१९३ प्रति+निस् (प्रति+निर्)

दिश्

  • {प्रतिदिश् }
  • दिश् (दिश अतिसर्जने, दिशिरुच्चारणक्रिय इति भाष्यम्)।
  • ‘तदिति कृच्छ्रं प्रतिनिर्दिशति’ (बौ० ध० २।१।२।२२ इत्यत्र गोविन्दस्वामिकृते विवरणे)। प्रतिनिर्दिशति प्रत्यवमृशति।
  • ‘तदिति प्रकृतं युक्तवद्भावलक्षणं प्रतिनिर्दिश्यते’ (पा० १।२।५३ इत्यत्र वृत्तौ)। उक्तोऽर्थः।
  • ‘उद्दिश्यमानप्रतिनिर्दिश्यमानयोरेकत्वमापादयन्ति सर्वनामानि पर्यायेण तल्लिङ्गमुपाददते’ (पस्पशायां भाष्ये कैयटः)। प्रतिनिर्दिश्यमानं विधीयमानम्।

या

  • {प्रतिया}
  • या (या प्रापणे, प्रापणमिह गतिः)।
  • ‘न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात्’ (भा० भीष्म० १११।१६)। प्रतिनिर्याति निवर्तमानो निर्याति।