कालाट्ठञ्

तत्कालीनः, समकालीनः, समानकालीनः, पूर्वकालीनः, उत्तरकालीनः एतादृशाः शब्दाः असाधवः सन्ति ।

तत्कालिक, समकालिक, समानकालिक, पूर्वकालिक, उत्तरकालिकः, प्राक्कालिकः — इति उचिताः प्रयोगाः । सर्वत्र ४.३.११ कालाट्ठञ् इति सूत्रेण ठञ्-प्रत्ययः ।

स्त्रीत्वे सर्वत्र ४.१.१५ टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः इति ङीप् — तत्कालिकी, समकालिकी, समानकालिकी … ।

कथं तर्हि समानकालीनम्, प्राक्कालीनम् इत्यादि च ? अपभ्रंशाः एव एते इति प्रामाणिकाः

— ४.३.११ कालाट्ठञ् इत्यत्र सिद्धान्तकौमुदी ।

पुरतः इति समानकालीन-प्राक्कालीनवत् प्रामादिकम्
— ५.३.४० अस्ताति च इत्यत्र तत्त्वबोधिनी ।

तात्कालिक — इति शब्दः तु “तत्काले भवः” अस्मिन् अर्थे ४.२.११६ काश्यादिभ्यष्ठञ्ञिठौ इत्यत्र पाठितेन “आपदादिपूर्वपदात् कालात्” इत्यनेन वार्त्तिकेन सिद्ध्यति ।

परन्तु कुत्रचित् शिष्टैः अपि तत्कालीनादयः शब्दाः प्रयुक्ताः दृश्यन्ते —

सुषुप्तिप्राक्कालीनोप्तन्नेच्छादिव्यक्तेः — मुक्तावली । ब्रह्मन् कालान्तरकृतं तत्कालीनं कथं भवेत् — भागवतम् ।

एतादृशेषु स्थलेषु “स्थितस्य गतिः चिन्तनीया” इति न्यायेन एतेषां शब्दानां कथञ्चित् साधुत्वं ज्ञाप्यते —

  • ४.३.११ कालाट्ठञ् इत्यत्र योगविभागं कृत्वा, “कालात्” इति भिन्नं सूत्रं स्वीकृत्य तत्र ४.३.१ युष्मदस्मदो.. इत्यस्मात् खञ्-इत्यस्य तत्र अनुवृत्तिं कृत्वा; अथ वा ४.२.९३ राष्ट्रावारपाराद्घखौ इत्यस्मात् ख-प्रत्ययस्य अनुवृत्तिं कृत्वा “काल”शब्दात् खञ्/ख (= ईन) प्रत्ययः विधीयते । काल + खञ्/ख → कालीन । समानकाल + खञ्/ख → समानकालीन । एवमेव, तत्कालीन, उत्तरकालीन, प्राक्कालीन‌ — आदयः शब्दाः ।
  • एतेषां शब्दानां स्त्रीत्वे ४.१.४ अजाद्यतष्टाप् इति टाप् — समानकालीन + टाप् → समानकालीना । एवमेव, तत्कालीना, उत्तरकालीना, प्राक्कालीना ।