०१

अथातः शुल्बं व्याख्यास्यामः १
रज्जुं पाशवतीं समां निरायतां पृष्ठ्यां यथार्थमुपकल्पयेत् २
अन्तरेण चित्रास्वाती श्रवणप्रतिश्रवणौ कृत्तिकाप्रतिकृत्तिके तिष्यपुनर्वसू च प्राग्देशोऽयं युगमात्रोदितयोः पाशाञ्च ३
दार्शिक्याः शयाः षट्तानि सप्त सप्तदशैव तु एकं द्वे पञ्च तैर्मीत्वा समरैः परिलेखयेत् ४
अंसाच्छ्रोणौ रज्ज्वन्तं प्रतिष्ठाप्य प्राचीमनुलिखेदंसेप्रतिष्ठाप्य प्रतीचीं समरे रज्ज्वन्तं प्रतिष्ठाप्य श्रोणेरध्यंसादनुलिखेत् ५
एवमुत्तरतः पुरस्तात्पश्चाच्च ६
अरत्निश्चतुरश्रस्तु पूर्वस्याग्नेः खरो भवेत् रथचक्राकृतिः पश्चाच्चन्द्रार्धेन तु दक्षिणे ७
मध्यात् कोटिप्रमाणेन मण्डलं परिलेखयेत् अतिरिक्तत्रिभागेन सर्वं तु सहमण्डलम् चतुरश्रेऽक्ष्णया रज्जुर्मध्यतः सन्निपातयेत् परिलेख्य तदर्धेनार्धमण्डलमेव तत् ८
गार्हपत्याहवनीयावन्तरा रज्जुं निमायापरस्मिंस्तृतीये लक्षणम् । मध्यात् तुरीयमुत्सृज्य लक्षणं पाशान्तौ समाहृत्य दक्षिणतो दक्षिणाग्नेर्लक्षणम् ९
एतदेव विपर्यस्योत्तरत उत्करस्य लक्षणम् १०
यावत्प्रमाणा रज्जुः स्यात्तावदेवागमो भवेत् आगमार्धे भवेच्छङ्कुः शङ्कोरर्धे निराञ्छनम् ११
समन्तचतुरश्राणि विधिरेषः प्रकीर्तितः १२