०८२ निराङ् (निर्+आङ्)

  • {निरे}
  • इ (इण गतौ)।
  • ‘एवा ते गर्भ एजतु निरैतु दशमास्यः’ (ऋ० ५।७८।७)। निरैतु=निष्क्रामतु।
  • ‘अहे निरैतु ते विषम्’ (अथर्व० ४।४।२१)। उक्तोऽर्थः।

कृ

  • {निराकृ}
  • कृ (डुकृञ् करणे)।
  • ‘माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोत्’ (छां० उ० ८।१५।२)। माऽहं ब्रह्म त्याक्षम्।
  • ‘निराकरोतु वेदांश्च यस्ते हरति पुष्करम्’ (भा० अनु० ९४।२७)। निराकरोतु=त्यजतु, आत्मीयान्मा स्म करोत्। प्रत्यादिष्टो निरस्तः स्यात् प्रत्याख्यातो निराकृत इत्यमरः। निराकृतो जातेर्बहिष्कृत इत्यर्थे हर्षचरिते सरस्वत्याः शापे।
  • ‘उग्रम्पश्येन सुग्रीवस्तेन भ्राता निराकृतः’ (भट्टि० ६।१००)। निराकृतः प्रत्यादिष्टः, निरस्तः।
  • ‘नाक्रमन्त तयोस्ते (शापाः) वरदाननिराकृताः’ (भा० आदि० २१०।१५)। निराकृताः=व्यर्थीकृताः। आर्थिकोर्थः। निराकृतनिमेषाभिर्नेत्रपङ्क्तिभिः। निराकृतो निमेषो याभिः ताभिः। त्यक्तनिमेषव्यापाराभिरित्यर्थः। निर्निमेषाभिरित्यर्थः।
  • ‘भविष्यत्यचिरात्साधो कलिनापि निराकृतः’ (भा० पु० ११।७।४)। निराकृतोऽनुसृत्यासादित इत्यर्थं विवक्षति। अनृषिरपि वाचि स्वतन्त्रोऽयं कविः।
  • ‘याश्च्यवन्तेऽम्बरात्ताराः काले काले निराकृताः’ (रा० ५।१३।३१)। निरस्ताः पराणुन्नाः।
  • ‘न हि तेप्युपशाम्यन्ति निराकृता वाऽनिराकृता’ (भा० ३।१४०५)। ते राजानो राजपुत्राश्च। निराकृता इति व्याख्यातचरम्।
  • ‘कृशानामबलानां चतुःशता गा निराकृत्य’ (छा० उ० ४।४।५)। निराकृत्य=पृथक् कृत्वा। निष्कास्य, उद्वीयेत्यर्थः।
  • ‘यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः’ (मनु० ३।१५४)। निराकृतिः पञ्चमहायज्ञानुष्ठानरहित इति कुल्लूकः।
  • ‘यस्त्वाधायाग्निमाशास्य देवादीन्नैभिरिष्टवान्। निराकर्ताऽमरादीनां स वित्तेयो निराकृतिः’ (गो० स्मृ० ३।१११)॥
  • ‘अश्रोत्रियस्य विप्रस्य हस्तं दृष्ट्वा निराकृतेः’ (व० धर्म० २८।१७)। उक्तोऽर्थः।
  • ‘यश्च सर्वान् वर्जयति सर्वान्नी च श्रोत्रियो निराकृतिर्वृषलीपतिः’ (आप० ध० १।१८।३३)। निराकृतिर्निःस्वाध्यायः। तथा चामरः पठति–निःस्वाध्यायो निराकृतिः।
  • ‘ग्रामधान्यं यथा शून्यं यथा कूपश्च निर्जलः। यथा हुतमनग्नौ च तथैव स्यान्निराकृतौ’ (भा० शां० ३६।४८)। निराकृतिर्मूर्ख इति नीलकण्ठः।
  • ‘निराकारा निरानन्दा… अयोध्या’ (रा० २।११३।२४)। निराकारा निरलङ्कारा।
  • ‘निराकर्ताऽमरादीनां स विज्ञेयो निराकृतिः’ (मनु० ३।१५४ इत्यत्र कुल्लूकोद्धृतं छन्दोगपरिशिष्टम्)। एवमेव निराकर्ता यश्चाग्नीनपविध्यति।
  • ‘त्यजत्यकारणे यश्च पितरं मातरं गुरुम्’ (भा० शां० १६५।६१-६२)।
  • ‘स्वर्गान्निराकृताः सर्वे तेन…’ (दुर्गा० २।६)। निराकृता निःसारिताः।

क्रम्

  • {निराक्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘रोमाञ्चलक्ष्येण स (अभिलाषबन्धः) गात्रयष्टिं भित्त्वा निराक्रामदरालकेश्याः’ (रघु० ६।८१)। निराक्रामत्=निरगच्छत्=आविरभवत्।

दिश्

  • {निरादिश्}
  • दिश् (दिश अतिसर्जने)।
  • ‘निरादिष्टधनश्चेत्तु प्रतिभूः स्यादलंधनः’ (मनु० ८।१६२)। निरादिष्टधनः=निसृष्टधनः।

धा

  • {निराधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘ब्रह्मैव विद्वानेष्यो यः क्रव्यादं निरादधत्’ (अथर्व० १२।२।३९)। निरादधत्=बहिष्कुर्यात्।
  • ‘सर्वं मर्त्यस्य तन्नास्ति क्रव्याच्चेदनिराहितः’ (अथर्व० १२।२।३५)। अनिराहितः=अनिष्कासितः।
  • ‘तमिन्द्र इध्मं कृत्वा यमस्याग्निं निरादधौ’ (अथर्व० १२।२।५४)।
  • ‘बहिष्कनीनिके निरादध्युः’ (का० सं० ३४।८, पञ्चविंश० १७।१२।२)। उदितपूर्व एवार्थः।

बाध्

  • {निराबाध्}
  • बाध् (बाधृ लोडने, लोडनं प्रतीघातः)।
  • ‘निराबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव’ (रा० ३।३६।२०)। निराबाधः=निष्प्रतिबन्धः=निष्प्रत्यूहः।

यम्

  • {निरायम्}
  • यम् (यम उपरमे)।
  • ‘निरायतपूर्वकायाः’ (शा० १।८)। दीर्घीकृतकायपूर्वभागाः।
  • ‘निरायत्याश्वस्य शिश्नम्’ (श० ब्रा० १३।५।२।२)। निरायत्य=निराकृष्य।

वह्

  • {निरावह्}
  • वह् (वह प्रापणे)।
  • ‘नावो हिरण्ययीरासन्याभिः कुष्ठं निरावहन्’ (अथर्व० ५।४।५)। निरावहन् बहिरनयन्।