२०९ परिवि (परि+वि)

धाव्

  • {परिविधाव्}
  • धाव् (धावु गतिशुद्ध्योः)।
  • ‘परि सप्तिर्न वाजयुः…। व्यानशिः पवमानो विधावति’ (ऋ० ९।१०३।६)। परिविधावति परितः स्रवति। निष्पूतः सन् इतस्ततः पवते स्यन्दत इत्यर्थः।
  • ‘ततः शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम्। शीघ्रं विपरिधावन्तं यदा प्राप्तुं न शक्नुयुः’ (रा० ५।३०।२४)॥ दृष्ट्वा च परिधावन्तं भवेयुः परिशङ्किता इति पाठान्तरम्। विपरिधाववन्तम् इतस्ततः प्लवमानम्।

श्वस्

  • {परिविश्वस्}
  • श्वस् (श्वस प्राणने)।
  • ‘उवाच वचनं रामः परि विश्वासयंस्तदा’ (रा० २।३०।२६)। परिविश्वासयन् उज्जीवयन्।