१३८ अत्युद् (अति+उद्)

क्रम्

  • {अत्युत्क्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘अत्युत्क्रान्ताश्च धर्मेषु पाषण्डसमयेषु च। कृशप्राणाः कृशधनास्तेभ्यो दत्तं महाफलम्’ (भा० अनु० २३।५६)। अत्युत्क्रान्ता अत्यन्तं दूरं गताः। पाषण्डसमयेष्विति धर्मेष्वित्यस्य विशेषणम्। चः पादपूरणे।

हा

  • {अत्युद्धा}
  • हा (ओहाङ् गतौ)।
  • ‘अथ शीर्ष्णा यूपमत्युज्जिहीते’ (श० ब्रा० ५।२।१।१४)। अत्युज्जिहीते आस्कन्दति, आरोहति।