्तात्पञ्चर्तव्याभ्यः पश्चाच्चोत्तरपूर्वे चार्धे गार्हपत्यस्य । शेषं चतुरश्राभिः ७ एता एव दक्षिणोत्तरा द्वितीयस्यां । शेषं चतुरश्राभिः ८
यथा प्रथमैवं तृतीया पञ्चमी वा यथा द्वितीयैवं चतुर्थे । तेन धर्मेन वत्यासं चिनुयात् ९
अथेत-रानाग्नीध्रीयादीन् नवनव पदानि करोत्येकैकं मध्येऽस्मानमाग्नीध्रीये । चत्वारि चत्वारि तुरीयाणि प्रतिदिशं होत्रीये । चतस्रोऽर्धाः कुष्ठासु ब्राह्यणाछंस्य । इतरेषां द्वे द्वे अध्यर्धे मध्ये प्राचीः । षडेव मार्जालीये पशुस्रपणे च १०
विंशतिमध्यर्धाः प्राचीरंसयोर्दद्याच्छ्रोण्योः पुच्छे च विंशतिं द्वादश द्वादश पुरस्तात्पक्षयोः प्राचीः पश्चाच्च पञ्च पञ्च चोदीचीरभितः शिरसि । शेषं चतुरश्राभिः ११
विंशतिं श्रोण्यंसपक्षेष-दूई!चीर्दक्षिणतस्तथोत्तरतो द्वितीयस्यामेकादशैकादशाभितः पुच्छे पञ्च पञ्च प्राचीरभितः शिरसे । शेषं चतुरश्राभिः १२
यथा प्रथमैवं तृतीया पञ्चमी च यथा द्वितीयैवं चतुर्थ्येतेन धर्मेण व्यत्यासं चिनुयात् १३ त्रिरुपसत्सु द्वे पूर्वस्यां तिस्रो मध्यमायां षट्सु यथानुपूर्वेण द्वादशसु व्यत्यासं चितिपुरीषे करोति १४
एतेन धर्मेण संवत्सरात्समं विभज्य जानुदघ्नेऽस्य द्विगुणं त्रिगुणमुत्तरेषां चैकामुत्तरामुद्धत्याभ्यायनं वर्धायातिरिक्ता उपदध्यात् १५ मन्त्राद्यभिमर्शनान्तं तत्पुरुषस्य लक्षणम् १६