१५३ उदव (उद्+अव)

सो

  • {उदवसो}
  • सो (षो अन्तकर्मणि)।
  • ‘आहिताग्निश्चेदुपतपेत् प्राच्यामुदीच्यामपराजितायां वा दिश्युदवस्येत्’ (आश्व० गृ० ४।१।१)। उदवस्येत्=निष्क्रम्य वसेत्।
  • ‘ततश्चतुर्षु मासेष्वाषाढ्यां श्रावण्यां वोदवसाय वरुणप्रघासैर्यजेत्’ (आप० श्रौ० ८।५।१)। अध्युषितपूर्वाद् देशान्निर्गत्येत्यर्थः।
  • ‘उदवसाय शालीन आदधीतानुदवसाय यायावरः’ (आप श्रौ० ५।१।३।२२)। उदवसाय विप्रोष्य। उदवसानं देशान्तरगमनमिति धूर्तस्वामी।
  • ‘जानीषे रेभिलस्योदवसितम्’ (मृच्छ० ४)। उदवसितं गेहम्। सांशयिकी व्युत्पत्तिः। स्यतेर्वा सिनोतेर्वा व्युत्पाद्यताम्, अर्थसंगतिस्तु सममस्फुटा भवति।
  • ‘ब्राह्मणो बन्धुना सहोदवस्यन्नेव क्षत्रियतामभ्युपैति’ (ऐ० ब्रा० ७।२४)। उदवसानीयेष्ट्या सोमयागं समापयन्नेवेत्याह।
  • ‘वेश्याभवने सभायामन्यतमस्योदवसिते वा… आसनबन्धो गोष्ठी’ (का० सू० १।४।१९)। उदवसितं गृहम्।