वाक्यदोषः

परिचयः

  • एते दोषा श्रूयमाणवाक्ये हि वाच्या, न तु कल्पितवाक्येषु। (विवक्षितार्थाऽभिधान-शक्तस्यैव वाक्यस्याऽनुमानात्।)
    • कारिका - “श्रूयमाणस्य वाक्यस्य न्यूनाधिकविकल्पने। लक्षणावाक्यभेदादिदोषो नानुमिते ह्यसौ॥”

श्रूयमाणे सङ्क्षेपः

  • अत्राश्रुतकल्पना इति दोषः, श्रुतहानिर् इत्यपि क्वचित्।

लक्षणा

  • अत्र लक्षणावृत्तेर् आश्रयः। तच्च पदवृत्तिषूक्तम्।
  • श्रूयमाणं वाक्यं सङ्क्षिप्तम्, अर्थो ऽधिकः।
  • “काकेभ्यो+++(→काकादिभ्यः)+++ रक्षणीयम् अन्नम्।”
  • सोमेन यजेत। यागेन+++(→साधनम्)+++ ईप्सितम्+++(→स्वर्गम् → साध्यम्)+++ भावयेत्। एवं स्थितौ, सोमेन +++(वनस्पतिना)+++ इति पदस्य नास्त्यन्वयः। अतः, लक्षणया - “सोममता यागेन +ईप्सितम् भावयेद्” इति कल्पितं वाक्यम्।

गौणत्वम्

  • अत्र गणवृत्तिर् आश्रियते। तच्च पदवृत्तिषूक्तम्।
  • सिंहो माणवकः।

अध्याहारः

  • कदाचित् क्रियाऽध्याहार्या। “गम्यमानापि क्रिया कारकविभक्तौ प्रयोजिका।” कैयटः - “यत्रान्यत् क्रियापदं न श्रूयते तत्रान्तरङ्गत्वाद् अस्तिक्रियैव प्रतीयते।” उदाहरणम् - “एषः रामः (अस्ति)। अलं विस्तरेण बोध्यम्।”
  • प्राभाकरमते ऽर्थाध्याहारो ऽन्वयक्रम-भागय् उक्तः।
  • क्वचिद् वाक्यभेददोषेष्व् अन्तर्भावितः।
  • “इषे त्वा [छिनद्मि]"।
  • एवमेव “क्रियताम्” इत्यत्र कर्ता आक्षिप्यते।
  • “अन्नम्” इत्यत्र भुङ्क्ष्व इत्याक्षिप्यत एव। अत्र वाच्यार्थस्य एव सिद्धिर् नास्ति तद्विना।

अर्थापत्तिः

  • मम्मटमते नेदम् उपादानलक्षणा। मीमांसकमते अभिधावृत्तिमातृका-ग्रन्थे आम् इति। मीमांसकानां प्रमाणेषु अन्यतमम्।
  • प्रकारद्वयम् - श्रुता, दृष्टा।

उदाहरणानि

  • पीनो देवदत्तः दिवा न भुङ्क्ते। → रात्रौ भुङ्क्ते। इत्यत्र देवद्त्तस्य दर्शनेन/ वाक्यस्य श्रवणमात्रेण अपरोऽर्थः‌ प्राप्तः इत्यत्र दृश्य-अर्थापत्तिः/ शब्द-अर्थापत्तिः इति मम्मटः।
  • “पर्वते ऽस्ति वह्निः?” इति प्रश्नस्योत्तरे “धूमस् तु दृश्यते पर्वते।” इत्युक्तञ्चेत् “पर्वतो वह्निमान्” इत्यन्मीयते।
  • “प्रयाजशेषम् (आज्यम्) हविष्षु क्षारयेत्।” → “हविरधिकरणकक्षारेण प्रयाजशेषं संस्कुर्यात्”। श्रूयमाणे तु हविषां संस्कारः।

श्रूयमाणस्य +अन्यथाकल्पनम्

विपरिणामः / विकल्पनम्

  • पकृतिभागस्य वा प्रत्ययभागस्य वा ऽन्यथा कल्पनम्।
  • यथा लिङ्-प्रत्ययाद्यभावेऽपि विधायकत्वम्।
    • ‘व्रीहीन् प्रोक्षति’, ‘समिधो यजति’ इत्यादौ ‘यजति’ इत्यस्य ‘यजेत’ इति विपरिणामेन विधायकत्व-संभवः ।
    • “प्रतितिष्ठन्ति+++(→प्रतितिष्ठाकामा)+++ ह वै य एता रात्रीर् उपयन्ति+++(→उपेयुः)+++"।

व्यवहितकल्पना

  • अनुषङ्गो ऽत्र। दूरे (व्यवधानात् परम्) स्थितस्य पदस्य +अन्वये प्रयोजनम्।
  • पृथग् वाक्यभेदपृष्ठम् ईक्षताम्।

व्यवधारणकल्पना

  • “यावतो ऽश्वान् प्रतिगृह्णीयात्+++(→प्रतिग्राहयेत्)+++"।
  • “नृत्यावसाने नटराजराजो ननाद+++(→नादयाम् आस)+++ ढक्कां नवपञ्चवारम्”

श्रूयमाणय् आधिक्यम् - आनर्थक्यम्

  • श्रूयमाणं वाक्यम् अधिकम्, विवक्षितं तु न्यूनम्।
  • पृथग् वाक्यभेदपृष्ठम् ईक्षताम्।
  • अधिकांशस्य +अनुवादत्वेन / अविवक्षितत्वेन +उद्देश्ये विधेये वा ऽनिवेशनम् भवति।
  • “सूर्यः कस्यान् दिश्य् उदेति?” इति प्रश्नस्योत्तरे “प्राच्यान् दिशि प्रतिदिनम् उदेति।” इत्यस्मिन् “प्रतिदिनम्” इत्यधिकांशः।

वाक्यभेदः