१०२ व्यनु (वि+अनु)

धा

  • {व्यनुधा }
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘वयो न पक्षान् व्यनु श्रियो धिरे’ (ऋ० १।१६६।१०)। व्यनुधिरे=व्यनुदधिरे। यो जागारेत्यत्रेवाभ्यासलोपो द्रष्टव्यः। श्रियो व्यनुधिरे शोभां विजृम्भयन्तीत्यर्थः।

नद्

  • {व्यनुनद्}
  • नद् (णद् अव्यक्ते शब्दे)।
  • ‘नभश्च पृथिवीं चैव तुमुलो (घोषः) व्यनुनादयन्’ (गीता १।१९)। व्यनुनादयन् नादेन पूरयन्।