१८२ प्रत्यनु (प्रति+अनु)

ज्ञा

  • {प्रत्यनुज्ञा}
  • ज्ञा (ज्ञा अवबोधने)।
  • ‘तत् सर्वं प्रत्यनुज्ञासीद्रामः सत्यपराक्रमः। क्षत्रधर्ममनुस्मरन्।’ (रा० २।८७।१६)। अङ्गीकृत्य पुनर्मह्यमेव दत्तवान्, सर्वं तत् प्रत्यार्पयत्। प्रत्यनुज्ञासीदित्यत्राडागमो न कृतः, छन्दोवत्कवयः कुर्वन्तीति।

तप्

  • {प्रत्यनुतप्}
  • तप् (तप सन्तापे)।
  • ‘यदि दत्त्वा वरौ राजन्पुनः प्रत्यनुतप्यसे’ (रा० २।१२।३६)। अनुतप्यस इत्येवार्थः। प्रतिर्नान्तरमर्थे करोति।

नी

  • {प्रत्यनुनी}
  • नी (णीञ् प्रापणे)।
  • ‘स एवमुक्तः प्रत्युवाच एतत्प्रत्यनुनये भवन्तावश्विनौ’ (भा० आदि० ३।७२)। एतद्वां वचनं प्रत्यनुनये विरुणध्मि। प्रतिः प्रातिकूल्ये।
  • ‘भवताहमन्नस्याशुचिभावमालक्ष्य प्रत्यनुनीतः’ (भा० आदि० ३।१२४)। प्रतिकूलयन्ननुनीतः प्रसादितः। प्रत्यनुनीतः शप्तो दण्डित इति तु संस्कृतशार्मण्यकोषः। तदसत्। शब्दमर्यादया दुर्लभोऽयमर्थः प्रकरणविरोधश्च। न चैनमशकद् भानुरहं वा स्नेहकारणैः।
  • ‘पुरा प्रत्यनुनेतुं नेतुं वाप्येकतां त्वया’ (भा० शां० ६।७)। प्रत्यनुनेतुं शमयितुं मृदूकर्तुं वा।

भू

  • {प्रत्यनुभू}
  • भू (भू सत्तायाम्, भू प्राप्तावात्मनेपदी)।
  • ‘देशदिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति’ (प्रश्नोप० ४।५)। प्रत्यनुभवति प्रत्येकमनुभवति।