१५९ अभ्यति (अभि+अति)

क्रम्

  • {अभ्यतिक्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘स स्ववेश्माभ्यतिक्रम्य …प्रपेदे…राजमार्गम्’ (रा० २।७०।२६)। अभ्यतिक्रम्य=अन्तिकादतिक्रम्य।

रिच्

  • {अभ्यतिरिच्}
  • रिच् (रिचिर् विरेचने)।
  • ‘होतारं वा अभ्यतिरिच्यते यदभिरिच्यते’ (तै० सं० ७।१।५।६)। होतारमभ्यतिरिच्यतेऽतिरिक्तमुर्वरितमतिशिष्टं होत्रर्थं भवति होतुर्भागो भवतीत्यर्थः।