१०९ व्युद् (वि+उद्)

अस्

  • {व्युदस्}
  • अस् (असु प्रक्षेपे)।
  • ‘व्युदस्यत्यसंख्याताः शर्कराः’ (कौ० सू० ५०)। व्युदस्यति विकिरति, विस्तारयति।
  • ‘मुञ्जवज्जर्जरीभूता बहवस्तत्र पादपाः। चीराणीव व्युदस्तानि रेजुस्तत्र महावने’ (भा० वन० ११।४९-५०)॥ चीराणि वृक्षवल्कलानीव। व्युदस्तानि इतस्ततः क्षिप्तानि।
  • ‘त्वं तु हेतूनतीत्यैतान् कामक्रोधौ व्युदस्य च’ (भा० सभा० १३।५१)। व्युदस्य परिहृत्य विनीय विगमय्य।
  • ‘सीमन्तिनी भुजलतागहनं व्युदस्य’ (शान्तिशतके शिह्लणकृते)। उक्तोऽर्थः।
  • ‘गुप्तिः क्षितिव्युदासेपि’ (अमरः)। क्षितिव्युदासो भूगर्त इति स्वामी। शाश्वतश्च क्षितिव्युदासं दीर्णं विवरमाह। अयं गुप्त्यर्थान् ब्रुवन्नेवं पठति–गुप्तिः कारा च रक्षा च दीर्णं च विवरं भुव इति।

ऊह्

  • {व्युदूह्}
  • ऊह् (ऊह वितर्के)।
  • ‘गार्हपत्यं चेष्यन्पलाशशाखया व्युदूहति’ (श० ब्रा० ७।१।१।१)। संमार्ष्टीत्यर्थः। तद्धैके।
  • ‘उभयत्रैव पलाशशाखया व्युदूहन्’ (श० ब्रा० ७।३।१।७)। संमार्गमकुर्वन्नित्यर्थः।
  • ‘अथैनं पलाशशाखया व्युदूहति’ (श० ब्रा० १३।८।२।३)। व्युदूहति उन्मृद्नाति।
  • ‘अथैने (कुम्भ्यौ) व्युदूहति। दक्षिणस्यां शृतमासादयति उत्तरस्यां दधि’ (आप० श्रौ० २।३।११।९)। व्युदूहति विभज्य गमयतीति रुद्रदत्तः।

क्रम्

  • {व्युत्क्रम्}
  • क्रम् (क्रमु पादविक्षपे)।
  • ‘इन्द्रियाणि वीर्याणि व्युदक्रामन्’ (श० ब्रा० १२।७।१।९)। व्युदक्रामन् पृथक्त्वशः प्राचलन्। द्वन्द्वं रहस्यमर्यादेति सूत्रे (८।१।१५) व्युत्क्रमणे–द्वन्द्वं व्युत्क्रान्ता इत्युदाहरणं वृत्तौ। व्युत्क्रमणं भेदः पृथगवस्थानम्। द्विवर्गसम्बन्धेन पृथगवस्थिता द्वन्द्वं व्युत्क्रान्ता इत्युच्यन्ते इति तत्रैव तद्व्याख्यानम्।
  • ‘निर्णिक्तमनस पूता व्युत्क्रान्तरजसोऽमलाः’ (भा० आश्व० ४७।३)। व्युत्क्रान्तं निष्क्रान्तमपगतम्।
  • ‘आसन्गृहस्था भूयिष्ठा अव्युतक्रान्ताः स्वकर्मसु’ (भा० शां० २७०।८)। अव्युत्क्रान्ता अनतिक्रान्ता अनतिक्रमवन्तः। आदरवन्त इत्यर्थः।

चर्

  • {व्युच्चर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे लोकाः सर्वे देवा भूतानि सर्व एवात्मानो व्यच्चरन्ति’ (श० ब्रा० १४।५।२३)। व्युच्चरन्ति=निष्क्रामन्ति।
  • ‘व्युच्चरन्त्याः पतिं नार्याः’ (भा० आदि० १२२।१७)। व्युच्चरन्त्या व्यभिचरन्त्याः।
  • ‘तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन्’ (भा० आदि० १२२।५)। उक्तोऽर्थः।
  • ‘व्युच्चरंश्च महादोषं नर एवापराध्यति’ (भा० शां० २६६।३८)। व्युच्चरन् आचरन्। महादोषं पारदार्यम्।

छिद्

  • {व्युच्छिद्}
  • छिद् (छिदिर् द्वैधीकरणे)।
  • ‘अव्युच्छिन्नास्ततस्त्वेते सर्गस्थित्यन्तसंयमाः’ (वि० पु० १।२।२६)। अव्युच्छिन्ना अनवरताः।
  • ‘ऋक्सामयजुषां घोषो ज्याघोषश्च महात्मनः। अव्युच्छिन्नोऽभवद् राज्ये…’ (हरि० १।४१।५२)॥ **उक्तोऽर्थः। **
  • ‘अव्युच्छिन्नः पृथु प्रवृत्ति भवतो दानम् ममाप्यर्थिषु’ (विक्रम० ४। )। अव्युच्छिन्ना ऽविरता।
  • ‘स्वरूपविक्रियावत्त्वाद् व्युच्छेदस्तस्य विद्यते’ (तत्त्वसंग्रहे २७३)। व्युच्छेद उत्साद उच्छित्तिः, विनष्टिः।

तप्

  • {व्युत्तप्}
  • तप् (तप सन्तापे)।
  • ‘व्युत्तेपे तपस्तीव्रम्’ (स्कन्द० का० ४।१७।९४)। व्युत्तेपे ऽत्यन्तं तेपे।

पद्

  • {व्युत्पपद्}
  • पद् (पद गतौ)।
  • ‘शक्तस्य प्रतिभाति शक्तश्च व्युत्पद्यते’ (काव्यमी० ४, पदवाक्यविवेके)। व्युत्पद्यते जानाति।
  • ‘एतत्सर्वं पश्यन्नन्यो व्युत्पित्सुः फलसद्भावप्रतिपादने शब्दस्य सामर्थ्यं व्युत्पद्यते’ (शास्त्रदीपिका १।२)। व्युत्पद्यते बुध्यते।
  • ‘नाम रूढमपि व्युदपादि’ (शिशु० १०।२३)। उणादयोऽव्युत्पन्नानि प्रातिपदिकानि। धातुतो नोत्पद्यन्ते स्म। धातुजातानि न भवन्तीत्यर्थः। अव्युत्पन्नो बालभावः। मुग्धोऽपटुरित्यर्थः।
  • ‘तस्य भार्या व्युत्पन्नचारित्राऽजस्रं मित्रस्वजनैः प्रतिबोध्यते। न च तस्मात्परपुरुषसंसर्गान्निवर्तते’ (तन्त्रा० ३।८)। व्युत्पन्नं विकृतम्।
  • ‘व्युत्पन्नै रचितं न चैव वचनैः’ (ध्वन्या० १ कारिका-व्याख्यायाम्)। व्युत्पन्नैश्चातुर्ययुक्तैः सुन्दरवचनैः। किमेभिरज्ञैर्व्युत्पादितैः। शिक्षितैः प्रबोधितैः सद्भिः।
  • ‘अथ भगवताऽक्षपादेन निःश्रेयसहेतौ शास्त्रे प्रणीते व्युत्पादिते च पक्षिलस्वामिना किमपरमवशिष्यते यदर्थं वार्तिकारम्भः’ (न्या० वा० तात्० टी०)। व्युत्पादिते व्याख्याते।
  • ‘न च चित्रगुरित्यादौ… लक्षणा। बहुव्युत्पत्तिभञ्जनापत्तेः’ (परमलघुमञ्जूषायां समासनिरूपणायाम् )। व्युत्पत्तिर्नियम इति व्याख्यातारः।
  • ‘सुपां तिङां च व्युत्पत्तिं वाचां वाञ्छन्त्यलङ्कृतिम्’ (का० प्र० ६।४८)। व्युत्पत्तिं विशेषेणोत्पत्तिं सन्निवेशम्।
  • ‘व्युत्पत्तिरावर्जितकोविदापि न रञ्जनाय क्रमते जडानाम्’ (विक्रमाङ्क० १।१६)। व्युत्पत्तिर्बाहुश्रुत्यम्, पाण्डित्यम्। लोकव्युत्पादनार्थत्वाच्छास्त्रस्य। व्युत्पादनम् प्रबोधनम् प्राज्ञत्वकरणम्।
  • ‘एवमलङ्कारध्वनिमार्गं व्युत्पाद्य तस्य प्रयोजनवत्तां स्थापयितुमिदमुच्यते’ (ध्वन्यालोके २।२७ व्याख्यायाम्)। व्युत्पाद्य अनुशिष्य उपदिश्य।
  • ‘आर्य, किं महाराजस्य सन्देशोऽयमार्येणाव्युत्पन्न इव गृहीतः। भीमसेनः… का पुनरत्र व्युत्पत्तिः’ (वेणी १)। अव्युत्पन्नोऽनवगतः।
  • ‘धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः। रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम्’ (का० प्र० ७।१८३)॥ विशिष्टा उत्पत्ति र्व्युत्पत्तिः कल्पना रचना।
  • ‘नारदं स्वयमेव सनत्कुमारो व्युत्पादयति’ (ब्र० सू० शां० भा० १।३।८)। प्रबोधयतीत्यर्थः।

सद्

  • {व्युत्सद्}
  • सद् (षद्लृ विशरणगत्यवसादनेषु)।
  • ‘तस्य क्रीतस्य मनुष्यानभ्युपावर्तमानस्य दिशो वीर्याणीन्द्रियाणि व्युदसीदन्’ (ऐ० ब्रा० ३।१)। व्युदसीदन् विशीर्णतां गतानि।
  • ‘ते दिशो व्युदसीदन्’ (जै० ब्रा० १।१५३)। व्युदसीदन् व्युत्क्रान्तवन्तः।

सिच्

  • {व्युत्सिच्}
  • सिच् (षिच क्षरणे)।
  • ‘व्युत्सेकोऽनूद्यतामेष नैवं कर्मणि सौमिके’ (जै० न्या० ७।३।११)। दर्शपूर्णमासयोर्दिक्षु सर्वास्वापो विविधमुत्सिच्यन्ते। सोऽयं व्युत्सेकः।
  • ‘अनेन मन्त्रेण यद्दिशां व्युत्सेचनं सोऽवभृथ इति’ (तै० सं० १।७।७ इत्यत्र) भट्टभास्करः। उत्क्षिप्य वारिणः सेचनं व्युत्सेचनम्।

स्था

  • {व्युत्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘यथा परं शक्तिधृतेर्न व्युत्थास्ये कथं चन’ (भा० अनु० २०।२६)। न व्युत्थास्ये मर्यादाया न विचलिष्यामि। धर्मातिचरणं न करिष्य इत्यर्थः।
  • ‘शक्यः खल्वेष राक्षसमतिपरिगृहीतोपि व्युत्तिष्ठमानः प्रज्ञया निग्रहीतुम्’ (मुद्रा० १)। व्युत्तिष्ठमानो विरुद्धमुद्यच्छमानः।
  • ‘चकर्ष यमुनां रामो व्यत्थितां वनितामिव’ (हरि० २।४६।३४)। व्यत्थितां लङ्घितमर्यादाम्।
  • ‘भ्रातृजाया ततः सा नौ व्युत्थिता दाप्यतामिति’ (बृ० श्लो० सं० ४।२५)। व्युत्थिता विरुद्धाचारा प्रत्यभिनिविष्टा वा।
  • ‘प्रजोपपीडके तस्मिन् राजनि व्यत्थिताः प्रजाः’ (राज०)। विरोधमाचरन् प्रकुपिता अभूवन्। व्युत्थानं प्रतिरोधे च विरोधाचरणेऽपि चेत्यमरः।
  • ‘तथैव व्यवहारोपि व्युत्थाने मे भविष्यति’ (यो० वा० ६ (१) १२८।५८)। व्युत्थानं समाधेरुत्थानम्।
  • ‘इदं श्रेय इदं श्रेय इत्येवं व्युत्थितो जनः’ (भा० आश्व० ४९।१४)। व्युस्थितो विप्रतिपन्नः, नानाप्रतिपत्तिको विरुद्धमतिः।
  • ‘स खलु कालः… व्युस्थितदर्शनानां वस्तुस्वरूप इवावभासते’ (यो० सू० भाष्ये ३।५२)। भ्रान्तानामित्यर्थः।
  • ‘एवं व्युत्थापिते धर्मे बहुधा विप्रबोधिते। निश्चयं नाधिगच्छामः…’ (भा० आश्व० ४९।१३)। व्युत्थापिते प्रस्थानभेदं गमिते।
  • ‘मायामोहेन ते दैत्याः प्रकारैर्बहुभिस्तथा। व्युत्थापिताः’ (वि० पु० ३।१८।३२)। व्युत्थापिता विचालिताः।
  • ‘ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति’ (श० ब्रा० १४।७।२।२६)। व्युत्थाय निष्क्रम्य अतिहाय।
  • ‘न रोचते हि व्युत्थानम्’ (भा० अनु० २०।२६)। धर्मातिचरणम्।
  • ‘व्युत्थानं केवलं जरा’ (तन्त्रा० २।४।११८)। व्युत्थानं व्यायामः प्रयत्न उद्योगः।
  • ‘अध्वर्युप्रैषकाले तु व्युत्थिता ऋषयस्तथा’ (मात्स्य० १४३।११)। व्युत्थिताः क्षुभिताः क्षोभं गताः।
  • ‘प्रभुर्व्युत्थितो ब्रह्मन् गुरुर्वा यदि वेतरः। त्वया नियम्याः सर्वे…’ (हरि० १।५५।२७)॥ व्युत्थितो लङ्घितमर्यादः।
  • ‘चकर्ष यमुनां रामो व्युत्थितां वनितामिव’ (हरि० २।४६।३४)॥ व्युत्थिता दुर्वृत्ता।

हृ

  • {व्युद्धृ}
  • हृ (हृञ् हरणे)।
  • ‘द्वयोः पात्रयोर्व्युद्धृत्य’ (भा० श्रौ० ८।२।२)। व्युद्धृत्य भेदेन उद्धृत्य।