२ ३ ३ प्रगतस्तरः

एतं स्तरं प्राप्तवन्तः संस्कृताभ्यासिनः संस्कृतभाषया एव सर्वान् भावान् प्रकाशयितुं समर्थाः भवन्ति एव । अतः एतस्मिन् स्तरे तेषां ज्ञानस्य विस्ताराय प्रयासः करणीयः । तस्मात् पुनरपि केषाञ्चित् धातूनां परिचयः कारयितुं शक्यः । कर्मणिप्रयोगः वर्तमाने विध्यर्थे तव्यदन्त-अनीयरन्तयोः परिचयः च ज्ञापयितुं शक्यः । युष्मच्छब्दः, मध्यमपुरुषः, द्विवचनम् इत्यादीनां परिचयः अपि अस्मिन् स्तरे भवितुम् अर्हति ।