लृङ्

भविष्यति

३.३.१३९‌ लिङ्-निमित्ते लृङ् क्रियातिपत्तौ — लिङ्-लकारस्यैव अर्थेषु, यत्र क्रियातिपत्तिः अपि अस्ति, तत्र भविष्यति काले लृङ्-लकारस्य प्रयोगः भवति ।

  • लिङ्-लकारस्य अर्थः = ३.३.१५६ हेतुहेतुमतोर्लिङ् इति सूत्रे निर्दिष्टः हेतुहेतुमद्भावः (कार्यकारणभावः)। “एकं कार्यं भवति चेद् अपरम् अपि भवति” इति आशयः ।
  • क्रियातिपत्तिः = क्रियायाः अनिष्पत्तिः । क्रिया नैव भवति इति आशयः ।

अतः एकम् कार्यम् न भविष्यति चेद् अपरम् न भविष्यति इति अर्थं ज्ञापयितुं लृङ्-लकारः प्रयुज्यते ।

  • सुवृष्टिश्चेद् अभविष्यत् सुभिक्षमभविष्यत् — सुवृष्टिः भविष्यति चेत् सुभिक्षम् अपि शक्यम्, परन्तु सुवृष्टिः नैव शक्या - इति आशयः ।
  • देवदत्तं आह्वास्यत् चेद् न शकटं पर्याभविष्यत् — यदि भवान् देवदत्तस्य सारथ्यं स्वीकृत्य आगमिष्यति, तर्हि शकटस्य दुर्घटना न भविष्यति, परन्तु देवदत्तः इदानीं नोपलभ्यते इत्याशयः ।

भूते

३.३.१४० भूते च — लिङ्-लकारस्यैव अर्थेषु, यत्र क्रियातिपत्तिः अपि अस्ति, तत्र भूतकालस्य सन्दर्भे अपि लृङ्-लकारस्य प्रयोगः भवति ।

यदि सुरभिम् अवाप्स्यस् तन्-मुखोच्छ्वास-गन्धं
तव रतिर् अभविष्यत् पुण्डरीके किम् अस्मिन् ॥ ४२ ॥

हे भ्रमर, त्वया मम प्रिया नैव कदापि दृष्टा भवेत् । कुतः इति चेत्, यदि त्वया मम प्रियायाः मुखस्य निश्वासस्य गन्धः घ्रातः स्यात्, तर्हि अत्र आगत्य अनेन कमलेन सह तव मित्रता नैव अभविष्यत् ।

सिध्यन्ति कर्मसु महत्स्व् अपि यन् नियोज्याः
संभावना-गुणम् अवेहि तमीश्वराणाम् ।
किं प्राभविष्यद् अरुणस् तमसां वधाय
तं चेत् सहस्र-किरणो धुरि नाकरिष्यत् ॥ ४ ॥

यदा भृत्याः महत्सु कार्येषु यशः प्राप्नुवन्ति, तदा तत्र श्रेष्ठानाम् साहाय्यं भवति एव । यदि सूर्यः अरुणम् स्वरथस्य सारथिरूपेण न अयोक्ष्यत्, तर्हि अरुणः अन्धःकारनिवारणं कथं कर्तुं शक्नुयात् ?

पर्यायाः

लृङ्-लकारस्य स्थाने विधिलिङ्लकारस्य प्रयोगः अपि कर्तुं शक्यते । यथा —

  • सुवृष्टिश्चेद् अभविष्यत् सुभिक्षमभविष्यत् = यदि सुवृष्टिः भवेत् तर्हि सुभिक्ष्यं भवेत् ।
    अत्र इदं वाक्यम् विशिष्टं कालं न दर्शयति, अतः अत्र कालस्य निर्णयः सन्दर्भम् अनुसृत्य करणीयः ।

भविष्यति काले प्रयुक्तस्य लृङ्लकारस्य स्थाने लृट्-लकारस्य प्रयोगः अपि कर्तुं शक्यते —

सुवृष्टिश्चेद् अभविष्यत् सुभिक्षमभविष्यत् = यदि सुवृष्टिः भविष्यति तर्हि सुभिक्ष्यं भविष्यति ।
अत्र लकारेणैव कालस्य निर्देशः स्पष्टः ।

परन्तु भूते काले प्रयुक्तस्य लृङ्लकारस्य स्थाने तादृशः अन्यः विशिष्टः लकारः न प्रयुज्यते । अतएव “साहित्ये भूतकालसम्बन्धाः एव लृङ्प्रयोगाः प्राचुर्येण उपलभ्यन्ते” — इति लघुसिद्धान्तकौमुद्याः भैमी व्याख्या ।

रूपसिद्धिः

लृङ्-लकारस्य रूपसिद्धौ इडागमः तथा च अडागमः - द्वौ अपि आवश्यकौ ।

लृङ्-लकारस्य प्रक्रियायाम् इडागमः लृट्लकारसदृशः एव भवति । इत्युक्ते, धातोः लृट्-लकारस्य रूपे आवश्यकम् अङ्गं निर्माय तत्र लृङ्लकारस्य प्रत्ययाः योजयितुम् शक्यन्ते ।

भू → भविष्य → अभविष्यत् । दा → दास्य → अदास्यत् । नम् → नंस्य → अनंस्यत् ।

अडागमः नित्यम् धातोः पूर्वम्, परन्तु उपसर्गात् अनन्तरम् विधीयते ।

परि + अ + भविष्यत् → पर्यभविष्यत् । अपरिभविष्यत् इति अनुचितम् ।

निस्, दुस् इत्येताभ्याम् उपसर्गाभ्याम् अडागमः विद्यते चेत् एतयोः सकारस्य रेफः भवति ।

निस् + अचेष्यत् → निरचेष्यत् । निसचेष्यत् इति अनुचितम् ।