Intro
“The Elucidation of Compounds”
Typeset by Victor B. D’Avella
with assitance from Leo Rishi Nelson-Jones
0 Preface
The following text is based on the edition by Vittore Pisani published in Rivista degli studi orientali, vol. 12 (1929–1930): 137–151. Minor erros have been corrected without note, and all extraneous brackets have been removed to improve readability. I have not, however, altered less common (though not incorrect) sandhis, e.g., *-s s- * for *-ḥ s- *(cf. P. 8.3.36), nor attempted to standarize the appli-cation of sandhi throughout the work. Pisani’s original numbering in square brackets has been retained for orientation with the printed edition.
No other edition is known at present nor have additional manuscript ma-terials been secured. The *Samāsacandrikā * belongs to the class of introductory grammatical texts that present the classification of compounds with examples and vigraha s. A simliar but more rudimentary work is the Samāsacakra.
-
Preface
-
Introduction
- Classification of Compounds
-
Avyayībhāva [P.2.1.5–21]
- Nitya Avyayībhāva
- Anitya Avyayībhāva
-
Tatpuruṣa [P.2.1.22–2.2.23]
-
Vyadhikaraṇa Tatpuruṣa
- Anitya Vyadhikaraṇa Tatpuruṣa
-
Nitya Tatpuruṣa
- Nitya Vyadhikaraṇa Tatpuruṣa
-
Samānādhikaraṇa Tatpuruṣa
- Nitya Samānādhikaraṇa Tatpuruṣa
- Anitya Samānādhikaraṇa Tatpuruṣa
-
-
Bahuvrīhi [P.2.2.23–28]
- Sāmānyalakṣaṇa Bahuvrīhi
- Saṅkhyottarapada Bahuvrīhi [P.2.2.25]
- Antarālaviṣayaka Bahuvrīhi
- Vyatihāraviṣayaka Bahuvrīhi
- Sahayogaviṣayaka Bahuvrīhi
-
Dvandva [P.2.2.29]
- Itaretarayogadvandva
- Samāhāradvandva
-
Ekaśeṣa [P.1.2.64–73]
- Sarūpasambandhin Ekaśeṣa [P.1.2.64]
- Virūpasambandhin Ekaśeṣa
-
Aluk Samāsa
अथ समासचन्द्रिकाप्रारम्भः
॥श्रीगणेशाय नमः॥
फ़् ८ द्
१
१ प्रवेशः
[१] अथ समासार्थावबोधप्रकारः कथ्यते। तत्रैकार्थवाचकताम् प्राप्तो भिन्नार्थकानेकपदसमूहः समासः; यथा राजपुरुष इति। तदर्थावबोद्-हकं वाक्यं विग्रहः; यथा राज्ञः पुरुष इति।
१.१ समास-विभागः
[२] समासो द्विधा- केवलो विशेषसञ्ज्ञश् च। केवलो यथा- पूर्वम् भूतः –
भूतपूर्वः। विशेषसञ्ज्ञश् चतुर्धा अव्ययीभावतत्पुरुषबहुव्रीहिद्वन्द्व्-अभेदात्।
१। प्रायेण पूर्वपदार्थप्रधानो ऽव्ययीभावः।
२। प्रायेणोत्तरपदार्थप्रधानस् तत्पुरुषः।
३। प्रायेण समासघटकपदार्थान्यपदार्थप्रधानो बहुव्रीहिः।
४। समासघटकसर्वपदार्थप्रधान इतरेतरयोगद्वन्द्वः। समासघटक-पदार्थसमूहप्रधानः समाहारद्वन्द्वः।
२ अव्ययीभाव [प्। २.१.५–२१]
[३] तत्राव्ययीभावो द्वेधा नित्यानित्यभेधात्। स्वघटकपदान्यपदविग्रहो नित्यसमासः; स्वघटकपदविग्रहो ऽनित्यसमासः।
२.१ नित्य अव्ययीभाव
[४] तत्र नित्यो यथा-
१। दिशयोर् मध्यम् – अपदिशम्। [प्। २.१.६, विभक्ति।]
२। कृष्णस्य समीपम् – उपकृष्णम्। [प्। २.१.६, समीपे।]
३। मद्राणां समृद्धिः – सुमद्रम्। [प्। २.१.६, समृद्धि।]
४। यवनानां व्यृद्धिः – दुर्यवनम्। [प्। २.१.६, व्यृद्धि।]
२
५। मक्षिकाणां अभावः – निर्मक्षिकम्।[प्। २.१.६, अर्थाभाव।]
अथ निर्मक्षिकं भद्र ।मधु पातुं मनोरथः ।
जहि घातय बालं मे ।पतिं नित्यप्रमादिनम् ॥१.२५॥ ( बृहत्कथाश्लोकसङ्-ग्रह)
६। हिमस्यात्ययः – अतिहिमम्। [प्। २.१.६, अत्यय।]
७। निद्रा सम्प्रति न युज्यत इत्य् अतिनिद्रम्। [प्। २.१.६, असम्प्रति।]
८। हरिशब्दस्य प्रकाशः – इतिहरि। [प्। २.१.६, शब्दप्रादुर्भावः।]
९। रूपस्य योग्यम् – अनुरूपम्। [प्। २.१.६, यथार्थ]१
१०। हरेः सादृश्यम् – सहरि। [प्। २.१.६]
११। सदृशः सख्या – ससखि।
१२। क्षत्राणां सम्पत्तिः – सक्षत्रम्। [प्। २.१.६, सम्पत्ति।]
१३। यावन्तः श्लोकास् तावन्तः – यावच्छ्लोकम्, अच्युतप्रणामाः। [प्। २.१.८।]
१४। शाकस्य लेशः – शाकप्रति। [प्। २.१.९।]
१५। अक्षेण विपरीतं वृत्तम् – अक्षपरि। [प्। २.१.१०।]
१६। शलाकया विपरीतं वृत्तम् – शलाकापरि। [प्। २.१.१०।]
अथ क्रियान्वितो नित्यो ऽव्ययीभावः-
१। हराव् इति – अधिहरि तिष्ठति ब्रह्माण्डम्।
२। विष्णोः पश्चात् – अनुविष्नु प्रकाशते ब्रह्मा। [प्। २.१.६, पश्चात्।]
३। शक्तिम् अनतिक्रम्य – यथाशक्ति ददाति देवदत्तः। [प्। २.१.६, यथ: पदार्थानतिवृत्तिः।]
४। तृणम् अप्य् अपरित्यज्य – सतृणम् अत्ति देवदत्तः। [प्। २.१.६, साकल्य।]
५। अग्निग्रन्थपर्यन्तम् – साग्नि अधीते छात्त्रः। [प्। २.१.६, अन्त।]
६। ज्येष्ठस्यानुपूर्वेणेत्य् – अनुज्येष्ठम् संस्कर्तव्याः पुत्राः। [प्। २.१.६, आनुपूर्व्य।]
१थे क्व् गिवेस् फ़ोउर् मेअनिन्ग्स् फ़ोर् यथा: योग्यता, वीप्सा, पदार्थानतिवृत्तिः, सादृश्यम्।
३
२.२ अनित्य अव्ययीभाव
[५] अथानित्यो ऽव्ययीभावः-
१। गङ्गाया अनु – अनुगङ्गम्। गङ्गादैर्घ्यवतीत्य् अर्थः। [प्। २.१.१६]
२। गङ्गायाः पारः – पारेगङ्गम्। [प्। २.१.१८]
३। गङ्गाया मध्यम् – मध्येगङ्गम्। [ इबिदेम्]
४। तिष्ठन्ति गावो यस्मिन् सः – तिष्ठद्गु, दोहनकालः। [प्। २.१.१७]
अथ क्रियान्वितो ऽनित्यो ऽव्ययीभावः-
१। अर्थम् अर्थम् प्रति – प्रत्यर्थम् उपदिशति गुरुः। [प्। २.१.६, यथा, वीप्सा।]
२। वनाद् बहिः – बहिर्वनं सञ्चरन्ति व्याघ्राः।
३। वनात् प्राक् – प्राग्वनं चरन्ति पशवः।
४। अग्नेर् अभि – अभ्यग्नि पतन्ति शलभाः।
५। वनम् अनु – अनुवनम् गतो ऽशनिः। वनस्य समीपङ् गत इत्य् अर्थः।
६। मुक्तेर् आ – आमुक्ति, मुक्तिं मर्यादीकृत्य संसारस् तिष्ठतीत्य् अर्थः। [प्। २.१.१३, मर्दाया।]
७। बालेभ्य आ – आबालम् बालान् अभिव्याप्य हरिभक्तिर् मुक्तये प्रभवतीत्य् अर्थः। [ इबिदेम्, अभिविधि।]
०इति अव्ययीभावः०
३ तत्पुरुष [प्। २.१.२२–२.२.२३]
[६] अथ तत्पुरुषः। स द्वेधा- व्यधिकरणः समानाधिकरणश् चेति। तत्र भिन्नविभक्तिकपदघटितो व्यधिकरणः; समानविभक्तिकपदघटितः समानाधि-करणः।
३.१ व्यधिकरण तत्पुरुष
[७] व्यधिकरणो ऽपि द्वेधा- अनित्यो नित्यश् च।
४
३.१.१ अनित्य व्यधिकरण तत्पुरुष
[८] तत्रानित्यः सप्तविधः-
१। प्रथमातत्पुरुषो [प्। २.२.१–४]
२। द्वितीयातत्पुरुषस् [प्। २.१.२४–२९]
३। तृतीयातत्पुरुषश् [प्। २.१.३०–३५]
४। चतुर्थीतत्पुरुसः [प्। २.१.३६]
५। पञ्चमीतत्पुर्षः [प्। २.१.३७–३९]
६। षष्ठीतत्पुरुषस् [प्। २.२.८–१७]
७। सप्तमीतत्पुरुषश् चेति। [९] [प्। २.१.४०–४८]
तत्र प्रथमातत्पुरुषो यथा-
१। अर्धम् पिप्पल्याः – अर्धपिप्पली। [प्। २.२.२]
२। पूर्वङ् कायस्य – पूर्वकायः। [प्। २.२.१]
३। प्राप्तो ग्रामौ – प्राप्तग्रामः। [प्। २.२.४, प्राप्त]
४। आपन्नो देवान् – आपन्नदेवः। [प्। २.२.४, आपन्न]
[१०] द्वितीयातत्पुरुषो यथा-
१। कृष्णं श्रितः – कृष्णश्रितः। [प्। २.१.२४, श्रित]
२। पितरौ प्राप्तः – पितृप्राप्तः। [प्। २.१.२४, प्राप्त]
३। रामान् आपन्नः – रामापन्नः। [प्। २.१.२४, आपन्न]
[११] तृतीयातत्पुरुषो यथा-
१। शङ्कुलया खण्डः– शङ्कुलाखण्डः। [प्। २.१.३०]
२। मासेन पूर्वः – मासपूर्वः। [प्। २.१.३१, पूर्व]
३। पितृभ्यां सदृशः – पितृसदृशः। [प्। २.१.३१, सदृश]
५
४। मधुरैर् मिश्रः – मधुरमिश्रः। [प्। २.१.३१, मिश्र]
[१२] चतुर्थीतत्पुरुषो यथा-
१। यूपाय दारु – यूपदारु। [प्। २.१.३६, तदर्थ]
२। पितृभ्याम् बलिः – पितृबलिः। [प्। २.१.३६, बलि]
३। गोभ्यो हितम् – गोहितम्। [प्। २.१.३६, हित]
[१३] पञ्चमीतत्पुरुषो यथा-
१। चोराद् भयम् – चोरभयम्। [प्। २.१.३७]
२। पितृभ्याम् भीतः – पितृभीतः। [प्। २.१.३७]
३। पापेभ्यो ऽपेतः – पापापेतः। [प्। २.१.३८, अपेत]
[१४] षष्ठीतत्पुरुषो – यथा-
१। भुवनस्य धरः – भुवनधरः। [प्। २.२.८]
२। राज्ञः पुरुषः – राजपुरुषः। [प्। २.२.८]
३। पित्रोर् भक्तः – पितृभक्तः। [प्। २.२.८]
४। नराणाम् पतिः – नरपतिः। [प्। २.२.८]
[१५] सप्तमीतत्पुरुषो यथा-
१। कर्मणि कुशलः – कर्मकुशलः। [प्। २.१.४०]
२। कपालयोः सिद्धः – कपालसिद्धः। [प्। २.१.४१]
३। अक्षेषु शौण्डः – अक्षशौण्डः। [प्। २.१.४०]
इत्य् अनित्यसमासः।
६
३.२ नित्य तत्पुरुष
[१६] अथ नित्यः। स द्विविधः- सुबन्तसमासः कृदन्तसमासश् चेति। [१७]
तत्र नित्ये व्यधिकरणे तत्पुरुषे सुबन्तसमासो यथा- १। द्विजायायम् – द्विजार्थः वेदः। [प्। २.१.३६.४फ़्।]
२। पितृभ्याम् इयम् – पित्रर्था पूजा। [प्,̇२.१.३६.४फ़्।]
३। देवेभ्य इदम् – देवार्थम् हविः। [प्,̇२.१.३६.४फ़्।]
४। अतिक्रान्तो मालाम् – अतिमालः। [प्। २.२.१८, प्रादि]
५। अवकृष्टः कोकिलया – अवकोकिलः। [प्। २.२.१८, प्रादि]
६। परिग्लानो ऽध्ययनस्य – पर्यध्ययनः। [प्। २.२.१८, प्रादि]
७। निष्क्रान्तः कौशाम्ब्याः – निष्कौशाम्बिः। [प्। २.२.१८, प्रादि]
३.२.१ नित्य व्यधिकरण तत्पुरुष
[१८] नित्ये व्यधिकरणे तत्पुरुषे कृदन्तसमासो यथा- १। प्रकर्षेण नीतः – प्रणीतः।
२। सम्यङ् मतः – सम्मतः।
३। अनुलक्ष्येण गतः – अनुगतः।
४। दुःखेन जेयः – दुर्जेयः।
५। सुखेन गम्यः – सुगम्यः।
६। विशेषेण नेयः – विनेयः।
७। अधिकम् पातीत्य् अधिपः। [प्। ३.१.१३६]
८। परितो ऽटनम् – पर्यटनम्।
९। अभितो गमनम् – अभिगमनम्।
१०। आ समन्तात् कर्षणम् – आकर्षणम्।
११। कुम्भङ् करोतीति कुम्भकारः। [प्। ३.२.१]
७
१२। द्वाभ्याम् पिबतीति – द्विपः। [प्। ३.२.४.२]
१३। पङ्काज् जातम् – पङ्कजम्। [प्। ३.२.९८]
१४। आखूनाम् उत्थानम् – आखूत्थः। [प्। ३.२.४.१]
१५। स्वर्गे तिष्ठतीति स्वर्गस्थः। [प्। ३.२.४]
१६। कुरुषु चरतीति कुरुचरः। [प्। ३.२.१६]
१७। दूरम् पश्यतीति दूरदर्शी। [प्। ३.२.७८]
३.३ समानाधिकरण तत्पुरुष
[१९] अथ समानाधिकरणस् तत्पुरुषः। स द्विविधः नित्यानित्यभेदात्। तत्र नित्यो ऽपि त्रेधा-
१। कृदन्तसमासः
२। सुबन्तसमासः
३। सङ्ख्यापूर्वपदश् चेति। [२१]
३.३.१ नित्य समानाधिकरण तत्पुरुष
तत्र नित्ये समानाधिकरणे तत्पुरुषे कृदन्तसमासो यथा- १। उत्तानः शेते – उत्तानशयः। [प्। ३.२.१५.३]
२। अवमूर्धः शेते – अवमूर्धशयः। [प्। ३.२.१५.३]
३। पूर्वः सरतीति – पूर्वसरः। [प्। ३.२.१९]
[२२] नित्ये समानाधिकरणे तत्पुरुषे सुबन्तसमासो यथा- १। कुत्सितः पुरुषः – कुपुरुषः। [प्। २.२.१८]
२। कुत्सितो ऽश्वः – कदश्वः। [प्। २.२.१८]
३। ईषद् उष्णम् – कोष्णम् – कवोष्णम्। [प्। २.२.१८]
४। कुत्सितः सखा – किंसखा। [प्। २.१.६४]२
२ओन् थे लच्क् ओफ़् थे *समासान्त * सुफ़्फ़िx, सेए प्। ५.४.७०।
८
५। प्रगत आचार्यः – प्राचार्यः। [प्। २.२.१८]
६। अपगतो धर्मः – [प्।८] अपधर्मः। [प्। २.२.१८]
७। परागतो जयः – पराजयः। [प्। २.२.१८]
८। निर्गतञ् जलम् – निर्जलम्। [प्। २.२.१८]
९। विगतो मार्गः – विमार्गः। [प्। २.२.१८]
[२३] नित्ये समानाधिकरणे तत्पुरुषे सङ्ख्यापूर्वपदो यथा- १। सप्तर्षिसञ्ज्ञकाः – सप्तर्षयः। [प्। २.१.५०]
३.३.२ अनित्य समानाधिकरण तत्पुरुष
[२४] अथानित्यः। स द्वेधा- नञ्तत्पुरुषः कर्मधारयश् चेति। [२५] तत्र नञ्-तत्पुरुषो यथा-
१। न ब्राह्मणः – अब्राह्मणः। [प्। २.२.६]३
२। नाश्वः – अनश्वः। [प्। २.२.६]
[२६] अथ कर्मधारयः। स द्विधा- केवलो द्विगुश् चेति। [२७] तत्र केवलो नवधा-
१। विशेषणपूर्वपदो
२। विशेषणोत्तरपद
३। उपमानपूर्वपद
४। उपमानोत्तरपदो
५। विषयपूर्वपदो
६। ऽवधारणपूर्वपदो
७। ऽवधारणोत्तरपदः
८। क्रमिकोभयपदो
३फ़ोर् थे सन्धि ओफ़् नञ्, सेए प्। ६.३.७३फ़्।
९
९। मध्यमपदलोपी चेति।
[२८] तत्र विशेषणपूर्वपदो यथा-
१। कृष्णश् चासौ सर्पश् च – कृष्णसर्पः। [प्। २.१.५७]४
२। पीता चासौ लता च – पीतलता। [प्। २.१.५७]
३। नीलं च तद् उत्पलं च – नीलोत्पलम्। [प्। २.१.५७]५
[२९] विशेषणोत्तरपदो यथा-
१। वैयाकरणश् चासौ खसूचिश् च – वैयाकरणखसूचिः। [प्। २.१.५३]
२। मयूरो व्यंसकः – मयूरव्यंसकः। [प्। २.१.७२]
[३०] उपमानपूर्वपदो यथा-
१। शङ्ख इव पाण्डुः – शङ्खपाण्डुः। [प्। २.१.५५]
२। घन इव श्यामः – घनश्यामः। [प्। २.१.५५]
[३१] उपमानोत्तरपदो यथा-
१। नरः सिंह इव – नरसिंहः। [प्। २.१.५६]
२। चरणः पङ्कजम् इव – चरणपङ्कजम्। [प्। २.१.५६]
[३२] विषयपूर्वप्दओ यथा-
१। घट इति शब्दः – घटशब्दः। घटविषयकः शब्द इत्य् अर्थः।
२। देवा इति बुद्धिः – देवबुद्धिः। देवविषयिणी बुद्धिर् इत्य् अर्थः।
[३३] अवधारणपूर्वपदो यथा-
१। (पुरु) विद्यैव धनम् – विद्याधनम्।
४इन् थे क्व् *अद् लोच्। *, थे चोम्पोउन्द् *कृष्णसर्पः * इस् गिवेन् अस् अ नित्यसमास: क्वचिन् नित्यसमास *एव- कृष्णसर्पः, लोहितशालिः। *
५इन् थे क्व् *अद् लोच्। *, थे चोम्पोउन्द् *नीलोत्पलम् * इस् गिवेन् अस् अन् ओप्तिओनल् चोम्पोउन्द्- *क्वचिन् न भवत्य् एव- रामो जामदग्न्यः, अर्जुनः कार्तवीर्यः। क्वचिद् विकल्पः- नीलम् उत्पलम्, नीलोत्पलम्। *
१०
[३४] अवधारणोत्तरपदो यथा- १। पुरुषः कुञ्जर एव – पुरुषकुञ्जरः।
[३५] क्रमिकोभयपदो यथा-
१। पीतश् चासौ प्रतिबद्धश् च – पीतप्रतिबद्धः।६ आदौ पीतः पश्चात् प्रतिबद्ध इत्य् अर्थः। [प्। २.१.४९, पूर्वकाल]
२। स्नातश् चासाव् अनुलिप्तश् च – स्नातानुलिप्तः। पूर्वं नातः पश्चाद् अनुलिप्त इत्य् अर्थः। [प्। २.१.४९, पूर्वकाल]
[३६] मध्यमपदलोपी यथा-
१। शाकप्रियः पार्थिवः – शाकपार्थिवः।
२। देवपूजको ब्राह्मणः – देवब्रामणः।
०इति केवलः कर्मधारयः०
[३७] अथ द्विगुः-
१। त्रयाणां लोकानां समाहारः – त्रिलोकी। [प्। २.१.५१]७
२। त्रयाणां भुवानां समाहारः – त्रिभुवनम्। [प्। २.१.५१]८
३। चतुर्णां युगानां समाहारः – चतुर्युगम्। [प्। २.१.५१]
४। पञ्चानाङ् गवां समाहारः – पञ्चगवम्। [प्। २.१.५१]
५। सण्णाङ् करिणां समाहारः – षट्करि। [प्। २.१.५१]
६। द्वादशानान् धेनूनां समाहारः – द्वादशधेनु। [प्। २.१.५१]
७। पञ्चानां सरितां समाहारः – पञ्चसरित्। [प्। २.१.५१]
०इति समासस् तत्पुरुषः०
६थिस् चोम्पोउन्द् इस् उसेद् इन् *रघुवंश * २.१च् *पीत-प्रतिबद्ध-वत्साम् * अन्द् मोदिफ़िएस् धेनुम् इन् थे फ़ोल्लोwइन्ग् पाद। नोते थत् *पीत * इस् एक़ुइवलेन्त् तो पीतवत्। मल्लिनाथ गिवेस् थे देरिवतिओन्- *पीतं पानम् अस्यास्तीति पीतः। पीतवान् इत्य् अर्थः। *[प्। ५.२.१२७] *अर्शादिभ्यो ऽच् इत्य् अच्प्रत्यय्ः। *
७फ़ोर् थे सुफ़्फ़िx ङीप्, सेए प्। ४.१.२१।
८फ़ोर् थे नेउतेर् गेन्देर्, सेए प्। २.४.१७।
११
४ बहुव्रीहि [प्। २.२.२३–२८]
[३८] अथ बहुव्रीहिः। स पञ्चविधः-
१। सामान्यलक्षणः [प्। २.२.२४]
२। सङ्ख्योत्तरपदो [प्। २.२.२५]
३। ऽन्तरालविषयको [प्। २.२.२६]
४। व्यतिहारविषयकः [प्। २.२.२७]
५। सहयोगविषयकश् चेति। [प्। २.२.२८]
४.१ सामान्यलक्षण-बहुव्रीहिः
[३९] तत्र सामान्यलक्षणो द्वेधा-
१। समानाधिकरणो
२। व्यधिकरणश् च।
[४०] तत्र समानाधिकरणो ऽपि द्वेधा-
१। समानाधिकरणो [प्। २.२.२४.१०]
२। व्यधिकरणश् च।
तत्र समानाधिकरणो ऽपि द्वेधा-
१। द्विपदो
२। बहुपदश् चेति।
स द्विविधो ऽपि प्रत्येकं षड्विधः-
१। द्वितीयाबहुव्रीहिस्
२। तृतीयाबहुव्रीहिश्
३। चतुर्थीबहुव्रीहिः
४। पञ्चमीबहुव्रीहिः
१२
५। षष्ठीबहुव्रीहिः
६। सप्तमीबहुव्रीहिश् चेति।
[४१] द्वितीयाबहुव्रीहिर् यथा-
१। प्राप्तम् उदकं यं स प्राप्तोदकः ग्रामः।
२। गतः क्रुद्धः सिंहो यं स गतक्रुद्धसिंहः करी।
[४२] तृतीयाबहुव्रीहिर् यथा-
१। जितः कामो येन स जितकामः शिवः।
२। अर्जिता विख्याता सम्पद् येन सो ऽर्जितविख्यातसम्पत्।
[४३] चतुर्थीबहुव्रीहिर् यथा-
१। उपहतः पशुर् यस्मै स उपहतपशू रुद्रः।
२। प्रदत्ताः सुन्दरा अश्वा यस्मै स प्रदत्तसुन्दराश्वः।
[४४] पञ्चमीबहुव्रीहिर् यथा-
१। उद्धत ओदनो यस्याः सोद्धतौदना स्थाली।
२। सम्पादितम् भूरि धनं यस्मात् तत् सम्पादितभूरिधनं चातुर्यम्।
[४५] षष्ठीबहुव्रीहिर् यथा
१। पुंलिङ्गे-
(अ) पीतम् अम्बरं यस्य स पीताम्बरो विष्णुः।
(ब्) एको ग्रामो ययोस् ताव् एकग्रामौ पान्थौ।
(च्) एको गुरुर् येषां त एकगुरवः शिष्याः।
२। स्त्रीलिङ्गे-
(अ) रक्तं वस्त्रं यस्याः सा रक्तवस्त्रा स्त्री।
(ब्) एकम् मन्दिरं ययोस् ते एकमन्दिरे जाये।
१३
(च्) चारूणि भूषणानि यासां ताश् चारुभूषणाः स्त्रियः
३। नपुंसके-
(अ) चित्रा भित्तयो यस्य तच् चित्रभित्ति गृहम्।
(ब्) अनर्घ्याणि रत्नानि ययोस् ते अनर्घ्यरत्ने कटके।
(च्) भूरि सत्त्वं येषां तानि भूरिसत्त्वानि शास्त्राणि (द्) नीलम् उज्वलं वपुर् यस्य स नीलोज्वलवपुः कृष्णः।
[४६] सप्तमीबहुव्रीहिर् यथा-
१। वीराः पुरुषा यस्मिन् स वीरपुरुषो ग्रामः।
२। खड्गिनः कुण्डलिनो वीरा यस्मिन् तत् खड्गकुण्डलिवीरं सैन्यम्।
[४७] व्यधिकरणो यथा-
१। चक्रम् पाणौ यस्य स चक्रपणिर् विष्णुः। [प्। २.२.३६.४]
२। मनुष्याज् जन्म यस्य स मणुष्यजन्मा। [च्फ़्। कस् ५.२.१८]९
३। साध्याभाववति न वृत्तिर् यस्य स साध्याभाववदवृत्तिः। १०
[४८] अथ द्विपदे बहुपदे च बहुव्रीहौ प्रत्येकं यथासम्बवन् नव भेदाः- १। विशेषणपूर्वपदो
२। ऽवधारणपूर्वपदो
३। ऽवधारणोत्तरपदः
४। क्रमिकोभयपदो
९कस्- *काव्यालङ्कारसूत्र *ओफ़् वामन।
१०थे चोम्पोउन्द् इस् फ़ोउन्द्, फ़ोर् एxअम्प्ले, इन् अन्नम्भट्टऽस् *तर्कसङ्ग्रह *अन्द् देस्च्रिबेस् अ सुब्-त्य्पे ओफ़् फ़ल्लचिओउस् रेअसोनिन्ग् ( हेत्वाभास), नमेल्य्, थे साधरण सव्यभिचार हेत्वाभास: “थे चोम्मोन्, स्त्रयिन्ग्, फ़ल्लचिओउस् रेअसोनिन्ग्।” थिस् रेफ़ेर्स् तो अ त्य्पे ओफ़् रेअसोन् थत् हस् प्रेसेन्चे ( वृत्ति) इन् अ प्लचे wहेरे थे *साध्य *(“प्रोबन्दुम्, थिन्ग् तो बे प्रोवेद्”) इस् नोत् प्रेसेन्त्। थे एxअम्प्ले इस् *यथा पर्वतो वह्निमान् प्रमेयत्वाद् इति प्रमेयत्वस्य वह्न्यभाववति ह्रदे विद्यमानत्वात्। *
“फ़ोर् एxअम्प्ले, [थे रेअसोनिन्ग् इन् थे प्रोपोसितिओन्] ‘थे मोउन्तैन् पोस्सेस्सेस् फ़िरे बेचौसे इत् इस् क्नोwअब्ले,ऽ [इस् चोम्मोन्, स्त्रयिन्ग्, फ़ल्लचिओउस् रेअसोनिन्ग्] बेचौसे क्नोwअबिलित्य् इस् प्रेसेन्त् इन् अ पोन्द् wहेरे फ़िरे इस् नोत् प्रेसेन्त्।”
१४
५। मध्यमलोपी चेति।
[४९] विशेषणपूर्वपदो यथा-
१। नीलः कण्ठो यस्य स नीलकण्ठः शिवः।
[५०] विशेषणोत्तरपदो यथा-
१। अग्नय आहिता येन सो ऽग्न्याहितः ब्राह्मणः।
२। गतं शीघ्रं यस्य स गतशीघ्रः वायुः।
[५१] उपमानपूर्वपदो यथा-
१। पद्मे इव नेत्रे यस्य स पद्मनेत्रो विष्णुः।
[५२] उपमानोत्तरपादो यथा-
१। गतम् उड्डीनम् इव यस्य स गतोड्डीनो ऽश्वः।
[५३] विषयपूर्वपदो यथा-
१। न भवेद् इति बुद्धिर् यस्य स नभवेद्बुद्धिः।
२। शिव इति शब्दो यय्स स शिवशब्दः तपस्वी।
३। अहम् इत्य् अभिमानो यस्य सो ऽधमभिमानः मूर्खः।
[५४] अवधारणपूर्वपदो यथा-
१। यश एव धनं यस्य स यशोधनः विद्वान्।
[५५] अवधारणोत्तरपदो यथा-
१। भक्षितञ् जगद् एव येन स भक्षितजगन् मृत्युः।
[५६] क्रमिकोभयपदो यथा-
१। गर्वितः पराजितो येन स गर्वितपराजितो राजा।
[५७] मध्यमपदलोपी यथा-
१५
१। खरस्य मुखम् इव मुखं यस्य स खरमुखः। [प्। २.२.२४.१२ उपमानपूर्वपद]
२। रहिणस्याक्षिणी इवाक्षिणी यस्याः सा रहिणाक्षी। ११ [ इदेम्।]
३। न विद्यमानः पुत्रो यस्य सो ऽपुत्रः, अविद्यमानपुत्रो वा। [प्। २.२.२४.१५]
४। प्रपतितम् पर्णं यस्मात् स प्रपर्णः प्रपतितपर्णो वा। [प्। २.२.२४.१४]
इति नव भेदाः।
४.२ सङ्ख्योत्तरपद-बहुव्रीहिः [प्। २.२.२५]
[५८] अथ सङ्ख्योत्तरपदो यथा-
१। दशानां समीपे ये सन्ति त उपदशाः नवैकादश वेत्य् अर्थः। [प्। २.२.२५
अव्यय]
२। आसन्ना विंशतेः – आसन्नविंशाः। [प्। २.२.२५ आसन्न]
३। त्रिंशतो ऽदूराः – अदूरत्रिंशाः। [प्। २.२.२५ अदूर]
४। चत्वारिंशतो ऽधिकाः – अधिकचत्वारिंशाः। [प्। २.२.२५ अधिक]
५। द्वौ वा त्रयो वा – द्वित्राः। [प्। २.२.२५ सङ्ख्या]
६। द्विरावृत्ता दश – द्विदशाः। [प्। २.२.२५ सङ्ख्या]
४.३ अन्तरालविषयक-बहुव्रीहिः
[५९] अन्तरालविषयको दिगन्तराललक्षणो यथा- १। दक्षिणस्याः पूर्वस्याश् चान्तरालं यत् सा दक्षिणपूर्वा। [प्। २.२.२६]
४.४ व्यतिहारविषयक-बहुव्रीहिः
[६०] व्यतिहारविषयको व्यतिहारलक्षणो यथा- १। केशेषु केशेषु गृहीत्वेदम् प्रवृत्तम् – केशाकेशि क्रीडनम्। [प्। २.२.२७]
२। दण्डैश् च दण्डैश् च प्रहृत्येदम् प्रवृत्तम् – दण्डादण्डि युद्धम्।
[ इदेम्।]
११उन्च्लेअर्। रेअद् रोहिण-?
१६
४.५ सहयोगविषयक-बहुव्रीहिः
[६१] सहयोगविषयकः सहपूर्वपदो यथा-
१। पुत्रेण सह यः स सपुत्र आगतः पिता। [प्। २.२.२८]
२। शिष्यैः सह – सशिष्यः पूजितो गुरुः। [प्। २.२.२८]
०इति समाप्तो बहुव्रीहिः
५ द्वन्द्व [प्। २.२.२९]
[६२] अथ द्वन्द्वः। स द्विविधः-
१। इतरेतरयोगद्वन्द्वः
२। समाहारद्वन्द्वश् चेति।
५.१ इतरेतरयोगद्वन्द्व
[६३] तत्रेतरतरयोगद्वन्द्वो यथा-
१। सहितौ लक्ष्मीश् च नारायणश् च – लक्ष्मीनारायणौ।
२। सहितौ हरश् च पार्वती च – हरपार्वयौ।
३। सहितौ रामश् च कृष्णश् च – राम्कृण्षौ।
४। सहितानि घटश् च कुड्यं च कुसूलं च – घटकुड्यकुसूलानि।
५। सहिताः घटौ च पटौ च – घटपटाः।
६। सहितानि कुण्डलानि च कटके च ताटङ्कं च – कुण्डलकटकताटङ्कानि।
७। सहिताव् अग्निश् च सोमश् च – अग्नीषोमौ।
८। सहिते द्यौश् च भूमिश् च – द्यावाभूमी।
९। सहितौ मित्रश् च वरुणश् च मित्रावरुणौ।
१७
५.२ समाहारद्वन्द्व
[६४] समाहारद्वन्द्वो यथा-
१। पाणी च पादौ च मुखं च, एतेषां समाहारः – पाणिपादमुखम्।
२। शङ्खश् च पटहश् च, अनयोः समाहारः – शङ्खपटहम्।
३। रथिकाश् चाश्वारोहाश् च गजस्थाश् च , एतेषां समाहारः – रथिकाश्वारोह-गजस्थम्।
०इति समाप्तो द्वन्द्वः०
६ एकशेष [प्। १.२.६४–७३]
[६५] अथ द्वन्द्वापवादक एकशेषः। स द्वेधा- १। सरूपसम्बन्धी
२। विरूपसम्बन्धी चेति।
६.१ सरूपसम्बन्धिन् एकशेष [प्। १.२.६४]
[६६] तत्र सरूपसम्बन्धी यथा-
१। रामश् च रामश् च – रामौ। [प्। १.२.६४]
२। विप्रश् च विप्रश् च विप्रश् च विप्राः। [ इदेम्।]
३। शूद्रा च शूद्रा च – शूद्रे। [ इदेम्।]
४। नदी च नदी च नदी च – नद्यः। [ इदेम्।]
५। नेत्रं च नेत्रं च – नेत्रे। [ इदेम्।]
६। पद्मं च पद्मं च पद्मं च – पद्मानि। [ इदेम्।]
१८
६.२ विरूपसम्बन्धिन् एकशेष
[६७] विरूपसम्बन्धी यथा-
१। ब्राह्मणश् च ब्राह्मणी च – ब्राह्मणौ। [प्। १.२.६७]
२। नरश् च नार्यश् च – नराः। [प्। १.२.६७]
३। भ्रातरश् च स्वसारश् च – भ्रातरः। [प्। १.२.६८]
४। पुत्रा च दुहिता च – पुत्राः। [प्। १.२.६८]
५। नीलं च नीला च नीलश् च – नीलानि नीलं वा। [प्। १.२.६९]
६। श्लुकश् च शुक्लं च – शुक्ले शुक्लं वा। [प्। १.२.६९]
७। माता च पिता च – पितरौ मातापितरौ मातारपितरौ वा। [प्। १.२.७०]
८। श्वशुरश् च श्वश्रूश् च – श्वशुरौ श्वश्रूश्वशुरौ वा। [प्। १.२.७१]
९। अजश् चाजा च - अजे। [प्। १.२.७३]
०इत्य् समाप्त एकशेषः०
७ अलुक् समास
अथोक्तेषु समासेष्व् एव अलुक् समासः कथ्यते।
१। उरसि लोमानि यस्य – उरसिलोमा। [प्। २.२.२४.१२ सप्तमी-पूर्वपद]
२। प्रावृषि जातः – प्रावृषिजः। [प्। ६.३.१५ प्रावृष्]
३। कले जातः – कालेजः। [प्। ६.३.१५ काल]
४। दिवि जातः – दिविजः। [प्। ६.३.१५ दिव्]
५। अप्सु योनिर् उत्पत्तिर् यस्य – सो ऽप्सुयोनिः। [प्। ६.३.१८.१]
६। ग्रामे वसतीति ग्रामेवासी ग्रामवासी वा। [प्। ६.३.१८ वास-वासि]
७। वने चरतीति वनेचरः।
८। अन्ते वसतीत्य् अन्तेवासी। [च्फ़्। प्। ६.२.३६]
९। त्वचि सारं यस्य – स त्वचिसारः। [प्। ६.३.९]
०इति समाप्तो ऽलुक् समासः०
१९