२६८ निरव (निर्+अव)

दय्

  • {निरवदय्}
  • दय् (दय दानगतिहिंसादानेषु)।
  • ‘त्र्यम्बकै रुद्रं निरवादयत’ (तै० ब्रा० १।६।८)। (परितोष्य) निःसारितवान्। दयतिरिह गत्यर्थः।

दा

  • {निरवदा}
  • दा (डुदाञ् दाने)।
  • ‘देवानेव वीरं निरवदायाग्निं पुनराधत्ते’ (तै० सं० १।५।१)। निरवदाय निष्कृष्य।

सो

  • {निरवसो}
  • सो (षो अन्तकर्मणि)।
  • ‘तस्माज्ज्येष्ठं पुत्रं धनेन निरवसाययन्ति’ (तै० सं० २।५।२।७-८)। पुस्तके न्यस्तचरमेतत् पुनर्न्यस्यतेऽर्थ वैशद्याय। निरवसानमुत्कर्ष इति भट्टभास्करः। व्यावृत्तमुत्कर्षिणमधिकधनवन्तं कुर्वन्तीत्यर्थः।
  • ‘प्रतिषिद्धोऽवरवर्णास्वनिरवसितासु’ (का० सू० १।५।२)। उक्तोऽर्थः पुस्तके।