विश्वाद् दीर्घः

“विश्व” इति शब्दस्य कासुचित् संज्ञासु दीर्घः —

विश्वावसुः = विश्वस्य वसुः । “६.३.१२८ विश्वस्य वसुराटोः” इति पूर्वपदस्य दीर्घः । विश्वशब्दस्य वसु, राट् इत्येतयोः उत्तरपदयोः दीर्घ आदेशो भवति। विश्वावसुः, विश्वाराट् —‌ काशिका ।

विश्वानरः इत्यत्र संज्ञायां विषये “६.३.१२९ नरे संज्ञायाम्” इति दीर्घः भवति । विश्वानरो नाम यस्य वैश्वानरिः पुत्रः । संज्ञायाम् इति किम्? विश्वे नरा यस्य स विश्वनरः — काशिका ।

विश्वामित्रः = विश्वं मित्रं अस्य सः । “६.३.१३० मित्रे चर्षौ” इति पूर्वपदस्य दीर्घः । मित्रे उत्तरपदे ऋषौ अभिधेये विश्वस्य दीर्घः भवति । विश्वामित्रः नाम ऋषिः । ऋषौ इति किम् ? विश्वमित्रः माणवकः — काशिका ।