दीर्घः

वलच्

“वलच्” इति तद्धितप्रत्यये परे प्रकृतेः दीर्घः — कृषिः अस्य अस्ति = कृषीवलः । ५.२.११२ रजःकृष्यासुतिपरिषदो वलच् इति वलच्-प्रत्ययः । ६.३.११८ वले इति दीर्घः ।

वलप्रत्यये परे दीर्घः स्यात्संज्ञायाम् । कृषीवलः — कौमुदी ।

मतुप्

“मतुप्” इति तद्धितप्रत्यये परे प्रकृतेः दीर्घः —

अमराः विद्यन्ते अस्याम् इति = अमर + मतुँप् + ङीप् → अमर + वत् + ई → अमरावती । “५.२.९४ तदस्यास्त्यस्मिन्निति मतुप्” इति मतुप्-प्रत्ययः । “८.२.११ संज्ञायाम्” इति मकारस्य वकारादेशः । “६.३.११९ मतौ बह्वचोऽनजिरादीनाम्” इति दीर्घः ।

शराः सन्ति अस्याम् इति = शर + मतुँप् + ङीप् → शर + वत् + ई → शरावती । “५.२.९४ तदस्यास्त्यस्मिन्निति मतुप्” इति मतुप्-प्रत्ययः । “८.२.११ संज्ञायाम्” इति मकारस्य वकारादेशः । “६.३.१२० शरादीनां च” इति दीर्घः । शरादीनां च मतौ दीर्घो भवति संज्ञायां विषये —‌ काशिका ।