२२० उपन्याङ् (उप+नि+आङ्)

चर्

  • {उपन्याचर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘मैत्रेण यजुषोपन्याचरति’ (श० ब्रा० ६।५।४।१०)। (अग्निम्) उपन्याचरति अग्नावेधः प्रक्षिपति।

प्लु

  • {उपन्याप्लु}
  • प्लु (प्लुङ् गतौ)।
  • ‘तं स मत्स्य उपन्यापुप्लुवे’ (श० ब्रा० १।८।१।५)। प्लवमानस्तरंस्तस्य सामीप्यमापेत्यर्थः।