०४

इदानीमुभयालङ्कारविवेचनाय परिच्छेदमारभते—

शब्देभ्यो यः पदार्थेभ्य उपमादिः प्रतीयते।
विशिष्टोऽर्थः कवीनां ता उभयालङ्क्रियाः प्रियाः‘मताः’ इति ख पुस्तकस्थः पाठः॥ १॥

उपमा रुपकं साम्यं संशयोक्तिरपह्नुतिः।
समाध्युक्तिः समासोक्तिरुत्प्रेक्षाप्रस्तुतस्तुतिः॥ २॥

सतुल्ययोगितोल्लेखः ससहोक्तिः समुच्चयः।
साक्षेपोऽर्थान्तरन्यासः सविशेषा परिष्कृतिः॥ ३॥

दीपकक्रमपर्यायातिशयश्लेषभाविकाः।
संसृष्टिरिति निर्दिष्टास्ताश्चतुर्विंशतिर्बुधैः॥ ४॥

“शब्देभ्य इति”। यासूभयालङ्क्रियासु इवादिभ्यः शब्देभ्यो विशिष्ट उपमादिरूपोऽर्थो ज्ञायते ता उभयालङ्क्रियाः स्युः। कीदृश्यः। कवीनां प्रियाः प्रीतिविषयाः, उपमादीनां कविसर्वस्वायमानत्वात्। शब्दश्चार्थश्चेत्युभयम्। सह तुल्ययोगितया वर्तते इति सतुल्ययोगिता। एवमितरेष्वपि। परिष्कृतिः परिकरः। भाविकैरिति सहार्थे तृतीया॥

अथोपमालङ्कारनिरूपणम्।

प्रसिद्धेरनुरोधेन यः परस्परमर्थयोः।
भूयोऽवयवसामान्ययोगः सेहोपमा मता॥ ५॥

उपमालक्षणमाह—“प्रसिद्धेरिति”। अर्तयोरूपमानोपमेययोर्मिथो यो भूयसा प्रचुराणामवयवसामान्यानामेकदेशसाधर्म्याणां योगः सम्बन्धः, सा इह ग्रन्थे [शास्त्रे] उपमा मता। तर्हि मुखं कमलमिवेतिवत् कुमुदमिवेत्यपि स्यादत आह—“प्रसिद्धेरिति”। प्रसिद्धेर्लोकप्रसिद्धेरनुरोधेन पुरस्कारेण। तथा च कुमुदमुखयोरुपमा न लोकप्रसिद्धेति दोषः॥

एकाभिधीयमाने स्यात्तुल्ये धर्मे पदार्थयोः।
प्रतीयमानेऽप्यपरा द्विविधापि च सा त्रिधा॥ ६॥

पदवाक्यप्रपञ्चाख्यैर्विशेषैरुपपद्यते।
पृथगष्टविधत्वेन ताश्चतुर्विंशतिः पुनः॥ ७॥

इहाभिधीयमानार्थप्रतीयमानार्थविषयतयोपमा द्विधा। सापि पदवाक्यप्रपञ्चभेदात्त्रिधा। तासां त्रिधाभूतानां प्रत्येकमष्टविधत्वेन चतुर्विशतिप्रकारोपमेत्याह—“पदेत्यादि”॥

पदोपमाया अष्टविधत्वमाह—

समासात्प्रत्ययाच्चैव द्विविधा स्यात्पदोपमा।
या समासोपमा तत्र चतुर्धा साभिपद्यते॥ ८॥

इवार्थान्तर्गतेरेका सामान्यान्तर्गतेः परा।
अन्तर्भूतोभयार्थान्या सान्या सर्वसमासभाक्॥ ९॥

“समासादिति”। समासोपमा इवार्थेत्यदिना चतुर्विधा॥

तास्वन्तर्भूतेवार्था यथा—

‘मुखमिन्दुसुन्दरं ते बिसकिसलयकोमले भुजालतिके।
जघनस्थली च सुन्दरि तव शैलशिलाविशालेयम्॥ १॥’

अत्र इन्दुरिव सुन्दरमिन्दुसुन्दरमितीवार्थः ‘उपमानानि सामान्यवचनैः २।१।५५।’ इति समासेनैक्तः। एवं बिसकिसलये इव कोमले शैलशिलेव विशालेति। सेयमन्तर्गतेवार्था नाम समासोपमासु पदोपमाभक्तिः॥

“मुखमित्यादि”। हे सुन्दरि, एव मुखं चन्द्रवत्सुन्दरम्, तव भुजालतिके बिसकिसलयकोमले मृणालपल्लववत्कोमले, तव जघनस्थली शैलपाषाणवद्दीर्घा चेति पूर्वापेक्षया, वाक्यसमाप्तौ वा। इवार्थस्तुल्यता। भक्तिर्विभागः। ‘भक्तिर्विभागे सेवायाम्’ इति मेदिनीकारः॥

अन्तर्भूतसामान्या यथा—

‘चन्दसरिसं मुहं से गाथासप्तशत्यां तु ‘सरिसो अमअस्स’ इति पाठःअमअसरिच्छो अ मुहरसो तिस्सा।
सकअग्गहरहसुज्जल चुम्बणअं कस्स सरिसं से॥ २॥’

[चन्द्रसदृशं मुखमस्या ऽसदृशोऽमृतस्यऽ इति छाया च समुपलभ्यते।अमृतसदृक्षश्च मुखरसस्तस्याः।
सकचग्रहरभसोज्ज्वलचुम्बनकं कस्य सदृशं तस्यः॥]

अत्र चन्द्रेण सदृशं चन्द्रसदृशं मुखम्, अमृतेन सदृक्षोऽमृतसदृक्षो मुखरस इति समासे सुन्दरमधुरादिसामान्यशब्दप्रयोगो न श्रूयते प्रतीयते च, सदृशादेर्द्योतकादिति सामान्यधर्मस्य सौन्दर्यमाधुर्यादेरुपमान-प्रसिद्धस्योपमेये समासेनैव प्रतिपादितत्वादियमन्तर्भूतसामान्या नाम समासोपमासु पदोपमाभक्तिः॥

“चन्द्र इति”। ‘चन्द्रसदृशं मुखमस्या अमृतसदृक्षश्च मुखरसस्तस्याः। सकचग्रहरभसोज्ज्वलचुम्बनं कस्य सदृशं तस्यः॥’ कश्चिन्मनोविनोदार्थं वयस्याय कान्ताप्रकर्षं कथयति—“चन्द्रेति”। कचग्रहे केशपाशग्रहणे यो रभस आवेशस्तेन सहितमुज्ज्वलं मनोज्ञं चुम्बनम्। इहान्तर्भूतं समासेन बोधितं सामान्यसाधर्म्यं सौकुमार्यादिकमित्यन्तर्भूतसामान्या। न श्रूयते चेत्रास्त्येवेत्यत आह—“प्रतीयत इति। द्योतकादितीति”। सादृश्यस्य सप्रतियोगिकतया तत्प्रत्यायकत्वमेव द्योतकत्वमित्यर्थः। “उपमानेति”। उपमीयते सादृश्यमानीयतेऽनेनोत्कृष्टगुणेनान्यदित्युपमानमित्यर्थः। “उपमेय इति”। उपमीयते न्यूनगुणं यत्तदुपमेयमित्यर्थः॥

अन्तर्भूतोभयार्था यथा—

‘कमलकरा रम्भोरूः कुवलअणअणा मिअङ्कवअणा सा।
कहं णु णवचम्पअङ्गी मुणालबाहू पिआ तवइ॥ ३॥’

[कमलकरा रम्भोरूः कुवलयनयना मृगाङ्कवदना सा।
कथं नु नवचम्पकाङ्गी मृणालबाहुः प्रिया ‘दहति’ इति टीकासमतः पाठः।तपति॥]

अत्र कमलमिव ताम्रौ, रम्भे इव पीवरौ, कुवलयमिव, श्यामे, मृगाङ्क इव प्रेक्षणीयं, नवचम्पकमिव गौरम्, मृणालमिव कोमलौ करौ, ऊरू, नयने, वदनम्, अङ्गम्, बाहू यस्याः सा तथोक्तेत्यन्यपदार्थेन समासेनैव द्योतकसामान्ययोरुक्तत्वादियमन्तर्भूतेव सामान्या नाम समासोपमासु पदोपमाभाक्तिः॥

“कमलेत्यादि”। ‘कमलकरा रम्भोरूः कुवलयनयना मृगाङ्कवदना सा। कथं नु नवचम्पकाङ्गी मृणालबाहुः प्रिया दहति॥’ इति। ईदृशी कान्ता कथं नु (न) दहति तापयति किन्तु तापयत्येव। रम्भे कदल्याविवोरू यस्याः सा। नवचम्पकं चम्पककलिका। इह कमलमिव ताम्रौ करौ यस्याः सेत्यादाविवशब्दो द्योतकः सामान्यं ताम्रत्वादिकं तयोश्च समासेनैवोक्ततयान्तर्भूतोभयार्थेयम्॥

सर्वसमासा यथा—

‘शरदिन्दुसुन्दरमुखी कुवलयलदीर्घलोचना सा मे।
दहति मनः कथमनिशं रम्भागर्भाभिरामोरूः॥ ४॥’

अत्रोपमानोपमेयधर्माणामिन्दुसुन्दरादिपदैरिवार्थस्य समासेनैवाभिधानम्, सर्वं समासेऽस्यामिति सर्वसमासोपमानामेयं समासोपमासु पदोपमाभक्तिः॥

“शरदित्यादि”। ईदृशी सा स्त्री मम मनः कथमनिशं दहति। कीदृशी। शरच्चन्द्ररम्यमुखी नीलनलिनपत्रदीर्घनेत्रा कदलीमध्यसुन्दरोरूश्च। इहोपमानमिन्दुः, उपमेयं मुखम्, तुल्यधर्मः सुन्दरत्वम्। एवमन्यत्रापि। शरदिन्दुरिव सुन्दरं मुखं यस्याः सा इतीवार्थस्यापि समासाभिधेयता। सर्वः समासो यस्यामित्यादिविग्रहे विवक्षितार्थालाभ इत्यत आह—“सर्वमिति”॥

प्रत्ययोपमापि पदोपमाभेद एव न त्वधिकेत्याह—

या प्रत्ययोपमेत्युक्ता काव्यविद्भिः पदोपमा।
चतुर्धा भिद्यते सापि प्रत्ययार्थप्रभेदतः॥ १०॥

“येति”। पदप्रत्ययोरनुबोधनेऽन्योन्यपेक्षिततयोपमायामपि तथेति न भिन्नता॥

प्रत्ययो ह्युपमेये स्यादुपमानेऽपि कश्चन।
तत्सामान्ये भवेत्कश्चिदिवार्थे कश्चिदिष्यते॥ ११॥

तेषां वशात्तदुपमा भवेत्तव्द्यपदेशभाक्।
उदाहरणमेवास्या रूपव्यत्त्क्यै निदर्श्यते॥ १२॥

तत्र प्रत्ययस्योपमेयस्यार्थे यथा—

‘हंसो ध्वाङ्क्षविरावी स्यादुष्ट्रक्रोशी च कोकिलः।
खरनादी मयूरोऽपि त्वं चेद्वदसि वाग्मिनि॥ ५॥’

अत्र ‘कर्तयुपमाने ३।२।७९’ इत्यनेन यदोपमाने उपपदे ध्वाङ्क्ष इव विरौतीति सामानाधिकरण्येन कर्तर्येव प्रत्ययस्तदोपमेयस्यार्थे भ-वति। एवमुष्ट्रक्रोशीखरनादीत्येतयोरपि द्रष्टव्यम्। सेयमुपमेयार्थप्रत्ययानाम प्रत्ययोपमासु पदोपमाभाक्तिः॥

“प्रत्यय इति”। प्रत्ययार्थानां भेदादित्यर्थः। अस्फुटत्वेनाह—“उदाहरणमिति”। रूपव्यत्त्क्यै स्वरूपज्ञानाय। “हंस इत्यादि”। हे वाग्मिनि, प्रशस्तं वचनं यस्याः। यदि त्वं वदसि तदा हंसो ध्वाङ्क्षविरावी काक इव विरौति, कोकिल उष्ट्रक्रोशी उष्ट्र इव क्रुश्यति शब्दायते, मयूरः खरनादी गर्दभ इव नदति। ‘ध्वाङ्क्षात्मघोषपरमृद्बलिभुग्वायसा अपि।’ इत्यमरः। ‘रासभो गर्दभः खरः’ इति च। इह ध्वाङ्क्ष इव विरौतीत्यादौ ‘कर्तर्युपमाने ३।२।७९’ इति णिनिप्रत्ययः उपमान उपपदे कर्तरि विहित उपमेयस्यार्थे भवति सामानाधिकरण्यानुरोधात्॥

प्रत्ययस्योपमानार्थे यथा—

‘पूर्णेन्दुकल्पवदना मृणालीदेश्यदोर्लता।
चक्रदेशीयजघना सा स्वर्गेऽपि न दृश्यते॥ ६॥’

अत्र पूर्णेन्दुरिव पूर्णेन्दुरित्यादिकयोपचारवृत्त्या यद्यपि पूर्णेन्दुप्रभृतय उपमानशब्दा अप्युपमेयेषु वदनादिषु वर्तन्ते, तेभ्यश्च यद्यपि स्वार्थ एव स्वार्थिकाः कल्पबादयो भवन्ति, तथापि ते शब्दशक्तिस्वाभाव्याद्गुणभूतमुपमानार्थमात्रं ब्रुवते यथा शुक्लादिभ्यस्तरबादयः। तथा ह्ययं चं शुक्लोऽयमनयोः शुक्लतर इत्युक्ते शौक्ल्यस्यैव प्रकर्षो गम्यते न शौक्ल्यवतः। सेयमुपमानार्थप्रत्ययानाम प्रत्ययोपमासु पदोपमाभक्तिः॥

“पूर्णेत्यादि”। सा स्वप्नेऽपि न दृश्यते। कीदृशी। पूर्णेन्दोरीषदसमाप्तं वदनं यस्याः सा। मृणाल्या ईषदसमाप्ता दोर्लता यस्याः सा। चक्रादीषदसमाप्तं जघनं यस्याः सा। इह कल्पेत्यादावीषदसमाप्तौ ‘ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ५।३।६७’ इति कल्पबादयः। इह पूर्णेन्द्वादय उपचारेणोपमेयवृत्तयस्तत्समभिव्याप्तकल्पबादिना स्वार्थिकप्रत्ययेन चोपमानार्थातिशय एवाभिधीयत इति प्रत्ययस्योपमानार्थता। इदमेवाह—“शब्देति। गुणभूतमिति”। अतिशयस्य प्रत्ययार्थत्वेन तन्निरूपकत्वमेव गुणत्वमित्यर्थः॥

सामान्यार्थप्रत्ययेन यथा—

‘सूर्यीयति सुधारश्मिर्मन्मथोऽतिमृतायते।
मृतस्य कान्ताविरहे स्वर्गोऽपि नरकीयति॥ ७॥’

अत्रोपमानादाचारादिभिः सूर्यादिभ्यः क्यजादय आचारलक्षणक्रियाविशेष उत्पद्यमाना उपमानोपमेययोः सामान्य एवोत्पद्यन्त इति सेयं सामान्यार्थप्रत्ययानाम प्रत्ययोपमासु पदोपमाभक्तिः॥

इवार्थप्रत्ययेन यथा—

‘एक एव हि भूतात्मा भूते भूते व्यवस्थितः।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत्॥ ८॥’

अत्र ‘तेन तुल्यं क्रिया चेद्वतिः ५।१।११५’ इत्यनेन चन्द्रशब्दाच्चन्द्रेण तुल्यं दृश्यत इतीवार्थ एव प्रत्ययो न तु तुल्यक्रियार्थः अन्यथा दृश्यत इति इवार्थ इव तुल्यक्रियाप्रयोगोऽपि न स्यात्। तदप्रयोगेऽपि च गौरिव गवय इत्यादौ वतिः प्रसज्येत। सेयमिवार्थप्रत्ययानाम प्रत्ययोपमासु पदोपमाभक्तिः॥

“सूर्यीयतीत्यादि”। चन्द्रः सूर्यीयति सूर्य इवाचरति कामोऽतिमृतायतेऽतिमृतवद्भवति। प्रियावियोगे मृतस्य पुनः स्वर्गोऽपि नरकीयति नरक इवाचरति। सूर्यीयतीत्यत्र ‘उपमानादाचारे ३।१।१०’ इति क्यच्। अतिमृतायत इत्यत्राचारार्थे ‘कर्तुः क्यङ् सलोपश्च ३।१।११’ इति क्यङ्। प्रकृते सूर्यनरकयोः कर्माधिकरणत्वभावेन चिन्त्यमेतत्। पद्ये क्यङ्प्रयोगस्तु सर्वत्र न्याय्यःनरकीयति इत्यत्र ‘अधिकरणाच्च २६६४ सू। वा।’ इति क्यच्। इहाचार आचरणक्रिया साचोपमानोपमेयसाधारणीति सामान्यप्रत्यया। “एक इत्यादि”। एक एव भूतात्मा परमात्मा प्रतिदेहमवस्थितः सन् एकधा बहुधा चैकानेकप्रकारेण जलचन्द्रवद्दृश्यते। इह जलचन्द्रवद्दृश्यत इत्यत्रेवार्थे सादृश्ये वतिर्न तु तुल्यः क्रियते तदा दृश्यत इति पदेन वतिना च समर्थतया पौनरुत्त्क्यं स्यात्। न भवतु तुल्यक्रियाप्रयोगः, ततः किमनिष्टमत आह—“तदिति”। गौरिव गवय इत्यादौ क्रियाया अप्रयोगात्तुल्यक्रियाप्रयोगाभाव इति भावः॥

वाक्योपमाया अष्टविधत्वमाह—

वाक्योपमा तु या तत्र द्वैविध्यं सापि गच्छति।
एका पदार्थयोः साम्ये परा वाक्यार्थयोर्मिथः॥ १३॥

आद्या पूर्णा च लुप्ता च लुप्तवर्णा तथैव च।
पूर्णलुप्तेति चाख्याता कविमुख्यैश्चतुर्विधा॥ १४॥

पूर्णा सामान्यधर्मस्य प्रयोगे द्योतकस्य च।
उपमानस्य च भवेदुपमेयस्य चैव हि॥ १५॥

“वाक्येति।”। तत्रोपमायां मिथोऽन्योन्ये साम्य इति यावत्। ‘मिथोऽन्योन्ये रहोर्थे च मिथोऽन्योन्यसमुच्चये।’ इति मेदिनीकारः। आद्या पदार्थोपमा पूर्णा सामान्यधर्मादिसाकल्यवती। प्रयोग इति सर्वत्रान्वीयते॥

यथा—

‘कमलमिव चारु वदनं मृणालमिव कोमलं भुजायुगलम्।
अलिमालेव सुनीला तथैव मदिरेक्षणे कबरी॥ ९॥’

अत्र कमलमृणालालिमालादीनामुपमानद्योतकतुल्यधर्मोपमेयवाचकानां चतुर्णामपि पदानां पृथक् पृथक् प्रयोगे पदार्थयोः सादृश्यस्याभिधीयमानत्वादियं पूर्णानाम पदार्थोपमासु वाक्योपमाभाक्तिः॥

लोपे सामान्यधर्मस्य द्योतकस्य च योपमा।
प्रतीयमानसादृश्ये द्वयोर्लुप्तेति तां विदुः॥ १६॥

“कमलमित्यादि”। हे मदिरेक्षणे रक्तनेत्रे, तव वदनं पद्ममिव चारु। बाहुद्वयं बिसमिव मृदु। कबरी केशवेशो भ्रमरपङिक्तरिव नीलोऽस्ति। मदिरावद्रक्तमीक्षणं नेत्रं यस्याः सा। ‘कबरी केशवेशोऽथ’ इत्यमरः। इह कमलमुपमानम्, इवपदं द्योतकम्, चारुपदं तुल्यधर्मोपस्थापकम्, वदनमुपमेयमिति पूर्णता, पदार्थयोः सादृश्यं वाक्यार्थः, सामान्यधर्मादीनां विरहे लोपे लुप्ता तर्हि सर्वलोपे उपमैव न स्यादत आह—“प्रतीयमान इति”। तथात्वेऽपि प्रसिद्धैव कान्त्यादितुल्यधर्मप्रतीतिरिति भावः॥

यथा—

‘न पद्मं मुखमेवेदं न भृङ्गौ चक्षुषी इमे।
न केसराणि कान्ताया इमास्ता दन्तपङ्क्तयः॥ १०॥’

अत्र कान्तामुखादावुपमेये पद्मादिविपर्ययज्ञानप्रत्याख्यानेनेवादीनामभावेऽपि कान्त्यादिलुप्तधर्मप्रतीतेर्लुप्तानामेयं पदार्थोपमासु वाक्योपमाभक्तिः॥

लोपे सामान्यधर्मस्य लुप्तपूर्णेति गद्यते।

“नेत्यादि”। इदं न पद्मं किन्तु कान्ताया मुखमेव। न भ्रमरौ किन्तु इमे नेत्रे। न केसराणि किन्तु इमास्ताः प्रसिद्धा दन्तपङ्क्तय एव। चक्षुषी इमे ‘ईदूदेव्द्दिवचनं प्रगृह्यम् १।१।११’ इति प्रगृह्यत्वम्। पद्ममिदं कान्तास्यमिति मिथ्याज्ञानं तस्य प्रत्याख्यानं निषेधो न पद्ममिति। एवञ्चेवाद्यभावेऽपि कान्त्यादेः प्रसिध्द्यैव प्रतीतेरियं लुप्ता॥

यथा—

‘राजीवमिव ते वक्रं नेत्रे नीलोत्पले इव।
रम्भास्तम्भाविवोरू च करिकुम्भाविव स्तनौ॥ ११॥’

अत्र सामान्यधर्मे लुप्ते प्रतीयमानसादृश्यत्वेन पदार्थयोरुपमानोपमेयभावस्य परिपूर्णत्वे लुप्तपूर्णानामेयं पदार्थोपमासु वाक्योपमाभक्तिः॥

“राजीवमित्यादि”। हे प्रिये, तव मुखं पद्ममिव, नेत्रे नीलनलिने इव, ऊरू कदलीस्तम्भाविव, स्तनौ हस्तिकुम्भाविव स्तः। उत्पले इवेति ‘ईदूदेद् १।१।११’ इति प्रगृह्यसञ्ज्ञा। इह सामान्यधर्मस्य कान्त्यादेर्लोपः, इतरेषां पूर्णतेति लुप्तपूर्णा॥ ११॥

द्योतकस्य तु लोपे या पूर्णलुप्तेति सा स्मृता॥ १७॥

यथा—

‘त्वन्मुखं पुण्डरीकं च फुल्ले सुरभिगन्धिनी।
कोमलापाटलौ तन्वि पल्लवश्चाधरश्च ते॥ १२॥’

अत्र तन्त्रेण सदृशयोरनभिधानात्सादृश्यस्य पुनरुपमानोपमेयभावविवक्षितेन श्लेषतोऽन्यत्वे सतीतरेतरयोगेनोपमानोपमेययोरेकशेषेण च तद्विशेषणयोः समुदायेनाभिधानादिवादिमन्तरेणाप्युपमानादीनां चतुर्णामपि पूर्णत्वे सत्युक्तार्थत्वादिवादिर्लुप्यत इति पूर्णलुप्तानामेयं पदार्थोपमासु वाक्योपमाभक्तिः॥

“त्वदित्यादि”। इदं विवृतं सदृशव्यतिरेकस्थले। तन्त्रेण प्राधान्येन। ‘तन्त्रं प्रधाने सिद्धान्ते’ इति मेदिनीकारः। यद्वा तन्त्रेण एकार्थप्रयोजकेनेह सदृशयोर्मुखपद्मयोः प्रधानाङ्गभावेनाभिधानं तुल्यता च पदार्थः। एवं च मिथोऽन्वयेनोपमानोपमेयत्वाभिधानम्। फुल्ले इति विशेषणद्वयम्। एकशेषेण हेतूपमानोपमेयतुल्यधर्मद्योतकपूर्णता। इवादिलोपस्तूक्तार्थत्वादतः पूर्णलुप्तेयम्। यत्र समकक्षतया द्वयोरभिधानं तत्र श्लेष एवेत्यतिव्याप्तिरत आह—“श्लेषत इति”। वाक्यार्थस्य वाक्यसापेक्षतया तद्भेदता॥

या तु वाक्यार्थयोः सापि चतुर्धैकेवशब्दिका।
नैकेवशब्दिकेवादिशून्या वैधर्म्यवत्यपि॥ १८॥

तास्वेकेवशब्दा यथा—

‘पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन।
आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः॥ १३॥’

अत्र हिमवत्पाण्ड्ययोर्निर्झरहारयोर्बालातपहरिचन्दनयोश्च परस्परमुपमानोपमेयविवक्षायां विशेषणविशेष्यभावपरिकल्पनेन वाक्यार्थयोर्द्वयोरपि कल्पितत्वादेकेनैवेवशब्देन तयोः परस्परमुपमानोपमेयभावोऽभिहितः इतीयमेकेवशब्दानाम वाक्यार्थोपमासु वाक्योपमाभक्तिः॥

एक एवशब्दो यस्यां सा॥ “पाण्ड्य इति”। अयं पाण्ड्यो राजभेदः शोभते। कीदृशः। अंसे स्कन्धेऽर्पितो दत्तो लम्बहारो येन सः। हरिचन्दनेन चन्दनमेदेन कृताङ्गानुलेपनश्च, अभिनवकिरणलोहितशृङ्गः प्रवहन्निर्झरश्च हिमवानिवाभाति। इह द्वयोर्वाक्यार्थयोरुपमानोपमेयभाव एकेनैवेवपदेनोक्त इत्येकेवोपमेयम्॥

अनेकेवशब्दा यथा—

‘दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा।
पुपोष लावण्यमयान्विशेषाञ्ज्योत्स्नान्तराणीव कलान्तराणि॥ १४॥’

अत्र क्रियापदस्य वाक्यार्थद्वयैकतापत्तिहेतोः सकर्मकत्वात्कर्तुः कर्मणश्चोपमानात् पृथगिवशब्दप्रयोग इति सेयमभि धीयमानसादृश्या अनेकेवशब्दानाम वाक्यार्थोपमासु वाक्योपमाभक्तिः॥

“दिन इति”। सा गौरी दिने दिने प्रत्यहं परिवर्धमाना सती लावण्यमयान्कान्तिप्रधानान् विशेषानुत्कर्षान् पुपोष पुष्णाति स्म। कीदृशी। लब्धः प्राप्त उदय उपचयो यया सा। यथा चान्द्री लेखा कला प्राप्तोद्गमा प्रत्यहं वर्धमाना च सती कलान्तराणि अन्यान्या कला धत्ते ज्योत्स्नान्तराणि च धत्ते तथेत्यर्थः। लावण्यं ज्योत्स्नास्थानीयम्, विशेषः कलास्थानीयः। यद्वा कलान्तराणि कीदृशानि। ज्योत्स्ना अन्तरा गर्भे येषु तानि। यद्वा ज्योत्स्नाया अन्तरोऽवकाशो येषु तानि। ऽलेखा स्याल्लिपिकलयोः’ इति विश्वः। चन्द्रमस इयं चान्द्रमसी। ‘तस्येदम् ४।३।१२०’ इत्यण्। ‘लावण्यं चारुता मता’ इति शाश्वतः। ‘गर्भावकाशभेदेष्वन्तरं वाच्यलिङ्गवत्।’ इति मेदिनीकारः। इह पोषणरूपक्रियया वाक्यार्थयोरेकवाक्यता, सा च सकर्मकेति कर्तृकर्मणोः पृथगिवपदप्रयोगादनेकेवोपमेयम्॥

अनिवादिशब्दा यथा—

‘दिवो जागर्ति रक्षायै पुलोमारिर्भुवो भवान्।
अपुरास्तेन हन्यन्ते सावलेपा नृपास्त्वया॥ १५॥’

अत्र पुलोमारिवर्णनीययोर्द्यावाभूम्योरसुराणामवलिप्तपार्थिवानां च तुल्यक्रियासमावेशादिवादिमन्तरेणापि वाक्यार्थानां परस्परमुपमानोपमेयभावोऽवगम्यत इतीयमनिवादिशब्दानाम वाक्यार्थोपमासु वाक्योपमाभक्तिः।

“दिव इति”। भवान् भूमे रक्षायै पुलोमारिरिन्द्रो दिवः स्वर्गस्य रक्षायै जागर्ति। तेनेन्द्रेणासुरा हन्यन्ते, त्वया नृपा हन्यन्ते। सावलेपाः सगर्वा इति नृपविशेषणम्। पुलोमनामा दैत्यभेदः स चेन्द्रेण हतस्तत्सुता पुलोमजेन्द्राणी च गृहीतेति पुराणम्। इह तुल्या समैकक्रिया जागरणरूपा हननरूपा च तव्द्दयघटित एवोपमानोपमेयभावः॥

वैधर्म्यवती यथा—

‘प्रहितः प्रधनाय माधवानहमाकारयितुं महीभृता।
न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव॥ १६॥’

अत्र सत्युपमाने सत्युपमेये सत्यपि चेवशब्दे महौजसां मलिम्लुचानां च योऽयं छलापकरणं नाम वस्तुधर्मः स उपमान एव नकारेण नियम्यत इति वैधर्म्यवतीनामेयं वाक्यार्थोपमासु वाक्योपमाभक्तिः॥

“प्रहित इत्यादि”। अयं विविध उच्यतासदृशोपमविशेषगुणे(?) इहान्यरूपैः साम्येऽपि वाच्यधर्म उपमान एव निषेधेन नियमित इति वैधर्म्यम्। तद्वतीयमुपमा।

प्रपञ्चोपमाया अष्टविधत्वमाह—

यत्रोक्तिभङ्ग्या वाक्यार्थे सादृश्यमवगम्यते।
वाक्यार्थयोर्विस्तरतः सा प्रपञ्चोपमेष्यते॥ १९॥

“यत्रेति”। वाक्यार्थे वचनभङ्ग्या यत्र वाक्यार्थयोर्विस्तरेण सादृश्यं ज्ञायते सा प्रपञ्चोपमा॥

तस्या विभागमाह—

सा तु प्रकृतरूपा स्याद्रूपेण विकृता तथा।
तयोः प्रकृतरूपा सा विज्ञेया च चतुर्विधा॥ २०॥

स्यात्समस्तोपमा तद्वदेकदेशोपमा परा।
मालोपमा तृतीया स्याच्चतुर्थी रसनोपमा॥ २१॥

“सेति”। प्रकृतरूपं साहजिकं विकृतं रूपमौपाधिकम्॥

तासु समस्तोपमा यथा—

‘अलिवलयैरलकैरिव कुसुमस्तबकैः स्तनैरिव वसन्ते।
भान्ति लता ललना इव पाणिभिरिव किसलयैरधिकम्॥ १७॥’

अत्र वसन्तलक्ष्मीपरिष्कृतलतानां ललनानां च प्रतीयमानसादृश्यानामुपमानोपमेयभावविवक्षायां येयमलिवलयादिभिरलकादीनां प्रतीयमानसादृश्यानामेव पृथक्पृथगिवशब्दप्रयोगवतीति विस्तरेणावयविनोऽवयवानां चेति सामस्त्येन वाक्यार्थयोरौपम्योक्तिभङ्गिः। सेयं समस्तोपमानाम प्रकृतरूपोपमासु प्रपञ्चोपमाभक्तिः॥

“अलीत्यादि”। लता वसन्ते ललना इव स्त्रिय इवाधिकं शोभन्ते। कैः। अलकैरिव भृङ्गवृन्दैः, पुष्पगुच्छैः कुचैरिव, पल्लवैः पाणिभिरिव। इहावयविनोर्लतास्त्रीरूपयोरवयवानामेकदेशानामलिवलयालकादीनां सामग्र्येणोपमानोपमेयभावात् समस्तोपमेयम्। तेषां च प्रकृतत्वं प्रसिद्धमेव॥

एकदेशोपमा यथा—

‘कमलदलैरधरैरिव दशनैरिव केसरैर्विराजन्ते।
अलिवलयैरलकैरिव कमलैर्वदनैरिव नलिन्यः॥ १८॥’

अत्र नलिनीनां विलासिनीनां च परस्परमुपमानोपमेयभावे वक्तव्ये विलासिनीलक्षणमुपमानार्थम्, एवमवयवान्तराणि च यानि स्तनाद्युपमेयानि, तानि परित्यज्य कमलमेवैकं तदवयवैर्दलादिभिः सहाधरादिभिरुपमानैः पृथक्पृथगिवप्रयोगाद्विस्तरेणोपमितम्। तेनेयमेकदेशोपमा नाम प्रकृतरूपोपमासु प्रपञ्चोपमाभक्तिः॥

“कमलेति” पद्मिन्यः शोभन्ते। कैः। अधरैरिव पद्मपत्त्रैः, दन्तैरिव किञ्जल्कैः, अलकैरिव भृङ्गसङ्घैः, मुखैरिव पद्मैः। इह विस्तरोपमया प्रपञ्चोपमा, हंसस्तनादित्यागात्कमलदलादिना सहाधरादेरेकदेशस्योपमया चैकदेशोपमेयम्॥

मालोपमा यथा—

‘सोहव्व लक्खणमुहं वणमालव्व विअडं हरिवइस्स उरम्।
कित्तिव्व पवणतणअं आणव्व बलाइं से विलग्गइ दिट्ठी॥ १९॥’

[शोभेव लक्ष्मणमुखं वनमालेव विकटं हरिपतेरुरः।
कीर्तिरिव पवनतनयमाज्ञेव बलान्यस्य विलगति दृष्टिः॥]

अत्र रामदृष्टेर्लक्ष्मणमुखादिविनिवेशिन्याः शोभाद्युपमानमालया प्रतीयमानसादृश्यया विस्तरेणोपमितेर्मालोपमा नामेयं प्रकृतरूपोपमासु प्रपञ्चोपमाभक्तिः॥

“सोहेति”। ‘शोभेव लक्ष्मणमुखं वनमालेव विकटं हरिपतेरुरः। कीर्तिरिव पवनतनयमाज्ञेव बलान्यस्य विलगति दृष्टिः॥’ अस्य रामस्य दृष्टिर्लक्ष्मणमुखं विलगति सम्बध्नाति। शोभेव दर्शनानन्तरमेव मुखप्रसादात्। हरिपतेः सुग्रीवस्य विस्तीर्णमुरः सा विलगति वनमालेव पौरुषाध्यवसायनिमित्तम्, समस्तवक्षःस्थलविलोकनाद्धवलश्यामलया दृष्ट्या वनमालेव प्रमाणावसरे प्रभुणा सुग्रीवाय प्रसादीकृतेति भावः। पवनतनयं हनूमन्तं विलगति कीर्तिरिव, तस्य ज्ञातपौरुषस्य विकसितया धवलितगगनया दृष्ट्या निरीक्षणं कृतमिति भावः। बलानि विलगति आज्ञेव, तदनन्तरमेवातिबलानां तेषां गमनोद्योगात्। ‘आपादप्रवणां मालां वनमालेति तां विदुः।’ इति शाश्वतः। मुखादेराधारस्यैव कर्मता। यद्वा ‘उपसर्गेण धात्वर्थो बलादन्यत्र नीयते।’ इति व्युत्पत्त्या विलगतेः सकर्मकता। इह रामदृष्टेः शोभाद्युपमानमालया सूत्रेण ग्रथनमेव, विस्तरेणोपमितेर्मालोपमेयम्। न चेयं बहूपमा; एकस्य धर्मस्य बहुभिरनुपस्थितत्वात्॥

रसनोपमा यथा—

‘चन्द्रायते शुक्लरुचापि हंसो हंसायते चारुगतेन कान्ता।
कान्तायते स्पर्शसुखेन वारि वारीयते स्वच्छतया विहायः॥ २०॥’

अत्र चन्द्रादीनां शौक्ल्यादिभिरभिधीयमानसादृश्यैर्हंसादिभिर्येयं रसनान्यायेन पश्चाद्वलनया विस्तरवती हेतुमती च प्रत्ययोपमापङ्क्तिस्तथेहैकवाक्यताकरणेन शरद्रमणीयतोयवर्णनमिति सेयं रसनोपमा नाम प्रकृतरूपोपमासु प्रपञ्चोपमाभक्तिः॥

“चन्द्रेति”। अथ हंसः श्वेतदीप्त्या चन्द्रायते चन्द्र इवाचरति। प्रिया मनोज्ञगमनेन हंस इवाचरति। वारि जलं स्पर्शसुखेन कान्तेवाचरति। विहायो गगनं निर्मलतया वारीयते जलमिवाचरति। ‘वार्वारि जलम्’ इत्यमरः। ‘पुंस्याकाशविहायसी’ इति च। इह पश्चाद्वलना पूर्वापेक्षतया क्षुद्रघण्टिकाक्रमः प्रपञ्चवत्त्वं रुचेत्यादिहेतुमत्त्वं प्रतीत्युपमाबाहुल्यं च स्फुटमेव। तर्हि प्रकृतरूपता कथं स्यादत आह—“तथेति”। उपमापङ्क्त्याङ्क्त्या चैकवाक्यताविधानेन शरदृतुवर्णनेन प्रकृतरूपेति भावः। (तुरीया चतुर्थी च, ‘तुरणमत्तावाद्यक्षरलोपश्च’ इति (?) छः॥

इतीमास्ताश्चतस्रोऽपि रूपेण प्रकृतेन याः।
उपमानां चतस्रोऽन्या विकृतेन प्रचक्ष्महे॥ २२॥

विपर्यासोपमा तासु प्रथमाथोभयोपमा।
अथोत्पाद्योपमा नाम तुरीयानन्वयोपमा॥ २३॥

तासु विपर्यासोपमा यथा—

‘यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी।
येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते॥ २१॥’

अत्र नेत्रादीनामुपमेयत्वमिन्दीवरादीनामुपमानत्वमिति प्रसिद्धौ येयमत्यनुरागान्नेत्रादिष्वाधिक्यबुद्धिर्नात्यनुरागादिन्दीवरादिषु तदनुकारिबुद्धिस्तयेह रामेण विरहिणाभिधीयमानसादृश्यानाममीषां परस्परमुपमानोपमेयभावः प्रसिद्धेर्विपर्यासेन कल्पित इति सेयं विपर्यासोपमा नाम विकृतरूपोपमासु प्रपञ्चोपमाभक्तिः॥

“यदिति”। हे प्रिये, मम त्वत्सादृश्यहर्षमात्रमपि न दैवेन क्षम्यते। यस्मात्तदिन्दीवरं जले मग्नम्। कीदृशम्। त्वन्नेत्रसमशोभम्। चन्द्रो मेघैरन्तरितश्छन्नः। कीदृशः। त्वन्मुखप्रतिबिम्बसदृशः। तेऽपि राजहंसा गताः। ये त्वद्गतितुल्यगमनाः इह प्रसिद्धिविपर्ययेणोपमितेर्विपर्यासोपमा॥

उभयोपमा यथा—

‘तवाननमिवाम्भोजमम्भोजमिव ते मुखम्।
निलीनां नलिनीखण्डे कथं नु त्वां लभेमहि॥ २२॥’

अत्राप्यत्यन्तसादृश्यादेकस्मिन्पक्षे प्रसिद्धेर्विपर्यास इति सेयं प्रतीयमानसादृश्योभयोपमा नाम विकृतरूपोपमासु प्रपञ्चोपमाभक्तिः।

“तवेति”। हे प्रिये, त्वां कथं नु लभेमहि। कीदृशीम्। पद्मिनीकदम्बे निलीनां स्थिताम्। मुखेनापि न लाभ इत्याह—तव मुखमिव पद्मम् पद्ममिव मुखम्। इह प्रथमपक्षे विपर्यासोऽथोभयोपमानोपमेयभावादुभयोपमेयम्॥

उत्पाद्योपमा यथा—

‘उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम्।
तदोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः॥ २३॥’

अत्रोपमानार्थमुत्पाद्योपमेयेन प्रतीयमानमभिधीयमानं च सादृश्यमभिहितमिति सेयमुत्पाद्योपमानाम विकृतरूपोपमासु प्रपञ्चोपमाभक्तिः॥

“उभाविति”। उभावित्यादिविवृतोऽयं श्लेषगुणे। इह यद्येते पतेतामित्युपमानता तस्योत्पाद्यत इतीयमुत्पाद्योपमा। अनेकेषामुपमितेः प्रपञ्चोफ्मात्वम्॥

अनन्वयोपमा यथा—

‘त्वन्मुखं त्वन्मुखमिव त्वद्दृशौ त्वद्दृशाविव।
त्वन्मूर्तिरिव मूर्तिस्ते त्वमिव त्वं कृशोदरि॥ २४॥’

अत्र त्वमेवेदृशी नान्या त्वत्सदृशीत्यनन्वये सति उपमानोपमेयभावविवक्षयैकस्यापि वस्तुनो भेदमुपकल्प्य प्रतीयमानसादृश्यमौपम्येनाभिहितमिति सेयमनन्वयोपमानाम विकृतरूपोपमासु प्रपञ्चोपमाभक्तिः॥

“त्वदित्यादि”। विवृतोऽयं लाटानुप्रासे। इहान्या त्वत्सदृशी नेत्युपमानान्तरसम्बन्धाभावोऽनन्वयः। तदुपमितिः कथं तस्या भेदगर्भत्वादत आह—“एकस्यापीति”। तथा चाभेदेऽपि भेदकल्पनाददोषः। औपम्येनोपमायाः, स्वार्थे कः ष्यञ्। इत्युपमालङ्कारनिरूपणम्॥

रूपकालङ्कारनिरूपणम्।

रूपकलक्षणमाह—

यदोपमानशब्दानां गौणवृत्तिव्यपाश्रयात्।
उपमेये भवेद्वृत्तिस्तदा तद्रूपकं विदुः॥ २४॥

“यदेति”। यदोपमानपदानां पद्मादीनामुपमेयेषु मुखादिषु वृत्तिर्बोधकता भवे-त्तदा रूपकम्। कथमन्यस्यान्यबोधकतातिप्रसङ्गात्। तत्राह—“गौणेति”। गौणवृत्तिर्गैणी तदाश्रयणात्। तथा च गौणान्यस्यान्यबोधकता। एवं च यत्रोपमानोपमेयपदाभ्यामभेदो गुणादिपुरस्कारेण बोध्यते तत्र रूपकं, यत्र सादृश्यमात्रं तत्रोपमेति तयोर्भेदः॥

विभागमाह—

शब्दार्थोभयभूयिष्ठभेदात्त्रधा तदुच्यते।
शब्दभूयिष्ठमेतेषु प्रकृतं विकृतं तथा॥ २५॥

अर्थभूयिष्ठमप्याहुः प्राधान्येङ्ग्यङ्ग्योर्द्विधा।
द्विधैवोभयभूयिष्ठं शुद्धसङ्कीर्णभेदतः॥ २६॥

“शब्देति”। प्रथमं यावद्रूपकं त्रिधा—शब्दभूयिष्ठार्थभूयिष्ठतदुभयभूयिष्ठभेदात्। तत्र शब्दभूयिष्ठं प्रकृतविकृतभेदाद्द्विध्य, अर्थभूयिष्ठमङ्गिप्रधानाङ्गप्रधानभेदाद्द्विधा, उभयभूयिष्ठमपि शुद्धसङ्कीर्णभेदाद्द्विधेति विभागः॥

तत्र प्रकृतशब्दभूयिष्ठविभागमाह—

चतुर्धा प्रकृतं तेषु शब्दभूयिष्ठमुच्यते।
समस्तं व्यस्तमुभयं सविशेषणमित्यपि॥ २७॥

तेषु समस्तं यथा—

‘पाणिपद्मानि भूपानां सङ्कोचयितुमीशते।
त्वत्पादनखचन्द्राणामर्चिषः कुन्दनिर्मलाः॥ २५॥’

अत्र ‘उपमितं व्याघ्रादिभिः सामान्याप्रयोगे २।१।५६’ इति समासे पद्मानीव पद्मानि चन्द्रा इव चन्द्रा इत्यभेदोपचारेणोत्पन्नसादृश्यात्पाणीनां नखानां च पद्मचन्द्रादिभिरभिधाने सामान्येवादिशब्दाप्रयोगादुपमानार्थस्तिरोभूत इति सोऽयं गौणशब्दव्यपाश्रयः समासहेतुकः समस्तरूपं नाम प्रकृतरूपकेषु शब्दभूयिष्ठरूपकभेदः॥

“चतुर्धेति”। “पाणीति”। त्वत्पादनखचन्द्राणामर्चिषस्तेजांसि भूपानां करकमलानि सङ्कोचयितुं निमीलयितुमीशते समर्था भवन्ति। अर्चिषः कीदृश्यः। कुन्दपुष्पवदमलाः। ‘अर्चिर्हेतिः शिखा स्त्रियाम्’ इत्यमरः। पाणिः पद्ममिव नखश्चन्द्र इवेत्यत्र ‘उपमितं व्याघ्रादिभिः सामान्याप्रयोगे २।१।५६’ इति समासः। इह सामान्यस्येवादेरप्रयोगेणाभेदोपचारादुपमानार्थस्तिरोभूत इति गौणीपुरस्कारः। तिरोभूतत्वं च परमार्थतः सन्नपि भेदो न भासत इति, तत्तु समासेनैव कृतम्, अत एव शब्दप्राचुर्याच्छब्दभूयिष्ठता॥

व्यस्तं यथा—

‘अङ्गुल्यः पल्लवान्यासन्कुसुमानि नखार्चिषः।
बाहू लते वसन्तश्रीस्त्वं नः प्रत्यक्षचारिणी॥ २६॥’

अत्रापि पूर्ववत्पल्लवकुसुमलतावसन्तश्रीशब्दानां गुणवृत्त्याश्रयेणाङ्गुलीनखार्चिर्बाहुवर्णनीयनामिकाभिः सह सामानाधिकरण्यात्सामान्येवादिशब्दाप्रयोगाच्च तिरोभूतेऽप्युपमानार्थे समासो न कृत इत्यसमस्तरूपं नाम प्रकृतरूपकेषु शब्दभूयेष्ठरूपकभेदः॥

“अङ्गुल्य इत्यादि”। हे सुन्दरि, त्वं नोऽस्माकं प्रत्यक्षचारिणी दृष्टिविषया पादविहारिणी वा वसन्तस्य श्रीरसि। अभेदोपचारे बीजमाह—तवाङ्गुल्यः पल्लवान्यासन्। नखदीप्तयः पुष्पाण्यासन्। बाहू लते बाहुद्वयं च लताद्वयम्। ‘पल्लवोऽस्त्री किसलयम्’ इत्यमरः। उपमानोपमेयभेदमाह—“सामान्येति”। इह समासाभावाव्द्यस्तरूपता॥

समस्तव्यस्तं यथा—

‘स्मितं मुखेन्दौ ज्योत्स्ना ते प्रभाम्बु कुचकुम्भयोः।
दोर्लतापल्लवे पाणौ पुष्पं सखि नखार्चिषः॥ २७॥’

अत्र मुखेन्दोः स्मितमेव ज्योत्स्ना, कुचकुम्भयोः प्रभैवाम्बु, दोर्लतयोः पल्लवभूते पाणौ नखार्चिष एव पुष्पमिति समस्तानामसमस्तानां च गौणशब्दानामुपमातिरस्कारेण दर्शितत्वादिदं समस्तव्यस्तरूपं नाम प्रकृतरूपकेषु शब्दभूयिष्ठरूपकभेदः॥

“स्मितमित्यादि”। हे सखि, तव मुखेन्दौ स्मितमीषद्धासो ज्योत्स्नास्ति। कुचकुम्भयोः प्रभा दीप्तिरम्बु जलम्। बाहुलतायाः पल्लवभूते मणौ नखदीप्तयः पुष्पम्। ‘नीरक्षीराम्बुशम्बरम्’ इत्यमरः। वादिव्यतिरेकादुपमातिरस्कारः। इह प्रथमं समस्तं ततोऽसमस्तमिति समस्तव्यस्तता॥

सविशेषणं यथा—

‘हरिपादः शिरोलग्नजह्नुकन्याजलांशुकः।
जयत्यसुरनिःशङ्कसुरानन्दोत्सवध्वजः॥ २८॥’

अत्र यथोक्तविशेषणविशिष्टो यो हरिपादो यश्च हरिहतासुरेभ्यो निःशङ्कानां सुराणामानन्दोत्सवे ध्वजस्तयोः सविशेषणयोरेव प्रतीयमानसादृश्ययोः परस्परमुपमानोपमेयभाव इति सविशेषणं नाम प्रकृतरूपकेषु शब्दभूयिष्ठरूपकभेदः। तदेतच्चतुष्टयमपि प्रकृतसमासादिशब्दैर्निबद्धमिति प्रकृतमुच्यते॥

“हरीत्यादि”। शिरसि अग्रं लग्नं बलिवञ्चने त्रिविक्रमदशायां ब्रह्माण्डाप्तौ ब्रह्मणा पाद्यार्थमावर्जितं यज्जह्नुकन्याया गङ्गाया जलं तदेवांशुकं वस्त्रमिव यत्र तादृशो हरेर्वामनरूपस्य पादो बलिविजयादसुरेभ्यो निःशङ्कानां देवानां हर्षोत्सवे ध्वज एव जयति। अत एव जाह्नवीजलमंशुकत्वेन रूपितम्, तेन विना ध्वजानुपपत्तेः ‘शिरोऽग्रे मस्तकेऽपि च’ इति मेदिनीकारः। इह पादध्वजयोर्विशेषणवतोरेव रूपणात् सविशेषणरूपकता। प्रकृतत्वं प्रस्तुतत्वम्। तच्च समासादिभिरेवेति प्रकृतरूपकता॥

विकृतशब्दभूयिष्ठं विभजते—

चतुरो विकृतस्यापि प्रभेदान्प्रतिजानते।
परम्पराथ रशनामालारूपकरूपकम्॥ २८॥

“चतुर इति”। विकृतस्यापि चतुरो भेदान् प्रतिजानते स्वीकुर्वन्ति। धीरा इति शेषः॥

तेषु परम्परा यथा—

‘ववसाअरइप्पओसो रोसगइन्ददिढसिङ्खलापडिबन्धो।
कह कह वि दासरहिणो जअकेसरिपञ्जरो गओ घणसमओ २९’

[व्यवसायरविप्रदोषो रोषगजेन्द्रदृढशृङ्खलाप्रतिबन्धः।
कथं कथमपि दाशरथेर्जयकेसरिपञ्जरो गतो घनसमयः॥

अत्र दाशरथिसम्बन्धिनो व्यवसायस्य रविणा, रोषस्य गजेन्द्रेण, जयस्य केसरिणा सहोपमानोपमेयभावकल्पनया यदेकं रूपणमथैतत्सम्बन्धितया प्रदोषशृङ्खलाप्रतिबन्धपञ्जराणां द्वितीयं तत्र त्रयाणामपि घनसमयेन तृतीयं तेनेदं रूपकं परम्परानाम विकृतरूपकेषु शब्दभूयिष्ठरूपकभेदः॥

“ववसाअ इत्यादि”। ‘व्यवसायरविप्रदोषो रोषगजेन्द्रदृढशृङ्खलाप्रतिबन्धः। कथं कथमपि दाशरथेर्जयकेसरिपञ्जरो गतो घनसमयः॥’ अत्र दाशरथे रामस्य कथं कथमपि कष्टसृष्ट्या घनसमयो वर्षर्तुरतीतः। कीदृशः। व्यवसायः कार्योद्योगः स एव रविस्तेजोमयत्वात्तस्य प्रदोषोऽस्तगमनकालः। दोष एव गजेन्द्रो दुर्निवारत्वात्तस्य दृढशृङ्खलाप्रतिबन्धः प्रतिबन्धकत्वात्। जय एव केसरी तस्य पञ्जरो गृहभेदो नियामकत्वात्। ‘शृङ्खला निगडे त्रिषु’ इति भेदिनीकारः। इह रामसम्बन्धिसम्बन्धिरूपणात्परम्परारूपकम्। सम्बन्धिसम्बन्धित्वादेव विकृतत्वम्॥

रशना यथा—

‘किसलयकरैर्लतानां करकमलैर्मृगदृशां जगज्जयति।
नलिनीनां कमलमुखैर्मुखेन्दुभिर्योषितां मदनः॥ ३०॥’

अत्र किसलयकरैः, करकमलैः, कमलमुखैः, मुखेन्दुभिरिति रशनाक्रमेण शब्दानां सन्दर्भ उपलभ्यमानस्तदर्थानां मनोभुवो जगद्विजये लतादिसम्बन्धात्करणभावमनुमापयतीति रशनानामैतद्विकृतरूपकेषु शब्दभूयिष्ठरूपकभेदः॥

“किसलयेत्यादि”। मदनः कामो हरिणाक्षीणां हस्तपद्मैर्लतानां किसलयकरैर्जगज्जयति। योषितां मुखचन्द्रैः पद्मिनीनां पद्ममुखैश्च जगज्जयति। इह रशना क्षुद्रघण्टिका तस्याः क्रमः पश्चाद्वलनयैकैकप्रथना शब्दगता प्रतीयत इति रशनारूपकमिदम्॥

माला यथा—

‘स्वामी दुर्नयवारणव्यतिकरे शौर्योपदेशे गुरु- र्विस्रम्भे हृदयं नियोगसमये दासो भये चाश्रयः।
दाता सप्तसमुद्रसीमरशनादामाङ्कितायाः क्षितेः सर्वाकारमहो स्वयंवरसुहृत्को वा न कर्णो मम॥ ३१॥’

अत्र स्वाम्यादीनां मालोपमादिक्रमेण निरूपितत्वान्मालारूपकं नाम विकृतरूपकेषु शब्दभूयिष्ठरूपकभेदः॥

“स्वामीत्यादि”। को वा न, अपि तु सर्व एव। तदेवाह—दुर्नयस्य वारणे निवारणे व्यतिकर आसङ्गस्तत्र स्वामी प्रभुः। दुर्नयनिवारक इत्यर्थः। शौर्यस्योपदेशे गुरुरुपदेष्टा। विस्रम्भे हृदयं विश्वासपात्रम्। नियोग आज्ञा तत्काले दासः। भये आश्रयश्च। सप्तसमुद्रसीमान एव रशनादाम तच्चिह्निताया भूमेर्दाता। अहो आश्चर्यं सर्वाकारं यथा स्यादेवं स्वयंवरसुहृत् सहजमित्रं च, निरुपधित्वं स्वयंवरशब्दार्थः। हृदयमित्यजहल्लिङ्गतयान्वयः। ‘आज्ञा नियोग आदेशः’ इत्यमरः। इह विस्तरेण रूपितत्वान्मालारूपकम्॥

रूपकरूपकं यथा—

‘मुखपङ्कजरङ्गेऽस्मिन्भ्रूलता नर्तकी तव।
लीलानाट्यामृतं दृष्टौ सखि यूनां निषिञ्चति॥ ३२॥’

अत्र मुखमेव पङ्कजं तदेव रङ्गः, भ्रूरेव लता सैव नर्तकी, लीलैव नाट्यं तदेवामृतमिति रूपितानामपि रूपणेन समासेन रूपकरूपकं नामायं विकृतरूपकेषु शब्दभूयिष्ठरूपकभेदः। तदेतच्चतुष्टयमपि परम्परादिभिर्विकृतसमासादिशब्दैर्निबद्धमिति विकृतमुच्यते॥

“मुखेत्यादि”। हे सखि, तव भ्रूलतास्मिन्मुखपद्मरङ्गे नर्तकी यूनां दृष्टौ नेत्रे लीलानाट्यामृतं निषिञ्चति। लीलाविलास एव नाट्यं नृत्यं तदेवामृतम्। इह मुखं पङ्कजेन रूपयित्वा रङ्गत्वेन रूपितम्, एवं भ्रुवौ लतात्वेन रूपयित्वा नर्तकीत्वेन रूपिते। लीलैव नाट्यं तदेवामृतमिति रूपितरूपणाद्रूपकरूपकम्॥

अर्थभूयिष्ठरूपकेऽङ्गिप्रधानं विभजते—

समस्तं चासमस्तं च युक्तं चायुक्तमेव च।
चतुर्धाङ्गि प्रधानं स्यादर्थभूयिष्ठरूपकम्॥ २९॥

तेषु समस्तं यथा—

‘ताम्राङ्गुलिदलश्रेणिनखदीधितिकेसरम्।
ध्रियते मूर्ध्नि भूपालैर्भवच्चरणपङ्कजम्॥ ३३॥’

अत्र समस्तोपमायामिव पादाख्यः पङ्कजाख्यश्चावयवी परस्परमुपमानोपमेयभूतः प्रतीयमानाभिधीयमानसादृश्यैरङ्गुलिश्रेणिनखदीधितिभिर्दलश्रेणिकेसरैश्च सह सामस्त्येन रूपितस्तद्योग्यस्थानविन्यासेन चार्थस्य प्राधान्यमभिहितमिति समस्तं नाम रूपकमिदमङ्गिप्रधानरूपकेष्वर्थभूयिष्ठरूपकभेदः। न चैतद्वाच्यम्—ऽपाणिपद्मानि भूपानाऽमित्यादेरुदाहरणादिदं न भिद्यत इति। तत्र हि नखार्चिषां क्रियासमावेशेन प्राधान्यमवगम्यते, न नखचन्द्राणां ततश्च न रूपकम्। पाणिपद्मेत्यस्य तु यद्यपि सङ्कोचक्रियायामस्ति समावेशस्तथापि न तानि वर्णनीयत्वेनोपन्यस्तानि, अपि तु जिगीषुभाववर्णनाङ्गतया। अतः समावेशमात्रभणनान्न तत्र पाणिपद्मानां नापि नखचन्द्राणामर्थप्राधान्यमपि तु शब्दप्राधान्यमेव। इह तु चरणपङ्कजताम्राङ्गुलिदलश्रेण्यादिविशेषणविशिष्टस्य भूपालमौलिविनिवेशनेन प्राधान्यं प्रतीयत इत्युभयमपि निरवद्यम्॥

“समस्तमिति। ताम्रेत्यादि”। भवच्चरणपद्मं नृपैर्मस्तके ध्रियते। कीदृशम्। ताम्राङ्गुलयो दलश्रेणिः पत्त्रपङ्क्तिर्यत्र तत्। नखदीधितयः केसराणि यत्र तत्। “समस्तेति”। यथा समस्तोपमायामवयविनोः सामस्त्येनोपमा, तथात्राप्यवयविनोरेव प्राधान्येन सामस्त्येन रूपकमित्यर्थः। अङ्गुल्यादौ प्रतीयमानता दलादावभिधीयमानता। तर्हि शब्दभूयिष्ठत्वमेव स्यादत आह—“तद्योग्येति”। शब्दोपस्थापितानामर्थानामिह यथास्थानं विनिवेशादर्थप्राधान्यमित्यर्थभूयिष्ठत्वमुक्तमित्यर्थः। शब्दभूयिष्ठरूपकभेदे समस्तेऽतिव्याप्तिमाशङ्कते—“न चेति”। तत्रापि नानाशब्दोपस्थापितानामर्थानामवयविनोरेव प्राधान्यमतो नानयोर्भेद इत्याशयः। परिहरति—“तत्र हीति”। तत्रार्चिषां प्राधान्यं साक्षात्क्रियान्वयात्, समर्थानामवयविनोरेव प्राधान्यमतोऽनयोर्भेद इत्याशयः। नखचन्द्राणां तदङ्गतयान्वयः। तर्ह्यर्चिषामेव रूपकत्वमस्तु, तथापि स दोषस्तदवस्थ एवेत्यत आह—“ताश्चेति”। ता अर्चिषः। पाणिपद्मानीत्यत्र रूपकत्वे दोषतादवस्थ्यादाह—“पाणीति”। जिगीषुभाववर्णनायां मुख्यत्वेनाङ्गतया पाणिपद्माद्यन्वय इति शब्दप्राधान्यमेव। प्रकृते तु चरणादेरवयविनः प्रधानक्रियान्वय इत्यर्थप्राधान्यमिति भेदः॥

असमस्तं यथा—

‘अकस्मादेव ते चण्डि स्फुरिताधरपल्लवम्।
मुखं मुक्तारुचो धत्ते घर्माम्भःकणमञ्जरीः॥ ३४॥’

अत्राप्येकदेशोपक्रमेणाधरपल्लवस्वेदाम्बुकणमञ्जरीणां सहजाहार्यावयवानामभिधानादुपमानावयविनश्चानभिधानादिदमसमस्तं नाम रूपकमङ्गिप्रधानेष्वर्थभूयिष्ठरूपकभेदः। अत्रापि च स्फुरिताधरपल्लवमिति विशेषणविशिष्टस्य मुख्यवस्तुनः घर्माम्भःकणमञ्जरीधारणक्रियासमावेशः प्राधान्यं स्थापयति॥

“अकस्मादित्यादि”। हे चण्डि कोपने, तव स्फुरिताधरपल्लवं मुखं कर्तृ, अकस्मादेव कारणं विनैव मौक्तिकच्छाया घर्माम्बुकणमञ्जरीर्धत्ते बिभर्ति। “अत्रापीति”। यथैकदेशोपमायामवयवानां प्राधान्यं तथात्राप्यवयवानामेव प्राधान्यादसमस्तरूपकत्वम्। एवं चावयविनो मुखस्य रूपकाभावादवयवरूपकमिदमिति भावः। सहजावयवताधरे आहार्यावयवतौपचारिक्यवयवता घर्माम्भःकणस्यावयवाश्रयत्वात्। उपमानावयविनो लताख्यस्य। शब्दभूयिष्ठरूपकभेदासमस्तरूपकादस्य भेदमाह—“अत्रापीति”। इहोक्तयुक्त्यार्थप्राधान्यमिति भेदः॥

युक्तं यथा—

‘स्मितपुष्पोज्ज्वलं लोलनेत्रभृङ्गमिदं मुखम्।
न कस्य नन्दनं सुभ्रु सुरभिश्वसितानिलम्॥ ३५॥’

अत्र स्मितपुष्पोज्ज्वलं लोलनेत्रभृङ्ग सुरभिश्वसितानिलं ते मुखं न कस्य नन्दनमिति पुष्पभृङ्गादीनां परस्परं युक्त्युपपत्तेर्युक्तं नामायमङ्गाङ्गिप्रधानरूपकेष्वर्थभूयिष्ठो रूपकभेदः। अत्र यद्यपि नन्दनमिव नन्दन-मिति गौणवृत्तिव्यपाश्रयः शब्द एव समस्तविशेषणैः परिष्क्रियते तथापि नन्दयतीति नन्दनमिति कृदभिहितक्रियासमावेशे मुखाख्यस्यैव वस्तुनः प्राधान्यमवगम्यते तस्य त्वपह्रियत इत्यर्थप्रधानमेवैतत्॥

“स्मितेत्यादि”। हे सुभ्रु, तवेदं मुखं कस्य न नन्दनं हर्षजनकमपि तु सर्वस्यैव। नः शिरश्चालने। कीदृशम्। स्मितमेव पुष्पं तेनोज्ज्वलं दीप्तिमत्। लोलनेत्रे एव भृङ्गौ यत्र तत्। सुरभिः श्वासानिलो यत्र तत्। युक्तिर्योगः उपपत्तिश्चोभयमपि विवक्षितमिह। तथा हि पुष्पभ्रमरयोर्युक्तिर्योगः पुष्पैः सह भ्रमराणां मकरन्दपानकृतः सम्बन्धः। अत एवोपपद्यते पुष्पभ्रमरयोरेकत्रावस्थानम्, न हि पुष्पाणि भ्रमरैर्विना शोभन्त इति युक्तरूपकतेत्याशयवानाह—“परस्परमिति”। नन्दनमिव नन्दनमिति शब्दप्राधान्येऽपि नन्दयतीति नन्दनमिति कृदभिहितो भावो द्रव्यवत्प्रकाशत इति वचनादन्यप्राधान्यमेव विवक्षितमिति शङ्कोत्तराभ्याम्॥

अयुक्तं यथा—

‘इदमार्द्रस्मितज्योत्स्नं स्निग्धनेत्रोत्पलं मुखम्।
जगन्नेत्रेन्दुरस्माकं कथं तापाय कल्पते॥ ३६॥’

अत्र ज्योत्स्नोत्पलयोरयोगाज्जगन्नेत्रेन्दोश्च मुखस्य सन्तापकारणमिदमयुक्तं नामाङ्गिप्रधानरूपकभेदेष्वर्थ भूयिष्ठरूपकभेदः। अत्रापि पूर्ववन्मुरवाख्यवस्तुनो विशेषणैः परिष्करणमिति तस्यैव प्राधान्यमवगम्यते॥

“इदमित्यादि।” हे कान्ते, तवेदं मुखं जगन्नेत्राणामिन्दुरस्माकं तापाय कथं कल्पते शक्तो भवति। कीदृशम्। आर्द्रस्मितं सरसेषद्धास एव ज्योत्स्ना यत्र तत्। स्निग्धं नेत्रोत्पलं यत्र तत्। स्मितस्यार्द्रत्वेन स्नेहजनितता लक्ष्यते, कोपस्मितस्य सूक्ष्मत्वात्। इह ज्योत्स्नाया उत्पलस्य च सहानवस्थानं तच्च मिथोऽनुपकार्योपकारकभावादित्ययुक्तरूपकता। अर्थप्राधान्यं पूर्वोक्तयुक्त्यात्रापीत्याह—“अत्रापीति”॥

अर्थभूयिष्ठरूपकेऽङ्गप्रधानं विभजते—

भेदानङ्गप्रधानस्य चतुरोऽवयवाश्रयान्।
सहजाहार्यतद्योगतद्वैषम्यैः प्रचक्षते॥ ३०॥

तेषु सहजावयवं यथा—

‘पप्फुरिअउट्ठदलअं तक्खणविगलिअरुहिरमहुविच्छड्डम्।
उक्खडिदअण्ठणालं पडिअं फुडदसणकेसरं मुहकमलम्॥ ३७॥’

[प्रस्फुरितोष्ठदलं तत्क्षणविगलितरुधिरमधुविच्छर्दम्।
उत्खण्डितकण्ठनालं पतितं स्फुटदशनकेसरं मुखकमलम्॥]

अत्रौष्ठादीनां दलादीनां च मुखाम्भोजावयवानां स्फुरितविगलितोत्खण्डितस्फुटविशेषणविशिष्टानां परस्परमुपमानोपमेयभावरूपितानां मुखपक्षे कमलपक्षे च सहजत्वं गम्यत इति सहजावयवो नामायमङ्गप्रधानरूपकेष्वर्थभूयिष्ठरूपकभेदः। नैतद्वाच्यम्—ताम्राङ्गुलिदलश्रेणीत्यादेरर्थप्रधानभेदादिदं न भिद्यत इति। तत्र हि भूपालमौलिधारणक्रियासमावेशेनावयविनः प्राधान्यं विवक्षितम्, इह तु पतनक्रियायामवयवानामत एव ते स्फुरितादिविशेषणैर्विशिष्यन्ते॥

“भेदानिति”। तयोः सहजाहार्ययोर्योगस्तद्योगः, तयोर्वैषम्यं विषमावयवता। पप्फुरिअ इति। इह मुखमेव कमलं तत्पतितम्। कीदृशम्। प्रस्फुरितमोष्ठपुटमेव दलं पत्रं यत्र तत्। तत्कालविगलितरुधिरमेव मधुप्रवाहो यत्र तत्। विच्छर्दः प्रवाहः। उत्खण्डितकण्ठ एव नालो यत्र तत्। स्फुटदशना एव केसराणि यत्र तत्। इह मुखस्यौष्ठादीनि पद्मस्य पत्रादीन्यवयवास्ते च सहजा इति तत्प्राधान्यादिदं सहजावयवरूपकम्। न च ताम्राङ्गुलीत्यनेनावयविप्रधानेनास्याभेद इति वाच्यम्, तत्राङ्गिप्राधान्यस्य विवाक्षितत्वादिहाङ्गप्राधान्यस्य तत्त्वादित्याह—“न चेति”॥

आहार्यावयवं यथा—

‘तो कुम्भअण्णपडिवअणदण्डपडिघट्टिआमरिसघोरविसो।
गलिअंसुअणिम्मोओ जाओ भीसणणरो दसाणणभुअओ॥ ३८॥’

[ततः कुम्भकर्णप्रतिवचनदण्डपरिघट्टितामर्षघोरविषः।
गलितांशुकनिर्मोको जातो भीषणनरो दशाननभुजगः॥]

अत्र कुम्भकर्णप्रतिवचनममर्षोऽशुकमिति दशाननपक्षे दण्डो घोर-विषं निर्मोक इति भुजगपक्षे येऽवयवास्तेषामाहार्यत्वादिदमाहार्यावयवं नाम रूपकमङ्गप्रधानरूपकेष्वर्थभूयिष्ठरूपकभेदः। अत्रापि कुम्भकर्णसम्बन्धपरिघट्टितगलितविशिष्टानामवयवानामेव दशाननभुजगभीषणतरीकरणक्रियायां प्राधान्यमवगम्यते॥

“तो इत्यादि।” ‘ततः कुम्भकर्णप्रतिवचनदण्डपरिघट्टितामर्षघोरविषः। गलितांशुकनिर्मोको जातो भीषणनरो दशाननभुजगः॥’ ततोऽनन्तरं दशानन एव भुजगः सर्पः सोऽतिभयानको जातः। कीदृशः। कुम्भकर्णप्रतिवचनमेव दण्डस्तेन परिघट्टित उत्थापितोऽमर्ष एव घोरविषं यस्य सः। गलितश्च्युतोंशुकं वस्रमेव निर्मोकः कञ्चुको यस्य सः। ‘समौ कञ्चुकनिर्मोकौ’ इत्यमरः। इह प्रतिवचनादीनामवयवत्वाभावादाहार्यावयवता, तेषामेव प्राधान्यादाहार्यावयवरूपकमिदम्॥

उभयावयवं यथा—

‘यस्या बीजमहङ्कृतिर्गुरुतरो मूलं ममेतिग्रहो नित्यत्वस्मृतिरङ्कुरः सुतसुहृद्भृत्यादयः पल्लवाः।
स्कन्धो दारपरिग्रहः परिभवः पुष्पं फलं दुर्गतिः सा मे त्वच्चरणार्हणापरशुना तृष्णालता लूयताम्॥ ३९॥’

अत्र बीजं मूलमङ्कुरः पुष्पं फलमिति लतापक्षे सहजाः, तृष्णापक्षे पुनरहङ्कृत्यादय आहार्यावयवा इति तदिदं सहजाहार्याणामवयवानां परस्परमुपमानोपमेयभावरूपणेनोभयावयवं नाम रूपकमिदमङ्गप्रधानरूपकेष्वर्थभूयिष्ठरूपकभेदः। अत्रापि चाहङ्कारममताध्रौव्यस्मरणसुतादिदारपरिग्रहपराभवदुर्गतीनामवयवानामेव बीजादिरूपेण रूपितानां भगवदाराधनकुठारेण तृष्णालता लूयतामिति प्रार्थनक्रियया समावेशेन प्राधान्यमवगम्यते॥

“यस्या इत्यादि”। सा मम तृष्णैव लता हे कृष्ण, त्वत्पादपूजापरशुना लूयतां छिद्यताम्, त्वच्चरणार्हणैव परशुः कुठारः। यस्यास्तृष्णालताया अहङ्कृतिरहङ्कार एव बीजमादिकारणम्, गुरुतरो ममेतिग्रहो ममत्वनिश्चयो मूलम्, नित्यमिदमिति स्मृतिरङ्कुरः, पुत्रमित्रभृत्यादयः किसलयाः, दाराणां पत्नीनां परिग्रहोऽनुरागः स्कन्धः, परिभवः पराभवः कुसुमम्, दुर्गतिर्नरकः फलम्। सर्वत्र यस्या इत्यन्वयः। ‘तरुप्रकाण्डे स्कन्धो ना’ इति विश्वः। ‘नरको निरयो दुर्गतिः स्त्रियाम्’ इत्यमरः। इह बीजादीनां सहजावयवता, अहङ्कृत्यादीनामाहार्यावयवता, तेषामेव च प्राधान्यं विवक्षितमित्युभयावयवप्रधानमिदम्। ध्रौव्यं नित्यता॥

विषमावयवं यथा—

‘मदरक्तकपोलेन मन्मथस्त्वन्मुखेन्दुना।
नर्तितभ्रूलतेनालं मर्दितुं भुवनत्रयम्॥ ४०॥’

अत्रेन्दुना मुखावयवी रूपितः, भ्रुवौ च तदवयवौ लतावयविभ्याम्, मदरक्तौ तु कपोलौ न केनापीति सर्वतो वेषम्याद्विषमावयवं नाम रूपकमिदमङ्गप्रधानरूपकेष्वर्थभूयिष्ठरूपकभेदः। अत्रापि मदरक्तनर्तितयोः कपोलभ्रुवोरेव मन्मथस्य जगत्रितयमर्दनक्रियायां प्राधान्यं साधकतमत्वमवगम्यते॥

“मदेत्यादि”। हे प्रिये, त्वन्मुखेन्दुना मन्मथो भुवनत्रयं मर्दितुं जेतुमलं समर्थोऽस्ति। कीदृशेन। मदरक्तौ कपोलौ यत्र तेन। नर्तिते भ्रूलते येन तेन। इह मुखमवयवि चन्द्रत्वेन रूपितम्, भ्रुवौ चावयवौ लतात्वेन, गण्डस्तु न केनापीति वैषम्यम्, प्राधान्यं चावयवानामेवेति विषमावयवरूपकता॥

शब्दार्थभूयिष्ठरूपके शुद्धरूपक विभजते—

आधारवन्निराधारं केवलं व्यतिरेकि च।
इति शब्दार्थभूयिष्ठं शुद्धमाहुश्चतुर्विधम्॥ ३१॥

तेष्वाधारवद्यथा—

‘सोहइ विसुद्धकिरणो गअणसमुद्दम्मि रअणिवेलालग्गो।
तारामुत्तावअरो फुडविहडिअमेहसिप्पिसम्पुडविमुक्को॥ ४१॥’

[शोभते विशुद्धकिरणो गगनसमुद्रे रजनीवेलालग्नः।
तारामुक्ताप्रकरः स्फुटविघटितमेघशुक्तिसम्पुटविमुक्तः॥]

अत्र समुद्रत्वेन रूपितं गगनमाधारं परिकल्प्य रजनीमेघतारकौ-घानां वेलाशुक्तिमुक्ताफलप्रकराणां च प्रतीयमानाभिधीयमानसादृश्यानां शब्दप्राधान्यतोऽर्थप्राधान्यतश्च रूपकं कृतमित्याधारवन्नाम रूपकमिदं शुद्धरूपकेषु शब्दार्थभूयिष्ठरूपकभेदः॥

“आधारवदिति। सोहइ इत्यादि”। इह गगनमेव समुद्रस्तत्र तारा एव सुक्तास्तासां प्रकरः समूहः शोभते। कीदृशः। विशेषेणातिशयेन शुद्धकिरणः। रजन्येव वेला तीरभूमिस्तत्र लग्नः सम्बद्धः। स्फुटविघटिता व्यक्तीभूय विदीर्णा मेघा एव शुक्तिसम्पुटास्तैर्विमुक्तश्च। इह सादृश्ये रजन्यादीनां प्रतीयमानता वेलादीनामभिधीयमानता, शुद्धरूपकता उपमाद्यसम्भेदात्। गगनस्याधारतयेदमाधारवद्रूपकम्॥

निराधारं यथा—

‘वणराइकेसहत्था कुसुमाउहसुरहिसञ्चरन्तधअवडा।
ससिअरमुहुत्तमेहा तमपडिहत्था विणेत्ति धूमुप्पीडा॥ ४२॥’

[वनराजिकेशहस्ताः कुसुमायुधसुरभिसञ्चरच्द्व्वजपटाः।
शशिकरमुहूर्तमेघास्तमःप्रतिहस्ता विज्ञायन्ते धूमोत्पीडाः॥]

अत्र धूमोत्पीडानां वनराजिकेशहस्तत्वेन कुसुमायुधसुरभिसञ्चरच्द्व्वजपटत्वेन शशिकरमुहूर्तमेघत्वेन च तमःप्रतिहस्तत्वेन च रूपितानां निराधाराणामेव शब्दप्राधान्यमर्थप्राधान्यं चावधार्यत इति निराधारं नाम रूपकमिदं शुद्धरूपकेषु शब्दार्थभूयिष्ठरूपकभेदः॥

“वणेत्यादि”। इह धूमसमूहा एतादृशा विज्ञायन्ते। कीदृशाः। वनराज्या वनपङ्क्तेः केशहस्ताः केशकलापा एव, ‘पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे।’ इत्यमरः। कुसुमायुधस्य कामस्य सुगन्धि चलद्ध्वजपटा एव चन्द्रकिरणानां मुहूर्तमेघा एव तमसामन्धकाराणां प्रतिहस्ताः प्रतिनिधयः। ‘प्रतिहस्तः प्रतिनिधौ’ इति विश्वः। इह धूमोत्पीडस्य वनराजिकेशकलापादेराधारत्वानुपपत्तेर्निराधाररूपकमिदम्॥

केवलं यथा—

‘वेल्लितभ्रु गलद्धर्मजलमालोहितेक्षणम्।
विवृणोति मदावस्थामिदं वदनपङ्कजम्॥ ४३॥’

अत्रावयविन एव केवलस्य वदनं पङ्कजमिवेति रूपणादस्य शब्दप्राधान्यं वेल्लितभ्रुप्रभृतिविशेषणोपादानाच्चार्थप्राधान्यमेव लक्ष्यते तेन केवलं नाम रूपकमिदं शुद्धरूपकेषूभयभूयिष्ठरूपकभेदः॥

“वेल्लितेति”। तवेदं वदनपङ्कजं कर्तृ मदावस्थां मद्यपानजां दशां विवृणोति प्रकाशयति। कीदृशम्। वेल्लिते नर्तिते भ्रुवौ यत्र यत्। आलोहिते अतिरक्ते ईक्षणे यत्र तत्। इह मुखपद्मरूपस्यावयविनः केवलस्य रूपणात्केवलरूपकमिदम्॥

व्यतिरेकवद्यथा—

‘अनाघ्रातं पुष्पं किसलयमलूनं कररुहै- ‘अनामुक्तं’ इति टीकाकारसम्मतः पाठःरनाविद्धं रत्नं मधु नवमनास्वादितरसम्।
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः॥ ४४॥’

अत्र पुष्पकिसलयरत्नमधुपुण्यफलानामनाघ्रातमित्यादिविशेषणापादितव्यतिरेकाणां प्रतीयमानसादृश्येन शकुन्तलारूपेण रूपणादर्थतः शब्दतश्च प्राधान्यमवधार्यत इति व्यतिरेकवन्नाम रूपकमिदं शुद्धरूपकेषूभयभूयिष्ठरूपकभेदः॥

“अनाघ्रातमित्यादि”। अनघमनवद्यं तस्या रूपमिह भुवि कं भोक्तारं समुपस्थितं करिष्यति तदहं न जाने। कीदृशम्। अनाघ्रातमगृहीतगन्धं पुष्पमेव। कररुहैर्नखैरलूनमखण्डितं किसलयम्। अनामुक्तमपरिहितम्, अनास्वादितरसमगृहीतास्वादं नूतनं मधु,पुण्यानां चाखण्डं सकलं फलमपि। ‘आमुक्तः परिहिते शुभ्रे’ इति विश्वः। इह पुष्पादीनामनाघ्रातादिना व्यतिरेकवतां रूपणाद्व्यतिरेकवद्रूपकमिदम्॥

शब्दार्थभूयिष्ठरूपके सङ्कीर्णरूपकं विभजते—

अथ सङ्कीर्णभेदानां चतुष्टयमिहोच्यते।
स्यात्सावयवसङ्कीर्णं तथानवयवाह्वयम्॥ ३२॥

तथैवोभयसङ्कीर्णं श्लेषोपहितमित्यपि।
सैषा रूपकभेदानां विंशतिश्चतुरुत्तरा॥ ३३॥

तेषु सावयवसङ्कीर्णं यथा—

‘रइअरकेसरणिवहं सोहइ धवलब्भदलसहस्सपरिगअम्।
महुमहदंसणजोग्गं पिआमहुप्पत्तिपङ्कअं व णहअलम्॥ ४५॥’

[रविकरकेसरनिवहं शोभते धवलाभ्रदलसहस्रपरिगतम्।
मधुमथदंशनयोग्यं पितामहोत्पत्तिपङ्कजमिव नभस्तलम्॥]

अत्र पितामहोत्पत्तिपङ्कजमिव नभस्तलं शोभत इत्युपमानोपमेयभावेनावयवावयविनोरभेदस्याविवक्षायामुपमैव न रूपकम्। रविकरधवलाभ्रदलसहस्रयोः केसरनिकरदलसहस्रयोश्च प्रतीयमानाभिधीयमानसादृश्ययोश्च सहजाहार्यावयवभूतयोरभेदोपचारेण रूपणमिति सावयवरूपेणोपमायाः सङ्कीर्णत्वादिदं सावयवसङ्कीर्णं नाम सङ्कीर्णरूपकेषूभयभूयिष्ठरूपकभेदः॥

“अथेति”। आह्वयो नाम। सर्वमेकीकृत्य गणयति—“सैषेति”। चतुर्विंशतिरित्यर्थः॥ “रइअरेत्यादि”। इह नभस्तलं शोभते पितामहस्य ब्रह्मण उत्पत्तिपद्ममिव तस्य पद्मयोनित्वात्। कीदृशम्। रविकराः सूर्यकिरणा एव केसरनिकरा यत्र तत्। धवलाभ्राणि श्वेतमेघा एव दलसहस्राणि तैः परिगतमन्वितम्। मधुमथस्य विष्णोर्दर्शनयोग्यम्, शरदि तस्य जागरणादस्य च रम्यत्वात्, पद्मपक्षेऽपि नाभिकमलतया मधुरिपुदर्शनयोग्यता। यद्वा मधुमथस्य भृङ्गस्य दंशनं कवलनं तद्योग्यम्। मधु मथ्नातीति मधुमथः मूलविभुजादित्वात्कः। ‘मधुमथो हरिभृङ्गयोः’ इति शाश्वतः। अत्र रविकरधवलाभ्रसहस्रयोः सहजाहार्यावयवयोः केसरनिवहत्वेन दलसहस्रत्वेन च रूपणात् पङ्कजनभस्तलयोरवयविनोरुपमानोपमेयत्वाच्च सावयवसङ्कीर्णरूपकमिदम्॥

निरवयवसङ्कीर्णं यथा—

‘दीहो दिअहभुअङ्गो रइबिम्बफणामणिप्पहं विअसन्तो।
अवरसमुद्दमुवगओ मुञ्चन्तो कञ्चुअंव घम्मअणिवहम्॥ ४६॥’

[दीर्घो दिवसभुजङ्गो रविबिम्बफणामणिप्रभां विकसमानः।
अपरसमुद्रमुपगतो मुञ्चन्कञ्चुकमिव घर्मनिवहम्॥]

अत्र दिवसावयविनो भुजङ्गावयविनश्चाभिधीयमानप्रतीयमानदैर्ध्य-दारुणादिधर्मयोरभेदोपचारेण रूपणमवयवानां चतुर्णां रविबिम्बातपफण्णामणिनिर्मोकाणां सत्यामप्यभेदोपचारयोग्यतायां द्वयोरिवशब्दप्रयोगेनोपमायां द्वयोस्तुल्यरूपणेऽप्यसामानाधिकरण्यान्नावयवावयविभावो विभाव्यत इति निरवयवस्योपमायां सङ्कीर्णत्वान्निरवयवसङ्कीर्णं नाम सङ्कीर्णरूपकेषूभयभूयिष्ठरूपकभेदः॥

“दीहो इत्यादि”। इह दिवस एव भुजङ्गः सर्पोऽपरसमुद्रं पश्चिमसमुद्रं गत इव। कीदृशः। दीर्घो महापरिमाणः। सूर्यबिम्बमेव फणामणिप्रभां विकासयन् आतपसमूहं कञ्चुकमिव त्यजन्। अत्रासामानाधिकरण्येनावयवावयविभावो न ज्ञायते, इवप्रयोगेण चोपमा ज्ञायत इति निरवयवसङ्कीर्णरूपकमिदम्॥

उभयसङ्कीर्णं यथा—

‘धुअमेहमहुअराओ घणसमआअड्ढि ओणअविमुक्काओ।
णहपाअवसाहाओ णिअअट्ठाणं व पडिगआओ दिसाओ ४७’

[धुतमेघमधुकरा घनसमयाकृष्टावनतविमुक्ताः।
नभःपादपशाखा निजकस्थानमिव प्रतिगता दिशः॥]

अत्र पादपरूपेण रूपितस्य नभसो यदेतद्दिशां शाखारूपेण रूपणं मेघानां च मधुकरप्रकरेण तदुभयमप्यन्यपदार्थषष्ठीसमासयोरभिधीयमानेन सावयवं निरवयवं चेत्युत्प्रेक्षया च सङ्कीर्यमाणमुभयसङ्कीर्णरूपकव्यपदेशं लभते। सोऽयं सङ्कीर्णरूपकेषूभयभूयिष्ठरूपकभेदः॥

“धुअ इत्यादि”। इह दिशो निजस्थानं स्वकीयस्थानं प्रतिगता इव। इवपदमुत्प्रेक्षायाम्। कीदृश्यः। धुता मेघा एव मधुकरा भ्रमरा यासु ताः। घनसमयेन वर्षाकालेन घनावरणादाकृष्टाः सन्निहितीकृता अवनता भूमिलग्नाः पश्चाद्विमुक्तास्त्यक्ताः। नभ एव पादपो वृक्षस्तस्य शाखाभूताः। अत्र धुतमेघपदे बहुव्रीहिः। नभःपादपपदे षष्ठीसमासस्ताभ्यां सावयवत्वं निरवयवत्वं च यथाक्रममुक्तम्। अत एवोभयसङ्कीर्णरूपकमिदं। ‘स्कन्धकं नाम छन्दःऽ।स्कन्धके, ध्वनिस्तु दिशन्तीति दिशः प्रौढनायिकाः। अन्या अपि दिशो निजस्थानमिव गच्छन्ति। कीदृश्यः धुतमेधं(ध्यं) यन्मधु मद्यं तत्करे यासां ताः। यद्वा धुता मेधा बुद्धिर्येन तादृशं मधु करे यासां ताः, यद्वा धुता मेधा यस्मादेवंविधो मधुकरो विदग्धो यासां ताः। घनेन दृढेन समयेन शपथेन समदेन पुंसा वा आकृष्टा आहता अवनता वशीकृताः। उपभुक्ता इति यावत्। पश्चाद्विमुक्तास्त्यक्ताः, यद्वा विमुक्ता विगतमुक्ताहाराः पश्चात्कर्मधारयः। ‘समयः शपथे काले’ इति विश्वः। नखस्य पातः क्षतं तदेव प्रसाधः प्रसाधनं यासां ताःपक्षे ‘नखपातप्रसाधाः’ इति॥

श्लेषोपहितं यथा—

‘पीणपओहरलग्गं दिसाणं पवसन्तजलअसमअविइण्णम्।
सोहग्गपढमइण्हं पम्माअइ सरसणहवअं इन्दधणुम्॥ ४८॥’

[पीनपयोधरलग्नं दिशां प्रवसज्जलदसमयवितीर्णम्।
सौभाग्यप्रथमचिह्नं प्रम्लायति सरसनखपदभिन्द्रधनुः॥]

अत्र सरसनखपदाकारस्येन्द्रधनुष उत्पन्नसादृश्यादभेदोपचारेण रूपेण योऽयं सरसे नभसि पदमस्येति व्युत्पत्त्या श्लिष्टरूपेण तद्विशेषणप्रकारो यश्च शोभायाः प्रथममग्र्यं चिह्नं सौभाग्यस्य च प्रथमं चिह्नं पीनपयोधरे मेघे स्तने वा लग्नमित्यादिविशेषणविशेष्यभावस्तेनेदं श्लेषेणोपधीयत इति श्लेषोपहितं नाम सङ्कीर्णरूपकेषूभयभूयिष्ठरूपकभेदः॥

“पीणेत्यादि”। इहेन्द्रधनुः प्रसाधयति॥॥॥ श्लिष्यति वा। कीदृशम्। पीने पयोधरे मेघे लग्नम्। प्रवसता गच्छता जलदसमयेन वर्षाकालेन दिशां वितीर्णं दत्तम्। सौभा‘शोभाग्रप्रथमचिह्नं’ इति वा छायाग्यस्य श्रेष्ठं प्रथममाद्यं चिह्नम्। सरसे स्निग्धे नभसि गगने पदं स्थानं यस्य तत्। पक्षे सरसं नखपदं क्रमेण प्रमीयते (प्रम्लायति)। कीदृशम्। दिशां प्रौढाङ्गनानां सुन्दरीणां वा पीने मांसले पयोधरे स्तने लग्नम्। प्रवसता जलदसमयेन नायकेन वितीर्णं दत्तम्। जलान् मूर्खान् द्यति खण्डयति जलद ईदृशः समय आचारो यस्य सः। सौभाग्यस्य प्रथमचिह्नमिन्द्रधनुराकारं च। ‘समयः स्यात्काल आचारे’ इति शाश्वतः। प्रवासगमने स्मरणार्थं विदग्धेन नखक्षतं देयम्। तदुक्तं मद्रसिकसर्वस्वे—ऽप्रवासगमने देयाः स्नेहसंस्कारका नखाः। चिरोत्सृष्टेषु रागेषु प्रीतिर्गच्छेत्पराभवम्॥ रागायतनसंस्मारि यदि न स्यान्नखक्षतम्। रेखास्तिस्रश्चतस्रश्च वक्रा वक्राकृतिर्नखः॥’ इति। अत्र श्लेषालङ्कारेणोपहितत्वादेव सङ्कीर्णरूपकता॥ इति रूपकालङ्कारनिरूपणम्।

साम्यालङ्कारनिरूपणम्।

साम्यलक्षणमाह—

द्वयोर्यत्रोक्तिचातुर्यादौपम्यार्थोऽवगम्यते।
उपमारूपकान्यत्वे साम्यमित्यामनन्ति तत्॥ ३४॥

तदानन्त्येन भेदानामसङ्ख्यं तस्य तूक्तयः।
दृष्टान्तोक्तिः प्रपञ्चोक्तिः प्रतिवस्तूक्तिरेव च॥ ३५॥

तत्रेवादेः प्रयोगेण दृष्टान्तोक्तिं प्रचक्षते।
इवादेरप्रयोगेण प्रपञ्चोक्तिं मनीषिणः॥ ३६॥

वस्तु किञ्चिदुपन्यस्य न्यसनात्तत्सधर्मणः।
साम्यप्रतीतिरस्तीति प्रतिवस्तूक्तिरुच्यते॥ ३७॥

तत्र क्रियाजातिगुणद्रव्ययोगादिहेतुके।
साम्ये पूर्वादिभेदेन दृष्टान्तोक्तिर्विधीयते॥ ३८॥

सा क्रियायोगनिमित्तसाम्या दृष्टान्तोक्तिः सामान्यतः पूर्वा यथा—

‘स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धधीरः।
जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत्॥ ४९॥’

अत्र दृष्टान्तदार्ष्टान्तिकयोरनाविष्टलिङ्गत्वादवश्याभिधेयत्वाच्च स्थित इत्यादिषु न लिङ्गभेददोषः। अभिधीयमानस्थानादिक्रियायोगजनितं साम्यं समस्तमूर्तिमत्साधारणश्च पूर्वमेव छायादृष्टान्तः। सेयं क्रियायोगनिमित्तसाम्या सामान्यतः पूर्वा नाम दृष्टान्तोक्तिः साम्यभेदः॥

“द्वयोरिति”। द्वयोरुपमानोपमेययोर्वचनरचनाभेदाद्यत्रौपम्यार्थतुल्यता ज्ञायते तत्साम्यमामनन्ति कथयन्ति। तर्ह्युपमारूपकयोरतिव्याप्तिः। अत उक्तम्—“उपमेति”। यद्यपि त्रिषु सादृश्यमस्ति तथापि प्रकारकृतो भेद इति भावः। तद्विभजते—“तस्य त्विति”। यद्यपि भेदानामानन्त्यादसङ्ख्यं तत्साम्यं तथापि तिस्र उक्तयः प्रकारानुगमकास्तत्रेत्यर्थः॥ “वस्त्विति”। वस्तु वाच्यं किमप्युपन्यस्य तत्सधर्मणस्तेन तुल्यगुणस्य न्यसनादुदाहरणात्साम्यज्ञानं प्रतिवस्तूक्तिरित्यर्थः॥ पूर्वादीत्यादिपदेनोत्तरग्रहणं क्रियायोग एव निमित्तं तत्कृतसाम्यात्। “स्थितेत्यादि”। स भूपतिर्दिलीपस्तां सुरभिमन्वगच्छदनुगच्छति स्म। अनुगमनमेवाह—स कीदृशः। स्थतोऽवस्थितः उच्चलितः प्रस्थितः, आसनवानुपविष्टः, जलाभिलाषी जलेच्छायुतश्च। जलाभिलायीतिपाठे ‘ला दाने’ ताच्छीलिके णिनि ‘आतो युक्-७।३।३३’ इति युकि जलपानशील इत्यर्थः। तां कीदृशीम्। स्थिताम्, प्रयातां कृतगमनाम्, निषेदुषीमुपविष्टाम्, जलमाददानां गृह्णन्तीं च। छायेव यथा छाया कमप्यनुगच्छति तथेत्यर्थः। एतासां क्रियाणामेकचित्ततयानुगमार्थं धीर इत्युक्तम्। ननु छायेव स इति लिङ्गभेददोषुष्टमेवेदम्। अतः कुतोऽलङ्कारतेत्यत उक्तम्—“अनाविष्टेति”। अविवक्षितलिङ्गत्वात्। नहि लिङ्गविवक्षायामिह किञ्चित्प्रयोजनम्। इयं चोपमा लौकिकी। लोके च छायाया आवरकानुगमनैयत्यं नत्वन्यस्येति तावन्मात्रमेवोद्देश्यमिहेति न दोषः। तदिदमुक्तम्—“अवश्येति”। सर्वक्रियायाः प्रथमत एव साम्यात्पूर्वेयम्। उपमायामेक एव वाक्यार्थः, इह तु वाक्यार्थयोर्भेद इति भित्रालङ्कारता॥

सैव क्रियागुणयोगनिमित्ता विशेषतः पूर्वा यथा—

‘सअलुज्जोइअवसुहे समत्थजिअलोअवित्थरन्तपआवे।
ठाइ ण चिरं रविम्मि व विहाणपडिआ वि मइलदा सप्पुरिसे ५०’

[सकलोद्द्योतितवसुधे समस्तजीवलोकविस्तीर्यमाणप्रतापे।
तिष्ठति न चिरं रवाविव विधानपतितापि मलिनता सत्पुरुषे॥]

अत्र जगदुद्द्योतनक्रिया प्रतापगुणयोगहेतुसाम्यमसाधारणश्च सूर्यदृष्टन्त इति विशेषतः क्रियागुणयोगनिमित्तेयं पूर्वा नाम दृष्टान्तोक्तिः साम्यभेदः॥

“सअलु इत्यादि”। इह सत्पुरुषे मलिनता चिरं न तिष्टति। कीदृशे। सकलोद्द्योतिता वसुधा येन तस्मिन्, समस्ते जीवलोके मर्त्यलोके विस्तीर्यमाणः प्रतापो यस्य तस्मिन्। मलिनता कीदृशी। विधानेन इतिकर्तव्यतया विधिना वापादितोत्पादिता। रवाविव यथा सूर्ये मलिनता चिरं न तिष्ठति तथेत्यर्थः। कीदृशे। सकलोज्ज्वलीकृतवसुधे समस्तजीवलोके विस्तीर्यमाणः प्रतापः प्रतपनं यस्य तस्मिन्। मलिनता कीदृशी। विहाणं प्रातः तस्मात्पतितापि। इहासाधारण्यमेव विशेषः, पूर्वतापि समस्तक्रियया प्रथमतः साम्येन॥

गुणयोगनिमित्तसाम्या सामान्यत उत्तरा यथा—

‘रूपं तदोजस्वि तदेव वीर्यं तदेव नैसर्गिकमुन्नतत्वम्।
न कारणात्स्वाद्बिभिदे कुमारः प्रवर्तितो दीप प्रतीपात् ५१’

अत्र रूपादिगुणयोगजन्मजनितं साम्य सामान्यरूपश्च पश्चात्प्रदीपदृष्टान्त इति सामान्यतो गुणयोगनिमित्तेयमुत्तरो नाम दृष्टान्तोक्तिः साम्यभेदः॥

“रूपमिति”। कुमारो बालकोऽजः, स्वान्निजात्कारणात्पितुर्न बिभिदे न भेदं जगाम। अभेदे हेतुमाह—ओजस्वि दीप्तं तद्रूपं, सौकुमार्यं तदेव, वीर्यं तेजस्तदेव, नैसर्गिकं स्वाभाविकमुन्नतत्वमुच्छ्रितत्वं च। यथा दीपात्प्रवर्तित उत्पादितो दीपः स्वात्कारणाद्दीपान्न भिन्नो भवति। अत्रापि रूपादिकं तुल्यमेव। दृष्टान्तस्य प्रकृतवाक्यार्थपर्यवसाने सति पश्चादन्वय इत्युत्तरता॥

सैव क्रियागुणद्रव्ययोगनिमित्ता विशेषतो यथा—

‘अव्वोच्छिण्णपसरिओ अहिअं उद्धाइ फुरिअसूरच्छाओ।
उच्छाहो सुभडाणं विसमक्खलिओ महाणर्इण व सोत्तो॥ ५२॥’

[अव्यवच्छिन्नप्रसृतोऽधिकमुद्धावति स्फुरितशूर(शौर्य)च्छायः।
उत्साहः सुभटानां विषमस्खलितो महानदीनामिव स्रोतः॥]

अत्राव्यवच्छिन्नप्रसृत इति क्रियायोगनिमित्तं स्फुरितशौर्यच्छाय इति गुणयोगनिमित्तं स्फुरितसूर्यच्छाय इति द्रव्ययोगनिमित्तं च साम्यं सामान्यविशेषरूपश्च विषमस्खलितमहानदीस्रोतोदृष्टान्त इति विशेषतः क्रियादियोगनिमित्तेयमुत्तरा नाम दृष्टान्तोक्तिः साम्यभेदः॥

“अव्वोच्छिण्णेति”। इह सुभटानामुत्साहो विषमे दुष्करो स्खलितः सत्रधिकं यथा स्योदेवमुद्धावति प्रकाशते। कीदृशः। अव्यवच्छित्रो निरन्तरः सन् प्रसृतः, स्फुरिता शूरस्य सुभटस्य शौर्यस्य वा छाया ख्यातिः कान्तिर्वा यत्र सः। यथा महानदीनां स्रोतः प्रवाहो विषमे देशे स्खलितः सन्नधिकमुद्धावति उद्गच्छति सोऽपि निरन्तरं प्रसृतः स्फुरिता सूरस्य छाया कान्तिः प्रतिबिम्बो वा यत्र सः। ‘प्रतिबिम्बे च कान्तौ च ख्यातौ छायार्कयोषिति।’ इति मेदिनीकारः। (ऽकार्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते।’ इति भरतः।) अत्र तादृशनदीस्रोतसो विशेषरूपता॥

द्रव्यजातिनिमित्तसाम्या सामान्यतः पूर्वा दृष्टन्तोक्तिर्यथा—

‘विसवेओ व्व पसरिओ जं जं अहिलेइ वहलधूमुप्पीहो।
सामलइज्जइ तं तं रुहिरं व महोअहिस्स विद्दुमवेण्टम् (ढम्) ५३॥’

[विषवेण इव प्रसृतो यं यमगभिलेढि(लीयते) बहलधूमोत्पीडः।
श्यामलयति(लायते) तं तं (तत्तदू)रुधिरमिव महोदधेर्विद्रुमवेष्टम् (पीठम्)॥]

अत्र धूमविषयोर्विद्रुमरुधिरयोश्च द्रव्यजातियोगकृतं प्रतीयमानं श्यामलायत इति धूमविषद्रव्ययोगजनितमभिधीयमानं सामान्यरूपं च साम्यम्। सेयं दृष्टान्तस्य पूर्वमेवोपन्यासाद्द्रव्यचातियोगनिमित्तसाम्या सामान्यतः पूर्वा नाम दृष्टान्तोक्तिः साम्यभेदः॥

“विसेति”। इह बहलधूमोत्पीडो महाधूमसमूहो विषवेग इव प्रसृतो यद्यद्विद्रुमपीठमभिलीयतेऽभिलाति गृह्णाति वा तत्तन्महोदधेर्विद्रुमपीठं श्यामलायते कज्जलीभवति। कीदृशम्। रुधिरमिव, इयं पूर्वदिशा। अभिलीयत इति अभिपूर्वात् लीङ् आश्लेषे दैवादिकः॥।। ‘स्यादुत्पीडः समूहेऽपि’ इति रत्नकोषः। अत्र जातेर्द्रव्यस्य सामान्यत एव साम्यमिति सामान्यरूपता दृष्टान्तस्य पूर्वामुपन्यासात्पूर्वता च॥

सैव द्रव्ययोगनिमित्तसाम्या विशेषतो यथा—

‘सञ्चारिणी दीपशिखेव रत्रौ यं यं व्यतीयाय पतिंवरा सा।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः॥ ५४॥’

अत्र दीपशिखादिद्रव्ययोगकृतं साम्यं सामान्यविशेषरूपौ सञ्चारिणी दीपशिखेति च राजमार्गाट्ट इति च दृष्टान्तौ पूर्वमेवोपन्यस्तौ। सेयं विशेषतो द्रव्ययोगनिमित्तसाम्या पूर्वा नाम दृष्टान्तोक्तिः साम्यभेदः॥

“सञ्चारिणीत्यादि”। सा पतिंवरा इन्दुमती यं यं भूमिपालं व्यतीयाय तत्याज स स भूमिपालो विवर्णभावं विवर्णत्वं प्रपेदे लेमे। यथा रात्रौ सञ्चरिणी दीपशिखा यं यं राजमार्गाट्टं व्यतिक्रामति स स राजमार्गाट्टो वैवर्ण्यं प्राप्नोति तथेत्यर्थः। व्यतीयायेति व्यतिपूर्वात् ‘इण् गतौ’ इति धातोर्लिटि रूपम्। अट्टो अटारीति प्रसिद्धः। ‘स्यादट्टः क्षौममस्त्रियाम्’ इत्यमरः। इह सञ्चरणत्वसामान्ययोगात्सामान्यरूपता, राजमार्गाट्ट इति विशेषरूपता॥

द्र्व्ययोगनिमित्तसाम्यैव सामान्यत उत्तरा यथा—

‘उज्ज्वलालोकया स्निग्धा त्वया त्यक्ता न राजते।
मलीमसमुखा वर्तिः प्रदीपशिखया यथा॥ ५५॥’

अत्र द्रव्ययोगकृतं साम्यं सामान्यरूपश्च प्रदीपः पश्चात्प्रदीपशिखावर्तिर्दृष्टान्तः। सेयं यथोक्तरूपोत्तरा नाम दृष्टान्तोक्तिः साम्यभेदः॥

“उज्ज्वलेत्यादि”। त्वया त्यक्ता स्निग्धा स्नेहवती सखी न राजते इति प्रियायाः सखीं प्रति पत्युर्वचनम्। त्वया कीदृश्या। उज्ज्वलो निर्मल आलोको दर्शनं यस्यास्तया। स्निग्धा कीदृशी। मलीमसं म्लानं मुखं यस्याः सा। यथा प्रदीपशिखया त्यक्ता वर्तिर्न शोभते तथेत्यर्थः। प्रदीपशिखया कीदृश्या। उज्ज्वल आलोक उद्द्योतो यस्यास्तया। वर्तिः कीदृशी। स्निग्धा स्नेहवती, स्नेहस्तैलम्। मलानमुखी च। ऽमलीमसं तु मलिनम्’ इत्यमरः। इह नायिकाशिखयोर्द्रव्ययोर्योगः। दृष्टान्तस्य सामान्यरूपता पश्चादुपादीयमानता च व्यक्तैव॥

सैव क्रियागुणयोगनिमित्तसाम्या विशेषतो यथा—

‘तो ताण हअच्छाअं णिच्चललोअणसिहं पउत्थपआवम्।
आलेक्खपईवाणं व णिअअं पइइचडुलत्तणं पि विअलिअम् ५६’

[ततस्तेषां हतच्छायं निश्चललोचनशिखं प्रोषितप्रतापम्।
आलेख्यप्रदीपानामिव निजकं प्रकृतिचटुलत्वमपि विगलितम्॥]

अत्र हतच्छायमित्यादीनामन्तर्गतगुणत्वेन क्रियाविशेषणत्वात् क्रियागुणयोगनिमित्तं निजं प्रकृतिचटुलत्वमपि विगलितमिति गुणयोगनिमित्तं च साम्यं सामान्यविशेषरूपश्चालेख्यप्रदीपदृष्टान्त इति क्रियागुणयोगनिमित्तेयं विशेषत उत्तरा नाम दृष्टान्तोक्तिः साम्यभेदः। अथ दृष्टान्तोक्तेर्दृष्टान्तालङ्कारस्य च को विशेषः। उच्यते। ‘लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः’ इत्यर्थं प्रति तु न कश्चिद्विशेषः। उक्तिं प्रति पुनरनेको विद्यते। तद्यथा—दृष्टान्तदार्ष्टान्तिकयोर्मित्रे वाक्ये निर्देशो दृष्टान्तालङ्कारः। एकवाक्ये निर्देशो दृष्टान्तोक्तिः। साध्यधर्मसिद्धये दृष्टान्तालङ्कारः, साधर्म्य[निमित्त]सिद्धये दृष्टान्तोक्तः। इवाद्यप्रयोगे दृष्टान्तालङ्कारः, इवादिप्रयोगे तु दृष्टान्तोक्तः। अत एवेयमुभयालङ्कारः स पुनरर्थालङ्कार इति॥

“तो ताणेत्यादि”। इह ततस्तेषां वानराणामालेख्यप्रदीपानामिव निजकमात्मीयं प्रकृतिचञ्चलत्वमपि विगलितमपगतम्। हता छाया प्रतिष्टा कान्तिर्वा यत्र तत्। पक्षे हता छाया आतपाभावरूपा यत्र तत्। निश्चलं लोचनमेव शिखा यत्र तत्। प्रोषितोऽन्तर्गतः प्रताप पौरुषं प्रतपनं च यत्र तत्। क्रियाविशेषणत्रयमिदम्। ‘निजमात्मीयनित्ययोः’ इति विश्चः। स्वार्थिकः कन्। अत्र छायादेर्गुणस्य क्रियाविशेषणतया क्रियाया गुणायोगः। प्रदीपस्य दृष्टान्त इति विशेषः। उत्तरा च व्यक्तैव। “अथेति”। उभयत्र साम्यमात्रस्योपजीवनादिति भावः। लौकिका लोकविदिताः, परीक्षकाः प्रमाणेन व्यवहारिणः। बुद्धिसाम्यस्योभयत्र तुल्यत्वादाह—“न कश्चिदिति”। अभेद एवेत्यर्थः। तर्ह्यभेद एव, नेत्याह—“उक्तिमिति”। वचनरचनयानेके भेदास्तयोरित्यर्थः। साध्येति साध्यो धर्मः सिसाधयिषितः। “साधर्म्येति”। साधर्म्यं समानधर्मता तस्या निमित्तं गुणादि तयोः सिद्धिरित्यर्थः। इवादिप्रयोगपुरस्कारेण शब्दालङ्कारता, साम्यादिपुरस्कारेण चार्थालङ्कारतेत्युभयालङ्कारतेत्याह—“अत इति”।

प्रपञ्चोक्तिं लक्षयति—

साम्योत्कर्षापकर्षोक्तेरुपमानोपमेययोः।
प्रकृता विकृता चेति प्रपञ्चोक्तिः प्रदर्श्यते॥ ३९॥

सोपमानोपमेययोः साम्येन प्रकृता यथा—

‘अरण्यबीजाञ्जलिदानलालितास्तथा च तस्यां हरिणा विशश्वसुः।
यथा तदीयैर्नयनैः कुतूहलात्पुरः सखीनाममिमीत लोचने॥ ५७॥’

अत्र मृगलोचनोपमानानां तल्लोचनोपमेययोश्च साम्यमविकृतानामेव प्रतीयते। सेयं सामान्येन प्रकृता नाम प्रपञ्चोक्तिः साम्यभेदः॥

“साम्येति”। उपमानोपमेययोः साम्येनोत्कर्षेणापकर्षेण च प्रपञ्चोक्तिः। सा च क्वचित्प्रकृता स्वभावसिद्धा, क्वचिद्विकृतौपाघिकी॥ “अरण्येत्यादि”। तस्यां गौर्यां च तथा तेन प्रकारेण हरिणा विशश्वसुः विश्वासं जगमुः। कीदृशाः। अरण्यबीजस्य अण्डोरीति ख्यातस्याञ्जलिदानेन लालिता विलासिताः। तदञ्जलिस्थनीवारधान्यभक्षका इत्यर्थः। यथा सा गौरी तदीयैर्मृगसम्बन्धिभिर्नेत्रैरग्रे सखीनां लोचनेऽमिमीत समीचकार कौतुकात्। अरण्ये बीजानि यस्य तदरण्यबीजम्। विशश्वसुरिति विपूर्वात् ‘श्वस प्राणने’ इत्यस्माल्लिट्युसि रूपम्। प्रमादोक्तिरेषा। जौहोत्यादेर्माधातोरिति तु न्याय्यम्अमिमीतेति ‘माङ् माने’ णिचि लुङि चङि रूपम्। इहाविकृतता मृगलोचनानां सहजसौकर्यात्। अत एव प्रकृतता प्रपञ्चोक्तिरिवादेरप्रयोगात्॥

प्रकृतैवोपमानोत्कर्षेण यथा—

‘गर्वमसंवाह्यमिमं लोचनयुगलेन वहसि किं मुग्धे।
सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि॥ ५८॥’

अत्र तव द्वे लोचनोत्पले एव, सरसां पुनर्बहूनि नीलोत्पलानीत्युपमानोत्कर्षः प्रकृत एव प्रतीयते। सेयमुपमानोत्कर्षेण प्रकृता नाम प्रपञ्चोक्तिः साम्यभेदः॥

“गर्वमित्यादि”। ननु हे नायिके, लोचनद्वयेनासंवाह्यं गर्व त्वं किं वहसि। न वोढुमर्हसीत्यर्थः। दिशि दिशि प्रतिदिशं सरःसु तडागेषु र्हदृशानि त्वन्नत्रतुल्यानि नीलोत्पलानि सन्ति। अत एव गर्वभङ्गः। ‘स्यान्मर्दनं संवाहनम्’ इत्यमरः। इह नीलोत्पलानामुत्कर्षः साहजिक एव। नेत्रद्वयापेक्षया तेषां बहुत्वात्॥

सैवोपमानापकर्षेण यथा—

‘अन्यतो नय मुहूर्तमाननं चन्द्र एष सरले कलामयः।
मा कदाचन कपोलयोर्मलं सङ्क्रमय्य समतां सुभाषितावलौ तु ‘स नेष्यति’ इति पाठःनयिष्यति॥ ५९॥’

अत्रोपमानस्य मलिनताकृतोऽपकर्षः प्रकृत एव प्रतीयते। सेयमुपमानापकर्षेण प्रकृता नाम प्रपञ्चोक्तिः साम्यभेदः।

“अन्यत इत्यादि”। हेसरले ऋजुप्रकृतिके, आननं मुखं मुहूर्तमन्यतोऽन्यत्र नय प्रापय। अत्र हेतुः। एष चन्द्रः कलामयः कदाचन कपोलयोर्मलं सङ्क्रमय्य मेलयित्वा मा समतां साम्यं नयिष्यति प्रापयिष्यति। अन्यस्यान्यत्र सङ्क्रमणे कलामयत्वं हेतुः। अन्यत इति सप्तम्यां तसिः। इह चन्द्रस्योपमानस्य कलङ्करूपमलसम्बन्धकृतोऽपकर्षः साहजिक एव ज्ञायते॥

सैवोपमानस्य किञ्चिदुत्कर्षेण यथा—

‘आपातमात्ररसिके सरसीरुहस्य किं बीजमर्पयितुमिच्छसि वापिकायाम्।
कालः कलिर्जगदिदं नकृतज्ञमज्ञे स्थित्वा हरिष्यति तवैव मुखस्य शोभाम्॥ ६०॥’

अत्रोपमानस्योपमेयादीषदुत्कर्षः प्रकृत एव प्रतीयते। सेयमीषदुत्कर्षेण प्रकृता नाम प्रपञ्चोक्तिः साम्यभेदः॥

“आपातेत्यादि”। हे आपातमात्ररसिके एतत्क्षणमात्ररसवशे हे नायिके, सरसीरुहस्य पद्मस्य बीजं वापिकायामर्पयितुं क्षेप्तुं किमिच्छसि। किं तु नेदमर्हमित्यर्थः। अत्र हेतुः। अयं कालः कलियुगाख्यः, अत एवेदं जगन्नकृतज्ञममर्यादम्। ततो हे अज्ञे, स्थित्वा कालान्तर इदं सरसीरुहं तवैव मुखस्य शोभामथ च सम्पदं हरिष्यति ग्रहीष्यति। जेष्यतीति यावत्। ‘आपातः पुंसि तत्कालं’ इति मेदिनीकारः। ‘मर्यादावान्कृतज्ञः’ इति च। इह पद्मस्योपमानस्य मुखादुपमेयात्किञ्चिदुत्कर्षः साहजिक एव विवक्षितः॥

उपमानोपमेययोः साम्यापत्त्या विकृता यथा—

‘घरिणीए महाणसकम्मलग्गमसिमलिइएण हत्थेण।
छित्तं मुहं हसिज्जइ चन्दावत्थं गअं पइणा॥ ६१॥’

[गृहिण्या महानसकर्मलग्नमसीमलिनितेन हस्तेन।
स्पृष्टं मुखं हस्यते चन्द्रावस्थां गतं पत्या॥]

अत्रोत्कृष्टोपमेयस्य मसीमालिन्यवैकृतेनोपमानसाम्यमापद्यमानं प्रतीयते। सेयमुपमानोपमेययोः साम्यापत्त्या विकृता नाम प्रपञ्चोक्तिः साम्यभेदः॥

“घरिणीत्यादि”। ‘गृहिण्य महानसकर्मलग्नमसीमलिनितेन हस्तेन। स्पृष्टं मुखं हस्यते चन्द्रावस्थां गतं पत्या॥’ इह कयाचिन्नायिकया चन्द्रेण स्पर्धमानया पाकासक्तया श्यामितहस्तेन मुखे स्पृष्टे सति नायकस्तन्मुखस्य चन्द्रसमत्वं सूचयन्नुपहसतीत्येकापरस्यै कथयति—“गृहिण्या इति”। गृहिण्याः पाकक्रियालग्नश्यामभागश्यामितेन करेण स्पृष्टं मुखमत एव चन्द्रावस्थां गतं पत्या हस्यते। ‘पाकस्थानमहानसे’ इत्यमरः। अत्र मसीमालिन्यं वैकृतं तत एव मुखचन्द्रयोः साम्यापत्तिः॥

विकृतैवोपमेयस्योत्कर्षापत्त्या यथा—

‘रत्तुप्पलदलसोहा तीअ वि चसअम्मि सुरहिवारुणीभरिए।
मअतम्बेहि मणहरा पडिमाडिएहि लोअणेहि लहुइआ॥ ६२॥’

[रक्तोत्पलदलशोभा तस्य अपि चषके सुरभिवारुणीभरिते।
मदताम्राभ्यां मनोहरा प्रतिमापतिताभ्यां लोचनाभ्यां लघ्वीकृता॥]

अत्रोपमेयस्य मधुमदताम्रत्ववैकृत उत्कर्षः प्रतीयते। सेयमुपमेयोत्कर्षेण विकृता नाम प्रपञ्चोक्तिः साम्यभेदः॥

“रत्तुप्पलेत्यादि”। इह कथापि नायिकया लोचनाभ्यां चषके सुगन्धिमद्यभृते प्रतिमया प्रतिबिम्बेन पतिताभ्याम्। अत एव मदेनाताम्राभ्यामतिलोहिताभायां मनोज्ञा रक्तोत्पलदलस्य शोभा लघ्वीकृतात्यल्पा कृता। जितेति यावत्। ‘चषकं पानपात्रं स्यात्’ इति हारावली। ‘सुरा॥।वरुणात्मजा’ इत्यमरः। भरित इत्यत्र बाहुलकात्पाक्षिक इडगमः। यद्वा भरितः सञ्जातभरः। तारकादित्वादितच्। ‘प्रतिबिम्बं प्रतिमा’ इत्यमरः। अत्र नेत्रयोरुपमेययोर्मदताम्रत्वं वैकृत उत्कर्षः स्फुट एव॥

सैवोपमेयापकर्षापत्त्या यथा—

‘मृगं मृगाङ्क सकलं सदाङ्के बिभार्ति तस्यास्तु मुखं कदाचित्।
कपोलदेशे मृगनाभिपत्र।?।मियान्सखे तस्य ततोऽपकर्षः॥ ६३॥’

अत्र मृगाङ्क सकलं मृगं सदाङ्के बिभार्ति, तन्मुखं च कदाचिन्मृगनाभिमात्रजपत्रमेवेत्युपमेयस्य वाचनिक्यपकर्षापत्तिः प्रतीयते। सेयमुपमेयापकर्षापत्त्या विकृता नाम प्रपञ्चोक्तिः साम्यभेदः॥

“मृगमित्यादि”। हे सखे, तस्य मुखस्य ततश्चन्द्रादियानेतावान्प्रकर्षः। तमेवाह। मृगाङ्कश्चन्द्रोऽङ्के क्रोडे सदा सकलं मृगं बिभर्ति। तस्याः पुनर्मुखं (कर्तृ), कपोलदेशे मृगनाभेः कस्तूरिकायाः पत्त्रं पत्त्रावलीं कदाचिद्वहति। इह मुखस्योपमेयस्य वाचनिकी वचनतात्पर्यपर्यवसन्नापकर्षापत्तिः। कलङ्किना सममनयोरल्प एवोत्कर्ष इति हि वचनमपसर्षबोधकमेव। विकृतता च कस्तूरीपत्त्राधानात्॥

सैवोपमेयस्य साम्यापत्त्योपमानोत्कर्षेण च यथा—

‘न मर्त्यलोकस्त्रिदिवात्प्रतीयते म्रियेत नाग्रे यदि वल्लभो जनः।
निवृत्तमेव त्रिदिवप्रयोजनं मृतः स चेज्जीवत एव जीवति॥ ६४॥’

अत्रोपमेयस्य यथोक्तधर्मयोगे सत्युपमानेन पूर्वार्धे साम्यमुत्तरार्धे तु किञ्चिदुत्कर्षो भवति। सेयं यथोक्ता। विकृता नाम प्रपञ्चोक्तिः साम्यभेदः॥

“न मर्त्येत्यादि”। विवृतोऽयमभावालङ्कारे। इहोपमेयस्य मर्त्यलोकस्य यथोक्तधर्मस्याग्रे वल्लभमरणाभावरूपस्य योगे सत्युपमानेन त्रिदिवेन तौल्यमग्रे त्रिदिवप्रयोजननिवृत्त्युक्तेरुत्कर्ष एव ज्ञायते। वल्लभस्याग्रे मरणाभावाशंसनया विकृतता॥

प्रतिवस्तूक्तेर्भेदप्रकारानाह—

प्रतिवस्तूक्तिरप्यस्मिन्नृज्वी वक्रा च कथ्यते।
दृष्टान्तोक्तेश्च सा छायां प्रपञ्चोक्तेश्च गाहते॥ ४०॥

सा दृष्टान्तोक्तिच्छायया विधावृजुः पूर्वा च यथा—

‘तन्मन्ये हिमभासस्तारानिकरेण कान्तिरुच्छेद्या।
यत्तस्या(एतस्या) मुखमेतद्यदि युवतिमुखानि विजयन्ते॥ ६५॥’

अत्र तदिन्दोस्तारकौघेन कान्तिरुच्छेद्या इति पूर्वमृजूक्त्या दृष्टान्तरूपं पश्चाद्यदेतन्मुखं युवतिमुखानि विजयन्त इति ऋजूक्त्यैव दार्ष्टान्तिकरूपं प्रतिवस्तूपन्यस्तमिति सेयं दृष्टान्तोक्तिच्छायया विधावृज्वीपूर्वा च प्रतिवस्तूक्तिः साम्यभेदः॥

“प्रतीति”। सा प्रतिवस्तूक्तिर्दृष्टान्तोक्तिप्रपञ्चोक्त्योश्छायां धर्मं गाहते बिभर्ति तयोश्छायावाहिनीत्यर्थः॥ “तन्मन्ये इत्यादि”। एतस्या एतन्मुखं यदि युवतिमुखानि (कर्तॄणि) विजयन्ते तत्तदा हिमभासश्चन्द्रस्य कान्तिस्तारानिकरेणोच्छेद्येत्यहं मन्ये। इह कर्मानुमितिरध्याहार्या। विजयन्त इत्यत्र ‘विपराभ्यां जेः १।३।१९।’ इति तङ्। अत्र प्रथममृजूक्त्या दृष्टान्तः, पश्चाद्दार्ष्टान्तिकमृजूक्त्यैव प्रतिवस्तूपन्यासः। तथा च दृष्टान्तोक्तिच्छाया व्यक्तैव, विधिमुखतापि व्यक्तैव॥

सैवोत्तरा वक्रा च यथा—

‘शुद्धान्तदुर्लभामिदं वपुराश्रमवासिनो यदि जनस्य।
दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः॥ ६६॥’

अत्र शुद्धान्तदुर्लभमिति वक्रोक्त्या पूर्वं दार्ष्टान्तिकरूपं वस्तूपन्यस्य पश्चाद्दूरीकृताः खलु गुणैरिति वक्रोक्त्यैव दृष्टान्तरूपं प्रतिवस्तूपन्यस्तमिति सेयं दृष्टान्तोक्तिच्छायया विधौ वक्रोत्तरा च प्रतिवस्तूक्तिः साम्यभेदः॥

“शुद्धेत्यादि”। यद्याश्रमवासिनो जनस्य वपुरिदं शुद्धान्तेऽन्तःपुरे दुर्लभमस्ति तदा खलु निश्चयेन वनलताभिरुद्यानलता गुणैर्दूरीकृताः सन्ति। ‘शुद्धान्तश्चावरोधश्च’ इत्यमरः। अत्र शुद्धान्तदुर्लभपदेनेदृशं रूपमन्तःपुरेऽपि नास्तीति वक्रोक्तया प्रतिपादितपूर्वं दार्ष्टान्तिके। उत्तरार्धेऽपि वक्रोक्त्यैव दृष्टान्तकथनमिति दृष्टान्तोक्तिच्छायत्वविघिता तु स्फुटैव॥

दृष्टान्तोक्तिच्छायया निषेधे ऋजुः पूर्वा यथा—

‘न मालतीदाम विमर्दयोग्यं न प्रेम नव्यं सहतेऽपराधान्। म्लानापि न म्लायति केसरस्रग्देवी न खण्डप्रणया कथञ्चित् ६७’

अत्र न मालतीदाम विमर्दयोग्यामिति, म्लानापि न म्लायति केसरस्रगिति च ऋजूक्तिभ्यामेव पूर्वं दृष्टान्तरूपे वस्तुनी प्रतिषिध्योत्तरकालं न प्रेम नव्यं सहतेऽपराधानिति, देवी न खण्डप्रणया कथञ्चिदिति च दार्ष्टान्तिकरूपे प्रतिवस्तुनी ऋजूक्त्यैव प्रतिषिद्धे। सेयं निषेधे ऋज्वी पूर्वा च दृष्टान्तोक्तिच्छायाया प्रतिवस्तूक्तिः साम्यभेदः।

“न मालतीत्यादि”। मालतीमाला विमर्दयोग्या नास्ति। अतिमृदुत्वात्। तद्वन्नव्यं नवीनं प्रेम अपराधान्न सहते। केसरस्रक् बकुलमाला म्लानापि सती न म्लायति अतिमलिना न भवति तद्वद्देवी कथञ्चिन्न खण्डप्रणया न खण्डितप्रश्रया भवति। ‘नव्यो नवीनो नूतनो नवः’ इत्यमरः। अत्र दृष्टान्तोक्तिच्छायया निषेधः। पूर्वत्वमृजुत्वं च स्फुटमेव॥

सैवोत्तरा च वक्रा च यथा—

‘मानुषीषु कथं वा स्यादस्य रूपस्य सम्भवः।
न प्रभातरलं ज्योतिरुदेति वसुधातलात्॥ ६८॥’

अत्र कथं वा स्यादिति वक्रया निषेधोक्त्या दार्ष्टान्तिकमभिधाय पश्चान्न वसुधातलात्प्रभातरलं ज्योतिरुदेतीति वैयधिकरण्यवक्रयैव निषेधोक्त्या दृष्टन्तोऽभिहितः। सेयं निषेधे वक्रोत्तरा च दृष्टान्तोक्तिच्छायया प्रतिवस्तूक्तिः साम्यभेदः॥

“मानुषीष्वित्यादि”। विवृतोऽयमभावालङ्कारे। अत्र कथं वा स्यादिति वितर्कोत्थतया वक्रोक्तिर्निषेधरूपा, उत्तरार्धे तादृशज्योतिषो भूमावसम्भवेऽतिरूपवत्या भूमावसम्भव उक्त इति वैयधिकरिण्यं वक्रता च॥

प्रपञ्चोक्तिच्छायया विधावृज्वी यथा—

‘तरङ्गय दृशोऽङ्गने पततु चित्रमिन्दीवरं स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतताम्।
क्षणं वपुरपावृणु स्पृशतु काञ्चनं कालिकाम् उदञ्चय मुखं मनाग्भवतु च द्विचन्द्रं नभः॥ ६९॥’

अत्र प्रथमचतुर्थपादयोरुपमानोपमेयसाम्यं वैकृतम्, द्वितीयतृतीयपादयोरुपमानापकर्षः प्रकृत इति। सेयं प्रपञ्चोक्तिच्छायया विधावृज्वी नाम प्रतिवस्तूक्तिः साम्यभेदः॥

“तरङ्गयेत्यादि”। हे अङ्गने रूपवति, दृशो नेत्राणि तरङ्गय चञ्चलानि कुरु। ततो नीलमिन्दीवरं पद्मं पततु भङ्गवद्भवतु। रदच्छदं दशनाच्छादकमधरं स्फुटीकुरु व्यक्तीकुरु। ततो विद्रुमः प्रवालवृक्षः श्वेततां व्रजतु यातु। क्षणं मुहूर्तमात्रं वपुः शरीरमपावृणु निरावरण कुरु। ततः काञ्चनं कनकं (कर्तृ) कालिकां श्यामिकां स्पृशतु। मनाक् अल्पं यथा स्यादेवं मुखमुदञ्चयोत्तोलय च। ततो नभ आकाशं द्विचन्द्रं चन्द्रद्वयान्वितं भवतु। तरङ्गयेति तरङ्गशब्दात् ‘तत्करोति-’ इति णिचि लोटि रूपम्। ‘ओष्ठाधरौ तु रदनच्छदौ’ इत्यमरः। ‘विद्रुमो ना प्रवालेऽपि’ इति मेदिनीकारः। ‘कालिका श्यामिका चण्ड्याः’ (?) इति शाश्वतः। द्वौ चन्द्रौ यत्र तद्विचन्द्रम्। अत्र विकृततया प्रकृततया च प्रपञ्चोक्तिच्छाया वैकृतमसाहजिकम्। प्रकृतः सहजः। विधिता तु व्यक्तैव॥

सैव विधौ वक्रा यथा—

‘एक्कोण्णमिअभुअभङ्गे विमलकवोले वअणम्मि तुइ मिअच्छि तिरिञ्छणअणे।
एहु ससिबिम्बउ कलङ्गगारउ पण्डरउ खित्तउ उप्परेण भमाइअ णिमञ्छणखप्परउ॥ ७०॥’

[एकोन्नामितभ्रूभङ्गे विमलकपोले वदने तवः मृगाक्षि तिर्यङ्नयने।
एतच्छशिबिम्बं कलङ्कागारं पाण्डरमुत्क्षिप्तम् उपरि भ्रामयित्वा निर्मञ्छनकर्परम्॥]

अत्रोपमेयोत्कर्षो वैकृतः, उपमानापकर्षः प्राकृतः प्रकाशत एव। या पुनरियमुत्तरार्धेन रूपकेणोपमानापकर्षस्योक्तिभाङ्गिस्तयेयं प्रपञ्चोक्तिच्छायया विधौ वक्रा नाम प्रतिवस्तूक्तिः साम्यभेदः॥

“एक्को इत्यादि”। ‘एकोन्नामित भ्रूभङ्गे विमलकपोले वदने तव मृगाक्षि तिर्यङ्गयने। एतच्छशिबिम्बं कलङ्कागारं पाण्डरमुत्क्षिप्तमुपरि भ्रामयित्वा निर्मञ्छनकर्परम्॥’ इह हे मृगाक्षि, तव वदन एतच्छशिबिम्बं निर्मञ्छनकर्परमुपरि भ्रामयित्वोत्क्षिप्तम्। कीदृशे वदने। एक उन्नमित उत्तोलितो भ्रूभङ्गो यत्र तस्मिन्। विमलौ कपोलौ यत्र तस्मिन्। तिर्यग्नयने यत्र तस्मिन्। एतादृशस्य निर्मञ्छनमुचितमेव। शशिबिम्बे निर्मञ्छनकर्परधर्ममाह—कलङ्क एवाङ्गारो यत्र तत्पाण्डरं श्वतं च। ‘अङ्गारोऽलातमुल्मुकम्’ इत्यमरः। ‘कर्परोऽस्री कपालेऽपि’ इति मेदिनीकारः। अत्रोपमेये वदने भ्रूभङ्गादेर्विकृतत्वप्रकाशः स्फुटः। उत्तमस्य निर्भञ्छनं क्रियत इत्युक्तिभङ्गी॥

सैव निषेधे ऋज्वी यथा—

‘दातारो यदि कल्पशाखिभिरलं यद्यर्थिनः किं तृणैः सन्तश्चेदमृतेन किं यदि खलास्तत्कालकूटेन किम्।
किं कर्पूरशलाकया यदि दृशोः पन्थानमेति प्रिया संसारेऽपि सतीन्द्रजालमपरं यद्यस्ति तेनापि किम्॥ ७१॥’

अत्रोपमेयोत्कर्ष ऋजूक्त्यैव च निबद्ध इति सेयं प्रपञ्चोक्तिच्छायया निषेधे ऋजुर्नाम प्रतिवस्तूक्तिः साम्यभेदः॥

“दातार इत्यादि”। यदि दातारः सन्ति तदा कल्पशाखिभिः कल्पवृक्षपञ्चकैरलं निष्फलम्। दानस्य दातृभिरेव निष्पादनाम्। यद्यर्थिनो याचकाः सन्ति तर्हि तृणैः किम्। याचकानामेव तृणाकार्यकरत्वात्। एवमन्यत्रापि। चेद्यदि सन्तः सज्जनास्तदा अमृतेन किम्। खला दुर्जना यदि तदा कालकूटेन विषेण किम्। दृशोर्नेत्रयोः। पन्थानं मार्गं यदि प्रिया एति आयाति तदा कर्पूरशलाकया किं कर्पूरघटितकाष्ठिकया किम्। कर्पूराञ्जन्या वा किम्। संसारेऽपि सति विद्यमाने तस्मादपरमिन्द्रजालमस्ति तेनापि किम्। सकलेन्द्रजालात्संसारस्य महत्त्वात्। ‘चन्द्रादिकाष्ठ्यञ्जनयोः शलाका’ इति मेदिनीकारः। अत्र दातृप्रभृतेरुत्कर्ष उपमाने च निषेध ऋजूक्त्यैव॥

सैव निषेधे वक्रा यथा—

‘तद्वक्रं यदि मुद्रिता शशिकथा ‘हा हेम सा चेद्दयुतिः’ इति पाठःतच्चेत्स्मितं का सुधा तच्चक्षुर्यदि हारितं कुवलयैस्ताश्चेद्गिरो‘स्तच्चेत्स्मितं का सुधा’ इति पाठः धिङ्मधु।
धिक् कन्दर्पधनुर्भ्रुवौ च यदि ते किं वा बहु ब्रूमहे यत्सत्यं ‘वस्तुविमुखः सर्ग॰’ इति पाठःपुनरुक्तवस्तुविरसः सर्गक्रमो वेधसः॥ ७२॥’

अत्रोपमानापकर्षो वक्रोक्त्या च निषेधः। शेषं पूर्ववत्। ते इमे द्वे अपि मालोपमाच्छायया प्रपञ्चोक्तिपूर्वे, पुनः उपमाच्छाययेति मन्तव्यम्॥

“तद्वक्रमित्यादि”। तस्यास्तत्प्रसिद्धं मुखं यद्यस्ति तदा शशिकथा मुद्रिता लुप्ता। तन्मुखस्यैव चन्द्रत्वात्। एवमन्यत्रापि। सर्वत्र तच्छब्दः प्रसिद्धौ। चेद्यदि तत्स्मितमीषद्धासस्तदा का सुधा किमभृतम्। यदि तन्नेत्रं तदा हारितं नीलनलिनैः। यदि ता गिरो वाण्यस्तदा धिङ्मधु। यदि ते भ्रुवौ च तदा कन्दर्पधनुर्धिक्। यद्वा किं बहु ब्रूमहे वदामो यत्सत्यं निश्चितं वेधसो धातुः सृष्टिक्रमः पुनरुक्तवस्तुषु द्विरुक्तपदार्थेषु विमुख एव। तथा च तद्वक्रादौ सति तच्चन्द्रादिसर्गो न स्यादिति भावः। ‘ऊर्ध्वे दृग्भ्यां भ्रुवौ स्रियाम्’ इत्यमरः। अत्र कथामुद्रणादिना चन्द्रादेरेव निषेध इति वक्रोक्तिः। शेषं प्रपञ्चोक्तिच्छायत्वादिकं पूर्ववत् ऋजुप्रतिवस्तूक्तिवत्। अनयोः प्रपञ्चोक्तिच्छाया कथमित्यत आह—“मालेति”। यथा मालोपमायां विस्तरेणोपमितिस्तथात्र प्रपञ्चोक्तिरपि विस्तरेणेत्यर्थः॥ “उत्पाद्येति”। यथोत्पाद्योपमायामुपमानार्थमुत्पाद्योपमेयेन प्रतीयमानमभिधीयमानं च सादृश्यमुक्तं तथा पूर्वयोरपीति प्रपञ्चोक्तिच्छायत्वमित्यर्थः॥ इति सामान्यालङ्कारनिरूपणम्॥

संशयोक्त्यलङ्कारनिरूपणम्।

संशयलक्षणमाह—

अर्थयोरतिसादृश्याद्यत्र दोलायते मनः।
तमेकानेकविषयं कवयः संशयं विदुः॥ ४१॥

तत्रैकविषयोऽनेको यस्मित्रेकत्र शङ्क्यते।
यस्मिन्नेकमनेकत्र सोऽनेकविषयः स्मृतः॥ ४२॥

“अर्थयोरिति”। अर्थयोर्वाच्ययोरतिसाम्याद्यत्र मनो दोलायते नैकत्र स्थिरं भवति इदं वेदं वेति कृत्वा तं संशयमाहुः। स चैकविषयोऽनेकविषयश्च। यत्रैकस्मिन्धर्मिण्यनेकः शङ्क्यते स एकविषयः। यस्मिन्नानाधर्मिण्येकः शङ्क्यते सोऽनेकविषयः॥

तयोराद्योऽभिधीयमानसादृश्यो यथा—

‘आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा नासाग्रे नयनं यदेतदपरं यच्चैकतानं मनः।
मौनं चेदमिदं च शून्यमखिलं यद्विश्वमाभाति ते तद्ब्रूयाः सखि योगिनी किमसि भोः किं वा वियोगिन्यसि ७३’

अत्रैकस्मिन्वस्तुनि वस्तुद्वयस्याभिधीयमानसामान्यप्रत्यक्षं तद्विशेषप्रत्यक्षादुभयविशेषस्मरणाच्च यो विमर्शः सोऽयमेकविषयः संशयः॥

“आहार इत्यादि”। हे सखि, तद्ब्रूयास्त्वं वद। किं योगिन्यसि योगवत्यसि किं वा वियोगिन्यसि वियोगवत्यसि। उभयसाधर्म्यमाह—आहारे भक्ष्ये विरतिर्विरागः समस्ते विषयग्रामे स्रगादौ परात्यर्थं निवृत्तिः। नासाया अग्रे नयनं नासिकाग्रनिरीक्षणमित्यर्थः। एतद्यदपरं यच्च मन एकतानमचञ्चलं ध्येये पत्यौ च। इदं च मौनमवचनम्। इदमखिलं विश्वं यच्छून्यमाभाति। सर्वत्र तवेति योज्यम्। ऽआहारलाघवं मौनं नासाग्रस्य च वीक्षणम्। मनःस्थैर्यं वशित्वं च योगिनां विश्वशृन्यता॥’ इति योगशास्रम्। ‘भक्ष्ये विरागो नयनाग्रवीक्षा मौनं मनोनिश्चलता वशित्वम्। विश्वस्य शून्यत्वविभावनं च वियोगिकृत्यं मुनयो वदन्ति॥’ इति भरतः। अत्रैकस्मिन्वस्तुनि सखीविषये वस्तुद्वयस्य योगवियोगरूपस्याभिधीयमानं यत्साम्यं तस्य प्रत्यक्षाद्दर्शनात्। समानधर्मदर्शनादिति यावत्। विशेषाप्रत्यक्षाद्विशेषादर्शनादुभयविशेषयोगवियोगयोः स्मरणाद्विमर्शः सङ्खयः। इह साधारणधर्मदर्शनं विशेषादर्शनमारोप्य कोटिद्वयस्मरणकारणमिति संशयकारणमुक्तम्॥

स एव प्रतीयमानसादृश्यो यथा—

‘किं पद्ममन्तर्भ्रान्तालि किं ते लोलेक्षणं मुखम्।
मम दोलायते चितं पश्यतस्त्वां घनस्तनि॥ ७४॥’

अत्र मुखलक्षणे लोचनलक्षणे चैकस्मिन्नेव पद्मलक्षणं भ्रमरलक्षणं चापरमपि वस्तु प्रतीयमानसादृश्यमाशङ्क्यते सोऽयमप्येकविषय एव संशयः॥

“किमित्यादि”। हे घनस्तनि कठिनकुचे, त्वां पश्यतो मम चित्तं दोलायते संशयारूढं भवति। तदेवाह—अन्तर्मध्ये भ्रान्तः कृतभ्रमणोऽलिर्भ्रमरो यत्र तत्किं पद्मम्। लोलमीक्षणं चक्षुर्यत्र तादृशं तव मुखं किमिति दोलायते दोलेवाचरति। क्यङ् क्यष् वा। दोलाचित्तयोरुभयकोटियोगित्वेन साम्यम्। अत्र सादृश्यं प्रतीयमानं प्रत्यक्षेण। सुगममितरत्॥

अनेकवस्तुविषयो द्विधा शुद्धो मिश्रश्च। तयोः प्रतीयमानसादृश्यः शुद्धो यथा—

‘वाली भम्भुरभोली(भम्भलभेली)‘आणतरिचेडिआ भेली’ इति, ‘भम्भलसद्दो अप्पिअजडेसु’ इति च देशीनाममाला उल्लसिअणिअंसिणी गहणं सुणिअ विनिक्कन्ता णिद्दाए भे(भ)म्भली‘आणतरिचेडिआ भेली’ इति, ‘भम्भलसद्दो अप्पिअजडेसु’ इति च देशीनाममाला।
रहुवि तीअ मुहु जोहई पुण जोहई गअणु भुल्लल्लेओ ण हु आणई दोण्हवि चन्दु(न्द)कं ‘वणे’ इति विकल्पार्थे निपातःवणु(णे) ७५’

[बाला मूर्खचेट्युल्लसितनिवसना ग्रहणं श्रुत्वा विनिष्कान्ता निद्रया जडा।
राहुरपि तस्या मुखं पश्यति पुनः पश्यति गगने भ्रान्तिमान् न खलु जानाति द्वयोश्चन्द्रः कः॥]

अत्र द्वयोः प्रतीयमानसादृश्ययोर्बालिकामुखचन्द्रयोरेकश्चन्द्र एव विशङ्कयत इति सोऽयमनेकविषयः शुद्धः संशयः॥

“वालीत्यादि”। ‘बाली(ला) भुम्भुरभोली(?) स्खलितनिवसना ग्रहणकं श्रुत्वा विनिष्कान्ता निद्रया भेम्भली(जडा)। राहुरपि तस्या मुखं विलोकते पुनर्विलोकते गगने भ्रान्तो न खलु जानाति द्वयोश्चन्द्रः कः॥’ इह बालिका भुम्भुरभोली अज्ञा। उल्लसितं स्खलितं नितम्बोपरि निवसनं यस्याः सा। उपरीति योग्यतया वक्तव्यम्। नि द्रया भेम्भली विह्वला ग्रहणं चन्द्रोपरागं श्रुत्वा विनिष्क्रान्ता। अर्थात् गृहात्। रहुरपि तस्या मुखं विलोकते पुनर्विलोकते। गगने भ्रान्तः संशयानः सन् नैव जानाति कान्तामुखचन्द्रयोर्द्वयोर्मध्ये कश्चन्द्र इति। खलु एवार्थे। अत्र संशयशुद्धतान्यामिश्रणेन॥

अभिधीयमानसादृश्यो मिश्रो यथा—

‘द्वावप्येतावभिनवजपापुष्पभासां निवासौ तिष्ठत्यन्ते द्वयमपि वियन्मण्डलस्योपसन्ध्यम्।
अस्तं को यात्युदयति च कः को रविः कः शशाङ्कः का च प्राची तदिह न वयं का प्रतीचीति विद्मः॥ ७६॥’

अत्र द्वयोरभिधीयमानसादृश्ययोः सूर्याचन्द्रमसोः प्राचीप्रतीच्योर्वा तदन्यतममेकमेव वस्तु पर्यायतो विशङ्क्यत इत्यनेकविषयोऽयं मिश्रः संशयः। उपलक्षणं चैतत्। तेन वितर्कोक्त्यादयोऽपि संशयोक्तावेव द्रष्टव्याः॥

“द्वावित्यादि”। द्वावप्येतौ रविशशङ्कौ नवीनजपाकुसुमदीप्तीनामाश्रयौ स्तः। उपसन्ध्यं सन्ध्यासमीपे द्वयमपि रविचन्द्ररूपं वियन्मण्डलस्याकाशमण्डलस्यान्तेऽवसाने तिष्ठति। तदिह कोऽस्तं याति, को वोदयति। कः सूर्यः, कश्चन्द्रः, का प्राची पूर्वा दिक्, का प्रतीची पश्चिमा दिगिति न वयं विद्मः। अत्र रक्तरूपतया गगनान्तगमनेन चाभिधीयमानं सादृश्यम्। अनेकविषयतयैव मिश्रता। तर्हि वितर्कोक्तिः पृथक् कथं नोक्तेत्यत आह—“उपलक्षणमिति”। संशयोक्तावेवान्तर्भावान्न पृथगुक्ता सेत्यर्थः॥

तद् यथा—

‘सरोजपत्रे ‘नु विलीन’परिलीनषट्पदे विशालदृष्टेः‘विलोलदृष्टेः’ स्विदमू विलोचने।
शिरोरुहाः स्विन्नतपक्ष्मसन्ततेर्द्विरेफवृन्दं नु निशब्दनिश्चलम्॥ ७७॥’

‘अगूढहासस्फुटन्तकेशरं मुखं स्विदेतद्विकचं‘विकसन्नु’ इति च पाठान्तराणि नु पङ्कजम्।
इति प्रलीनां नलिनीवने सखी विदाम्बभूवुः सुचिरेण योषितः॥’

(युग्मम्)

“सरोजेत्यादि”। निलीनाः सम्बद्धाः षट्पदा भ्रमरा ययोस्ते पद्मपत्रे नु। इमे विशालदृष्टेर्नायिकाया अमू नेत्रे। स्वित्। वितर्के। शिरोरुहाः केशाः स्वित्। नता पक्ष्मसन्ततिर्यस्य तत्। निशब्दं शब्दशून्यं निश्चलं स्थिरं च भ्रमरवृन्दं नु॥ “अगूढेत्यादि”। एतन्मुखं स्वित्। कीदृशम्। अगूढेन प्रकाशेन हासेन स्फुटो व्यक्तो दन्त एव केसरो यत्र तत्। एतद्विकचं प्रफुल्लं पङ्कजं नु। इत्यनेन प्रकारेण नलिनीवने पद्मिनीमध्ये प्रलीनामवस्थितां सखीं योषितः स्रियो बहुकालेन विदाम्बभूवुर्ज्ञातवत्यः। विदाम्बभूवुरित्यत्र ‘उषविद ३।१।३८’ इति लिट्याम्॥

यथा च—

‘मुहे मअखलिउल्लावे ण्हाणोल्लए चिउरे वेणीअंसणसारे समोत्तिअहारे उरे।
कालान्तरे तरलाच्छिहुमअण समुल्लसइ माहउ पुम त्थणगुडरे ण मुणइ कहिं वसइ॥ ७९॥’

[मुखे मदस्खलितोल्लपे स्रानोप्त्लुते चिकुरे वेणीनिवसनसारे समौक्तिकहरे उरसि।
कालान्तरे तरलाक्ष्णोर्मदनः समुल्लसति माघे पुनः स्तनगृहे न ज्ञायते कुत्र वसति॥]

कः पुनर्वितर्कसंशययोर्विशेषः। उच्यते। निर्णयासन्नो वितर्कः, वितर्कासन्नश्च संशयः। संशयानो हि वितर्कस्य कोटिमारुह्य ततो विभ्रष्टस्तत्त्वमभिनिविशते। यथा पूर्ववाक्ये विदाम्बभूवुरिति। संशयमेव वा विगाहते यथा—ऽमाहउ पुण त्थणगुडरे ण मुणइ कहिं वसइ।’ इति। शब्दाश्च किंस्विदादयस्तुल्यरूपा एव संशयविपर्यययोरिति दुरवबोधस्तद्विशेषः। नन्वेवं वितर्कादयोऽप्युभयालङ्काराः स्युः। स्त्यम्। किन्तूक्तिपक्षे परार्थानुमानवत्, स्वरूपपक्षे स्वार्थानुमानवदिति। अयमेव चोक्तिशब्दस्यार्थः, तेन स्वरूपमात्रोक्तौ संशयवितर्कादयोऽप्यर्थालङ्काराः। उक्तिप्राधान्ये तूभयालङ्काराः॥

“मुहे इत्यादि”। ‘मुखे मदस्खलितोल्लपे स्रानार्द्रे चिकुरे वेणीनिवसनसारे समुक्ताहारे उरसि। कालान्तरे तरलाक्ष्णि मदनः समुल्लसति माघे पुनः स्तनगृहे न ज्ञायते कुत्र वसति॥’ इह कालान्तरे माघातिरिक्तकाले मदस्खलितोल्लापे मुखे स्रानार्द्रे केशे वेणीनिवसनेन कञ्चुकवस्रेण सारे मुक्ताहारसहिते वक्षसि तरलनेत्रे च मदनः कामः समुल्लसति दीप्यते। माघे पुनः स्तन एव गृहं तत्र न ज्ञायते कुत्र वसतीति। उभयत्र विरुद्धकोटिद्वयविषयतयैकामाशङ्क्य पृच्छति—“क इति।” निर्णयासन्नो निर्णयाव्यवहितपूर्वः, वितर्कानन्तरं निर्णयात्। वितर्कासन्नो वितर्काव्यवहितपूर्वः। संशयानन्तरं वितर्कात्। एतदेवाह—“संशयेति”। संशयानो वितर्ककोट्यवलम्बी वितर्कानन्तरमुक्तमेव जानाति। अत एव विदाम्बभूवुरिति संशय उक्तः। तथा माहहु इत्यादावपि शब्दकारितोऽनयोर्भेद इत्याह—“शब्दाश्चेति”। तर्ह्युभयालङ्कारता वितर्कादीनामित्याशङ्क्य समाधत्ते—“उक्तीति”। यथा परार्थानुमाने शब्दप्रयोगकारितो विशेषस्तथा शब्दपक्षे स्वरूपमर्थस्तत्पक्षे स्वार्थानुमानवत्प्रवृत्तिः। साम्योक्तादावुक्तिशब्दस्यायमेवार्थो यदुक्तिनिबन्धनं नाम। तथा च स्वरूपमात्रस्योक्तौ निर्वचनेऽर्थालङ्कारता संशयतर्कादेरुक्तिप्राधान्ये पुनरुभयालङ्कारतेति॥ इति संशयोक्त्यलङ्कारनिरूपणम्॥

अपह्नुत्यलङ्कारनिरूपणम्।

अपह्नुतिलक्षणमाह—

अपह्नुतिरपह्नुत्य किञ्चिदन्यार्थदर्शनम्।
औपम्यवत्यनौपम्या चेति सा द्विविधोच्यते॥ ४१॥

वाच्ये प्रतीयमाने च सादृश्ये प्रथमा तयोः।
तथाभूते द्वितीया स्यादपह्नोतव्यवस्तुनि॥ ४२॥

अनौपम्यवती भूयः पूर्वापूर्वा च कथ्यते।
तासामुदाहृतिष्वेव रूपमाविर्भविष्यति॥ ४३॥

“अपह्नुतिरिति”। किञ्चित्प्रसिद्धं धर्मिणं धर्मं वापह्नुत्यापलप्यान्यस्यार्थंस्य प्रसिद्धस्य धर्मादेर्दर्शनं प्रकटनमपह्नुतिः। न चास्या आक्षेपादभेद इति वाच्यम्। तत्र हि प्रतिषेधमात्रमर्थोऽत्र तु प्रतिषेधपूर्वकमन्यार्थकथनमिति भेदः। औपम्यमुपमा तद्वतीति वाच्येऽभिधीयमाने। अपह्नोतव्यवस्तुन्यपह्नुतिविषयपदार्थे॥

तत्राभिधीयमानौपम्यवती यथा—

‘गिम्हे दवग्गिमसिमइलिआइं दीसन्ति विज्झसिहराइं।
आससु पउत्थवइए ण होन्ति णवपाउसब्भाइं॥ ८०॥’

[ग्रीष्मे दावाग्निमसीमलिनानि दृश्यन्ते विन्ध्यशिखराणि।
आश्वसिहि प्रोषितपति के न भवन्ति नवप्रावृडभ्राणि॥]

अत्र नवप्रावृडभ्राणां विन्ध्यशिखरैरभिधीयमानसादृश्यैरपह्नुतत्वादभिधीयमानौपम्यवत्यपह्नुतिः॥

“गिम्हे इत्यादि”। ‘ग्रीष्मे दावाग्निमसीमलिनितानि दृश्यन्ते विन्ध्यशिखराणि। आश्वसिहि प्रोषितपतिके न भवन्ति नवप्रावृडभ्राणि॥’ इह विरहिणी दावाग्निना दिग्धे विन्ध्ये मेघभ्रान्त्या आर्ता सख्या समाश्वास्यते—“ग्रीष्म इति”। हे विरहिणि, विन्ध्यशिखराणि ग्रीष्मे वनाग्निना श्यामितानि दृश्यन्ते। नतु नूतनवर्षाकालीन(लिक)मेघा अमी भवन्तीति समाश्वासं कुरु। अत्र श्यामिकया विन्ध्यशिखरनवमे घयोः साम्यमभिहितमत औपम्यवतीयम्॥

प्रतीयमानौपम्यवती यथा—

‘न केतकीनां विलसन्ति सूचयः प्रवासिनो हन्त हसत्ययं विधिः।
तडिल्लतेयं न चकास्ति चञ्चला पुरः स्मरज्योतिरिदं विजृम्भते ८१’

अत्र केतकीसूचीनां विधिविहसितैः प्रतीयमानसादृश्यैस्तडिल्लतायाश्च स्मरज्योतिषापह्नुतत्वादियं प्रतीयमानौपम्यवत्यपह्नुतिः॥

“नेत्यादि”। केतकीनां सूचयोऽग्राणि न विलसन्ति शोभन्ते। हन्त विषादे। अयं विधिः स्रष्टा प्रवासिनः पान्थान् हसत्युपहसति। केतकीसूचीरूपेण। इयं चञ्चला चपला तडिल्लता न शोभते। पुरोऽग्रे इयं स्मरदीप्तिंर्विजृम्भते प्रकाशते। ऽसूच्यग्रे सीमनद्रव्ये’ इति विश्वः। अत्र किञ्चित्प्रकाशेन केतकीसूचीविधिहसितयोः साम्यप्रतीतिरेवमितरत्र। औपम्यमप्युभयत्र व्यक्तमेव॥

अनौपम्याभिधीयमानापह्नोतव्यवस्तुः पूर्वा यथा—

‘राजकन्यानुरक्तं मां रोमोद्भेदेन रक्षकाः।
अवगच्छेयुरां ज्ञातमहो शीतानीलं वनम्॥ ८२॥’

अत्र राजकन्यानुरागलक्षणस्य रोमाञ्चकारणस्य रक्षकावगतिहेतोः पूर्वमेवाभिहितस्य च वनानिलशैत्यलक्षणेन कारणान्तरेणापह्नवः। न चैतयोः सादृश्यमस्ति सेयमनौपम्याभिधीयमानापह्नोतव्यवस्तुः। कार्यात्पूर्वं कारणोपन्यासेन पूर्वेत्युच्यते।

“राजेत्यादि”। रोमोद्भेदेन रोमाञ्चेन राजकन्यानुरक्तं भूपकन्यानुरागिणं मां रक्षकास्तदवेक्षका अवगच्छेयुर्ज्ञायेरन्। आं स्मरणे, ज्ञातम्। अहो वनं शीतलानिलम्। अतो रोमाञ्चः। ‘आं ज्ञाननिश्चयस्मृत्योः’ इति मेदिनीकारः। अत्र पूर्वाभिधानेन पूर्वत्वमुभयोरसादृश्यादनौपम्यता॥

सैवापूर्वा यथा—

‘आनन्दाश्रु प्रवृत्तं मे कथं दृष्ट्वैव कन्यकाम्।
अक्षि मे पुष्परजसा वातोद्धूतेन पूरितम्॥ ८३॥’

अत्रानन्दाश्रुप्रवृत्तमिति पूर्वं कार्यस्य, पश्चात् दृष्ट्वैव कन्यकामिति कारणस्योपन्यासः। शेषं पूर्ववत्। सेयमभिधीयमानापह्नोतव्यवस्तुरनौपम्यापह्नुतिरपूर्वेत्युच्यते।

“आनन्देत्यादि”। कन्यकामेव दृष्ट्वा कथं ममानन्दाश्रु प्रवृत्तमस्ति। वातोद्भूतेन रजसा वायुचालितधूल्या ममाक्षि पूरितम्। शेषमपह्नवादिकं पूर्ववत्पूर्वापह्नुतिवत्। अभिधानमनौपम्यमपि पूर्ववदेव पूर्वं कारणानुपन्यासेनापूर्वत्वम्॥

अनौपम्यैव प्रतीयमानापह्नोतव्यवस्तुः पूर्वा यथा—

‘उरपेल्लिअवइकारिल्लआइं उच्चेसि दइअवच्छलिए।
कण्टअविलिहिअपीणुण्णअत्थणि उत्तम्मसु एत्ताहे॥ ८४॥’

[उरःप्रेरितवृतिकारवेल्लीफलान्युच्चिनोषि दयितवत्सले।
कण्टकविलिखितपीनोन्नतस्तनि उत्ताम्येदानीम्॥]

अत्र नैतस्याः स्तनयोरुपपतिना नखक्षतं कृतमपि तु कण्टकैरिति प्रतीयमानापह्नोतव्यं वस्तु प्रकाशते। पूर्ववदेव च पूर्वार्धे कारणस्योपन्यासः, पश्चिमार्घे तु कार्योपदेशो दृश्यते। सेयमनौपम्या प्रतीयमानापह्नोतव्यवस्तुः पूर्वा नाम—‘अपह्नुतिरपह्नुत्य किञ्चिदन्यार्थदर्शनम्’ इति लक्षणयोगाज्जायते।

“उर इत्यादि”। ‘उरःप्रेरितवृतिकारवेल्लीफलान्युच्चिनोषि दयितवत्सले। कण्टकविलिखितपीनोन्नतस्तनि ताम्य इदानीम्॥’ इह हे दयितवत्सले प्रियप्रेमवति कण्टकलिखितपीनोन्नतस्तनि, इदानीं ताम्योद्विग्ना भव। किं कृत्वा। उरसा वक्षसा प्रेरिता या वृतिर्वेष्टनं तत्र कारवेल्लीफलानि उच्चिनोषि त्रोटयसि। कारवेल्ली करवेल्ली। अत्र पूर्वार्धे कारणकथनात्पूर्वता। उक्तयोरनौपम्यं व्यक्तमेव। ननु नात्र साहजिकोऽपह्नवस्तत्कथमपह्नुतिरत आह—“अपह्नुत्येति”। आरोपेणापह्नवलक्षणयोगादपह्नुतिरित्यर्थः॥

सैवापूर्वा यथा—

‘कस्स व ण होइ रोसो दट्ठूण पिआइ सव्वणं अहरम्।
सभमरपउमग्धाइणि ‘वारिता अधरदर्शनपर्यवसायिसभ्रमर पद्माघ्राणं निधुवनं च मा कृथा इति निवारितापि वामा निवारिताचरणा प्रतिकूला’ इत्युदाहरणचन्द्रिकावारिअवामे सहसु एण्हिम्॥ ८५॥’

[कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरम्।
सभ्रमरपद्माघ्रायिणि वारितवाम्ये सहस्वेदानीम्॥]

अत्रापि नास्या उपपतिनाधरो व्रणितः किं तर्हि भ्रमरेणेति प्रतीयमानापह्नोतव्यं वस्तु। पूर्वार्धे तु सव्रणमधरमिति कार्यमुपन्यस्य, पश्चिमार्धे सभ्रमरकमलाघ्रायिणीति कारणमुपन्यस्तम्। सेयमनौपम्या प्रतीयमानापह्नोतव्यवस्तुरपूर्वा च यथोक्तलक्षणयोगाज्जायते।

“कस्स व इत्यादि”। ‘कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरम्। सभ्रमरपद्माघ्रायिणि वारितवाम्ये सहस्वेदानीम्॥’ इह प्रेयाया अधरं सक्षतं दृष्ट्वा कस्य रोषो न भवति। ततो हेतोर्भ्रमरसहितपद्मस्याघ्राणकारिके, हे वारितवाम्ये दाक्षिण्यवति, सम्प्रति त्वं सहस्व सहिष्णुर्भव। अत्रोत्तरार्धे कारणोपन्यासादपूर्वता। पूर्ववदाशङ्कासमाधाने इत्याह—“यथोक्तेति”। इत्यपह्नुत्यलङ्कारनिरूपणम्॥

समाध्युक्त्यलङ्कारनिरूपणम्॥

समाधिलक्षणमाह—

समाधिमन्यधर्माणामन्यत्रारोपणं विदुः।
निरुद्भेदोऽथ सोद्भेदः स द्विधा परिपठ्यते॥ ४४॥

“समाधिरिति”। अन्यधर्मस्यान्यत्र विशेषे य आरोपः स समाधिः। निरुद्भेदोऽव्यक्तः, सोद्भेदः स्फुटः॥

तयोर्निरुद्भेदो यथा—

‘दूरपडिबद्धराए अवऊहत्तम्मि दिणअरे अवरदिसम्।
असहन्तिव्व किलिम्मइ पिअअमपच्चक्खदूसणं दिणलच्छी ८६’

[दूरप्रतिबद्धरागेऽवगूहमाने दिनकरेऽपरदिशम्।
असहमानेव क्लाम्यति प्रियतमप्रत्यक्षदूषणं दिनलक्ष्मीः॥]

अत्र दिनकरदिनलक्ष्मीप्रतीचीनां समारोपितनायकनायिकाप्रतिनायिकाधर्माणां दूरप्रतिबद्धराग इत्यादिभिः श्लिष्टपदैरनुद्भेदः। एवमन्यधर्माध्यारोपादयं निरुद्भेदः समाधिभेदः॥

“दूर इत्यादि”। ‘दूरप्रतिबद्धरागेऽवगूहमान एव दिनकरेऽपरदिशम्। असहमानेव क्लाम्यति प्रियतमप्रत्यक्षदूषणं दिनलक्ष्मीः॥’ इहात्यर्थधृतलौहित्येऽत्यर्थङ्कृतानुरागे च दिनकरे सूर्ये वल्लभे चापरदिशं प्रतीचीमपरनायिकां चावगूहमाने सम्बध्नात्याश्लिष्यति च सति दिनशोभा वल्लभस्फुटदूषणमसहमानेव क्लाम्यति म्लाना भवति। अत्र च नायकत्वाद्यारोपणं रागादिपदैः श्लिष्टैः क्रियत इति निरुद्भेदता॥

सोद्धेदो यथा—

‘वल्लहे लहु वोलन्तइ एत्तइ पुणु बहु बलि किज्जमि तामरसिणि तुज्झ रोसहु थिरहु।
जेण णिरग्गलु जम्पइ किम्पि ण जाव जणु(ण) ताव हिमेण विसित्ति झत्थि(त्ति) पुलुट्ठतणु॥ ८७॥’

[वल्लभे लघु व्यपक्रामत्यागच्छति पुनर्बहु बलिः क्रिये तामरसिनि तव रोषस्य स्थिरस्य।
येन निरर्गलं जल्पति किमपि न यावज्जनस् तावद्धिमेन विशीर्णा झटिति प्लुष्टतनुः॥]

अत्रापि प्रियतमव्यलीकासहिष्णुः कापि कामिनी हिमानीप्लुष्टां कमलिनीमालोक्य तस्यामात्मधर्मान्, प्रिये च सूर्यधर्मानारोपयति। ते च बलिः क्रियेऽहं तव रोषस्येत्यादिभिः पदैरुद्भिद्यमाना इह प्रतीयन्त इत्ययं सोद्भेदः समाधिभेदः। अन्यश्चान्यधर्माश्चान्यधर्मा अर्थप्रदर्शनमेतत्। व्युत्पत्तिस्तु ‘अन्यश्च धर्मश्च’ इत्येवइति व्युत्पत्त्या धर्मिणोऽप्यध्यासे समाधिरिष्यते॥

“वल्लहे इत्यादि”। ‘वल्लभे लघु व्यपक्रामति पुनरागच्छति चिरेण बलिः क्रिये तामरसिनि तव रोषस्य स्थिरस्य। येन निराकुलं जल्पति किमपि न यावज्जनस्तावद्धिमेन विशीर्णा झटिति प्लुष्टतनुः॥’ इह हे तामरसिनि पद्मिनि, वल्लभे सूर्ये लघु शीघ्रं व्यपक्रामत्यपगच्छति सति हिमसमये रात्रेदींर्घत्वाच्चिरेण पुनरागच्छति सति तव रोषस्य स्थिरस्य बलिरुपहारोऽहं क्रिये इति काचित्खण्डिता पद्मिनीमुद्दिश्य वदति। येन हेतुना निराकुलो जनो यावदेव किमपि न जल्पति तावदेव हिमेन विशीर्णा झटिति त्वं दग्धतनुरसि। व्यलीकमप्रियम्। ‘हिमानी हिमसंहतिः’ इत्यमरः। प्लुष्टां दग्धाम्। ते धर्माः। धर्मारोपरूपे समाधावव्याप्तिरत आह—“अन्य इति”। अन्यो धर्मीह विवक्षितो धर्मपदसन्निधेः॥

सधर्माणां धर्मिणश्च यथा—

‘चन्द्रज्योत्स्ना विशदपुलिने सैकतेऽस्मिन्सरय्वा वादद्वैतं सुचिरमभवत्सिद्धयूनोः कयोश्चित्।
एको ब्रूते प्रथमनिहतं केशिनं कंसमन्यः स त्वं तत्त्वं कथय भवता को हतस्तत्र पूर्वम्॥ ८८॥’

अत्र सम्बोध्य वर्णनीये विष्णुस्वरूपस्य धर्मिणस्तद्धर्माणां चाध्यासादयं धर्मिधर्माध्यासरूपः समाधिः॥

“चन्द्रेत्यादि”। कयोश्चित् सिद्धयूनोः सरय्वा नदीभेदस्यास्मिन् सैकते बहुकालं वादद्वैतं वचनविवादोऽभवत्। ‘वादद्यूतम्’ इति पाठे वादो विवाद एव द्यूतमित्यर्थः। सैकते कीदृशे। चन्द्रज्योत्स्नया विशदं स्वच्छं पुलिनं तोयोत्थितभागो यत्र तत्र। अनेन रम्यतोक्ता। वादस्वरूपमाह—एकः केशिनं प्रथमनिहतं ब्रूते, अन्यः कंसं प्रथमनिहतं ब्रूते। हे भगवन्, स प्रसिद्धस्त्वं तत्त्वं यथार्थं कथय। भवता तत्र तयोः केशिकंसयोर्मध्ये कः पूर्वं हत इति। सिद्धौ च तौ युवानौ चेति सिद्धयुवानौ। केशी असुरभेदः। कंसोऽप्यसुरभेदः। अत्र विष्णोस्तद्धर्माणां च चक्रधरत्वादीनामारोपः स्फुट एव॥

धर्मिण एवाध्यासो यथा—

‘प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदध्यान्निद्रामप्यस्य पूर्वामनलसमनसो नैव सम्भावयामि।
सेतुं बध्नाति कस्मात्पुनरयमखिलद्वीपनाथानुयातस्त्वय्यायाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः॥ ८९॥’

अत्र प्राप्तश्रीरेष कस्मादित्यादिभिर्मन्थखेदादिधर्माणां निवर्तितत्वात् प्राप्तश्रीरित्यादीनां च श्लेषेणैवाभिधानात् त्वयीति वर्णनीयपदे विष्णुस्वरूपस्य धर्मिण एवाध्यासात् तद्धर्माणां चानध्यासादयं धर्म्यध्यासरूपः समाधिः॥

“प्राप्तेत्यादि”। हे रामदेव, समुद्रस्य कम्प आभाति। कीदृशस्य। स्वव्याघाते सति इति वितर्कान् दधत इव। एष प्राप्तलक्ष्मीः कोऽपि कस्मात्पुनरपि मद्विषये मन्थेन मन्थनदण्डेन खेदं विदघ्यात्कुर्यात्। अनलसमनस आलस्यहीनस्यास्य निद्रामप्यपूर्वां नैव सम्भावयामि। अखिलद्वीपनाथो रावणस्तमनुलक्ष्यीकृत्य यातः प्रयातः पुनरयं कस्माद्धेतोः सेतुबन्धं बध्नाति। मथ्यतेऽनेनेति मन्थः। करणे ऽहलश्च ३।३।१२’ इति घञ्। अत्र प्राप्तश्रीरित्यादिश्लिष्टपदैर्धर्भिण एव विष्णुरूपस्यारोपो न तु तद्धर्माणामसुरघातकत्वादीनाम्॥

समाधिमेलितयोरभेदमाह—

समाधिमेव मन्यन्ते १। ‘आधारपुस्तकद्वये टीकापुस्तके च मेलितमिति पाठः समुपलभ्यते। परं काव्यप्रकाशादिषु तथा सरस्वतीकण्ठाभरणात्प्राचीने रुद्रटविरचिते काव्यालङ्कारेऽपि ऽमीलितम्’ इत्येव वरीवर्तीति तदनुरोधादत्रापि ‘मीलितं, ‘मिलितं’ वा युक्तं प्रतिभाति।मे(मी)लितं तदपि द्विधा।
धर्माणामेव चाध्यासे धर्मिणां वान्यवस्तुनि॥ ४५॥

समाधिरेव मेलितमुभयत्रापि धर्माध्यासात्॥

अत्रान्यधर्माणामेवान्यवस्तुन्यध्यासान्मेलितं यथा—

‘पल्लविअं विअ करपल्लवेहिं पप्फुल्लिअं विअ णअणेहिं।
फलिअं विअ पीणपओहरेहिं अज्जाए लावण्णम्॥ ९०॥’

[पल्लवितमिव करपल्लवाभ्यां प्रफुल्लितमिव नयनाभ्याम्।
फलितमिव पीनपयोधराभ्यामार्याया लावण्यम्॥]

अत्र पल्लवितमिव पुष्पितमिव फलितमिवेत्युत्प्रेक्षया लताधर्माणां लावण्यधर्मिणि धर्माध्यारोपो दृश्यते। करपल्लवादीनां चानुपात्तव्यापारहेतुत्वेन साधकतमत्वेन वा प्राधान्यं लक्ष्यते। सोऽयमन्यवस्तुनि पुनरन्यधर्माणामेवारोपेण मेलितं नाम समाधेरेव भेदो भवति। स तूद्देशे समाध्युक्तिरित्युक्तिग्रहणाल्लभ्यते।

“पल्लविअमित्यादि”। ‘पल्लवितमिव करपल्लवाभ्यां प्रफुल्लितमिव नयनाभ्याम्। फलितमिव पीनपयोधराभ्यामार्याया लावण्यम्॥’ इहार्याया गृहपतिपुत्र्या नायिकाया लावण्यं सौकुमार्यं हस्तपल्लवाभ्यां पल्लवितमिव नेत्राभ्यां फुल्लितमिव पीनस्तनाभ्यां फलितमिवास्ति। अध्यारोपे बीजमाह—“उत्प्रेक्षयेति”। तर्हि करपल्लवादीनामध्यारोपाद्बहिर्भाव एव भवेदत आह—“करेति”। अनुपात्तोऽनुक्तो यो व्यापारोऽध्यासविषयस्तद्धेतुत्वेन तदुपस्थितिकारणत्वेन तत्करणत्वेन वा। अत एव कर्त्रपेक्षया प्रधानतया स्वातन्त्रेणान्वयस्तेषामित्यर्थः। तर्हि समाध्युद्देशेऽनुद्देशः कथमस्त्यत आह—“स त्विति”। समाध्युक्तिरित्यत्र समाधिरिति कर्तव्ये उक्तिग्रहणमधिकार्थसूचकमित्युक्तिपदेनैव मेलितोद्देशः कृत इत्यर्थः॥

धर्माणां धर्मिणश्च यथा—

‘देहो व्व पडइ दिअहो कण्ठच्छेओ व्व लोहिओ होइ रई।
गलइ रुहिरं व्व सञ्झा घोलइ केसकसणं सिरम्मिअ तिमिरम्॥ ९१॥’

[देह इव पतति दिवसः कण्ठच्छेद इव लोहितो भवति रविः।
गलति रुधिरमिव सन्ध्या घूर्णते केशकृष्णं शिर इव तिमिरम्॥]

अत्र देहादयो यथोक्तक्रियावन्तो जन्तुवधक्रियायां निबद्धा दिवसादिभिरुपमेया दिवसावसानक्रियायां मेलितास्तदेतत् गुणक्रियावतां द्रव्याणां प्रधानक्रियाध्यारोपे धर्मिधर्माध्यासे मेलितं नाम समाधेरेव भेदो भवति।

“देहो व्व इत्यादि”। ‘देह इव पतति दिवसः कण्ठच्छेद इव लोहितो भवति रविः। गलति रुधिरमिव सन्ध्या घूर्णते केशकृष्णं शिर इव तिमिरम्॥’ इह दिनमङ्गमिव पतति, रक्तः सूर्यः कण्ठच्छेद इव भवति, रक्तमिव सन्ध्या गलति, तिमिरं केशश्यामं शिर इव घूर्णते इतस्ततो याति। अत्र पतनादयः क्रियाः, लौहित्यादयो गुणाः, प्रधानक्रियाः पततीत्यादिकाः, तदध्यारोपो दिवसादिषु। इति समाध्युक्त्यलङ्कारनिरूपणम्॥

समासोक्त्यलङ्कारनिरूपणम्॥

समासोक्तिं लक्षयति—

यत्रोपमानादेवैतदुपमेयं प्रतीयते।
अतिप्रसिद्धेस्तामाहुः समासोक्तिं मनीषिणः॥ ४६॥

प्रतीयमाने वाच्ये वा सादृश्ये सोपजायते।
श्लाघां गर्हामुभे नोभे तदुपाधीन्प्रचक्षते॥ ४७॥

विशेष्यमात्रभिन्नापि तुल्याकारविशेषणा।
अस्त्यसावपराप्यस्ति तुल्यातुल्यविशेषणा॥ ४८॥

सङ्क्षेपेणोच्यते यस्मात्समासोक्तिरियं ततः।
सैवान्योक्तिरनन्योक्तिरुभयोक्तिश्च कथ्यते॥ ४९॥

“यत्रेति”। यत्रातिप्रसिद्धतयोपमानादेवैतस्योपमेयस्य ज्ञानं सा समासोक्तिः। समसनं समासः सङ्क्षेपस्तदुक्तिरित्यन्वर्थतापि। प्रतीयमाने ज्ञायमाने वाच्येऽभिधीयमाने च सादृश्ये। श्लाघां प्रशंसाम्, गर्हां निन्दाम्। उभे श्लाघागर्हे च, नोभे अश्लाघागर्हे चैतानुपाधीन्प्रयोजकान् समासोक्तौ वदन्ति। विशेष्यमात्राभ्यां युक्तायुक्ताभ्यां भिन्नापि विशेषणद्वयभेदवती एका तुल्याकारविशेषणा, उपरा तुल्यातुल्यविशेषणा। सङ्क्षेपोक्तौ च प्रकारद्वयं भवति तदाह—“अन्येत्यादि”॥

तत्र प्रतीयमानसादृश्या श्लाघावती यथा—

‘उत्तुङ्गे कृतसंश्रयस्य शिखरिण्युच्चावचग्रावणि न्यग्रोधस्य किमङ्ग ्तस्य वचसा श्लाघासु पर्याप्यते।
बन्धुर्वा स पुराकृतः किमथवा सत्कर्मणां सञ्चयो मार्गे रूक्षविपत्त्रशाखिनि जनो यं प्राप्य विश्राम्यति॥ ९२॥’

अत्र न्यग्रोधेनैवोपमानेन प्रतीयमानसादृश्यस्य वर्णनीयवदान्योपमेयस्योक्तत्वात्तच्छ्लाघयैव तच्छ्लाघा प्रतीयत इति सेयं प्रतीयमानसादृश्या श्लाघावती समासोक्तिः॥

“उत्तुङ्गे इत्यादि”। तस्य न्यग्रोधस्य वटवृक्षस्य श्लाघा स्वप्रशंसा स्ववचसोक्त्या किं समाप्यते। किन्तु न। तस्य श्लाघा वक्तुमशक्येत्यर्थः। अङ्गेति सानुनयसम्बोधने। कीदृशस्य। उत्तुङ्गे उच्छ्रिते। उच्चावचा निम्नोन्नता ये ग्रावाणः पाषाणास्तद्युक्ते च शिखरिणि गिरौ कृतावासस्य। श्लाघाहेतुमाह—स वटो बन्धुर्मित्रं वा पुरा पूर्वं कृतः। अर्थाज्जनेन। अथवा सत्कर्मणां श्रेष्ठव्यापाराणां सञ्चय उपचयः किम्। अर्थाज्जनस्य। रूक्षा अस्निग्धा विपत्राः पत्रशून्याः शाखिनो वृक्षा यत्र तादृशे मार्गे यं वटवृक्षं प्राप्य जनो विश्राम्यति। उच्चावचेत्यत्र बहुव्रीह्यनन्तरं मतुबिति भ्रमो न कार्यः। उच्चावचग्रावाणोऽत्र सन्तीति विशिष्टस्यैव मत्वर्थसम्बन्धाद्बिसकिसलयच्छेदपाथेयवन्त इतिवत्केवलाद्विशिष्टस्य भिन्नबुद्धिविषयत्वात्। अत एवादण्डीत्यादयो निस्तरङ्गं प्रयोगा इत्यवधेयम्। ‘ग्रावोपलाश्मानः’ इत्यमरः। अत्र परोपकारितया न्यग्रोधवदान्ययोः सादृश्यं प्रतीयमानं तत एवोभयोः श्लाघापि॥

सैव गर्हावती यथा—

‘किं जातोऽसि चतुष्पथे यदि घनच्छायोऽसि किं छायया सम्पन्नः फलितोऽसि किं यदि फलैः ‘आढ्योऽसि’ इति टीकाकारसम्मतः पाठःपूर्णोऽसि किं सन्नतः।
हे सद्वृक्ष सहस्व सम्प्रति शिखाशाखाशताकर्षण- क्षोभोन्मोटनभञ्जनानि जनतः स्वैरेव दुश्चेष्टितैः॥ ९३॥’

अत्रोपमानभूतस्य सद्वृक्षस्य व्याजगर्हणया तदुपमेयः कोऽपि सत्पुरुषो विगर्ह्यत इति सेयं प्रतीयमानसादृश्या गर्हावती नाम समासोक्तिः।

“किमित्यादि”। हे सद्वृक्ष, चतुष्पथे किमर्थं जातोऽस्युत्पन्नोऽसि। यदि त्वं घना निबिडा छाया यस्य तादृशोऽसि तदा छायया किं वृथा। यदि सम्पन्नः समृद्धः सन् फलितोऽसि तदा फलभरैस्तव किम्। किन्तु न तव किमपि। यद्याढयोऽसि महानसि तदा सम्यक्प्रकारेण नतः किम्। सम्प्रत्यधुना स्वैर्निजैरेव दुश्चेष्टितैर्जनतो लोकात्त्वं शिखायामग्रभागे शाखाशतस्याकर्षणमाकृष्टिः, क्षोभश्चालनम्, आमोटनं सङ्कोचनम्, भञ्जनं छेदनमेतानि सहस्वानुभव। ‘आढ्य इभ्ये महत्यपि’ इति विश्वः। सहस्वेति ‘षह मर्षणे’ इति लोटि मध्यमपुरुषैकवचने रूपम्। ‘अग्रमात्रे शिखा मता’ इति धरणिः। जनत इति पञ्चम्यन्तात्तसिः। व्याजगर्हणा कपटनिन्दा वटवृक्षनिन्दां व्याजीकृत्य सत्पुरुषनिन्दोपक्रमात्॥

सैवोभयवती यथा—

‘निष्कन्दामरविन्दिनीं स्थपुटितोद्देशां स्थलीं पल्वले जम्बालाविलमम्बु कर्तुमपरा सूते वराही सुतान्।
दंष्ट्रायां चतुरर्णवोर्मिपटलैराप्लावितायामियं यस्या एव शिशोः स्थिता विपदि भूः सा पुत्रिणी पोत्रिणी ९४’

अत्र पूर्वार्धे गर्हा, उत्तरार्धे श्लाघा गम्यते, सेयं प्रतीयमानसादृश्योभयवती समासोक्तिः।

“निष्कन्दामित्यादि”। इतरान्या वराही सूकरी सुतान् सूकरान् सूते जनयति। किं कर्तुम्। अरविन्दिनीं निष्कन्दामुन्मूलितमूलां कर्तुं, स्थपुटितो निम्नोन्नतीकृत उद्देशो यस्यास्तादृशीं स्थलीं कर्तुं, पल्वलेऽल्पसरसि अम्बु जलं जम्बालेन कर्दमेनाविलमनच्छं कर्तुम्। सा पोत्रिणी वराही पुत्रिणी प्रशस्तपुत्रवती। यस्याः शिशोरेव बालकस्यैव दंष्ट्रायामियं भूर्विपदि प्रलये स्थिता। दंष्ट्रायां कीदृश्याम्। चतुर्णामर्णवानां समुद्राणामूर्भिपटलैः कल्लोलसमूहैराप्लावितायां पूरितायाम्। व्याप्तायामिति यावत्। ‘जम्बालः पङ्कोऽस्त्री’ इत्यमरः। वराहीति ‘पुंयोगादाख्यायाम् ४।१।४८’ इति ङीष्। पुत्रिणीति प्रशंसायामिनिः। ‘वराहः सूकरो गृष्टिः कोलः पोत्री’ इत्यमरः। अत्रोभयोः सादृश्यं वराहत्वादिना प्रतीयमानम्॥

अनुभयवती यथा—

‘इतः स्वपिति केशवः टीकाकृता तु ‘पुरमितस्तदीयद्विषा—’ इति पाठो धृतःकुलमितस्तदीयद्विषामितश्च शरणार्थिनः शिखरिपक्षिणः शेरते।
इतोऽपि वडवानलः सह समस्तसंवर्तकैरहो विततमूर्जितं भरसहं च सिन्धोर्वपुः॥ ९५॥’

अत्र गर्हा श्लाघा वा विस्मयोक्तावेवास्तमयते। सेयं प्रतीयमानसादृश्यानुभयवती नाम समासोक्तिः।

“इत इत्यादि”। सिन्धोः समुद्रस्य वपुराशयो विततं विस्तीर्णमूर्जितं बलवत् भारवहनक्षमं च। अत्रैवाश्चर्यम्। इतोऽत्रैव हरिर्वसति, अत्रैव केशवरिपूणामसुराणां पुरं नगरमस्ति। अत्रैव शरणं प्राप्तः शिखरिणां पर्वतेषु मध्ये पक्षिणः सपक्षा मैनाकादयः शेरते स्वपन्ति। नच शिखरिपक्षिण इत्यत्र ‘न निर्धारणे २।२।१०’ इति षष्ठीसमासनिषेध इति वाच्यम्। तन्निषेधस्यानित्यत्वान्निर्धारणस्याविवक्षणाद्वा निर्धारणद्योतकजात्यादेरभावेन तदुन्नयनात्, यद्वा शिखरिणश्च ते पक्षिणश्चेति विशेषणसमासः। पूर्वनिपाते तु बहुष्वेकत्र नियम इति व्यवस्थितिः। अत्रैव वडवानलोऽस्ति सकलमेघैः सह। ‘पुष्करावर्तसंवर्तकालकान्तिजलप्लवाः। इति वारिमुचां वंश श्चतुर्धा परिकीर्तितः॥’ इति पुराणम्। अत्र श्लाघागर्हयोरस्तमनादनुभयवतीयम्॥

अभिधीयमानसादृश्या श्लाघावती तुल्याकारविशेषणा यथा—

‘नालस्य प्रसरो जलेष्वपि कृतावासस्य कोषे रुचिर्दण्डे कर्कशता मुखेतिमृदुता मित्रे महान्प्रश्रयः।
आमूलं गुणसङ्ग्रहव्यसनिता द्वेषश्च दोषाकरे यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः॥ ९६॥’

अत्राम्बुरुहसत्पुरुषयोः परस्परमुपमानोपमेयभावस्यातिशयप्रसिद्धेरुपमानेनैव श्लेषवत्तुल्यविशेषणपदाभिधीयमानसादृश्यमुपमानमुपमेयमेवाव-गम्यते। सेयमभिधीयमानसादृश्या श्लाघावती तुल्यविशेषणा नाम समासोक्तिः॥

“नालस्येत्यादि”। यस्याम्बुजस्य पद्मस्यैवमनेनाकारेण स्थितिरवस्थितिस्तत्राम्बुजे श्रियो लक्ष्म्या वसतिर्वासो युक्त एव। तदाह—नालस्य नालायाः प्रसरो विस्तारः, अथ च न आलस्यस्यालसतायाः प्रसर आधिक्यम्। जलेष्वपि तोयेषु कृतावासस्य, अथ च मूर्खेष्वपि कृतावासस्य। कोषे कुङ्मले रुचिः कान्तिः, अथ च कोषे पात्रेऽर्थसार्थे वा रुचिः प्रीतिः। दण्डे प्रकाण्डे कर्कशता काठिन्यम्, अथ च दण्डे शासने कर्कशता कार्कश्यम्। मुखे उपक्रमे मृदुता कोमलता, अथ च मुखे वदने मृदुता मधुरवाणीकता। मित्रे सूर्ये महान् प्रश्रयः प्रीतिः, अथ च मित्रे सुहृदि महाप्रीतिः। आमूलं मूलादारभ्य गुणस्य तन्तोः सङ्ग्रहे ग्रहणे व्यसनिता आसङ्गः, अथ चामूलमादिपुरुषादारभ्य गुणानां शीलादीनां सङ्ग्रहे वर्तुलीकरणे व्यसनिता प्रयत्नः। दोषाकरे रजनिकरे द्वेषोऽसूया, अथ च दोषाणामाकरेउत्पत्तिस्थाने जने द्वेषोऽप्रीतिः। ‘नालो नालमथास्त्रियाम्’ इत्यमरः। ‘जलं नीरे च मूर्खे च’ इति विश्वः। ‘कोषोऽस्त्री कुङ्मले पात्रे ह्यर्थसङ्घातदिव्ययोः।’ इति मेदिनीकारः। ‘दण्डं प्रकाण्डे शास्तौ च’ इति। ‘मुखमास्ये च प्रारम्भे’ इति। ऽमित्रं सुहृदि मित्रोऽर्के’ इति। ‘शिफायां कारणे मूलम्’ इति। ‘गुणस्तन्तौ च शीलादौ’ इति। ‘दोषः स्याद्दूषणे दोषा रात्रौ बाहौ च कीर्तिता।’ इति। ‘वसतिः स्यादवस्थाने’ इति विश्वः। अत्र पद्मसज्जनयोः प्रसिद्धिसिद्धमुपमानोपमेयत्वमत उभयार्थकविशेषणपदैरश्लेष इव सादृश्यमभिधीयते। प्रशंसापरतया च श्लाघावत्त्वम्॥

प्रतीयमानाभिधीयमानसादृश्या श्लाघागर्हावती तुल्यातुल्यविशेषणा यथा—

‘उपाध्वं तत्पान्थाः पुनरपि सरो मार्गतिलकं यदासाद्य स्वेच्छं विलसथ विलीनक्लमभराः।
इतस्तु क्षाराब्धेर्जरठकमठक्षिप्तपयसो निवृत्तिः कल्याणी न पुनरवतारः कथमपि॥ ९७॥’

अत्र पूर्वार्घेऽभिधीयमानसादृश्ययोः श्लाघा, पश्चिमार्घे तु प्रतीयमान-सादृश्ययोर्गर्हावगम्यते; सेयमुभयवती तुल्यातुल्यविशेषणाभिधीयमानप्रतीयमानसादृश्या समासोक्तिः॥

“उपाध्वमित्यादि”। हे पान्थाः, तत्सरस्तडागमुपाध्वं सेवध्वम्। कीदृशम्। मार्गस्य तिलकभूतमलङ्कारीभूतम्। यत्सर आसाद्य गतश्रमभरा यूयं स्वेच्छं विलसथ यथेच्छं क्रीडध्वम्। इतोऽस्मात्क्षाराब्धेर्निवृत्तिरेव कल्याणी कुशलदा न पुनः कथमप्यवतारोऽत्र कुशलदः। अत्रावतरणं न कर्तव्यमिति भावः। क्षाराब्धेः कीदृशात्। जरठेन जीर्णेन कमठेन कच्छपेन क्षुण्णं पयो जलं यस्य तस्मात्। उपाध्वमिति उपपूर्व ‘आस उपवेशने’ लोण्मध्यमपुरुषबहुवचने ‘धि च ८।२।२५’ इति सकारलोपः। ‘कमठकच्छपौ’ इत्यमरः। कल्याणीति गौरादित्वान्ङीष। अत्र पूर्वार्धे सरःसज्जनयोः परोपकारत्वादिगुणैस्तुल्यैरेव सादृश्यमभिहितम्। श्लाघा तु व्यक्तैव। उत्तरार्धे तु क्षाराब्धेस्तादृशस्यानुपकारकतया गर्हा व्यक्तैव ज्ञायते, इहासज्जनगता निन्दापि प्रतीयते; किन्तु सा विशेषणद्वारा नेत्यतुल्यविशेषणता॥

अन्योक्तिर्द्विधा स्वजातौ जात्यन्तरे च। तयोः स्वजातौ यथा—

‘लक्ष्मीपयोधरोत्सङ्गकुङ्कुमारुणितो हरेः।
बलिरेष स येनास्य भिक्षापात्रीकृतः करः॥ ९८॥’

अत्र हरिशब्देन बलिशब्देन वा कश्चित् समानेतिवृत्तः पुंविशेष एवोच्यते; सेयं स्वजातिविषयान्योक्तिः सङ्क्षेपोक्तिरूपत्वात्समासोक्तिरेव।

“लक्ष्मीत्यादि”। स बलिरेव वदान्यः। येन बलिनास्य हरेर्विष्णोः करो हस्तो भिक्षापात्रीकृतो भिक्षापात्रत्वमापादितः। कीदृशः करः। लक्ष्मीस्तनक्रोडकुङ्कुमेनारुणितो लोहितीकृतः। अत्र स्वजातित्वं तुल्यचरितत्वम्। हरिबल्योरपेक्षयान्यत्वमपि॥ तर्हि समासोक्तिता कथमत आह—“सङ्क्षेपेति”। सङ्क्षेपेणोपस्थापनादेव समासोक्तित्वमित्यर्थः॥

जात्यन्तरे यथा—

‘पिबन्मधु यथाकामं भ्रमरः फुल्लपङ्कजे।
अप्यसन्नद्धसौरभ्यं पश्य चुम्बति कुड्मलम्॥ ९९॥’

अत्र भ्रमरशब्देन कश्चित् कामी, फुल्लपङ्कजशब्देन कापि प्रौढा ङ्गना, कुङ्मलशब्देन कापि मुग्धाङ्गनाभिधीयते; सेयमन्यजातिविषयान्योक्तिः समासोक्तिरेव भवति॥

“पिबन्नित्यादि”। भ्रमरो यथाकामं यथेच्छं प्रफुल्लपङ्कजे मधु पिबन् सन् असन्नद्धसौरभ्यमप्राप्तसौगन्ध्यमपि कुङ्मलं चुम्बति। तत्पश्य। अत्र वाक्यार्थस्यैव कर्मता। अत्र भिन्नभिन्नजातितयान्यजातिता॥

अनन्योक्तिशब्देनेहाध्यासविषया तद्भावापत्तिरुच्यते। यथैष ब्रह्मदत्त इति। सा द्विधा शुद्धा चित्रा च।

तयोः शुद्धा यथा—

‘टीकाकृतातु ‘मुधा बद्धग्रासैः’ इति पाठो धृतःसुधाबद्धग्रासैरुपवनचकोररैनुसृतां किरञ्ज्योत्स्नामच्छां नवलवलिपाकप्रणयिनीम्।
उपप्राकाराग्रं प्रहिणु नयने तर्कय मनागनाकाशे कोऽयं गलितहरिणः शीतकिरणः॥ १००॥’

अत्र कस्याश्चिन्मुखे चन्द्रमसमध्यास्य कश्चिदेवं ब्रूते। सा चेयं पूर्वार्धेऽभिधीयमानतुल्यविशेषणा, पश्चिमार्धे पुनरनाकाशे कोऽयं गलितहरिण इत्यत्र तुल्यविशेषणा समासोक्तिरेवानन्योक्तिः। एकस्यैव चाध्यासादियं शुद्धेत्युच्यते॥

नान्यस्योक्तिरनन्योक्तिः। तथाचानन्योक्तिपदेन तद्भावापत्तिस्तत्ता विषयतैवोच्यते। एषोऽयमित्याकारस्तस्याः। “मुधेत्यादि”। हे सखे, उपप्राकाराग्रं प्राकाराग्रसमीपे नयने नेत्रद्वयं प्रहिणु देहि। मनाक् त्वं तर्कय। अनाकाशे आकाशातिरिक्तदेशे गलितहरिणस्त्यक्तलाञ्छनः कोऽयं शीतकिरणश्चन्द्र इति। कीदृशः। ज्योत्स्नां किरन् विक्षिपन्। कीदृशीम्। मुधा मिथ्या बद्धोऽनुबद्धो ग्रासः कवलो यैरेवम्भूतैरुपवनस्थितचकोरैरनुसृतामनुगताम्। स्वच्छाम्। नवा नूतना या लवली लताभेदस्तस्याः पाकस्य प्रणयिनीं प्रश्रयवतीं च। ‘लवली च लताभिदा’ इति विश्वः। लवलीवाचको लवलिशब्दोऽपि। ‘लवलिः श्वेतपार्थपी‘पादपी’ इति स्यात् (?) इति शब्दभेदः। उपप्राकाराग्रमित्यत्र सामीप्येऽव्ययीभावः। अत्र अध्यास्य आरोप्य। पूर्वार्धे तुल्यविशेषणत्वमुक्तम्, उत्तरार्धेऽतुल्यविशेषणत्वम्। तस्यैवाभिधानादनन्योक्तिरेकस्यैवाभिधानाच्छुद्धता च॥

चित्रा यथा—

‘कमलमनम्भसि कमले कुवलये तानि च कनकलतिकायाम्।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम्॥ १०१॥’

अत्राध्यासः पूर्ववद्वैचित्र्यं च निगदेनैव व्याख्यातम्। सेयमनन्योक्तिः समासोक्तिरेवानेकाध्यासवैचित्र्याच्चित्रेत्युच्यते॥

“कमलमित्यादि”। अनम्भसि जलशून्ये देशे कमलमस्ति। कमले पुनः कुवलये नीलनलिनद्वयम्, तानि च कमलकुवलयानि कनकलतिकायां सुवर्णलतायाम्, सा च कनकलतिका सुकुमारा कोमला सती सुभगा रम्येत्यनेन प्रकारेण केयमुत्पातपरम्परारिष्टपङ्क्तिः। ‘उत्पातोऽरिष्टमित्यपि’ इत्यमरः। “पूर्ववदिति”। कस्याश्चिन्मुखादौ कमलाद्यारोपः, विचित्रता च कमलादौ कुवलयाद्यभिधानेनैवोक्ता तस्या एवाभिधानादनन्यतयोक्तिः॥

उभयोक्तिर्यथा—

‘लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह सम्प्लवन्ते।
उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः॥ १०२॥’

अत्रापूर्वेयं लावण्यसिन्धुरित्यन्योक्तिः, यत्रोत्पलानि शशिना सह सम्प्लवन्त इत्यादिरनन्योक्तिः, सेयमुभययोगादुभयोक्तिरपदिश्यते। उपलक्षणं चैतत्। तेनान्यापि योपमानोपमेयविषये सङ्क्षेपोक्तिः सापि समासोक्तिरेव भवति।

“लावण्येत्यादि”। अत्र देशेऽपरैवापूर्वैव केयं लावण्यसिन्धुः सौकुमार्यनदी। यत्र चन्द्रेण सह पद्मानि सम्प्लवन्ते सम्मिलितानि भवन्ति। यत्र कुम्भिकुम्भतटी उन्मज्जति उत्थिता भवति। यत्रापरेऽन्ये कदलीप्रकाण्डबिसदण्डाः सन्ति। ऽसिन्धुरब्धौ पुमान्नद्यां स्त्रियाम्’ इति मेदिनीकारः। ‘तीरदेशे तटी मता’ इति च। अत्र सिन्धूक्त्यान्योक्तिता, यत्रेत्यादिना सिन्धुरेवोक्तेत्यनन्योक्तिता। अन्यानन्यातिरिक्तसमासोक्तिं सङ्गृह्णाति—“उपलक्षणमिति”॥

यथा—

‘इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव प्रम्लानारुणिमेव विद्रुमदलं श्यामेव हेमप्रभा।
पारुष्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव १०३’

अत्र सङ्क्षेपतः सीताशब्दवाच्यस्य मुखादेरवयवसमूहस्याश्रयत इन्दुरञ्जनेनैव लिप्तः, जडितेव मृगीणां दृष्टिः, प्रम्लानमिवारुण्यं विद्रुमस्य, श्यामेव हेमकान्तिः, परुषा इव कोकिलालापाः, सगर्हा इव शिखिनां बर्हा इत्युत्प्रेक्षोक्तेरनुक्तान्यपि तदुपमेयानि मुखादीनि प्रतीयन्ते, सेयमपि सङ्क्षेपोक्तिः समासोक्तिरेव भवति। कः पुनः समासोक्तेः समाध्युक्तेर्वा विशेषः। उच्यते। यत्र प्राकरणिकेऽप्राकरणिको धर्मोऽध्यास्यते सा समाध्युक्तिः यथा—ऽअसहन्तिब्ब किलिम्मइ पिअअमपच्छक्खदूसणं दिणलच्छी।’ इति। यत्र पुनरप्राकरणिके प्राकरणिकधर्मः सा समासोक्तिः। यथा—ऽपिबन्मधु यथाकामं भ्रमरः फुल्लपङ्कजे।’ इति। ननु धर्मिणोऽध्यासे समानमिति चेत्। न। ‘स त्वं तत्त्वं कथय भवता को हतस्तत्र पूर्वम्—’ इत्यादिषु ‘अनाकाशे कोऽयं गलितहरिणः शीतकिरणः’ इत्यादिषु च प्रव्यक्त एवाध्यासविशेषो दृश्यते। एकत्र मनसान्यत्र तु वचसेति सोऽयं समाध्युक्तेः समासोक्तेश्च भेदो भवति।

“इन्दुरित्यादि”। सीतायाः पुरतोऽग्रेऽञ्जनेन कज्जलेन लिप्त इव चन्द्रः। हरिणीनां दृष्टिर्जडितैव जडीभूतैव। प्रवालदलं विम्लानलौहित्यमिव। कलकोकिलवधूकण्ठेषु पारुष्यमतिक्रमवचन मिव प्रस्तुतमुपक्रान्तम्। हन्त हर्षे विषादे वा। शिखिनां मयूराणां बर्हाश्च सगर्हा इव जाताः। ‘पारुष्यमतिवादः स्यात्’ इत्यमरः। अत्र सीतापदेन मुखाद्यवयवसमूह उक्तस्तदग्रे उपमानानां तत्तद्दृशा उत्प्रेक्षाभिधानादनुक्ता न्यपि तदुपमेयानि मुखादीनि ज्ञायन्त इत्युपमानोपमेयविषये सङ्क्षेपोक्तिरियम्। समाध्युक्तिसमासोक्त्योरभेदं मन्वानो भेदकं पृच्छति—“क इति”। उत्तरम्—“यत्रेति”। यत्र प्रकरणपरिप्राप्ते विशेष्येऽप्रकरणपरिप्राप्तधर्माध्यासः सा समाध्युक्तिः। [यथा— ] असहमानेव क्लाम्यतीत्यादि। अत्र प्रियतमप्रत्यक्षदूषणाध्यारोपोऽप्राकरणिकः। यत्राप्रस्तुते प्रस्तुतधर्माध्यासः सा समासोक्तिः। यथा—पिबन्मधु यथाकाममिति। अत्र भ्रमरेऽप्रकृते प्रकृतस्य कामिनोऽध्यासः तर्हि धर्म्यध्यासतुल्यतैवास्येत्याह—“नन्विति”। प्राकरणिकाप्राकरणिकत्वाभ्यामेव विशेषस्तयोरिति धर्म्यध्यासेऽपि न दोष इत्याह—“नेति”। स त्वं तत्त्वमित्यादौ धर्मिधर्मयोरध्यासः, अनाकाश इत्यादौ धर्मिण एवाध्यास इति भेद इत्यर्थः। स त्वं तत्त्वमित्यादौ मनसा, अनाकाश इत्यादौ च वचनेनाध्यासः॥ इति समासोक्त्यलङ्कारनिरूपणम्॥

उत्प्रेक्षालङ्कारनिरूपणम्।

अन्यथावस्थितं वस्तु यस्यामुत्प्रेक्ष्यतेऽन्यथा।
द्रव्यं गुणः क्रिया चापि तामुत्प्रेक्षां प्रचक्षते॥ ५०॥

उत्प्रेक्षालक्षणमाह—“अन्यथेति”। प्रकारान्तरेणावस्थितं वस्तु यत्र प्रकारान्तरेणोत्प्रेक्ष्यते परिकल्प्यते सोत्प्रेक्षा। असदारोपणमुत्प्रेक्षेति लक्षणम्। किंरूपं वस्त्बित्याकाङ्क्षायामाह—“द्रव्यमिति”। द्रव्यं पृथिव्यादि, गुणो रूपादिः, क्रिया पाकादिः॥

तासु द्रव्योत्प्रेक्षा यथा—

‘देहस्था दर्पणे यस्य पश्यति प्रतिमामुमा।
अन्यार्धार्धमिवोत्पन्नमर्धनारीश्वरान्तरम्॥ १०४॥’

अत्र प्रतिबिम्बरूपेण दर्पणेऽन्यथावस्थितस्यार्धनारीश्वररूपलक्षणस्य द्रव्यस्य यदपरार्धोत्पन्नार्धनारीश्वररूपान्तरेण द्रव्यान्तररूपेणोत्प्रेक्षणं सेयमुत्प्रेक्षा द्रव्योत्प्रेक्षेति भवति।

“देहस्थेत्यादि”। यस्य दर्पणे प्रतिमां प्रतिबिम्बं देहस्था गौरी पश्यति अन्यार्धाभ्यामुत्पन्नमर्धनारीश्वरान्तरमिव। अत्रेवशब्द उत्प्रेक्षाव्यञ्जकः। अर्धनारीश्वरान्तररूपं द्रव्यमिह कल्प्यत इत्युत्प्रेक्षा द्रव्यगता॥

गुणोत्प्रेक्षा यथा—

‘पल्लविअं विअ करपल्लवेहिं पप्फुलिअं विअ णअणेहिं।
फलिअं विअ पीणपओहरेहिं अज्जाए लावण्णम्॥ १०५॥’

[पल्लवितमिव करपल्लवाभ्यां प्रफुल्लितमिव नयनाभ्याम्।
फलितमिव पीनपयोधराभ्यामार्याया लावण्यम्॥]

अत्र करपल्लवादिरूपेणान्यथावस्थितस्याङ्गलावण्यलक्षणस्य यदेतत् पल्लवितत्वादिरूपेणान्यथोत्प्रेक्षणं सेयमुत्प्रेक्षा गुणोत्प्रेक्षेति भवति।

“पल्लविअमित्यादि”। विवृतेयं समाध्यलङ्कारे। अत्र सौन्दर्यस्य गुणस्य पल्लवितत्वादिना कल्पनं गुणोत्प्रेक्षा॥

क्रियोत्प्रेक्षा यथा—

‘सेनागजाः मूलसम्मतस्तु ‘पल्लव’ इति पाठःस्वकरपुष्करलेखनीभिर्गण्डस्थलान्मदमषीं मुहुराददानाः।
मन्ये नरेन्द्र तब तोयधितीरतालीपत्रोदरेषु विजयस्तुतिमालिखन्ति॥ १०६॥’

अत्र सेनागजानां गण्डस्थलेभ्यो लेखन्याकारैः करैर्मषीरूपस्य मदपयसो यदादानम्, यश्चास्य तीरतालीपत्रोदरेषु महावर्णतया निक्षेपः स उक्तरूपेणान्यथोत्प्रेक्ष्यत इति सेयमुत्प्रेक्षा क्रियोत्प्रेक्षा भवति।

“सेनेत्यादि”। हे नरेन्द्र, सेनागजास्तव विजयस्तुतिमालिखन्तीति मन्ये। कीदृशाः। स्वकराणां हस्तिहस्तानां यानि पुष्कराण्यग्राणि तान्येव लेखन्यः भाषान्तरशब्दोऽयङ्काप इति ख्यातास्ताभिर्गण्डस्थलात् मदमेव मषीं वारंवारमाददाना गृह्णन्तः। कुत्र लिखन्तीत्यत आह—समुद्रतीरतालपत्रमध्येषु। मन्येशब्द उत्प्रेक्षाव्यञ्जकः। ‘पुष्करं करिहस्ताग्रे’ इति विश्वः। न च लिखेः कुटादिपाठात् ङित्त्वे गुणाभावे लिखनीति स्यादिति वाच्यम्। ‘रद विलेखने’ इति निर्देशेन ङित्त्वविधेरनित्यत्वबोधनात्। अत “एव” ‘लेखनीकृतकर्णस्य कायस्थस्य न विश्वसेत्।’ इत्यादिप्रयोगाः। ‘लेखनी लिपिसाधिका’ इति रत्नकोषः। (‘करिणां बन्धनस्तम्भ आलानम्’ इत्यमरः। ‘शरीरं वर्ष्म विग्रहः’ इति च।) अत्र पुष्करादेर्लेखन्यादित्वेनोत्प्रेक्षणं क्रियोत्प्रेक्षा। न चेह द्रव्योत्प्रेक्षैवेति वाच्यम्; लिखनरूपक्रियायामेव सर्वेषां तात्पर्यात्। तस्या एव सर्वैर्निर्वाहात् यत्परः शब्दः स शब्दार्थ इति न्यायात्॥

उत्प्रेक्षावयवो यश्च या चोत्प्रेक्षोपमा मता।
मतं चेति न भिद्यन्ते तान्युत्प्रेक्षास्वरूपतः॥ ५१॥

उत्प्रेक्षावयवादीनामुत्प्रेक्षातो न भेद इत्याह—“उत्प्रेक्षेति”॥

तत्रोत्प्रेक्षावयवो यथा—

‘अङ्गुलीभिरिव केशसञ्चयं ‘सन्नियम्य’ इति पाठःसन्निगृह्य तिमिरं मरीचिभिः।
कुङ्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी॥ १०७॥’

अत्राङ्गुलीभिः केशेषु गृहीत्वा प्रियामुखं चुम्ब्यते सा च लोचने निमीलयतीति प्रायोवादः। तत्र मुखचुम्बनादिक्रिया प्रधानमङ्गिभूता प्रतीयते, केशग्रहणाक्षिनिमीलने चाङ्गभूतेऽप्रधाने। तत्राङ्गिभूतायाः क्रियाया उत्प्रेक्षणेनावयवभूता क्रियोत्प्रेक्षिता भवति। यथा हि ‘कुङ्मली कृतसरोजलोचनम्’ इत्यत्र नोत्प्रेक्षापदम्, एवं ‘अङ्गुलीमरीचिभिस्तिमिरकेशसञ्चयं सन्निगृह्य’ इत्यत्रापि तन्न प्राप्नोति; मरीच्यङ्गुलिसन्निगृहीततिमिरकेशसञ्चयमित्येवं वा वक्तव्यं भवति। तत्र योऽयमवयवक्रियायामप्यन्यपदार्थोक्तद्वितीयावयवक्रियाविलक्षण इव प्रयोगेण पृथक्पदतया वाक्यकल्पः स इवास्यापि व्याख्यानपरत्वेनाप्यनुयोज्यमानः कविभिरुत्प्रेक्षावयव इत्युच्यते। अन्ये पुनर्यत्र प्रधानक्रिया नोत्प्रेक्ष्यते, अवयवक्रिया तूत्प्रेक्ष्यते तमुत्प्रेक्षावयवं वर्णयन्ति।

“अङ्गुलीभिरित्यादि”। शशी रजनीमुखं चुम्बतीव। कुङ्यलीकृतानि सरोजान्येव लोचनानि यत्र चुम्बने तद्यथा स्यादेवम्। किं कृत्वा। मरीचिभिरङ्गुलीभिस्तिमिरं केशसञ्चयं सन्निगृह्य गृहीत्वेव। प्रायोवादो भारतादौ दर्शनात्। अत्र द्वितीयेनेवपदेन भिन्नपदतया वाक्यकल्पनमितरपदस्यापि तच्छून्यपदस्यापि तदर्थ-परत्वमित्युत्प्रेक्षावयवत्वम्। अत एवोत्प्रेक्षाभेदत्वम्। अवयवक्रियामात्रस्यावयविक्रियोत्प्रेक्षणादवयवावयविभावः। तत्राङ्गाङ्गिभाव एव। यद्वा अवयवमात्रक्रियोत्प्रेक्षणमेवावयवित्वोत्प्रेक्षेत्याह—“अन्य इति”॥

यथा—

‘लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च।
सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभिश्चिन्तासन्ततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया॥ १०८॥’

तेषां मते पूर्वोदाहरणमुत्प्रेक्षावयवो न भवति।

“लीनेवेत्यादि”। विवृतोऽयमनुप्रासे। एतन्मते पूर्वोदाहरणम् ‘अङ्गुलीभिरिव-’ इत्यादि। उत्प्रेक्षोपमायामन्तर्भवतीत्याह—“तेषामिति”॥

उत्प्रेक्षोपमा यथा—

‘किंशुकव्यपदेशेन तरुमारुह्य सर्वतः।
दग्धादग्धामरण्यानीं पश्यतीव विभावसुः॥ १०९॥’

अत्र व्यपदेशशब्देन किंशुककुसुमानामग्निसादृश्यमभिधाय दर्शनक्रियोत्प्रेक्ष्यत इति सेयमुत्प्रेक्षोपमा। पूर्वस्मिन्नप्युदाहरणे मरीचिभिरङ्गुलीभिरिव तिमिरं केशसञ्चयमिव सन्निगृह्येत्युपमानार्थानुप्रवेश उत्प्रेक्षायां द्रष्टव्यः। सेयमुत्प्रेक्षावयव उत्प्रेक्षोपमा चोत्प्रेक्षैव भवति॥

“किंशुकेत्यादि”। विभावसुरग्निररण्यान्या महारण्यस्य दग्धादग्धं दग्धमदग्धं च भागं पश्यतीव। किं कृत्वा। किंशुकव्यपदेशेन किंशुककुसुमव्याजेन सर्वत्र वृक्षमारुह्य। ‘महारण्यमरण्यानी’ इत्यमरः। ‘चित्रभानुर्विभावसुः’ इति च। अत्र व्याजपदेन किंशुककुसुमाग्न्योः सादृश्यमभिप्रेतमत उपमागर्भोत्प्रेक्षेयम्॥

मतं यथा—

‘यदेतच्चत्द्रान्तर्जलदलवलीलां वितनुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा।
अहे त्विन्दु मन्ये त्वदरिविरहाक्रान्ततरुणी- कटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम्॥ ११०॥’

अत्र कटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुमिन्दुमहं मन्ये इत्यनेन स्वमतद्वारकमुत्प्रेक्षायाः समर्थनं कृतमित्ययं मताभिधानमुत्प्रेक्षाया एव प्रकारः॥

“यदेतदित्यादि”। यदेतच्चन्द्रस्यान्तर्मध्ये मेघकणविलासं कुरुते लोकस्तच्छशक इत्याचष्टे वदति। मां प्रति तथा नैतत्। अहं पुनरिन्दुं मन्ये। कीदृशम्। त्वदीयशत्रुविरहग्रस्ताया युवत्याः कटाक्ष एवोल्कापातस्तस्य व्रणकिण एव कलङ्कस्तेनाङ्किता तनुः शरीरं यस्य तादृशम्। ‘लवलेशकणाणवः’ इत्यमरः। ‘अमानोनाश्च प्रतिषेधवचनाः’ इति च। अत्र निजमतोपन्यासादुत्प्रेक्षासमर्थनमिति मतोत्प्रेक्षेयम्॥ इत्युत्प्रेक्षालङ्कारनिरूपणम्॥

अप्रस्तुतप्रशंसालङ्कारनिरूपणम्।

अप्रस्तुतस्तुतिलक्षणमाह—

अप्रस्तुतप्रशंसा स्यादस्तोतव्यस्य या स्तुतिः।
कुतोऽपि हेतोर्वाच्या च प्रत्येतव्या च सोच्यते॥ ५२॥

सा तु धर्मार्थकामानां प्रायोऽन्यतमबाधया।
स्वाभिप्रायप्रसिद्ध्या च जायमानेह दृश्यते॥ ५३॥

“अप्रस्तुतेति”। अस्तोतव्यस्य निन्दितस्य कुतोऽपि कारणात्स्तुतिः प्रशंसा अप्रस्तुतस्तुतिः अत एव समासोक्तेर्भेदः। तत्र ह्युपमानोपमेयता, अत्र तु निन्दितमर्थान्तरम्, अन्यस्य स्तुतिरिति। सा त्वभिधीयमाना प्रतीयमाना चेत्याह—“वाच्येति”। तत्र हेतुद्वारकमपि विभागमाह—“सा त्विति”। धर्मश्चार्थश्च कामश्च तेषामन्यतसमस्य प्रायो बाहुल्येन बाधया सर्वत्र स्वाभिप्रायस्य प्रकृष्टसिध्द्या सोत्पद्यमाना प्रतीयत इत्यर्थः॥

तासु धर्मबाधया वाच्या तथा—

‘मेदच्छेदकृशोदरं लघु ‘त्युत्थानयोग्यं’ इति पाठःभवत्युत्साहयोग्यं वपुः सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः।
उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः १११’

अत्र यथोक्तैर्हेतुभिः स्वाभिप्रायसाधनेन यदिदमीदृग्विनोदः कुत इति साक्षान्मृगयाभिनन्दनं सेयं वाच्या नामाप्रस्तुतस्तुतिः ‘अहिंसा परमो धर्मः’ इति धर्मं बाधते॥

“भेद इत्यादि”। सन्तो मृगयामाखेटकं व्यसनमकर्तव्यं वदन्ति यत्तन्मिथ्या। ईदृग्विनोद उत्साहः कुतः कुत्र। किन्तु न कुत्रापि। हि यतो वपुर्लघु भवति निन्दितमिव भवति। कीदृशम्। मेदसो बलस्य छेदेन सञ्चलनेन कृशमुदरं यत्र। मेदसां स्थित्या स्थौल्यं भवति। कृशोदरतयैवोत्साहयोग्यम्। अत एव तुन्दिलेष्वनुत्साहः। सत्त्वानां प्राणिनां भयक्रोधयोर्विकारयोगि चित्तमपि लक्ष्यते। भये चित्तमीदृक्, क्रोधे चेदृगिति। स च धन्विनां धनुर्धराणामुत्कर्षो यदिषवश्चले लक्ष्ये सिघ्यन्ति च भेदका भवन्ति। ‘मेदस्तु वपा वसा’ इत्यमरः। अत्रोक्तहेतुद्वारा निजाभिप्रायस्य सिध्द्या मृगयाभिनन्दनं धर्मबाधनयाभिधीयमानमत इयमप्रस्तुतस्तुतिः॥ धर्मबाधनामाह—“अहिंसेत”। मृगया हिंसाजनिका। अतो धर्मबाधात्रेत्यर्थः॥

धर्मबाधयैव प्रत्येतव्या यथा—

‘कालाक्खरदु स्सिक्खिअ बालअ रे लग्ग मज्झ कण्ठम्मि।
दोण्ह वि णरअणिवासो समअं जइ होइ ता होउ॥ ११२॥’

[कालाक्षरदुःशिक्षित बालक रे लग मम कण्ठे।
द्वयोरपि नरकनिवासः समकं यदि भवति तद्भवतु॥]

अत्र कालाक्षरदुः शिक्षिणेत्यनेन लिपिज्ञानादिभिरधीतधर्मशास्त्राभिमतरूपकपोगण्डः कोऽपि कयाप्यविनयवत्या सोपालम्भमेहि रे कण्ठे लगेत्यभियुज्यते। तत्र ते मतमेवं कृते यदि नरकः स्यात्; स यद्यावयोः सहैव, नासौ नरक इति; किं तर्हि स्वर्ग इति। सोऽयं स्वाभिप्रायसाधनान्महासाहसे नियोगस्तस्येह साक्षादस्तुतस्यास्तोतव्यस्य स्तुतिः प्रतीयते। सेयं प्रत्येतव्या नामाप्रस्तुतप्रशंसा ‘परस्य दारान्मनसापि नेच्छेत्’ इति धर्मं बाधते॥

“कालाक्खरेत्यादि”। ‘कालाक्षरदुःशिक्षित बालक रे लग मम कण्ठे। द्वयोरपि नरकनिवासः समको यदि भवति तदा भवतु॥’ इह रे कालाक्षरेषु दुःशिक्षित दुरुपदेश बालक षोडशवर्षवयस्क, मम कण्ठे लग। मामालिङ्गयेत्यर्थः। द्व्योरावयोस्तथा सति नरकनिवासः समकस्तुल्यो यदि भवति तदा भवतु। तत्राप्यावयोः समान एवेति नरकोऽपि स्वर्गः। कालाक्षरेति लौकिकी सञ्ज्ञा। रे इति नीचसम्बोधनम्। ‘बाल आषोडशाद्वर्षात्’ इति मनुः। समक इति स्वार्थे कन्। पोगण्डो व्यवहारानभिज्ञः। पोगण्डस्तु ततःपरम्।’ ‘परतो व्यवहारज्ञः’ इति मनुः। “अधीतेति”। अधीतं धर्मशास्त्रं मन्वादिस्मृतिर्येन सः। अभिमतमाकाङ्क्षितं रूपं सौन्दर्यं यस्य सः। तादृशश्चासौ पोगण्डश्चेति कर्मधारयः। रूपक इत्यत्र ‘शेषाद्विभाषा ५।४।१५४’ इति कप्। अविनयवती वेश्या। अत्र निजाभिप्रायसिध्द्या महासाहसे सुरतरूपे नियोगस्य साक्षादनभिधानात्प्रतीयमाने वा प्रस्तुतस्तुतिः। धर्मबाधामाह—“परस्येति”। दारान् पत्नीम्॥

अर्थबाधया वाच्या यथा—

‘पङ्गो वन्द्यस्त्वमसि न गृहं यासि योऽर्थी परेषां धन्योऽन्ध त्वं धनमदवतां नेक्षसे यन्मुखानि।
श्लाध्यो मूक त्वमपि कृपणं स्तौषि नार्थाशया यः स्तोतव्यस्त्वं बधिर न गिरं यः खलानां श्रृणोषि॥ ११३॥’

अत्र स्तोतव्यानां पङ्ग्वन्धमूकबधिराणां वन्द्यधन्यश्लाघ्यस्तोतव्यपदैः साक्षादभिनन्दनादियं वाच्या नामाप्रस्तुतप्रशंसाभिमानिनोऽर्थसिद्धिं बाधते॥

“पङ्गो इत्यादि”। हे पङ्गो खञ्ज, त्वं वन्द्योऽसि; यस्त्वमर्थी सन् परेषां गृहं न यासि। हे अन्ध दृष्टिशून्य, त्वं धन्यः, यद्धनगर्ववतां मुखानि त्वं नेक्षसे न पश्यसि। हे मूक, त्वं श्लाध्योऽसि; यस्त्वं कृपणं जनमर्थाशया न स्तौषि। हे बधिर श्रवणशून्य, त्वं स्तोतव्योऽसि; यस्त्वं खलानां दुर्जनानां गिरं वार्णी न श्रृणोषि। ‘पङ्गुः खञ्ज इति स्मृतः’ इति हारावली। ‘अवाचि मूकः’ इत्यमरः। अत्र पङ्ग्वादीनां वन्द्यादिपदैः साक्षादभिनन्दनादभिधीयमानता। अर्थबाधामाह—“अभीति”। अनेन मानिनामर्थसिद्धिबाध एवोक्तः॥

अर्थबाधयैव प्रत्येतव्या यथा—

‘कामं वनेषु हरिणास्तृणानि खादन्त्ययत्नसुलभानि।
विदधति धनिषु न दैन्यं ते किल पशवो वयं सुधियः॥ ११४॥

अत्र ते किल पशवो वयं सुधिय इति मृगाणामसाक्षादमिनन्दनं तेनेयमस्तोतव्यानाममीषां वाक्यार्थत्वेन स्तुतिप्रतीतेः प्रत्येतव्या नामाप्रस्तुतप्रशंसा मनस्विनोऽर्थसिद्धिं बाधते॥

“काममित्यादि”। हरिणा वनेष्वप्रयत्नतः सुलभेन तृणेन काममत्यर्थं जीवन्ति। धनिषु धनिकेषु दैन्यं न विदधति न कुर्वन्ति। तथापि ते हरिणाः पशवो वयं पुनः सुधियः पण्डिताः। किल प्रसिद्धौ निश्चये वा। ‘अत्यर्थेऽनुमतौ कामम्’ इति विश्वः। अत्र मृगाणां न साक्षादभिनन्दनम्, किन्तु तत्प्रतीयत इतीयं प्रत्येतव्या। अत्राप्यर्थबाधा मनस्विन एव॥

कामबाघया वाच्या यथा—

‘ण मुअन्ति दीहसासं ण रुअन्ति णगाथासप्तशत्यां ‘चिरं ण होन्ति किसिआओ’ इति पाठभेदः, ‘चिरं न भवन्ति कृशाः’ इति छायाभेदश्च होन्ति विरहकिसिआओ।
धण्णाओ ताओ जाणं बहुवल्लह वल्लहो ण तुमम्॥ ११५॥’

[न मुञ्चन्ति दीर्घश्वासं न रुदन्ति नगाथासप्तशत्यां ‘चिरं ण होन्ति किसिआओ’ इति पाठभेदः, ‘चिरं न भवन्ति कृशाः’ इति छायाभेदश्च भवन्ति विरहकृशाः।
धन्यास्ता यासां बहुवल्लभ वल्लभो न त्वम्॥]

अत्र धन्यास्ता यासां त्वं न वल्लभ इति येयमतिरक्तायाः साक्षादस्तोतव्यस्तुतिः सेयं वाच्या नामाप्रस्तुतप्रशंसा तस्या एव कामसिद्धिं बाधते॥

“णेत्यादि”। ‘न मुञ्चन्ति दीर्घश्वासं न रुदन्ति न भवन्ति विरहकृशाः। धन्यास्ता यासां बहुवल्लभ वल्लभो न त्वम्॥’ नायिकां नायकविशेषवतीं दृष्ट्वा तत्सखी नायकमुपगम्य तस्या अनुरागं दशां चाह—“न मुञ्चतीति”। हे बहुवल्लभ, ता नाथिका धन्या दीर्घश्वासं विरहजं न त्यजन्ति, न रूदन्ति, विरहकृशाश्च न भवन्ति। यासां त्वं वल्लभो नासि। अत्र धन्या इत्यादिना अनुरागिण्याः साक्षात्स्तुतिरभिहिता तस्या एव कामसिद्धिबाधिका॥

कामबाधयैव प्रत्येतव्या यथा—

‘सुहउच्छअं जणं दुल्लहं वि दूराहि अम्ह आणन्त।
उअआरअ जर जीअं वि णेन्त ण कआवराहोसि॥ ११६॥’

[सुखपृच्छकं जनं दुर्लभमपि ‘दूरान्ममानयमान’ इति व्याख्यादृतः पाठःदूरादस्माकमानयन्।
उपकारक ज्वर जीवमपि ‘गृह्णन्न’ इति पाठःनयन्न कृतापराधोऽसि॥]

अत्र पूर्वोक्तास्मदभिप्रायसिध्द्यैवन्नाम त्वयास्माकमुपकृतं येन जीवितमपि हरन्नापराध्यसीति ज्वरं प्रति यदतिरक्ततया वाक्यं तेनेहास्तोतव्यस्य ज्वरस्य स्तुतिः प्रतीयते; सेयं प्रत्येतव्या नामाप्रस्तुतप्रशंसा तस्या एव शरीरबाधया सर्वानपि कामान् बाधते॥

“सुहेत्यादि”। “सुखपृच्छकं जनं दुर्लभमपि दूरान्ममानयमान। उपकारक ज्वर जीवमपि गृह्णन्न कृतापराधोऽसि॥” काचिदत्यनुरागिणी नायकमन्यानुरक्तमपि वार्ताकरणायातं दोषगर्भमाह—“सुखेति”। हे ज्वर, सुखपृच्छकं तवाङ्गे सुखमधुनेति प्रश्नकारकं जनं दुर्लभमपि मम कृते दूरदेशादानयमान प्रापक, अत एवोपकारक, जीवमपि गृह्णन् त्वं न कृतापराधोऽसि। सुखं सुष्ठु पृच्छति सुखपृच्छकः। ‘क्रियासमभिहारे वुन्’ इति योगविभागाद्वुन्। अत्र सुखपृच्छकेत्यादिना स्वाभिप्रायसिध्द्यानुरक्ताया ज्वरं प्रति वाक्यम्। तेनाप्रस्तुतस्तुतिर्जायते न त्वभिधीयत इति। कामबाधामाह—“शरीरेति”॥ इत्यप्रस्तुतप्रशंसालङ्कारनिरूपणम्।

तुल्ययोगितालङ्कारनिरूपणम्।

तुल्ययोगितालक्षणमाह—

विवक्षितगुणोत्कृष्टैर्यत्समीकृत्य कस्यचित्।
कीर्तनं स्तुतिनिन्दर्थं सा मता तुल्ययोगिता॥ ५४॥

“विवक्षितेति”। विवक्षितो वक्तुमिष्टो यो गुणस्तेनोत्कृष्टा अधिका ये तैः सह स्तुत्यर्थं निन्दार्थं वा कस्यचित्सुत्यस्य निन्द्यस्य वा तेन गुणेन तस्य यत्समीकृत्य कीर्तनमभिधानं सा तुल्ययोगिता। गुणोऽत्र धर्मः साधुरसाधुर्वा। अत्र एव स्तुतिर्वा निन्दा वा स्यात्॥

सा अभिधीयमानतुल्यगुणत्वेन स्तुत्यर्था यथा—

‘शेषो हिमगिरिस्त्वं च महान्तो गुरवः स्थिराः।
इमां लङ्घितमर्यादां चलन्तीं बिभृथ क्षितिम्॥ ११७॥’

अत्राभिधीयमानमहत्त्वादिगुणोत्कृष्टाभ्यां शेषाहितुषारशैलाभ्यां सह स्तुत्यर्थं तुल्ययोगेन क्षितिपतेरभिहितत्वादियं स्तुत्यर्था तुल्ययोगिता॥

“शेष इत्यादि”। शेषः सर्पम्भदो हिमालयस्त्वं च सर्वे यूयमिमां क्षितिं बिभृथ धारयथ। कीदृशाः। महान्तो महत्त्ववन्तः गुरवो गुरुत्वाश्रयाः स्थिराः स्थैर्यवन्तश्च। कीदृशीम्। लङ्घितातिक्रान्ता मर्यादा यया तामत एव चलन्तीमितस्ततो गामिनीं च। अत्र महत्त्वादिकमभिहितम्। भूपस्य च शेषहिमाद्रिभ्यां तुल्यताख्यापनेनोत्कृष्टसाम्यकथनात्स्तुतियोगः॥

अभिधीयमानतुल्यगुणत्व एव निन्दार्था यथा—

‘सङ्गतानि मृगाक्षीणां तडिद्विलसितान्यपि।
क्षणद्व्यं न तिष्ठन्ति घनारब्धान्यपि स्वयम्॥ ११८॥’

अत्र घनारब्धान्यपीत्यादिभिरभिधीयमानतुल्यगुणानां मृगाक्षीसङ्गतानां तडिद्विलसितानां च निन्दार्थं तुल्ययोगेनाभिधानादियं निन्दार्था तुल्ययोगिता॥

“सङ्गतानीत्यादि”। मृगाक्षीणां सङ्गतानि सङ्गमाः स्वयं घनं निरन्तरमारब्धान्यपि कृतान्यपि, तथा तडितां विद्युतां विलसितानि च घनैर्मेधैरारब्धान्यपि क्षणद्वयमारम्भक्षणादूर्ध्वमपरमपि क्षणं न तिष्ठन्ति; कुतो दीर्घकालम्। अत्र प्रसिद्धचापलया विद्युता स्त्रीणां सङ्गमस्य चपलता समीकृत्योच्यत इति निन्दातुल्ययोगितेयम्॥

प्रतीयमानतुल्यगुणत्वे स्तुत्यर्था यथा—

‘यमः कुबेरो वरुणः सहस्राक्षो भवानपि।
बिभ्रत्यनन्यविषयां लोकपाल इति श्रुतिम्॥ ११९॥’

अत्र यमादयः पञ्च भवन्तो लोकपाला इत्यनुक्तमपि तुल्यवस्तुयोगितयैव स्तुत्यर्थमेषां मिथः सादृश्यं प्रतीयते; सेयं प्रतीयमानतुल्यगुणत्वे स्तुत्यर्था तुल्ययोगिता॥

“यम इत्यादि”। यमादयो भवन्तोऽनन्यविषयामनन्यगामिनीं लोकपाल इत्यनेनाकारेण श्रुतिं ख्यातिं बिभ्रति धारयन्ति। सहस्राक्ष इन्द्रः। ‘श्रुतिः ख्यातौ च वेदे च’ इति विश्वः। अत्र चत्वारो यमादयो लोकपालाः, इदानीं भवान् पञ्चमो लोकपालशब्दवाच्य इति यमादिसमानताख्यापनेनोत्कृष्टसाम्यकथनाद्राज्ञः स्तुतिः। सा तु प्रतीयमानतुल्यगुणेनैव॥

प्रतीयमानतुल्यगुणत्व एव निन्दार्था यथा—

‘राजानमपि सेवन्ते विषमप्युपभुञ्जते।
रमन्ते च परस्त्रीभिर्विषमाः‘रहो साहसिका नराः’ इति पाठः खलु मानवाः॥ १२०॥’

अत्र योऽयं सेवादिर्मानवानां राजविषये स्त्रीषु च वैषम्यहेतुतुल्यत्वेन योगो राजादीनां वा ‘कर्मत्वादिरूपस्य’ इति क खकर्मादितुल्यतया तत्क्रियायां समावेशः सोऽमीषां मिथः सादृश्यं प्रत्याययन् राजसेवापरस्त्रीरत्योर्विषोपभोगतुल्यतां गमयतीति सेयं प्रतीयमानतुल्यगुणत्वे निन्दर्था तुल्ययोगिता॥

“राजानमित्यादि”। भूपमपि सेवन्ते, विषमप्युपभुञ्जते खादन्ति, अन्यस्त्रीभिः सह रमन्ते विलसन्ति। अतो मनुष्या विषमाः साहसिकाः। खलु हेतौ। अत्र विषमतायां वा तुल्ययोगस्तत्क्रियाविषयतया वा राजसेवापरस्त्रीरत्योर्विषोपमोगतुल्यतां बोधयति स च प्रतीयमान एव॥

मतान्तरेण तुल्ययोगितामाह—

अन्ये सुखनिमित्ते च दुःखहेतौ च वस्तुनि।
स्तुतिनिन्दार्थमेवाहुस्तुल्यत्वे तुल्ययोगिताम्॥ ५५॥

“अन्ये इति”। सुखहेतुदुःखहेतुवस्तुनोः स्तुतिनिन्दार्यं साम्ये तुल्ययोगितामन्ये प्राहुः॥

सा स्तुत्यर्था यथा—

‘आहूतस्याभिषेकाय विसृष्टस्य वनाय च।
न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः॥ १२१॥’

अत्र रामस्य राज्याभिषेकवनगमनयोः पितुरादेशेन तुल्यरूपतया स्तुतिः प्रतीयते॥

“आहूतस्येत्यादि”। अभिषेकाय राज्याभिषेकायाहूतस्य कृताह्वानस्य, वनाय वनं गन्तुं विसृष्टस्य च तस्य रामस्य स्वल्पोऽप्याकारविभ्रम आकारान्यथात्वं मया न लक्षितः। ‘अन्यथात्वेऽपि विभ्रमः’ इति धरणिः। अत्र राज्याभिषेकः सुखहेतुः, वनगमनं दुःखहेतुः, तयोः पितृभक्त्या तुल्यत्वेन स्तुतित्वम्॥

निन्दार्था यथा—

‘यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा।
यश्चैन गन्धमाल्याभ्यां सर्वस्य कटुरेव सः॥ १२२॥’

अत्र यः परशुना छिनत्ति, योऽमुं मधुसर्पिषा सिञ्चति, यो वा गन्धमाल्याभ्यामर्चति तं प्रति तुल्यमेव निम्बस्य कटुत्वमिति समासोक्त्या तदुपमेयस्य निन्दा प्रतीयते॥

“यश्चेत्यादि”। यो निम्बवृक्षं परशुना कुठारेण छिनत्ति, यश्चैनं निम्बं मधुसर्पिषा मधुसहितेन घृतेन सिञ्चति, यश्चैनं गन्धमाल्याभ्यामर्चति सर्वस्य कृते स निम्बः कटुरेव तिक्त एव। ‘पुष्पपुष्पस्रजोर्माल्यम्’ इत्यमरः। अत्र समासोक्तया समसनेन। साम्यापादनेनेति यावत्। उपमेयनिन्दज्ञानम्॥ इति तुल्ययोगितालङ्कारानिरूपणम्॥

लेशालङ्कारनिरूपणम्।

लेशलक्षणमाह—

दोषस्य यो गुणीभावो दोषीभावो गुणस्य यः।
स लेशः स्यात्ततो नान्या व्याजस्तुतिरपीष्यते॥ ५६॥

“दोषस्येति”। दोषस्य गुणत्वम्, गुणस्य च दोषत्वं यत्तदेव लेशलक्षणम्। तर्हि व्याजस्तुतावप्येवम्। तथा चातिव्याप्तिः। अत उक्तम्—“तत इति”। ततो लेशाव्द्याजस्तुतिरभिन्नैवेति। नातिव्याप्तिरित्यर्थः॥

तत्र दोषस्य गुणीभावो लेशो यथा—

‘युवैष गुणवान्राजा योग्यस्ते पतिरूर्जितः।
रणोत्सवे मनः सक्तं यस्य कामोत्सवादपि॥ १२३॥’

अत्र येयमुत्तरार्धेन राज्ञो वीर्यप्रकर्षस्य स्तुतिः सा कन्याया निरन्तरान्भोगान् निर्विविक्षोर्दोषत्वेन प्रतिभासिष्यत इत्यभिप्रेत्य योऽयं विदग्धसख्या राजप्रकोपपरिजिहीर्षया दोषोऽपि गुणरूपेणोक्तः; सोऽयं दोषस्य गुणीभावो नाम लेशतोऽल्पतया शनैरनन्यविदित उच्यमानो लेश इत्युच्यते॥

“युवेत्यादि”। स्वयंवरे कस्मिन्नपि नृपे दर्शितभावां सखीं निवर्तयितुं कापि स्तुतिव्याजात्तं निन्दति। युवत्वगुणित्वनृपत्वबलवत्त्वेभ्य एष तव पतिर्योग्यः। यस्य कामोत्सवादपि विषयोत्सवमनादृत्य रणोत्सवे मनः सक्तमासक्तम्। निर्विविक्षोरुपभोक्तुमिच्छोः कन्यायाः। ‘निर्वेश उपभोगः स्यात्’ इत्यमरः। अत्र विदग्धया सख्या राजकोपशान्तये भोगेच्छुं प्रति वीर्यप्रकर्षरूपस्तवस्य दोषत्वेऽपि गुणत्वेनाल्पतयोपन्यसनाल्लेशोऽयं दोषस्य गुणीभावलक्षणः। अल्पतयैवात्र लेशता॥

गुणस्य दोषीभावो यथा—

‘चपलो निर्दयश्चासौ जनः किं तेन मे सखि।
आगः प्रमार्जनायैव चाटवो येन शिक्षिताः॥ १२४॥’

अत्र पूर्वार्घेन मानपरिग्रहानुगुणं सखीनामग्रतः प्रकाशं प्रतिज्ञाय तदनिर्वाहमाशङ्कमाना तदुपहासं परिजिहीर्षुर्दोषाभासं तद्गुणग्राममाह —आगःप्रमार्जनायैव चाटवो येन शिक्षिता इति; सोऽयं गुणस्य दोषीभावो नाम लेशभेदो भवति। अन्ये पुनः समस्तमेव लेशलक्षणमाचक्षते—यत्र दोषस्य गुणीभावो गुणस्य च दोषीभाव इति। सोऽपि द्विधा—समासोक्त्या, असमासोक्त्या च॥

“चपल इति”। हे सखि, चपलो निर्भयश्चासौ जनो भवतु तेन मम किम्। किन्तु न किमपि। येन जनेनागःप्रमार्जनायापराधप्रोञ्छनाय परं चाटवः प्रियवादाः शिक्षिताः। ‘आगोऽपराधो मन्तुश्च’ इत्यमरः। अत्र दोषवदाभासते प्रतिभातीति दोषाभासो न त्वयं परमार्थतो दोषः। चाटुकारिता हि गुणो येन कृतापराधोऽपि मामनुकूलयन्मानभङ्गं करोति। अत एव च तत्रानुरागः। तथा च चपल इत्यादिना सखीजनोद्दिष्टं मानं रागात्कर्तुमशक्ततया बालया चाटुकारिता दोषाभासो गुणः कोऽपि दर्शित इति गुणस्य दोषतात्र। गुणदोषयोर्मिलितयोरेव तत्त्वं लेश इति मतमाह—“अन्ये इति”। समासोक्तिर्गोपनेन भणनम्, असमासोक्तिः स्फुटभणनम्॥

तयोः समासोक्त्या यथा—

‘गुणानामेव दौरात्म्याद्धुरि धुर्यो नियुज्यते।
असञ्जातकिणस्कन्धः सुखं स्वपिति गौर्गलिः॥ १२५॥’

अयमपि प्रकोपभयाल्लेशेनैवोच्यत इति लेशः॥

“गुणानामित्यादि”। गुणानां वहनक्षमत्वादीनां दौरात्म्याद्दोषाद्धुर्यो धुरन्धरो गौर्वृषो धुरि धुरायां नियुज्यते। गलिः पुनर्गौरसञ्जातोऽनुत्पन्नः किणो मृतशोणितमांसपिण्डो यत्रेदृशः स्कन्धो सस्य स सुखं यथा स्यादेवं स्वपिति। धुरं वहतीति धुर्यः। ‘धुरो यङ्ढकौ ४।४।७७’ इति यत्। ‘किणः स्यान्मृतशोणिते’ इति रत्नकोषः। ऽगलिस्तु वहनाशक्ते’ इत्यपि। अत्र रोषभयादेव समासेन गुणदोषयोरभिधानाल्लेशः॥

असमासोक्त्या यथआ—

‘सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यन्त्रणाः सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा।
अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः॥ १२६॥’

अत्रापि प्रकोपभयादि पूर्ववत्। अथैष व्यस्तलक्षणत्वेन कस्मान्न लेश इत्युच्यते। दोषगुणीभावस्याप्रस्तुतस्तुत्या गुणदोषीभावस्य तु व्याजस्तुत्यापहारात्॥

“सन्त इत्यादि”। सन्तः सदा दुःखं यथा स्यादेवं जीवन्ति। कीदृशाः। सच्चरितस्य सव्द्यापारस्योदये व्यसनिन आसक्ताः। प्रादुर्भवन्त्याविर्भवन्ति यन्त्रणा अनापत्तयो येषां ते। सर्वत्र कर्ये जनानामपवादे दूषणोक्तौ चकिताः सतर्काः। अत एव दुःखमयता। प्राकृतोऽविविक्तो जनो धन्योऽस्ति। कीदृशः। अव्युत्पन्ना अविशेषवती मतिर्यस्य सः। न सता साधुना कृतेन कार्येण नैवासता असाधुना कार्येण व्याकुलः। साध्वसाधुकार्यरहित इत्यर्थः। अत एव इदं कृत्यमिदमकृत्यमिति विचारशून्यहृदयश्च। अत्रापि रोषभयादेव लेशतोऽभिधानम्। दोषगुणीभावो गुणदोषीभावश्च व्यस्तोऽत्र कथं न लेश इति पृच्छति—“अथेति”। अत्तरम्। “दोषेति”। आद्यस्याप्रस्तुतस्तुत्याम्, अन्त्यस्य व्याजस्तुत्यां विषयीकरणात्तयोरेवान्तर्भाव इत्यर्थः॥

व्याजस्तुतिरपि द्विधा—शुद्धा मिश्रा च। तयोः शुद्धा यथा—

‘पुंसः पुराणादाच्छिद्य श्रीस्त्वया परिभुज्यते।
राजन्निक्ष्वाकुवंश्यस्य किमिदं तव युज्यते॥ १२७॥’

अत्र शुद्धपरदारापहरणलक्षणनिन्दाव्याजेन स्तुतेर्विहितत्वादियं शुद्धानाम व्याजस्तुतिर्गुणदोषीभावलक्षणाल्लेशान्न पृथक्॥

“पुंस इत्यादि”। पुराणात्पुंसः पुराणपुरुषाद्विष्णोः श्रीः कमला आच्छिद्य गृहीत्वा त्वया परिभुज्यते सेव्यते। हे राजन्, इक्ष्वाकुर्नृपविशेषो वंश्यो यस्य तस्य तवेदं किं युज्यते। किन्तु नार्हतीति निन्दाभासः। अथ च पुराणात्पुंसो वृद्धात्पुरुषाच्छ्रीः सम्पदाच्छिद्य त्वया भुज्यत इति तात्पर्यार्थः। अत्र श्रीपदे व्याजः। स च शुद्ध एव। तेन च शुद्धिरिह॥ लेशाभेदमाह—“गुणेति”।

मिश्रा यथा—

‘प्रियोऽसि प्राज्ञोऽसि प्रभुरसि कुलीनोऽस्यसि युवा युवत्यस्त्वामेवं कति न पतिमुर्वीश वृणते।
अतश्चैतां कीर्तिं रघुनहुषमान्धातृमहिषीं पराम्रष्टुं वृद्धामधिगतनयो नार्हति भवान्॥ १२८॥’

अत्र स्तुतिपदमिश्रैव व्याजगर्हया स्तुतिरितीयं मिश्रानाम व्याजस्तुतिर्लेशभेदः॥

“प्रिय इत्यादि”। हे राजन्, प्रियः प्रीतोऽसि। प्राज्ञ उत्कृष्टमतिरसि। ईश्वरोऽसि। शुद्धवंशोऽसि। तरुणोऽसि। एवं सति कियत्यस्तरुण्यस्त्वां पतिं न वृणते न स्वीकुर्वन्ति। अतो हेतोरेतां कीर्ति पराम्रष्टुमाक्रमितुं भवान्नार्हति। कीदृशीम्। रघुनहुषमान्धातॄणां नृपविशेषाणां महिषीं महादेवीमत एव वृद्धामतिवयस्कां च। ‘कृताभिषेका महिषी’ इत्यमरः। अत्र महिषीवृद्धापदयोर्व्याजात् कपटान्निन्दास्तुतिर्लेशत एव॥ इति लेशालङ्कारनिरूपणम्॥

सहोक्त्यलङ्कारनिरूपणम्।

सहोक्तिलक्षणमाह—

कर्त्रादीनां समावेशः सहान्यैर्यः क्रियादिषु।
विविक्तश्चाविविक्तश्च सहोक्तः सा निगद्यते॥ ५७॥

वैसादृश्यवती चेयमुच्यमाना मनीषिभिः।
सहेवादिप्रयोगेषु ससादृश्या च दृश्यते॥ ५८॥

“कर्त्रेति”। क्रियादिषु कर्त्रादीनामन्यैः सह यः समावेशोऽवस्थानं सा सहोक्तिः। आदिपदात्कर्मादिपरिग्रहः। स समावेशो विविक्तः केवलः, अविविक्तो मिश्रः॥

सा कर्तृविविक्तक्रियासमावेशे यथा—

‘कोकिलालापमधुराः सुगन्धिवनवायवः।
यान्ति सार्धं जनानन्दैर्वृद्धिं सुरभिवासराः॥ १२९॥’

अत्र सुरभिवासरा इति कर्तृपदार्थः केवल एव जनानन्दैः सह वृद्धिप्राप्तिक्रियायां समाविष्ट इति सेयं विविक्तकर्तृक्रियासमावेशा नाम वैसादृश्यवती सहोक्तिः॥

“कोकिलेत्यादि”। सुरभिवासरा वसन्तदिवसाः जनहर्षैः सह वृद्धिं यान्ति। कीदृशाः। कोकिलालापो मधुरो मनोहरो येषु ते, सुगन्धयः शोभनगन्धवन्तो वनवायवो मलयानिला येषु ते। अत्र केवलस्य कर्तुर्वसन्तदिनस्य जनानन्दैः सह वृद्धिप्राप्तिक्रियासमावेशः। स च विसदृश एव। दिनवृद्धेर्दण्डाधिक्यरूपत्वात्, आनन्दवृद्धेरतिसुखरूपत्वात्॥

कर्मणो विविक्तक्रियासमावेशे यथा—

‘उज्झसि पिआइ समअं तह वि हु रे भणसि कीस किसिअं त्ति।
उवरिभरेण अ अण्णुअ मुअइ वइल्लो वि अङ्गइं॥ १३०॥’

[उह्यसे प्रियया समदं तथापि खलु रे भणसि किमिति कृशेति।
उपरिभरेण च हे अज्ञ मुञ्चति वृषभोऽप्यङ्गानि॥]

अत्र सम्बोध्यमानयुष्मदर्थः कर्मतामापन्न उह्यस इति क्रियायां केवल एव क्रियापदार्थेन सह समाविष्टः; सेयं विविक्तकर्मक्रियासमावेशा नाम वैसादृश्यवती सहोक्तिः॥

“उज्झसीत्यादि”। “उह्यसे प्रियया समदं तथापि खलु रे भणसि किमिति कृशेति। उपरिभरेण च हे अज्ञ मुञ्चति वृषभोऽप्यङ्गानि॥” अपराधवता केनचिदबला दुर्बला किमिति त्वं कृशेति पृष्टा। तमुद्दिश्याह—“उह्यस इति”। प्रियया समदं सगर्वं यथा स्यादेवं त्वमुह्यसे भ्रियसे। तथापि रे त्वं वदसि किमिति कृशासि त्वमिति। हे अज्ञ ज्ञानहीन, उपरिभरेण गोण्यादिगौरवेण वृषभोऽप्यङ्गानि मुञ्चति त्यजति। किं पुनरवलेति भावः। उह्यस इति ‘वह प्रापणे’ कर्मणि लकारः। वइल्लो वृषभः। रेशब्दः साक्षेपसम्बोधने। अत्र वहनक्रियायां त्वमिति बोध्योऽर्थः कर्मीभूतः केवल एव प्रियापदार्थेन सह समाश्लिष्टस्तयोश्च विसदृशता व्यक्तैव॥

विविक्ताया एव लक्षणान्तरमाह—

यत्रानेकोऽपि कर्त्रादिः प्रविविक्तैः क्रियादिभिः।
विविक्तभावं लभते विविक्ता सापि कथ्यते॥ ५९॥

“यत्रेति”। यत्रानेकः कर्त्रादिर्भिन्नै क्रियादिभिर्भेदं लभते सा विविक्तेति कथ्यते॥

सा कर्तृद्व्यस्य पृथक् क्रियासमावेशे यथा—

‘वर्घते सह पान्थानां मूर्च्छया चूतमञ्जरी।
वहन्ति च समं तेषामश्रुमिर्मलयानिलाः॥ १३१॥’

अत्र चूतमञ्जरी मूर्च्छया सह वर्घनक्रियायाम्, मलयानिलाश्चाश्रुभिः सह वहनक्रियायां पृथक् पृथग्विवेकेनैव कर्तारः समाविष्टाः, सेयमपि विविक्तकर्तृक्रियासमावेशैव वैसादृश्यवती सहोक्तिः। एवं कर्मणोऽपि विवेके द्रष्टव्या।

“वर्धत इत्यादि”। चूतमञ्जरी पान्थानां मूर्च्छया सह वर्धते, मलयानिलास्तेषां पान्थानामश्रुभिः सह वहन्ति वान्ति भ्रश्यन्ति च। ‘पथिकः पान्थ इत्यपि’ इत्यमरः। अत्र चूतमञ्जर्यादेस्तत्क्रियायां विवेकेनैव कर्तृत्वेन समावेशः। विसदृशता तु व्यक्तैव॥

कर्तॄणामविविक्तक्रियासमावेशे यथा—

‘धीरेण ‘णिसाआमा’ इति सेतुबन्धे पाठःसमं जामा हिअएण समं अणिट्ठिआ उवएसा।
उच्छाहेण सह भुआ बाहेण समं गलन्ति से उल्लावा॥ १३२’

[धैर्येण समं यामा हृदयेन सममनिष्ठिता उपदेशाः।
उत्साहेन सह भुजौ बाष्पेण समं गलन्त्यस्या उल्लापाः॥]

अत्र यामादीनां बहूनां धैर्यादिभिः सह गलनक्रियायामेकस्यामेवाविविक्तः समावेशो दृश्यते; सेयमविविक्तकर्तृक्रियासमावेशा नाम वैसादृश्यवती सहोक्तिः॥

“धीरेणेत्यादि”। “धैर्येण समं यामा हृदयेन सममनिष्ठिता उपदेशाः। उत्साहेन सह भुजौ बाष्पेण समं गलन्त्यस्या उल्लापाः॥” अस्य रामस्य धैर्येण समं यामा रात्रिप्रहरा गलन्ति। हृदयेन सममनिष्ठिता अनिर्व्यूढा अनिश्चिता वा उपदेशा गलन्ति। उत्साहेन सह भुजा बाहवो गलन्ति। बाष्पेण सममुल्लापा आलापा वचनानि गलन्ति। धैर्यविगमानुचिते सदुपदेशावस्थितिः। ततो मनःशून्यता, तत उत्साहत्यागः, ततो भुजस्खलनम्, ततोऽश्रुणा सह वचनतेति क्रमेणाधिकार्तितो मन्मथदशाधिक्यमुक्तम्। उत्साहोऽध्यवसायः। अत्र गलनक्रियाया एकत्वेनाविविक्तता। वैसादृश्यं च व्यक्तमेव॥

कर्मणामविविक्तक्रियासमावेशे इवशब्देन सहशब्दस्य स्थाने ससादृश्या यथा—

‘धीरं व जलसमूहं तिमिणिवहं विअ सपक्खपव्वअलोअम्।
णइसोत्तेव तरङ्गे रअणाइँ व गरुअगुणसआइँ वहन्तम्॥ १३३॥’

[धैर्यमिव जलसमूहं तिमिनिवहमिव सपक्षपर्वतलोकम्।
नदीस्रोतांसीव तरङ्गान् रत्नानीव गुरुकगुणशतानि वहन्तम्॥]

अत्र धैर्येण सह जलसमूहस्य, तिमिनिवहेन सपक्षपर्वतलोकस्य, नदीस्रोतोभिस्तरङ्गाणाम्, रत्नैश्च गुरुकगुणशतानां मिथः प्रतीयमानं सादृश्यमिवेन द्योत्यते। सहार्थश्च वाक्यार्थसामर्थ्येन लभ्यत इति सेयं धैर्यादीनां बहूनां वहनक्रियायामेकस्यामेवाविवेकतः कर्मभूतानामावेशेनाविविक्तकर्मक्रियासमावेशा नाम ससादृश्या सहोक्तिः॥

“धीरं वेत्यादि”। “धैर्यमिव जलसमूहं तिमिनिवहमिव सपक्षपर्वतलोकम्। नदीस्रोतांसीव तरङ्गान् रत्नानीव गुरुकगुणशतानि वहन्तम्॥” इह समुद्रं कीदृशम्। धैर्यमिव जलसमूहं वहन्तम्, तिमिनिवहमिव मत्स्यविशेषसमूहमिव सपक्षं पक्षयुक्तम्, स्वपक्षं स्वमित्रं वा पर्वतलोकं मैनाकादिकं वहन्तम्, नदीप्रवाहानिव तरङ्गान् वहन्तम्, रत्नानीव गुरुकगुणशतानि महत्त्वादीनि वहन्तम्॥ ‘अस्ति मत्स्यस्तिमिर्नाम शतयोजनविस्तृतः।’ इति रामायणम्। ‘समूहेऽपि मतो लोकः’ इति रत्नकोषः। गुरुकेति स्वार्थे कन्। अत्र धैर्यजलसमूहादीनां मिथः सादृश्यं व्यक्तमेव प्रतीयमानमिवशब्देन द्योत्यते, साहित्यं च वाक्यार्थतया गम्यत इति सहोक्तिरियं सादृश्यवती॥

ग्रहणप्रयोजनमाह—

आदिग्रहणाद्गुणसमावेशेऽपि गुणिनः ससादृश्या यथा—

‘सह दीर्घा मम श्वासैरिमाः सम्प्रति रात्रयः।
पाण्डुराश्च ममैवाङ्गैः सह ताश्चन्द्रमूषणाः॥ १३४॥’

अत्र रात्रयो दीर्घाः पाण्डुराश्चेति दैर्घ्यपाण्डुरत्वगुणयोरविवेकेन रात्रिषु रात्रीणां च तयोः श्वासैरङ्गैश्च सह समावेशो दृश्यते; सेयमविविक्तगुणसमावेशानामेवाद्यप्रयोगेऽपि ससादृश्या सहोक्तिः।

“आदीति॥ सहेत्यादि”। इमा रात्रयः सम्प्रति विरहावस्थायां मम सह दीर्घाः, ममैवाङ्गैः सह चन्द्रभूषणाश्चन्द्रालङ्कारास्ता रात्रयः पाण्डुराश्च। चन्द्रभूषणत्वं रात्रीणां पाण्डुरत्वे हेतुः। विरहदशायां खेदान्निः श्वासदीर्घता, अङ्गपाण्डिमा, रात्रिदीर्घता च भवति। अत्र दीर्घत्वपाण्डुत्वगुणयोः समावेशः सादृश्यगर्म एवेति ससादृश्येयं सहोक्तिः॥ इति सहोक्त्यलङ्कारनिरूपणम्॥

समुच्चयालकारनिरूपणम्।

समुच्चयलक्षणमाह—

द्रव्यक्रियागुणादीनां क्रियाद्रव्यगुणादिषु।
निवेशनमनेकेषामेकतः स्यात्समुच्चयः॥ ६०॥

इतरेतरयोगो यः समाहारो य उच्यते।
अन्वाचय इहान्यो यः सोऽपि नान्यः समुच्चयात्॥ ६१॥

द्विपदाश्रयश्चापि स स्यात्स स्याद्बहुपदाश्रयः।
उभयाश्रयश्च स स्यात्स स्यादनुभयाश्रयः॥ ६२॥

त्रयः प्रतिपदं वा स्युर्द्योतकैरुत्तरत्र वा।
पदैः शुद्धाश्च मिश्राश्च तुरीयो द्योतकं विना॥ ६३॥

“द्रव्येति”। द्रव्यादीनामेकक्रियादिसमावेशः समुच्चयः। इतरेतरयोगादीनां समुच्चयामेदमाह—“इतरेति”। इतरेतरयोगः परस्परापेक्षावयवभेदानुगतः समुच्चयः। समाहारस्तिरोहितावयवभेदः संहतिप्रधानः समुच्चय एव, अन्वाचयो यत्रैकं प्रधानमन्यदप्रधानमन्वीयते सः। समुच्चयं विभजते—“द्विपदेति”। उभयं द्विपदबहुपदे। अनुभयमद्विपदबहुपदे। एषु मध्ये आद्यास्त्रयः प्रतिपदं वोत्तरत्र वा पदद्योतकैः सह सम्भवन्तीत्याह—“त्रय इति”। त्रय एव शुद्धा मिश्राश्च भवन्ति। तुरीयोऽनुभयाश्रयः समुच्चयो द्योतकं चकारादिकं विनैव भवति॥

तत्र द्विपदाश्रयः प्रतिपदाश्रितद्योतकत्वेन द्रव्ययोः क्रियासमुच्चयो यथा—

‘निर्यता परिजनेन बोधितः स्फूर्जमानरुचिरुल्लसद्दशः।
द्वारसंवलनमांसलोऽधिकं दीपकश्च मदनश्च दिद्युते॥ १३५॥’

अत्र दीपकश्च मदनश्चेति द्वे द्रव्ये प्रतिपदं चकारेणैकस्यां दिद्युते इति क्रियायां समुच्चयेन निवेशिते; तेन दिद्युताते इति द्विवचनम्, दीपकमदनाविति चार्थे द्वन्द्वश्च न भवति॥

“निर्यतेत्यादि”। दीपकः प्रशस्तदीपश्च मदनः कामश्चाधिकं दिद्युते दीप्तो बभूव। कीदृशः। निर्यता गच्छता सेवकेन सख्यादिना च बोधितः प्रकाशितो जागरितश्च। स्फूर्जमाना स्फुरन्ती रुचिर्दीप्तिरनुरागश्च यस्य सः। उल्लसन्ती दशा वर्तिरवस्था च स्य सः। द्वारे गृहद्वारे मदनबोधकभावे च संवलनं मिलनं तेन मांसलः स्फीतः। दीपक इति प्रशंसायां कन्। दिद्युत इति ‘द्युत दीप्तौ’ इत्यस्य लिटि रूपम्। अत्र चकाराभ्यां द्रव्ययोरेकक्रियानिवेशनात्समुच्चयः। यदि समुच्चयेन निवेशनं न स्यात्तदा दोषमाह—“तेनेति”। अन्योन्यनिरपेक्षतया द्विवचनं द्वन्द्वश्च स्यादित्यर्थः॥

द्विपदाश्रय एवोत्तरपदाश्रितद्योतकेन क्रिययोर्द्रव्यसमुच्चयो यथा—

‘निकामं क्षामाङ्गी सरसकदलीगर्भसुभगा कलाशेषा मूर्तिः शशिन इव नेत्रोत्सवकरी।
अवस्थामापन्ना मदनदहनोद्दाहविधुरा- मियं नः कल्याणी रमयति मनः कम्पयति च १३६’

अत्र रमयति कम्पयति चेति द्वे क्रिये उत्तरपदवर्तिना चकारेणैकस्मिन्मनोलक्षणे द्रव्ये कर्मणि समुच्चयेनैककालमेव निवेशिते; तेनायमन्वाचयो न भवति॥

“निकाममित्यादि”। इयं मालती नोऽस्माकं मनो रमयति कम्पयति च। कीदृशी। मदन एव दहनोऽग्निस्तस्मादुद्दाहः प्रकृष्टदाहस्तेन विधुरा विह्वलामवस्थां दशामापन्ना प्राप्ता। अत ए निकाममत्यर्थं क्षीणाङ्गी। सरसो यः कदल्या गर्भो मज्जा तद्वत्सुभगा मनोहरा। अनेन पाण्डुरता तीक्ष्णता चोक्ता। चन्द्रस्य कलाशेषा कलनामात्रावस्थिता मूर्तिरिव नेत्रानन्दजनिका कल्याणी कुशलवती। कदल्या गर्भपदेनातिपाण्डुरत्वकोमलत्वे ध्वनिते। प्रकृतकार्यसम्पादकतया रमयति। अतिपीडयारिष्टाशाङ्कित्वान्मनःकम्पनमिहेत्याशयः। अत्र कम्पयति चेत्युत्तरपदस्थेन चकारेणैकत्र मनोलक्षणे द्रव्ये क्रियाद्वयनिवेशनात्समुच्चयः। समुच्चयेन निवेशनाभावे दोषमाह—“तेनेति”। परस्परनैरपेक्ष्ये उत्तरपदस्थचकारेणान्वाचयापत्तिरित्यर्थः॥

बहुपदाश्रयः प्रतिपदाश्रितद्योतकत्वेन गुणानां क्रियासमुच्चयो यथा—

‘अप्राकृतस्तु कथमस्तु न विस्मयाय यस्मिन्नुवास करुणा च कृतज्ञता च।
लक्ष्मीश्च सात्त्विकगुणज्वलितं च तेजो धर्मश्च मानविजयौ च पराक्रमश्च॥ १३७॥’

अत्र करुणा च कृतज्ञता चेत्यादयो गुणाः प्रत्येकं बहुपदाश्रयत्वेन चाकरेणैकस्यामुवासेति क्रियायां समुच्चयेन निवेश्यन्ते। तेन गुणेषु बहुवचनं न भवति, करुणाकृतज्ञतादीनां द्वन्द्वसमासश्च न भवति यस्मिन्नित्यपेक्षायां चायमेव गुणानां द्रव्यसमुच्चयो भवति॥

“अप्राकृत इत्यादि”। स नृपतिर्विस्मयाय कथं नास्तु। कीदृशः। अप्राकृतोऽनीचः। महाजन इति यावत्। ‘नीचः प्राकृतश्च पृथग्जनः’ इत्यमरः। यस्मिन् करुणा दया, कृतज्ञता विज्ञता, लक्ष्मीः सम्पत्तिः, सात्त्विकगुणेन जाज्वल्यमानं तेजश्च, धर्मः सुकृतं, मानो विनयः, पराक्रमश्चोवास वसति स्म। इह कारुणिकस्य करुणामात्रप्रवृत्त्या कृतज्ञतायाः साहजिकोऽभाव इति। तथा चास्मिन्नुभयमिति महाजनतास्य सूचिता। तथाप्यलक्ष्मीकस्य न किमपि श्लाघाविषय इति सलक्ष्मीकतोक्ता। तथापि निःसात्त्विकस्य कुतो महाजनत्वमतः सात्त्विकगुणाधिक्यमुक्तम्। निष्प्रतापस्य सर्वमुक्तं लक्षणलशोभाकरमेव भवतीति तेजस आधिक्यमुक्तम्। भवतु यथोक्तगुणसम्पत्तिः, अधार्मिके सर्वे गुणा विगुणायन्ते। तदर्तमाह—“धर्मश्चेति”। मानविनयपराक्रमाः प्रत्येकं महापुरुषे विशेषगुणा इति तेऽप्युक्ता इति। अत्रानेकपदाश्रितचकारैरेकाक्रियायां नानागुणाः समुच्चयेन निवेशिता इति समुच्चयता॥ तदभावे दोषमाह—“तेनेति”। असमुच्चयनिवेशे करुणादय ऊषुरिति स्यादित्यर्थः। “यस्मिन्निति”। यदि यस्मिन्नित्यैकद्रव्ये गुणसमुच्चयविवक्षात्र तदा सोऽपि भवतीत्यर्थः॥

बहुपदाश्रय एवोत्तरपदाश्रितद्योतकत्वेन गुणानां क्रियासमुच्चयो यथा—

‘रूपमप्रतिविधानमनोज्ञं प्रेम कार्यमनपेक्ष्य विकाशि।
चाटु चाकृतकसम्भ्रममासां कार्मणत्वमगमद्रमणेषु॥ १३८॥’

अत्र रूपं प्रेम चाटु चेति बहवो गुणा उत्तरपदाश्रयेण चकारेणागमदित्येकस्यां क्रियायां समुच्चयेन निवेश्यन्ते, तेनागमन्निति बहुवचनं द्वन्द्वो वा न स्यात्। कार्मणत्वमित्यपेक्षायां चायमेव गुणानां जातिसमुच्चयो भवति॥

“रूपमित्यादि”। आसां स्रीणां रमणेषु विषये इदमिदं कार्मणत्वं वशीकरणे मूलकर्मत्वमागमत् ययौ। अप्रतिविधानेनानिर्बन्धेन। सहजेनेति यावत्। मनोज्ञरूपं कार्यमनपेक्ष्य विकाशि सहजप्रकाशवत्प्रेम्, अकृतकः स्वाभाविकः सम्भ्रम आदरो यत्रेदृशं चाटु कौशलं च। ‘मूलकर्म तु कार्मणम्’ इत्यमरः। अत्र रूपादयो गुणा अन्त्यपदस्थितचकारेण गमनरूपाक्रियायां समुच्चयेन निवेशिता इति समुच्चयः। तदभावे दोषमाह—“अगमन्निति”। असमुच्चये बहुवचनं द्वन्द्वश्च स्यादित्यर्थः। इदमेव गुणानां कार्मणत्वम्। जात्या समुच्चयेन जातिसमुच्चयोऽपीत्याह—“कार्मणत्वमिति”।

उभयपदाश्रय उत्तरपदाश्रितद्योतकत्वेन द्रव्यगुणानां क्रियासमुच्चयो यथा

‘विचिन्त्यमानं मनसापि देहिनामिदं हि लोकेषु चकास्ति दुर्लभम्।
निशा सचन्द्रा मदिरा च सोत्पला प्रियानुरागोऽभिनवं च यौवनम्॥’

अत्र निशा मदिरा च द्रव्ये, अनुरागो यौवनं च गुणौ, बहुष्वपि पदेषु द्वन्द्वे सत्यपि उत्तरपदाश्रयनिवेशिना चकारेण चकास्तीत्येकस्यां क्रियायां निवेश्यन्ते; तेन चकासतीति बहुवचनं समासश्च न स्यात्। अयमेव च दुर्लभमित्यपेक्षायां द्रव्यगुणानां गुणसमुच्चयो भवति। तेऽमी त्रयोऽपि शुद्धाः॥

“विचिन्त्येत्यादि”। इदं लोकेषु भुवनेषु मध्ये देहिनां प्राणिनां विचिन्त्यमानं मनसापि दुलभमेव चकास्ति। हिरवधारणे। किं तत्। सचन्द्रा रात्रिः, सकमलं मद्यम्, प्रियाया अनुरागः प्रीतिः, अभिनवं यौवनं च। अत्र द्वन्द्वशो युगलत्वेनान्त्यपदस्थितचकारेणैकक्रियानिवेशः। तदभावे दोषमाह—“तेनेति”। दुर्लभत्वविवक्षया दुःखमयत्वे गुणसमुच्चयोऽपीत्याह—“अयमिति”॥

मिश्रः पुनरुभयपदाश्रयवद्बहुपदाश्रयश्च भवति। यथा—

‘आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च।
अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् १४०’

अत्रादित्यचन्द्रादयो द्रव्यविशेषा उत्तरपदनिवेशिना प्रतिपदनिवेशिना च चकारण जानातीत्येकस्यां क्रियायां सन्निवेश्यन्ते। तेन च बहुवचनाभावे समासाभावे चैष मिश्रः समुच्चयभेदो भवति॥

“आदित्येत्यादि”। अनिलो वायुः, अनलोऽग्निः द्यौराकाशः, आपो जलम्, हृदयम्, यमः, अहो दिनम्, उभे प्रातःसायम्, धर्मो विधाता चायं जनस्य वृत्तं चरित्रं जानाति। आदित्यचन्द्रौ जानीत इति विभक्तिविपरिणामेनान्वयः। ‘धर्मो गुणादौ लोकेशे’ इति रत्नकोषः। अत्रादित्यादय उत्तरपदप्रतिपदनिवेशितचकारेणैकक्रियायां निवेशिता इति मिश्रता। तदभावे दोषमाह—“तेनेति”।

अनुभयाश्रयस्तु समुच्चयोऽन्वाचयश्च न भवति। द्व्योरपि दीपकेन विषयापहारात्। तेनेतरेतरयोगसमाहारयोः स उदाह्रियते तत्रेतरेतरयोगो यथा—

‘सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु।
गन्तुमुत्थितमकारणतः स्म द्योतयन्ति मदविभ्रममासाम्॥ १४१॥’

अत्रोक्तम्, उपेक्षा, उत्थितमित्येते क्रियाद्रव्यविशेषा इतरेतरयोगेन मदविलासद्योतनक्रियायां निवेश्यन्ते; तेन द्योतयन्तीति बहुवचनं द्वन्द्वसमासश्च तद्विवक्षायां स्यात्। न चेह द्योतकश्चकार उत्तरपदे प्रतिपदं वा विद्यत इति सोऽयमनुभयाश्रयः समुच्चयमेदः॥

“अनुभयेति”। यत्र द्विपदे बहुपदे वा चकारो नास्ति समुच्चयोऽन्वाचयोऽपि न भवति। दीपकलक्षणेन तस्य विषयीकरणादेकत्रवर्तिना क्रियादिवाचकपदेन सर्ववाक्योपकारकत्वस्य दीपकत्वात्, तादृशसमुच्चयान्वाचययोश्च तत्सत्त्वादित्याशयः॥ “सावशेषेत्यादि”।आसां स्त्रीणामेतानि मदविभ्रमं मत्तताविलासं द्योतयन्ति स्म। तान्याह —सहावशेषैरवशिष्टभागैर्वर्तते सावशेषं सखण्डं पदं यत्रेदृशमुक्तं वचनम्। खण्डाक्षरवचनमित्यर्थः। स्रस्तानि स्खलितानि यानि मालावस्त्रालङ्करणानि तेषूपेक्षा असंवरणम्। अकारणतो हेतुं विनैव गन्तुं गमनं कर्तुमुत्थितमुत्थान च। उक्तमिति भावे क्तः। उत्थितमित्यपि भावे क्तः। अकारणत इति पञ्चम्यास्तसिः। अत्रोक्तादेर्वचनादिरूपक्रियात्मकस्य तदाश्रयस्य द्रव्यस्य मिथो योगेन प्रधानक्रियायां निवेशः। अत एव द्योतयन्तीति बहुवचनम्। समुच्चयस्वीकारे दोषमाह—“द्वन्द्वेति”॥

समाहारो यथा—

‘वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु।
वरेषु यद्बालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने १४२’

अत्र ‘यद्वरेषु मृग्यते तत्किं त्रिलोचने व्यस्तमप्यस्ति’ इति ब्रुवन् वपुर्वयोवसूनां समुदायं समस्तमेवाभिसन्धत्ते। तस्य चाविर्भूतावयवभेदत्वेनेतरेतरयोगः, तिरोहितावयवभेदत्वेन समाहारः। स इह यदित्येकवचनान्तेन नपुंसकेन च कथ्यते। न चेह क्वचिदपि चकारोऽस्तीति सोऽयमप्यनुभयाश्रयः समुच्चयमेदः॥

“वपुरित्यादि”। हे बालमृगाक्षि शिशुहरिणनेत्रे गौरि, वरेषु यन्मृग्यतेऽन्विष्यते तत्त्रिलोचने शिवे व्यस्तमप्येकैकमप्यस्ति किम्। किन्तु नास्त्येव। तदाह—वपुः शरीरं विरूपमक्षि यत्र तादृशं विरूपं विरूद्धस्वरूपम्। नेत्रे द्वित्वसम्बन्धस्याविरुद्धत्वात्, त्रित्वस्य विरुद्धत्वात्। अलक्ष्यमलक्षणीयं जन्म उत्पत्तिः कुलमिति यावत्। यस्य सोऽलक्ष्यजन्मा तस्य भावोऽलक्ष्यजन्मता। अकुलीनतेत्यर्थः। दिश एवाम्बरं यस्य तद्भावेन वसु धनं निवेदितं कथितम्। ‘नग्नोऽवासा दिगम्बरः’ इत्यमरः। भृग्यत इति मृग अन्वेषणे कर्मणि लकारः। अत्र वपुरादिसमुच्चये यदा स्फुटावयवभेदतां तदेतरेतरयोगः। यदा तु तिरोहितावयवभेदता तदा समाहारः। यदित्येकत्वक्लीबत्वाभ्यामिह समाहार एवोक्तः। चकारयोगेऽपीतरेतरयोगमाह—“न चेति”॥

चयोगेऽपीतरेतरयोगः। स उत्तरपदयोगेऽपि यथा—

‘तत्क्षणं विपरिवर्तिताह्रियोर्नेष्यतोः शयनमिद्धरागयोः।
सा बभूव वशवर्तिनी द्व्योः शूलिनः सुवदना मदस्य च॥ १४३॥’

अत्र शूलिनो मदस्य चेत्यत्तरपदाश्रयेण चकारेण द्वौ द्रव्यविशेषौ ‘वशवर्तिनी’ इत्येतस्मिन् गुणपदे यदीतरेतरयोगेन सन्निवेश्येते तदा ‘विपरिवर्तितह्रियोः’ इत्यादिषु ‘द्व्योः’ इतिपर्यन्तेषु द्विवचनमेकशेषो वा न स्यात्। सोऽयमपि द्विपदाश्रय उत्तरपदाश्रितद्योतकश्च समुच्चयभेदः॥

“तत्क्षणमित्यादि”। सा सुवदना गौरी शूलिनो हरस्य मदस्य मत्ततायाश्च द्व्योर्वशवर्तिनी आयत्ता बभूव। द्व्योः कीदृशयोः। तत्कालं विपरिवर्तिता विगता ह्रीर्लज्जा ययोस्तयोः। इद्ध उपचितो रागो ययोस्तयोः। अत एव शयनं नेष्यतोः शव्यां नेच्छतोः। अत्र शूलिमदयोर्वशवर्तित्व इतरेतरयोगेन सन्निवेशे दोषमाह—“तदेति”। बहुपदाश्रय उत्तरपदाश्रितचकारेणेतरेतरयोगो भवतीत्याह—“एवमिति। समाहारमिति”। विचिन्त्यमानमिति श्लोके इदमित्येकत्वक्लीबत्वाभ्यां समाहार उक्त इत्यर्थः। द्रव्यादिविषयत्वे इतरेतरयोगसमाहारयोः सत्त्वादन्वाचये विषयान्तरमाह—“क्रियेति”॥

एवमपरेऽपीतरेतरयोगेऽपि चयोगा उदाहार्याः। समाहारस्तु चयोगविषयो विचिन्त्यमानमित्यादिनैवोक्तः, अन्वाचयस्तु क्रियाविषय एवोपपद्यते। तत्र चोत्तरपदाश्रय एव चकारो भवति॥ यथा—

‘गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रूद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः।
सौदामिन्या कनकनिकषस्निग्धया दर्शयोर्वी तोयोत्सर्गस्तनितमुखरो मा च भूर्विक्लवास्ताः॥ १४४’

अत्र पूर्वं ‘दर्शय’ इत्युर्वीकर्मविषयत्वेन क्रियामुपन्यस्य ‘तोयोत्सर्गस्तनितमुखरो मा च भूः’ इति तत्कर्तर्येव धर्मिण्यकर्मकं क्रियान्तरमन्वाचीयते, सोऽयं भिन्नकालत्वभिन्नविषयत्वाभ्यामन्वाचयः समुच्चयाद्भिन्नो भवति॥

नन्वेवं यदि समुच्चयेऽपि भिन्नविषये क्रिये तुल्यकालमेव प्रयुज्येते; को दोषः स्यात्। न कश्चित्। किन्तु तस्य समुच्चयमुद्रया विषयोऽपहृत इति नोदाह्रियते॥

“गच्छन्तीनामिति”। तत्र स्त्रीणां सौदामिन्या विद्युता त्वमुर्वी भूमिं दर्शय। कीदृशीनाम्। नक्तं रात्रौ पतिगृहं गच्छतीनाम्। कस्मिन् सति। सूच्यग्रभेदनीयैरन्धकारै राजमार्गेऽवरुद्धदर्शने सति। सौदामिन्या कीदृश्या। कनकस्य हिरण्यस्य निकषः कषपट्टिकायां कषणरेखा तद्वत्स्निग्धया रम्यया तोयत्यागस्तनितमुखस्त्वं मा भूः मा भव। यतस्ता अनाथा विक्लवा विह्वलाः स्युः। ‘निकषः कषरेखायां पट्टिकायां कषस्य च’ इति मेदिनीकारः। ‘स्तनितं घनगर्जितम्’ इत्यमरः। माभूरित्यत्र ‘न माङ्योगे ६।४।७४’ इत्यङ्निषेधः। अत्राद्यक्रियामुक्त्वा द्वितीयक्रियाया अन्वाचयः। समुच्चयाद्भेदमाह—“भिन्नेति”। समुच्चये एककालिक एकविषयेऽन्वयः, अत्रत्वन्वये कालभेदो विषयभेदश्चेति भेदादित्यर्थः। उक्तवैधर्म्ययोः समुच्चये सत्त्वमाशङ्क्य परिहरति—“किन्त्विति”। समुच्चये उभयधर्मवत्त्वेऽपि समुच्चयत्वेनैव विषयपरिहारः, इह तु विवक्षयैव विनिगमनेत्याशयः॥

समासेऽपीतरेतरयोगादनुभयाश्रयः समुच्चयभेदो यथा—

‘वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥ १४५॥’

अत्र ‘वागर्थाविव’ इति परवल्लिङ्गता ‘सम्पृक्तौ पितरौ’ इत्यत्र योऽयं ‘पुमान् स्त्रिया १।२।६७’, ‘पिता मात्रा १।२।७०’ इति चैकशेषस्तेनैष विशेषलक्षणयोगाद्वक्रोक्तित्वे सत्यलङ्कारता लभत इति; न धवखदिरादिष्वतिप्रसङ्ग इत्ययमपि समुच्चयभेदः॥

“वागर्थावित्यादि”। अहं गौरीहरौ वन्दे नमामि। किमर्थम्। वाक् चार्थश्च तयोः प्रतिपत्तये निश्चयाय। कीदृशौ। वागर्थाविव शब्दतदभिधेयाविव सम्पृक्तौ सम्बद्धौ। यथा शब्दस्तद्वाच्योऽर्थश्च द्वौ नित्यसम्बद्धौ वाच्यवाचकत्वसम्बन्धेन तथा यौ नित्यसम्बद्धावित्यर्थः। जगतो लोकस्य पितरौ मातृजनकौ। पिता च माता चेति द्वन्द्वे ‘पिता मात्रा १।२।७०’ इत्येकशेषे पितराविति। पार्वत्या मातृत्वेन मातुश्चातिगौरवेणाभ्यार्हितत्वात्पूर्वनिपातः। ‘सहस्रेण पितुर्माता गौरवेणातिरिच्यते।’ इति स्मृतिः। अनेनार्धनारीश्वर उक्तः। यद्वा पार्वतीं पातीति पार्वतीपो हरः, रमाया लक्ष्म्या ईश्वरो हरिस्तौ वन्दे। यद्वा पार्वतीपरो हरो माया लक्ष्म्या ईश्वरो हरिस्तौ हरहरी वन्दे। कीदृशौ। लोकस्य पितरौ जनकौ। अन्यत्तुल्यमेव। एतेन हरिहररूपमुक्तमिति कुव्याख्या। ‘रमा लक्ष्म्यामपीष्यते’ इति विश्वः। ‘मा च लक्ष्मीर्निगद्यते’ इत्येकाक्षरः। परवल्लिङ्गता अर्थशब्दलिङ्गता। सम्पृक्ता च सम्पृक्तश्चेत्यत्र ‘पुमान् स्त्रिया १।२।६७’ इत्येकशेषः। अतएवोक्तेर्वक्रतयेहालङ्कारता। न च धवखदिरावित्यादिषु वक्रोक्तिरतो नालङ्कारता॥

समाहारयोगादपि यथा—

‘स्त्रीणां हावैः कृते यत्र निजकार्ये मनोभुवा।
अक्षिभ्रुवनिभं न्यस्तं तन्मुखे शरकार्मुकम्॥ १४६॥’

अत्रापि योऽयं ‘अक्षिभ्रुवम्ऽ, ‘शरकार्मुकम्ऽ, इत्येतयोः ‘द्वन्द्वश्च प्राणितूर्यसेनाङ्गनाम् २।४।२’ इति, ‘वाङ्मनसाक्षिभ्रुव—५।४।७७’ इति च विशेषलक्षणयोगस्तेन धवखदिरपलाशमित्येवमादिषु नातिप्रसङ्गा भवति॥

“स्त्रीणामित्यादि”। यत्र नगरे मनोभुवा कामेन तन्मुखे स्त्रीणां मुखेऽक्षिभ्रुवनिभं नेत्रभ्रूव्याज शरकार्मुकं न्यस्तमारोपितम्। स्त्रीणां हावैः शृङ्गारजक्रियामिर्निजकार्ये मनश्चापलादौ कृते सति। ‘हावाः क्रियाः शृङ्गारभावजाः’ इत्यमरः। अत्रापि विशेषलक्षणाभ्यामेव वक्रोक्तिता॥ इति समुच्चयालकारनिरूपणम्॥

आक्षेपालङ्कारनिरूपणम्।

आक्षेपं लक्षयति—

विधिनाथ निषेधेन प्रतिषेधोक्तिरत्र या।
शुद्धा मिश्रा च साक्षेपो रोधो नाक्षेपतः पृथक्॥ ६४॥

“विधिनेति”। विधिना हेतुना प्रतिषेधेन वा हेतुना या प्रतिषेधस्योक्तिर्निर्वचनं सा आक्षेपः। रोधः पुनराक्षेप एवेत्याह—“रोध इति”। आक्षेपलक्षणेनैव गृहीतत्वाद्रोधो न ततो भिन्न इत्यर्थः॥

तत्र विध्याक्षेपः शुद्धो यथा—

‘गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः।
ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान्॥ १४७॥’

अत्र ‘गच्छ’ इत्यस्य विधिवाक्यस्य ‘ममापि जन्म तत्रैव भूयात्’ इत्याशिषानुकूलतयैव मरणसूचनान्निषेधः क्रियत इति शुद्धोऽयं विध्याक्षेपः॥

“गच्छेत्यादि”। इह हे कान्त वल्लभ, चेद्यदि गच्छसि तदा गच्छ। विदेशमिति शेषः। मया न रोधः क्रियते। किन्तु भवान्यत्र गतो भूयात्तत्रैव ममापि जन्म भूयादिति। परं वदामिति शेषः। अत्र गमनस्य विधिरूपस्य जन्म भूयादित्यनेन विधिरूपेणैव त्वयि गते मया मर्तव्यमिति मरणसूचनाद्विधिना गमनप्रतिषेधोक्तिः अन्यासङ्करेण च शुद्धता॥

मिश्रो यथा—

‘अलं विवादेन यथा श्रुतं त्वया तथाविधस्तावदशेषमस्तु सः।
ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते १४८’

अत्र ‘अलं विवादेन’ इति निषेधेन, ‘तथाविधः सोऽस्तु—’ इति विधिना च तन्मतमवस्थाप्य, ‘ममात्र भावैकरसं मनः स्थितम्’ इति विधिना, ‘न कामवृत्तिर्वचनीयमीक्षते’ इति प्रतिषेधेन च यत्पुनराक्षिपति, सोऽयं विधिनिषेधाभ्यां विधिमिश्र आक्षेपो भवति॥

“अलमित्यादि”। त्वया यथा श्रुतं तत्र विवादेनालं निष्फलम्। अशेषं समग्रं यथा स्यादेवं स तावत्तथाविध एवास्तु। मम मनोऽत्र भावैकरसमभिप्रायवशं स्थितमस्ति। यद्यपि भवे विरूपाक्षत्वादिकं त्वदुक्तं वर्तते, तथापि मन्मनस्तदेकपरमित्यर्थः। अत्र हेतुः कामवृत्तिरिच्छाव्यापारो वचनीयं वक्तव्यं नेक्षते न पश्यति। ‘कामावृत्तिः स्वेच्छाव्यवहारी वचनीयमस्थानसङ्गापवादं नेक्षते न विचारयति। नहि स्वेच्छाचारिणो लोकापवादाद्बिभ्यतीति भावः।’ इति मल्लिनाथव्याख्यानमेवात्र साधीयःइच्छा न परार्थयोज्या भवतीत्यर्थः। अत्र निषेधविधिभ्यां तन्मतस्थापनरूपस्य विधेर्विघिनिषेधाभ्यामाक्षेप इति विध्याक्षेपोऽयं मिश्रः॥

निषेधाक्षेपः शुद्धो यथा—

‘कुतः कुवलयं कर्णे करोषि कलभाषिणि।
किमपाङ्गमपर्याप्तमस्मिन्कर्मणि मन्यसे॥ १४९॥’

अत्र ‘कुतः कुवलयं कर्णे करोषि’ इत्यस्य निषेधवाक्यस्य ‘किमपाङ्गम्—’ इत्यादिना प्रश्नपरेणापि निषेधपर्यवसायिना वाक्येन समर्थनं क्रियत इत्ययं शुद्धो निषेधाक्षेपः॥

“कुत इत्यादि”। हे कलभाषिणि मधुरवचने, कस्मान्नीलोत्पलं कर्णे करोषि। कुत इति प्रतिषेधे हेतुमाह—अस्मिन् कर्मणि कामिवशीकरणादौ किमपाङ्गं नेत्रप्रान्तमपर्याप्तमसमर्थं त्वं मन्यसे। अत्र निषेधस्य निषेधपर्यवसायिवाक्येन क्षेपणान्निषेधाक्षेपः। शुद्धता च कैवल्येन॥

मिश्रो यथा—

‘सच्चं गुरुओ गिरिणो को भणइ जलासआ ण गम्भीरा।
धीरेहिं उवम माउं तह वि खु मह णत्थि उच्छाहो॥ १५०॥’

[सत्यं गुरवो गिरयः को भणति जलाशया न गम्भीराः।
धीरैरुपमातुं तथापि खलु मम नास्त्युत्साहः॥]

अत्र ‘सत्यं गुरवो गिरयः’ इति विधिः, ‘क आह जलाशया न गम्भीराः’ इति परमताक्षेपस्ताभ्यां गिरीणां गुरुत्वम् सागराणां च गाम्भीर्यं यदयमुत्तरार्धेन धीरापेक्षया निषेधति, अन्यापेक्षया तत्तदेव विधत्ते; स एष मिश्रो निषेधाक्षेपः॥

“सच्चमित्यादि”। ‘सत्यं गुरवो गिरयः को भणति जलाशया न गम्भीराः। धीरैरुपमातुं तथापि मम नास्त्युत्साहः॥’ इह पर्वता निश्चितं गुरुत्वाश्रयाः। को वदति जलाशयाः सागरा न गम्भीराः किन्तु गम्भीरा एव। गिरिसागरौ धीरैः सहोपमातुं सदृशीकर्तुं तथापि मम नोत्साहोऽस्ति धीराणां तयोराधिक्यात्। ‘जलाशयो जलाधारः’ इति कोषाद्यद्यपि जलाशयपदं जलाधारमात्रार्थकं तथाप्यतिगाम्भीर्ययोग्यतया सागरपरम्। अत्र विधिनिषेधाभ्यां गुरुत्वगाम्भीर्यनिषेधोऽन्यापेक्षया विधिश्चेति मिश्रता॥

ऽरोधो नाक्षेपतः पृथक्’ इति यदुक्तं तत्रैतावान्विशेषः—

क्रियासूत्तिष्ठमानस्य वारणं कारणेन यत्।
उक्त्या युक्त्या च रोधो य आक्षेपः सोऽयमुच्यते॥ ६५॥

प्रतिकूलोऽनुकूलश्च विधौ रोधोऽभिधीयते।
निषेधेऽप्युक्तियुक्तिभ्यां द्विप्रकारः स कथ्यते॥ ६६॥

रोधे विशेषमाह—“क्रियास्विति”। क्रियासूद्योगिनां हेतुद्वारा यन्निवारणमुक्त्या युक्त्या च स रोधः। स च शेषीभूत आक्षेप एव। विधिनिषेधयोगित्वमथाक्षेपसाधारण्यम्॥ ६५॥ ६६॥

तत्रोक्त्या विधौ प्रतिकूलो यथा—

‘किं जम्पिएण दहमुह जम्पिअसरिसं अणिव्वहन्तस्स भरम्।
एत्तिअ जम्पिअसारं णिहणं अण्णे वि वज्जधारासु वआ॥ १५१’

[किं जल्पितेन दशमुख जल्पितसदृशमनिर्वाहयतो भरम्।
एतावद जल्पितसारं निधनमन्येऽपि वज्रधारासु गताः॥]

अत्र ‘किमः’ प्रतिकुलवाचित्वाद् वचनवृत्त्यैव जल्पन् दशाननश्चित्ररथेन रुद्धः, कारणं च वज्रप्रभावकीर्तनादिति प्रातिकूल्येनोपन्यस्तम्; सोऽयमौक्तः प्रतिकूलश्च विध्याक्षेपो रोध इत्युच्यते॥

“किमित्यादि”। “किं जल्पितेन दशमुख जल्पिसदृशमनिर्वाहयतो भरम्। एतावद् जल्पितसारं निधनमन्येऽपि वज्रधारासु गताः॥” इह हे दशमुख रावण, जल्पितेन भाषितेन किम्। किन्तु न किमपि। कस्य, उक्तिसदृशं भरमनिर्वाहयतः पुंसः। भरमध्यवसायम्। एतावदेतदेव जल्पितसारं श्रेष्ठम् यदन्येऽपि योधा वज्रधारसु निधनं नाशं गताः। ‘श्रेष्ठेऽर्थवत्सारमुदहरन्ति’ इति शाश्वतः। अत्र जल्पन् रावणश्चित्ररथेन वज्रप्रभावकीर्तनरूपप्रतिकूलोक्त्या रूद्ध इति विध्याक्षेपविरोधः॥

उक्त्यैव विधावनुकूलो यथा—

‘हन्तुं विमग्गमाणो हन्तुं तुरिअस्स अप्पणा दहवअणम्।
किं इच्छसि काउं जे पवअवइ पिअं ति विण्पिअं रहवइणो १५२’

[हन्तुं विमार्गमाणो हन्तुं त्वरितस्यात्मना दशवदनम्।
किमिच्छसि कर्तुं यत्प्लवगपते प्रियमिति विप्रियं रघुपतेः॥]

अत्रापि ‘किमः’ प्रतिषेधवाचित्वात् वचनवृत्त्यैव दशाननवधायोत्तिष्ठमानः सुग्रीवो जाम्बवता रुद्धः, कारणं पुनरानुकूल्येनैवोक्तम्—ऽकिमेतत् त्वया रघुपतेः प्रियरूपं विप्रयमुपक्रान्तम्’ इति। सोऽयमौक्तोऽनुकूलश्च विध्याक्षेपो रोध इत्युच्यते॥

“हन्तुमित्यादि”। “हन्तुं विमार्गमाणो हन्तुं त्वरितस्यात्मना दशवदनम्। किमिच्छसि कर्तुं प्लवगपतेऽस्य प्रियमिति विप्रियं रघुपतेः॥” इह हे प्लवगपते सुग्रीव, दशवदनं हन्तुं विमार्गमाणो याचमानस्त्वं रघुपते रामस्य किं प्रियमिति कृत्वा विप्रियमनिष्टं कर्तुमिच्छसि। कथं विप्रियता तत्राह—कीदृशस्य। दशवदनमेवात्मना हन्तुं त्वरितस्य, प्रभुणा जिघांसितस्य हि वधेऽपराध इति स एव पुरुषोत्तमस्तं घातयतु। समेतैर्भवदादिभिः साहाय्यमाचर्यतामित्याशयः। यच्छब्दोऽव्ययत्वेनानेकार्थतया सम्बोधनार्थः। यद्वा जेशब्दः पादपूरणे। दशवदनपदमाकाङ्क्षाक्रमेणावृत्त्या हननद्वयान्वयि। अत्र रावणवधोद्यमो विधिरुक्त्यैव जाम्बवता रुद्धोऽनुकूलतया हेतुमुद्भाव्येति रोधोऽयं विध्याक्षेपशेषः॥

विधावेव युक्त्यानुकूलः प्रतिकूलश्च यथा—

‘गच्छेति वक्तुमिच्छामि त्वत्प्रियं मत्प्रियैषिणी।
निर्गच्छति मुखाद्वाणी मा गा इति करोमि किम्॥ १५३॥’

अत्र यथोक्तमुक्त्वा ‘किं करोमि’ इत्यानुकूल्येनैवाह। अत्र किमः प्रश्नार्थत्वेऽपि युक्त्या निषेधार्थत्वं गम्यते, सोऽयं यौक्तोऽनुकूलश्च विध्याक्षेपो रोध इत्युच्यते॥ अयमेव चास्या वैयात्योक्तिपक्षे यौक्तः प्रतिकूलविध्याक्षेपो रोधो भवति॥

“गच्छेत्यादि”। हे सखि, त्वत्प्रियं गच्छेति वक्तुमिच्छामि। मत्प्रियैषिणी स्त्रीत्वेन स्त्री प्रियत्वान्मा गा इति वाणी मम मुखान्निर्गच्छतीति किं करोमि। ‘मत्प्रियं त्वत्प्रियैषिणी’ इति पाठे तु त्वत्प्रियैषिण्यहं गच्छेति विवक्षामि, मत्प्रियं यथा भवति तथा मा गा इति वाणी निःसरतीति योज्यम्। अत्र किं करोमीत्यस्य युक्त्या प्रकृतोपपत्त्या निषेधार्थतावगमः। यदि वैयात्यात्प्रागल्भ्याद् विपरीतमभिधत्ते तदा मा गच्छेति वक्तुमिच्छामि, गच्छेति वाणी निःसरतीत्यत्र किं करोमीति तदा युक्तिसिद्ध एव रोधोऽयम्॥

युक्त्या निषेधे प्रतिकूलो यथा—

‘पउरजुआणो गामो महुमासो जोव्वणं पई ठेरो।
जुण्णसुरा साहीणा असई मा होउ किं मरउ॥ १८४॥’

[प्रचुरयुवा ग्रामो मधुमासो यौवनं पतिः स्थविरः।
जीर्णसुरा स्वाधीना असती मा भवतु किं म्रियताम्॥]

अत्र ‘असती मा भवतु’ इति यः प्रतिषेधमाह स ‘प्रचुरयुवा ग्रामः—’ इत्यादि कारणमुक्त्वा ततः ‘किं म्रियताम्’ इति प्रतिकूल्येन रुध्यते। तत्र किमः काक्वा सासूयप्रश्नार्थस्य युक्त्या निषेधार्थत्वं गम्यते; सोऽयं यौक्तः प्रतिकूलनिषेधाक्षेपो रोध इत्युच्यते॥

“पउर इत्यादि”। “प्रचुरयुक्को ग्रामो मधुमासो यौवनं पतिः स्थविरः। जीर्णसुरा स्वाधीना असती भा भवतु किं म्रियताम्॥” काचिद्वृद्धपतिका चलचित्तेति ज्ञात्वा कयाचित्कस्यैचित्कथितम्। सा तु तत्रोत्तरमाह—“प्रचुर इति”। प्रचुरा बहवो युवानस्तरूणा यत्र तादृशः। ‘शेषाद्विभाषा ५।४।१५४’ इति कप्। मधुमासो वसन्तः, यौवनम्, स्वामी स्थविरो वृद्धः। जीर्णसुरा पुराणमद्यं स्वाधीनं निजायत्तमतोऽसती सा मा भवतु किं म्रियताम्। यद्यस्मिन् वत्सरे सा चञ्चला न स्यान्म्रियेतैवेत्यर्थः। सुरा जीर्णा प्रीतिकरीति मद्यपप्रसिद्धः। अत्र किं म्रियतामिति किमः काकुगर्भतया सासूयप्रश्नार्थता युक्त्या निषेधविषयिणी ज्ञायत इति रोधोऽयम्॥

यक्त्यैव निषेधेऽनुकूलो यथा—

‘कह मा झिज्जउ मज्झो इमाइ ‘उप्पलिए कलमकन्दोट्टा’ इति देशीनाममालाकन्दोट्टदलसरिच्छेहिं।
अच्छीहिं जो ण दीसइ घणथणभररुद्धपसरेहिं॥ १५५॥’

[कथं मा क्षीयतां मध्योऽस्याः कुवलयदलसदृक्षाम्याम्।
अक्षिम्यां यो न दृश्यते घनस्तनभररुद्धप्रसराभ्याम्॥]

अत्र ‘स्तनादिवदस्या मध्योऽपि मा क्षीयताम्’ इति निषेधवादी केनचिदानुकूल्येन रूध्यते। कथमयं मा क्षीयतामिति। योऽस्याःकुवलयदलसदृक्षाभ्यां लोचनाभ्यां घनस्तनरुद्धप्रसराभ्यां न दृश्यते। इयं ह्येताभ्यामन्यमीक्षमाणा यन्न पश्यति सोऽहमिव मध्योऽपि क्षीयमाणो लक्ष्यते तत्र किमः प्रश्नार्थत्वे निषेधार्थत्वं गम्यते; सोऽयं यौक्तोऽनुकूलश्च निषेधाक्षेपो रोध इत्युच्यते॥

“कहमित्यादि”। “कथं मा क्षीयतां मध्योऽस्याः कुवलयदलसदृक्षाभ्याम्। अक्षिभ्यां यो न दृश्यते घनस्तनभररुद्धप्रसराभ्याम्॥” इहास्या नायिकाया मध्यः कथं मा क्षीयतां न क्षीणतां यातु। योऽस्याः कुवलयदलतुल्याभ्यामक्षिभ्यां निबिड-कुचभरावरुद्धगताभ्यां न दृश्यते। अत्रानया नेत्राभ्यामन्यमीक्षमाणया यथाहं न दृष्ट इत्यहं क्षीणस्तथा मध्योऽपि तेनैव क्षीणतापन्न इति लक्ष्यते। इहापि किमो निषेधार्थत्वं युक्त्यैव ज्ञायते॥

निषेध एवोक्त्या प्रतिकूलोऽनुकूलश्च यथा—

भ्रुकुटिरारचिता गतमग्रतो हृतमथाननमुक्तमसाधु वा।
इयमतिप्रभुता क्रियते बलादकुपितोऽपि हि यत्कुपितो जनः १५६’

अत्र ‘अकुपितोऽपि कुपितः क्रियते’ इति योऽयं निषेधाक्षेपरूप उपालम्भः, तत्र च ‘भ्रुकुटिरारचिता—’ इत्यादिवैयात्येन प्रतिकूलं कारणमुपन्यस्य, ‘सेयमतिप्रभुता, सोऽयं बलात्कारः’ इति कक्वा वाचनिकमेवोपालम्भमभिधत्ते; तेनायमौक्तः प्रतिकूलश्च निषेधाक्षेपो रोध इत्युच्यते॥ अयमेव चास्या अवैयात्योक्तिपक्षे स्वरूपाख्यानादौक्तोऽनुकूलनिषेधाक्षेपो रोधो भवति॥

“भ्रुकुटिरित्यादि”। इयमतिप्रभुता बलात्कारः। हि यतोऽकोपवानपि जनो बलात्कारेण कोपवान् क्रियते। तदाह—त्वाया भ्रुकुटिर्भ्रूकौटिल्यमारचितम्। अग्रतोऽग्रे गतम्। अनन्तरमाननं चुम्बनादपहृतम्। असाधूक्तं च। वाशब्दश्चार्थे। अत्र धार्ष्ट्येन प्रतिकूलकारणमुपन्यस्य काक्वा वाचनिक एवोपालम्भः। अस्या अधार्ष्ट्यपक्षे स्वरूपाख्यानपरमिदमित्युक्तानुकूलनिषेधाक्षेपरोधोऽप्ययमित्याह—“अयमिति”॥

यदा तु कारणमुपन्यस्यापि क्रियासूत्तिष्ठमानो न रूध्यते तदाक्षेप एव न रोधः।

तद्यथा—

‘गमिआ कलम्बवाआ दिट्ठं मेहन्धआरिअं गअणअलम्।
सहिओ गज्जिअसद्दो तह वि हु से णत्थि जीविए आसङ्गो॥’

[गमिताः कदम्बवाता दृष्टं मेघान्धकारितं गगनतलम्।
सोढो गर्जितशब्दस्तथापि खल्वस्य नास्ति जीवितेऽध्यवसायः॥]

अत्र कदम्बवातातिवाहनादीनां जीविताध्यवसायहेतूनामुपन्यासेऽपि क्रियासूत्तिष्ठमानो न रुध्यते कथमयं न जीवतीति। किं तर्हि कारणमेवाक्षिप्यते—‘तथापि नास्त्यस्य जीवितेऽध्यवसाय’ इति। सोऽयमाक्षेप एव न रोधः॥

“गमिआ इत्यादि”। ‘गमिताः कदम्बवाता दृष्टं मेघान्धकारितं गगनतलम्। सोढो गर्जितशब्दस्तथापि खल्वस्य नास्ति जीविते आसङ्गः॥’ इहास्य रामस्य तथापि जीविते प्राणधारणे आसङ्गोऽध्यवसायो नास्ति। खलु निश्चये वाक्यभूषायां वा। यद्यपि कदम्बपुष्पसम्पर्किणो वाता गमिता नीताः दृष्टं मेघान्धकारयुक्तं गगनतलम्, गर्जितरूपः शब्दः सोढः श्रुतः। इहासह्यसहनेऽपि जीवितानध्यवसाये प्रेमातिशयो हेतुः। प्रयाणोचितकाले शरद्यपि यदि न गमनं स्यात्तदा प्रियासमागमो मे न स्यादिति बुद्धिः। यद्वा नेतव्यकालस्य घोरत्वाद्दुर्गवासरयोरध्यवसायः। यद्वा कदम्बवाता गमिताः, विकसदमलकमलवाताः कथं गमितव्याः। मोघान्धकारितं गगनतलं दृष्टम्, शरच्चन्द्रचन्द्रिकाधवलितं कथं द्रष्टव्यम्। गर्जितशब्दः सोढः, कलहंसकलरवः कथं सोढव्य इति विमर्शेनानध्यवसायः। यद्वा एतैरेवानर्थसार्थैः कदर्थिता व्यर्थप्रत्याशासमर्थना सीता यदि भृता स्यात्तदा मदीयाशानाश एव भवेदितिबुध्द्यानध्यवसायः। अत्र जीवनक्रियायामुपस्थितस्य न रोधः, किं तु कारणाक्षेप एवेत्याक्षेपता॥

क्रियोद्यतस्यापि वारणे कारणानामन्यपरत्वे रोधो न भवति। यथा—

‘धनं च बहु लभ्यन्ते सुखं क्षेमं च वर्त्मनि।
न च मे प्राणसन्देहस्तथापि प्रिय मा स्म गाः॥ १५८॥’

अत्र यद्यपि यत्रोद्यतः प्रियो रुध्यते। प्रभूतार्थलाभादीनां कारणानां गमनपरत्वमेव न निवारणपरत्वम्; अतोऽयं न रोधः, किं तर्हि आक्षेप एव भवति॥

“धनमित्यादि”। हे प्रिय, यद्यपि ते तव धनं बहु प्रचुरं लभ्यं प्राप्यम्। वर्त्मनि सुखम्; न दुर्गो मार्गः। क्षेमं कुशलं च चौराद्यनुपहतेः। न च मे प्राणसंशयोऽस्ति। तथापि त्वं मा गाः स्म मायासीः। ‘कुशलं क्षेममस्रियाम्’ इत्यमरः। अत्र प्रचुरधनलाभादिहेतूनां गमनपरत्वेनाक्षेपता॥ इत्याक्षेपालङ्कारनिरूपणम्॥

अर्थान्तरन्यासालङ्कारः।

अर्थान्तरन्यासं लक्षयति—

ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किञ्चन।
तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः॥ ६७॥

स उपन्यस्तवस्तूनां साधर्म्येण च कथ्यते।
वैधर्म्येण च विद्वद्भिर्वैपरीत्येन कुत्रचित्॥ ६८॥

“ज्ञेयमिति”। किञ्चन किमपि वस्तु वाच्यं प्रस्तुत्य प्रक्रम्य तद्वस्तुसाधनसमर्थस्यान्यस्य वस्तुनो वाक्यार्थन्यास उपन्यासो यः सोऽर्थान्तरन्यासः। वैपरीत्यं विपर्ययः॥

तेषु साधर्म्येण यथा—

‘पयोमुचः परीतापं हरन्त्येते शरीरिणाम्।
नन्वात्मलाभो महतां परदुःखोपशान्तये॥ १५९॥’

अत्र परीतापापहरणक्षमस्य जलदाख्यस्य महावस्तुनो न्यसनं विधाय तत्साधनसाधर्म्येणैव तत्साधनक्षमं महापुरुषलक्षणं वस्त्वन्तरमुपन्यस्यति, सोऽयं साधर्म्येणार्थान्तरन्यासः॥

“पयोमुच इत्यादि”। एते मेघाः शरीरिणां परितापं हरन्ति। ननु निश्चये। महतामात्मलाभोऽवस्थितिः परदुःखोपशान्त्यर्थं भवति। अत्र पूर्वार्धोपस्थापितार्थसिद्धये साधर्म्यपुरस्कारेणोत्तरार्धोपन्यासः स्फुट एव॥

वैधर्म्येण यथा—

‘प्रियेण सङ्ग्रथ्य विपक्षसन्निधा- वुपाहितां वक्षसि पीवरस्तने।
स्रजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि॥ १६०॥

अत्रापि प्रियतमेन स्वयं कान्ताहृदये समारोपितायाः स्रजः प्रेम-कारणमुपन्यस्य जलाविलदोषवत्या अपि स्रजो यदत्यागकारणं तदिह वैधर्म्यद्वारेण प्रतिपादितमतो वैधर्म्येणायमर्थान्तरन्यासः॥

“प्रियेणेत्पादि”। काचिन्नारी जलाविलामपि स्रजं मालां न विजहौ न तत्याज। कीदृशीम्। प्रियेण सङ्ग्रथ्य ग्रथित्वा मांसलकुचवति हृदये विपक्षस्व सपत्न्याः समीपे उपाहितामारोपिताम्। अत्रोपपत्तिमाह—हि यतः प्रेम्णि प्रीतौ गुणा वसन्ति न वस्तुनि गुणा वसन्ति। अत्र जलाविलमालाया अप्यत्यागहेतुर्वसन्तीत्यादिना वैधर्म्यपुरस्कारेणोक्तः॥

विपर्ययेण यथा—

‘जो जस्स हिअअदइओ दुक्खं देन्तो वि सो सुहं देइ।
दइअणहदूमिआणं वि वड्ढीइ त्थणआणं रोमञ्चो॥ १६१॥’

[यो यस्य हृदयदयितो दुःखं दददपि स सुखं ददाति।
दयितनखदूनयोरपि वर्धते स्तनयो रोमाञ्चः॥]

अत्र साधनसमर्थं वस्तु प्रथमत एवोपन्यस्य पश्चात् तत्साध्यमभिहितमिति विपर्यासादयं विपर्ययो नामार्थान्तरन्यासः॥

“जो इत्यादि”। “यो यस्य हृदयदयितो दुःखं दददपि स तथा तस्य। दयितनखदुःखितयोरपि वर्धते स्तनयो रोमाञ्चः॥” इह यो यस्य हृदयप्रियः स दुःखं दददपि तस्य तथा प्रिय एव। अत्र हेतुः—दयितनखेन दुःखितयोरपि स्तनयो रोमाञ्चो वर्धते। दददित्यत्र ‘नाभ्यस्ताच्छतुः ७।१।७८’ इति निषेधः। अत्र प्रथमं हेतुरुक्तस्ततस्तत्कार्यमुक्तमिति विपरीतता॥

उभयन्यासस्यार्थान्तरन्यासादभेदमाह—

प्रोक्तो यस्तूभयन्यासोऽर्थान्तरन्यास एव सः।
स प्रत्यनीकन्यासश्च प्रतीकन्यास एव च॥ ६९॥

“प्रोक्त इति”। प्रत्यनीकः परिपन्थी, प्रतीकोऽवयव एकदेश इति यावत्। ऽअङ्गं प्रतीकोऽवयवः’ इत्यमरः॥

तेषूभयन्यासो यथा—

‘ते विरला सप्पुरिसा जे अभणन्ता घडन्ति कज्जालावे।
थोअच्चिअ ते वि दुमा जे अमुणिअकुसुमणिग्गमा देन्ति फलम्॥’

[ते विरलाः सत्पुरुषा येऽभण्यमाना घटन्ते कार्यालापम्।
स्तोका एव तेऽपि द्रुमा येऽज्ञातकुसुमनिर्गमा ददति फलम्॥]

अत्र विद्यमानमपि साध्यसाधनभावमप्रतिपाद्य यदुभयोर्वस्तुनोर्न्यसनं सोऽयमुभयन्यासः॥

“ते विरला इत्यादि”। “ते विरलाः सत्पुरुषा येऽभण्यमाना घटन्ते कार्यालापम्। स्तोका एव तेऽपि द्रुमा येऽज्ञातकुसुमनिर्गमा ददति फलम्॥” इह ते सज्जना विरलाः परिमिताः। अल्पा इति यावत्। ये कार्यार्थमालापमाज्ञामभण्यमाना घटन्ते कार्यारूढा भवन्ति, तेऽपि वृक्षाः स्तोका एवाल्पा एव येऽज्ञातपुष्पोद्गमाः सन्तः फलं ददति। अभण्यमाना इति णिज्गर्भत्वेन द्विकर्मकता। यद्वा कार्यालापे कार्यकरणे घटन्ते। कीदृशाः। अभण्यमाना अनुक्ताः। ‘आलापो वचने कृतौ’ इति शाश्वतः। अत्र हेतुहेतुमद्भावपुरस्कारेणोभयोरुपन्यासः॥

प्रत्यनीकन्यासो यथा—

‘विरला उवआरिच्चिअ णिरवेक्खा जलहरव्व वट्टन्ति।
झिज्जन्ति ताण विरहे विरलच्चिअ सरिप्पवाहव्व॥ १६३॥

[विरला उपकृत्यैव निरपेक्षा जलधरा इव वर्तन्ते।
क्षीयन्ते तेषां विरहे विरला एव सरित्प्रवाहा इव॥]

अत्र यदिदमुपकृत्यानपेक्षितप्रत्युपकाराणां गमनम्, यच्चाकृतप्रत्युपकाराणां तद्विरहेऽवसादनं तदुभयमपि जलधरसरित्प्रवाहयोरन्योन्यातिशयितयोरुपन्यस्यमानं प्रत्यनीकन्यासो भवति॥

“विरला इत्यादि”। “विरला उपकृत्यैव निरपैक्षा जलधरा इव वर्तन्ते। क्षीयन्ते तेषां विरहे विरला एव सरित्प्रवाहा इव॥” इह ये उपकृत्य उपकारं कृत्वा निरपेक्षाः प्रत्युपकारानपेक्षा वर्तन्ते ते विरला अल्पाः। मेघा इव। यथा मेधा उपकारं कृत्वा प्रत्युपकारनिस्पृहा वर्तन्ते तथेत्यर्थः। तेषामुपकारिणां विरहे विरला एव क्षीयन्ते दुःखिता भवन्ति। नदीप्रवाहा इव। यथा नदीप्रवाहा उपकारिणां मेघानां विरहे क्षीणा भवन्ति तथेत्यर्थः। क्षीयन्त इति कर्मकर्तरि। क्षियोऽनात्मनेपदित्वात्। अवसदनमवसादः। भावे घञ्। अत्र मेघनदीप्रवाहयोर्मिथः समर्थयोः प्रत्यनीकभावः प्रतिपक्षता। प्रतिनिधिभूतमनीकं सैन्यं यस्य सः प्रत्यनीकः परिपन्थी। ऽप्रति प्रतिनिधौ चिह्ने’ इति मेदिनीकारः। ‘अनीकोऽस्त्री रणे सैन्ये’ इति च॥

प्रतीकन्यासो यथा—

‘का कथा बाणसन्धाने ज्याशब्देनैव दूरतः।
हुङ्कारेणेव धनुषः स हि विघ्नानपोहति॥ १६४॥’

अत्र विघ्नप्रोत्सारणसमर्थाया बाणमोक्षलक्षणायाः क्रियायाः प्रथमावयवभूतं ज्याशब्दं धनुषो हुङ्कारमिवेति तत्साधनमुपन्यस्य प्रतीकन्यासनामानमर्थान्तरन्यासमभिधत्ते॥

“का कथेत्यादि”। बाणसन्धाने धनुषि बाणारोपणे तस्य का कथा। तेन सर्वसिद्धेः। यतः स राजा दूरात् ज्याशब्देनैव विघ्नान्यपोहति वारयति। ज्याशब्देन कीदृशेन। धनुषो हुङ्कारेणेव। चापस्य हुङ्कारतुल्येनेत्यर्थः। दूरत इति पञ्चम्यां तसिः॥ “विघ्नानीति”। यद्यपि ‘विघ्नोऽन्तरायः प्रत्यूहः’ इत्यमराद्विघ्नशब्दे पुंस्त्वम्, तथापि ‘लिङ्गमशिष्यं लोकाश्रयत्वात्’ इति नपुंसकत्वमपि। अत एव ‘अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम्’ इति रघुप्रयोगोऽपि। ‘स हि विघ्नानपोहती’ ति वा पाठः कर्तव्यः। अत्र ज्याशब्दस्य चापैकदेशस्य न्यसनात्प्रतीकन्यासता॥ इत्यर्थान्तरन्यासालङ्कारनिरूपणम्॥

विशेषालङ्कारनिरूपणम्।

विशेषोक्तिलक्षणमाह—

गुणजातिक्रियादीनां यत्र वैकल्यदर्शनम्।
विशेषदर्शनायैव सा विशेषोक्तिरिष्यते॥ ७०॥

प्रत्येतव्येऽभिधेये च सा विशेषस्य कारणे।
वैकल्यादर्शनेनापि क्वचिदप्युपपद्यते॥ ७१॥

“गुणेति”। विशेषदर्शनायाधिक्यख्यापनार्थं गुणादीनां मध्ये यत्तेषां वैकल्यदर्शनं विकलत्वाभिधानं सा विशेषोक्तिः। एकगुणहानिकल्पनया शेषगुणे दार्ढ्यं विशेषोक्तिरिति लक्षणम्। एवं जात्यादावप्यादिपदाद्द्रव्यसङ्ग्रहः। विशेषदर्शनायेत्यनेन विभावनातो भेद उक्तः। तत्र हि नातिशयो वाच्यः किन्तु कारणान्तरम्। इह तु गुणादिप्रतिषेधेन पदार्थानामतिशय इति। गुणादीनां वैकल्यादर्शनेऽपि सा भवतीत्याह—“वैकल्येति”॥

सा गुणवैकल्येन यथा—

‘न कठोरं न वा तीक्ष्णमायुधं पुष्पधन्वनः।
तथापि जितमेवाभूदमुना भुवनत्रयम्॥ १६५॥’

अत्र तीक्ष्णेनाकठोरेण चायुधेन पुष्पधन्वा त्रीणि जगन्ति विजयत इति तस्य प्रभावातिशयः प्रतीयते; सेयं प्रतीयमानविशेषहेतुर्गुणवैकल्यवती विशेषोक्तिः॥

“न कठोरमित्यादि”। कामस्य प्रहरणं न कठिनं न वा निशितम्। तथाप्यमुना कामेन लोकत्रयं जितमेवासीत्। पुष्पधन्वन इत्यनेनाकठोरत्वमतीक्ष्णत्वं च दर्शितम्। पुष्पस्यैवासत्त्वात्। अत्र काठिन्यादिगुणवैकल्यमतिशयविजयप्रदर्शनायोक्तमिति गुणवैकल्यवतीयम्॥

जातिवैकल्येन यथा—

‘न देवकन्यका नापि गन्धर्वकुलसम्भवा।
तथाप्येषा तपोभङ्गं विधातुं वेधसोऽप्यलम्॥ १६६॥’

अत्र देवकन्यकात्वाभावेऽप्येषा वेधसोऽपि तपोभङ्गं विधातुमलमिति वर्णनीयाया रूपातिशयः प्रतीयते; सेयं प्रतीयमानविशेषहेतुर्जातिवैकल्यवती विशेषोक्तिः॥

“न देवेत्यादि”। एषा न देवकन्या नापि गन्धर्ववंशजा तथापि वेधसो ब्रह्मणोऽपि तपोभङ्गं विधातुमलं समर्था। अत्र देवत्वादिजातिनिषेधो विशेषस्तु मानुषीत्वेन तत्कार्यकरणम्॥

क्रियावैकल्येन यथा—

‘न बद्धा भ्रुकुटिर्नापि स्फुरिन्तो रदनच्छदः।
न च रक्ताभवद्दृष्टिर्जितं च द्विषतां कुलम्॥ १६७॥’

अत्र ‘भ्रुकुटिभङ्गादेः’ इति क-पुस्तके पाठःभ्रूभङ्गादेरभावेऽपि योऽयं द्विषतां जयस्तेन वर्णनीयस्य प्रतापातिशयः प्रतीयते; सेयं प्रतीयमानविशेषहेतुः क्रियावैकल्यवती विशेषोक्तिः॥

“न बद्धेत्यादि”। भ्रूभङ्गो न बद्धः, अधरोऽपि न स्फुरितः, दृष्टिरपि न रक्ता वृत्ता, तथापि वीर, त्वया द्विषतां शत्रूणां कुलं जितम्। अत्र भ्रुकुटीत्यादिक्रियानिषेधात्क्रियावैकल्यम्। अतिशयस्तु लीलया शत्रुजयः॥

आदिग्रहणाद्द्रव्यवैकल्येन यथा—

‘न रथा न च मातङ्गा न हया न च पत्तयः।
स्त्रीणामपाङ्गदृष्ट्यैव जीयते जगतां त्रयम्॥ १६८॥’

अत्र रथादेरभावेऽपि जगत्त्रयविजयहेतुः स्त्रीणामपाङ्गावलोकनमभिधीयते; सेयमभिधेयविशेषहेतुर्द्रव्यवैकल्यवती विशेषोक्तिः॥

“न रथा इत्यादि”। न रथा न च हस्तिनो नाश्वा न वा पदातयः सन्ति तथापि स्त्रीणामपाङ्गदृष्ट्यैव कटाक्षेणैव लोकत्रयं जीयते। ‘हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्ट्यम्।’ इत्यमरः। तदिह सेनाङ्गनिषेधाद्द्रव्यवैकल्यम्, अतिशयस्तु तदभावेऽपि त्रिभुवनजयः। द्रव्यस्यापि वैकल्येनैकदेशविकलतया अपरा विशेषोक्तिः। प्रथमा द्रव्यवैकल्यवती, इयं तु द्रव्यैकदेशवैकल्यवतीति भेदः॥

द्रव्यस्यापि वैकल्येन यथा—

‘एकचक्रो रथो यन्ता विकलो विषमा हयाः।
आक्रामत्येव तेजखी तथाप्यर्को जगत्त्रयम्॥ १६९॥’

अत्र रथादीनां द्रव्याणामेकचक्रत्वादिभिर्वैकल्येऽपि यदेतद्भगवतो भास्करस्य भुवनत्रयाक्रमणं तस्येह तेजस्विता हेतुरभिधीयते; सेयमभिधेयविशेषहेतुर्वैकल्यवद्द्रव्या नामापरा विशेषोक्तिः॥

“एकेत्यादि”। रथस्यैकं चक्रम्, यन्ता सारथिरनूरुर्विकलश्चरणहीनः, अश्वा विषमाः सप्त, तथापि रविस्तेजस्वी जगत्त्रयमाक्रामति। ‘सप्ताश्वा नव दन्तिनः’ इति नीतौ निषेधः। आक्रामतीत्यत्रोत्क्रमणाभावात् ‘आङ उद्नमने १।३।४०’ इति न तङ्। अत्र रथादीनामेकदेशविकलतेति द्वितीयेयम्॥

द्रव्यस्य योगायोगाभ्यामवैकल्येनापि क्वचिदेषा विशेषायाविशेषाय च यथा—

‘अयं तया रथक्षोभादंसेनांसो निपीडितः।
एकः कृती शरीरेऽस्मिञ्शेषमङ्गं भुवो भरः॥ १७०॥’

अत्र ‘अयं तथा स्पृष्टोंऽसः स पुण्यवान्, तया चास्पृष्टं शेषमङ्गं मे निरर्थकम्’ इति योऽयमवैकल्यदर्शनेऽपि विशेषस्तेनैषाहेतुमत्यापि हेतुमता विशेष्यमाणा यथोक्ता विशेषोक्तिर्भवति। या पुनरिहोर्वश्यामितो वाक्याद्गुणादिवैशिष्ट्यावगतिः‘विशिष्टावगतिः’ इति ख ग सा पर्यायोक्तिर्न विशेषोक्तिः॥

“अयमित्यादि”। अयमंसो बाहुमूलं तया स्त्रिया रतिलोभान्निजांसेन निपीडित इत्येक एवायं ममाङ्गे कृती रम्यः। शेषमङ्गं भूमेर्भरो भारजनकम्। शेषशब्दः कर्मघञन्तो वाच्यलिङ्गः। अङ्गभरशब्दयोरजहल्लिङ्गतयान्वयः। अत्रावैकल्यदर्शनेऽपि विशेषोक्तेरियमन्या भवति। यद्यनेन वाक्येनोर्वश्या गुणविशेषवत्त्वज्ञानं तदोक्तलक्षणाभावात्पर्यायोक्तिरेवेत्याह—“यत्पुनरिति”॥ इति विशेषालङ्कारनिरूपणम्।

परिकरालङ्कारनिरूपणम्।

परिकरं लक्षयति—

क्रियाकारकसम्बन्धिसाध्यदृष्टान्तवस्तुषु।
क्रियापदाद्युपस्कारमाहुः परिकरं बुधाः॥ ७२॥

“क्रियेति”। क्रिया धात्वर्थः, कारकं कर्मादि, सम्बन्धी सम्बन्धवान्, सार्ध्यं सिसाधयिषितम्, दृष्टान्तो निदर्शनम्, वस्तु पदार्थः। एषु क्रियापदादेरुपस्कारः परिष्कारः परिकरः। साभिप्रायविशेषणेन विशेष्योक्तिः परिकर इति लक्षणम्॥

तेषु क्रियापरिकरो यथा—

‘ववसिअणिवेइअत्थो सो मारुइलद्धपच्चआगअहरिसम्।
सुग्गीवेण उरत्थलवणमालामलिअमहुअरं उवऊढो॥ १७१॥’

[व्यवसितनिवेदितार्थः स मारुतिलब्धप्रत्ययागतहर्षम्।
सुग्रीवेणोरःस्थलवनमालामृदितमधुकरमुपगूढः॥]

अत्र ‘मारुतिलब्धप्रत्ययागतहर्षम्’ इत्यनेन, ‘उरःस्थलवनमालामृदितमधुकरम्’ इत्यनेन चोपगूहनक्रियायाः परिकरितत्वादयं क्रियापरिकरः॥

“ववसिअ इत्यादि”। “व्यवसितनिवेदितार्थः स मारुतिलब्धप्रत्ययागतहर्षम्। सुग्रीवेणोरः स्थलवनमालामृदितमधुकरमुपगूढः॥” इह स विभीषणः सुग्रीवेणोपगूढ आलिङ्गितः। कीदृशः। व्यवसितस्य व्यवसायस्य निवेदितोऽर्थो येन सः। यद्वा व्यवसितश्चिकीर्षितो रामसाहाय्यरूपो निवेदितोऽर्थो येन सः। मारुतिना हनूमता लब्धप्रत्ययेन प्राप्तविश्वासेनागतहर्षं यथा स्यादेवमुरःस्थलस्य वनमालायां मृदिता मधुकरा यत्र तद्यथा स्यादेवमित्युपगूहनक्रियाया विशेषणद्वयम्। ‘प्रत्ययः सहजे ज्ञाने विश्वासाचारहेतुषु।’ इति मेदिनीकारः। अत्र प्रधानक्रियाया विशेषणद्वयेन परिष्कृतत्वात्क्रियापरिकरत्वम्॥

कारकपरिकरो यथा—

‘पडिआ अ हत्थसिढिलिअणिरोहपण्डरसमूससन्तकवोला।
पेल्लिअवामपओहरविसमुण्णअदाहिणत्थणी जणअसुआ॥ १७२॥’

[पतिता च हस्तशिथिलितनिरोधपाण्डुरसमुच्छ्वसत्कपोला।
प्रेरितवामपयोधरविषमोन्नतदक्षिणस्तनी जनकसुता॥]

अत्र ‘हस्तशिथिलितनिरोधपाण्डुरसमुच्छ्वसत्कपोला’ इत्यनेन, ‘प्रेरितवामपयोधरविषमोन्नतदक्षिणस्तनी’ इत्यनेन च ‘जनकसुता इत्यनेन च’ इति ग‘जनकसुता’ इति च कारकपदस्य परिकरितत्वादयं कारकपरिकरः॥

“पडिआअ इत्यादि”। “पतिता च हस्तशिथिलितनिरोधपाण्डुरसमुच्छ्वसत्कपोला। प्रेरितवामपयोधरविषमोन्नतदक्षिणस्तनी जनकसुता॥” इह जनकसुता सीता पतिता च। न केवलं मूर्च्छिता किन्तु पतितापीति चकारार्थः। कीदृशी। हस्तेन शिथिलीकृतो निरोधो यन्त्रणं कपोलस्य अत एव पाणिपीडनत्यागात्पाण्डुरः समुच्छ्वसन् कपोलो यस्याः सा। यद्वा हस्तप्रहतनिरोधेन तत्सम्पर्कात्पाण्डुरः पीडनत्यागात्समुच्छ्वसन् कपोलो यस्याः सा। प्रेरितेन वामेन पयोधरेण स्तनेन विषमस्तिरश्चीन उन्नतो दक्षिणः स्तनो यस्याः सा। वामस्तनस्य चलनं प्रेरणमत्र रामादचिरभाविदुःखापनयनमिति सूचनम्। यद्वा स्त्रीणां वामः स्तनो निजो दक्षिणः पुरुषस्येति तेनैव पतिता। अत्र कर्तुः कारकतया तद्वाचकपदमेव परिष्कृतम्॥

सम्बन्धिपरिकरो यथा—

‘उम्मूलिआण खुलिआ उक्खिप्पन्ताण उज्जुअं ओसरिआ।
णिज्जन्ताण णिराआ गिरीण मग्गेण पत्थिआ णइसोत्ता॥१७३॥’

[उन्मूलितानां खण्डितान्युत्क्षिप्यमाणानमृजुकमपसृतानि।
नीयमानानां निरायतानि गिरीणां मार्गेण प्रस्थितानि नदीस्रोतांसि॥]

अत्रोद्द्रियमाणगिरिसम्बन्धिनोऽप्रयोजका अपि नदीप्रवाहा विशेषणैरुपस्कृता इति सम्बन्धिपरिकरोऽयम्॥

“उम्मूलिआ इत्यादि”। “उन्मूलितानां खण्डितान्युत्क्षिप्यमाणानामृजुकमपसृतानि। नीयमानानां निरायतानि गिरीणां मार्गेण प्रस्थितानि नदीस्रोतांसि॥” कीदृशानां कीदृशानि च। उन्मूलितानां चालनतः खण्डितानि, उत्क्षिप्यमाणानां ऋजुकमवक्रं यथा स्यादेवमपसृतानि, नीयमानानां निरायतानि वेगवशादवक्राणि च। अत्र नदीप्रवाहस्य सम्बन्धिनो विशेषणैः परिष्कारः॥

साध्यपरिकरो यथा—

‘धीरं हरइ विसाओ विणअं जोव्वणमओ अणङ्गो लज्जम्।
एक्कन्तगहिअवक्खो किं सेसउ जं ठवेइ वअपरिणामो॥ १७४॥’

[धैर्यं हरति विषादो विनयं यौवनमदोऽनङ्गो लज्जाम्।
एकान्तगृहीतपक्षः किं शिष्यतां यं स्थापयति वयःपरिणामः॥]

अत्र गतवयसो न धैर्यम्, न विनयो, न लज्जेति साध्यं विषादयौवनमदानङ्गक्रियादृष्टान्तैरुपस्कृतमिति साध्यपरिकरोऽयम्॥

“धीरमित्यादि”। “धैर्यं हरति विषादो विनयं यौवनमदोऽनङ्गो लज्जाम्। एकान्तगृहीतपक्षः किं शिष्यते यं स्थापयति वयःपरिणामः॥” इह विषादो धैर्यं हरति, विनयमनौद्धत्यं वशित्वं वा यौवनमदो हरति, अनङ्गो लज्जां हरति। एकान्तेन गृहीतः पक्षो येन सः। अद्भुत इत्यर्थः। यद्वान्तःस्वरूपे एको गृहीतपक्षः सर्वहरस्वरूपो येन स क्यःपरिणामो यत्स्थापयति स्थिरीकरोति तत्किं शिष्यतेऽवशिष्यते, किन्तु सर्वमेव हरतीति भावः। अत्र साध्यस्य दृष्टान्तैः परिष्कारः॥

दृष्टान्तपरिकरो यथा—

‘मज्झट्ठिअधरणिहरं झिज्जइ अ समुद्दमण्डलं उव्वेलम्।
रइरहवेअविअलिअं पडिअं विअ उक्खडक्खकोडिं चक्कम् १७५’

[मध्यस्थितधरणिधरं क्षीयते च समुद्रमण्डलमुद्वेलम्।
रविरथवेगविगलितं पतितमिवोत्कटाक्षकोटि चक्रम्॥]

अत्र प्रक्षिप्तमन्दरसमुद्रोदाहरणभूतं रविरथचक्रं ‘उत्कटाक्षकोटि’ इति विशेषणेन साम्यसिद्धये परिकरितमिति दृष्टान्तपरिकरोऽयम्॥

“मज्झेत्यादि”। “मध्यस्थितधरणिधरं क्षीयते च समुद्रमण्डलमुद्वेलम्। रविरथवेगविगलितं पतितमिवोत्कटाक्षकोटि चक्रम्॥” इह समुद्रमण्डलं क्षीयते च। चः पूर्वापेक्षया समुच्चये। कीदृशम्। मध्यस्थितो धरणिधरो मन्दरगिरिर्यत्र तत्। अत एवोद्वेलमुद्गतजलम्। ‘वेला तत्तीरनीरयोः’ इत्यमरः। सूर्यरथवेगेन स्खलितमन्नन्तरं पतितं चक्रमिव। चक्रं कीदृशम्। उत्कटा उद्भटा अक्षकोटिश्चक्राग्रं यत्र तत्। ‘अक्षश्चक्रेऽपि पाशके’ इति विश्वः। अत्र दृष्टान्तस्य साम्यार्थं विशेषणैः परिष्कारः॥

वस्तुपरिकरो यथा—

‘देवी पुत्रमसूत नृत्यत गणाः किं तिष्ठतेत्युद्भुजे हर्षाद्भृङ्गिरिटावुदाहृतगिरा चामुण्डयालिङ्गिते।
पायाद्वो जितदेवदुन्दुभिघनध्वानः प्रवृत्तस्तयोर- न्योन्याङ्गनिपातजर्जरजरत्स्थूलास्थिजन्मा रवः॥ १७६॥’

अत्र चामुण्डाभृङ्गिरिटिपरिष्वङ्गसङ्घट्टितपरस्परहृदयास्थिजन्मनः शब्दस्य वस्तुतया परिगृहीतस्य ‘देवी पुत्रमसूत—’ इत्यादिभिः परिकरितत्वादयं वस्तुपरिकरः॥

“देवीत्यादि”। देवी गौरी पुत्रमसूत सूते स्म। ततो हे गणाः, नृत्यत नृत्यं कुरुक किमुपविष्टा भवथ इति कृत्वा उद्भुजे उत्तोलितबाहौ भृङ्गिरिटौ भृङ्गिनामके गणे चामुण्डया आलिङ्गिते सति तयोर्भृङ्गिरिटिचामुण्डयो रवः शब्दो वो युष्मान् पायाद्रक्षतु। चामुण्डया कीदृश्या। हर्षादुदाहृतोक्ता गीर्भृङ्गिरिटिवाणी यया तया। रवः कीदृशः॥ परस्पराङ्गसम्बन्धेन जर्जरं स्फुटितं यज्जीर्णं स्थूलास्थि तस्माज्जन्म उत्पत्तिर्यस्य सः। जिता देवदुन्दुभेर्देवभेर्या निबिडध्वानस्य प्रवृत्तिर्येन सः। ‘भेर्यामानकदुन्दुभी’ इत्यमरः। अत्र शब्दविशेषस्य वस्तुत्वेन गृहीतस्य विशेषणैः परिष्कारः॥

क्रिया यथा समासेन तथा कृत्तद्धितादिभिः।
विशेष्यते तदाहुस्तं क्रियापरिकरं परम्॥ ७३॥

“क्रियेति”। यथा समासेन क्रिया विशेष्यते तथा यदि कृत्तद्धितादिभिर्विशेष्यते तदा क्रियापरिकर एव॥

तत्र कृता तादर्थ्येन यथा—

‘गेहाद्याता सरितमुदकं हारिका नाजिहीषे मङ्क्ष्यामीति श्रयसि यमुनातीरवीरुद्गृहाणि।
गोसन्दायी विशसि विपिनान्येव गोवर्धनाद्रे- र्न त्वं राधे दृशि निपतिता देवकीनन्दनस्य॥ १७७॥’

अत्र ‘तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ३।३।१०’ इत्यादिभिरुपपदभूतापि क्रियैव विशेष्यते, तेनायमपरः क्रियापरिकरो भवति। एवं लक्षणादिषु शत्रादिभिरपि द्रष्टव्यम्॥

“गेहादित्यादि”। हे राधे, त्वं देवकीनन्दनस्य कृष्णस्य दृशि नेत्रे न निपतितासि। त्वं गेहात्सरितं नदीं याता गता उदकं हारिका उदकमाहर्तुं न पुनराजिहीषे न पुनरागच्छसि। मङ्क्ष्यामि स्नास्यामीति कृत्वा यमुनातीरे वीरुधां लतानां गृहाणि श्रयस्याश्रयसि। गोसन्दायी गवां बन्धनकारिणी सती गोवर्धनाद्रेर्वनान्येव विशेसि च। हारिकेन्ति ‘हञ् हरणे’ तुमुनर्थे ण्वुल्। आजिहीषे इति ‘ओहाङ् गतौ’ (आङ्पूर्वः) मध्यमपुरुषैकवचने ‘श्लो ६।१।१०’ इति द्विर्वचनम्। ‘मृञामित्७।४।७५’ इत्याकारस्येत्त्वम्। मङ्क्ष्यामीति मस्जेर्लटि उत्तमपुरुषे। ‘मस्जेरन्त्यात्पूर्व’ इति नुमि नकारलोपे च रूपम्। ‘लता प्रतानिनी वीरुद्’ इत्यमरः। गोसन्दायीति सन्दानं बन्धनम्। ‘छान्द’ इति प्रसिद्धम्। अत्र ण्वुलादिकृता तादर्थ्यपुरस्कारेण क्रिया विशेष्यते। “एवमिति”। यत्र ‘लक्षणहेत्वोः।३।२।१२६ऽ, ‘इङ्धार्यौः’ शत्रकृच्छ्रिणि २।३।१३०’ इत्यनेन लक्षणादिशत्राद्यन्तेन क्रिया विशेष्यते तत्रापि क्रियापरिकरो द्रष्टव्यः। यथा पुष्पात् स्ववृक्षे स्वयं गतः फलतस्तु समायात इत्यादि(?)॥

अव्ययेन यथा—

‘सलीलमासक्तलतान्तभूषणं समासजन्त्या कुसुमावतंसकम्।
स्तनोपपीडं नुनुदे नितम्बिना घनेन कश्चिज्जघनेन कान्तया॥’

अत्र स्तनाभ्यामुपपीडयन्त्यायं नुनुदे इति। अर्थात् क्रियाविशेषणमेवैतदित्ययमपि क्रियापरिकरो भवति॥

एवं यथाविध्यनुप्रयोगादिष्वपि द्रष्टव्यम्। तेन क्रियायाः क्वचिदान्तरविशेषणयोगाव्द्यङ्ग्यत्वं भवतीत्यपि व्याख्यातम्॥

“सलीलमित्यादि”। कश्चिन्नायकः प्रियया जघनेन नुनुदे प्रेरितः। स्तनोपपीडं स्तनाभ्यामापीड्य। जघनेन कीदृशेन। नितम्बिना कटितटवता निबिडेन च। कान्तया कीदृश्या। सलीलं सविलासं यथा स्यादेवं पुष्पावतंसकं समासजन्त्या आरोपयन्त्या। कीदृशम्। आसक्तं सम्बद्धं लताभूषणं यत्र तत्। स्तनोपपीडमिति ‘सप्तम्यां चोपपडी ३।४।४९’ इति णमुल्। अत्र णमुलाव्ययेन नोदनक्रियाया विशेषणं परिकरः॥ “एवमिति”। तत्र हि यस्माद्धातोर्लोडादिस्तस्मादेवाग्रिमप्रत्यय इति क्रियाया विशेषणत्वेन परिकरता॥

“यथा—”

‘शय्यन्ते हतशायिकाः पथि तरुच्छायानिषण्णाध्वगैः श्रीकण्ठायतनेषु धार्मिकजनैरास्यन्त उष्ट्रासिकाः।
शून्ये तत्र निकुञ्जशाखिनि सखि ग्रीष्मस्य मध्यन्दिने सज्जानां दयिताभिसारणविधौ रम्यः क्षणो वर्तते॥ १७९॥’

अत्र ‘उष्ट्रासिका आस्यन्ते’, ‘हतशायिकाः शय्यन्ते’ इत्यमूभ्यां सामान्यविशेषोपचरितरूपो भावात्मा ण्वुलैव प्रत्याय्यते। स आख्याताभ्यां सामान्यरूपेण, ण्वुलन्ताभ्यां विशेषरूपेण। बहुवचनं चेह कुत्सातिशयार्थम्। याहि नामोष्ट्रस्य कुत्सावत्यो बहुप्रकारवत्यो वक्षःसु आसिकाः, याश्च हतानामतिशयवत्यस्तथाभूता एव भूयस्यः शायिकाः प्रतीतास्ताभिर्विशेषरूपाभिरियमासिका शायिका चोपमानोपमेयसम्बन्धजनितभेदाभेदपरिग्रहाल्लकारेणापि बहुत्वेनैव प्रत्याय्यते। तेनोष्ट्रासिका इवासनानि, हतशायिका इव शयनानि क्रियन्ते भवन्तीति वाक्यार्थो भवति, सोऽयं यथोक्तः क्रियापरिकरः॥

“शय्यन्त इत्यादि”। पथि वृक्षच्छायोपविष्टपान्थैर्हतशायिका निन्दितशयनानीव शय्यन्ते शयनानि क्रियन्ते। श्रीकण्ठगृहेषु धार्मिकजनैस्तपखिभिरुष्ट्रासिका इवोष्ट्रोपवेशनानीवास्यन्ते स्थीयन्ते। यथोष्ट्रो यत्र कुत्रचिदुपविशति तथा तपस्विभिरप्युपविश्यत इत्यर्थः। हे सखि, तत्र निकुञ्जशाखिनि निकुञ्जवृक्षे शून्ये विजने ग्रीष्मस्य मध्याह्ने सज्जानां सुसज्जानामभिसारिकाणां प्रियस्याभिसारणव्यापारे रम्यः क्षणो वर्तते। शय्यन्त इति ‘शीङ् स्वप्ने’ भावे यक्। शायिका इति ‘धात्वर्थनिर्देशे ण्वुल् वक्तव्यः’ इति शीङ्धातोः ण्वुल्। तथा च शायिकाः शयनानीत्यर्थः। श्रीकण्ठः शिवः। ‘श्रीकण्ठः शितिकण्ठः कपालभृत्’ इत्यभरः। आसिका इति। ‘आस उपवेशने’ धात्वर्थनिर्देशे ण्वुल् वक्तव्यः’ इति ण्वुल्। तेन आसिका आसनानीत्यर्थः। ‘सज्जः स्यात् सन्नद्धे सम्भृते त्रिषु’ इति मेदिनीकारः। अत्र शयितापेक्षयोविष्टस्याभिसरणे वारणीयत्वख्यापनार्थं विवरणे वैपरीत्यमाह—“अत्रेति”। अमूभ्यां वाक्याभ्याम्। सामान्यविशेषाभ्यां शुय्यन्ते आस्यन्ते इति सामान्यम्, हतशायिका उष्ट्रासिकेति विशेषस्ताभ्यामुपरचितमुपस्थापितं रूपं स्वरूपं यस्य सः। भावात्मा भावरूपो धर्म इति यावत्। प्रत्याय्यते बोध्यते। आख्याताभ्यामास्यन्ते शय्यन्त इत्यत्र। सामान्यरूपेण सामान्याकारेण। “ण्वुलेति”। उष्ट्रासिकाहतशायिकापदाभ्यामित्यर्थः। “विशेषेति”। विशेष्यो तयोः कथनादित्यर्थः। तर्हि भावस्यैकत्वादेकवचनं स्यात्तत्कथं बहुवचनं शय्यन्ते आस्यन्ते इति स्यादत आह—“बहुवचनमिति”। विशेषक्रियागतबहुत्वस्यैव सामान्यक्रियाया विवक्षितत्वाद्बहुवचवमित्यर्थः। विवक्षामूलं कुत्साप्रतिपादनम्। कुत्सामेवाह—“या हीति”। तथा च तद्विशेषयोगाद्बहुत्वमित्येवाह—“ताभिरिति”। उपमानोपमेयसम्बन्धेन जनितोऽभेदो यस्याः सा। भेदपरिग्रहाद्भेदपुरस्कारात्। लकारेण भावप्रत्ययेन। लकारवाच्यमर्थमाह—“तेनेति”॥

क्वचित् पुनर्बाह्यमपि कृद्रूपं कृदर्थरूपं वा क्रियाविशेषणं भवति। यथा—

‘शतं वारानुक्तः प्रियसखि वचोभिः स परुषैः सहस्रं निर्धूतः पदनिपतितः पार्ष्णिहतिभिः।
कियत्कृत्वो बद्धाः पुनरिह न वेद्मि भ्रुकुटय- स्तथापि क्लिश्यन्मां क्षणमपि न धृष्टो विरमति॥ १८०॥’

अत्र ‘वारान्’ इति वारशब्दः कृदन्तः। वारसङ्ख्यायाः कृत्वसुजिति कृत्वसुच् कृदर्थः। ताविमौ द्वावप्यावृत्तिरूपेण क्रियाया विशेः षणं भवतः। नन्वेवमुष्ट्रासिकादीनां ‘वारादीनाम्’ ख। घ वारादीनां च क्रियाविशेषणत्वात् कर्मतेव नपुंसकलिङ्गतापि प्राप्नोति। यथा—मृदु पचति, प्रशस्तं, पठतीति। उच्यते। त्रिधा खलु क्रियाविशेषणं भवति— बाह्यम्, आभ्यन्तरम्, बाह्याभ्यन्तरं च। तत्र बाह्यं कर्मरूपं वारादि, आभ्यन्तरं विशेषरूपमुष्ट्रासिकादि, बाह्याभ्यन्तरं‘बाह्याभ्यन्तररूपम्’ ग घ गुणरूपं मृद्वादि। तेषु बाह्यं सोऽयमित्यभिधायासम्बन्धादभेदोपचारेणाविचलितस्वरूपमेव‘च प्रधानं विशिंषत् घ प्रधानं विशिषत् कथमिव स्वलिङ्गं जह्यात्, आभ्यन्तरं तु विशेषापरिग्रहादाविष्टलिङ्गसङ्ख्यं कथमिवान्यलिङ्गं गृह्णीयात्। बाह्याभ्यन्तरं तु गुणत्वात् खलिङ्गविरहे ‘गुणवचनानामाश्रयतो गुणवचनानि’ इति विशेष्यलिङ्गग्राह्येव‘विशेष्यलिङ्गग्राह्यमेव’ ख भवति॥

“शतमित्यादि”। हे प्रियसखि, तथापि स धृष्टो मां क्लिश्यन् क्षणमपि न विरमति न विरक्तो भवति। कीदृशः। परुषैर्निष्ठुरैर्वचनैः शतं वारान्यथा स्यादेवमुक्तः, पदे निपतितः, स च पार्ष्णिहतिभिः पादतलप्रहारैः सहस्रं वारान्निर्धूतश्चालितः, इह विषये भ्रुकुटयः पुनः कियत्कृत्वः कियद्वारान् न बद्धा इति न वेद्मि। वारानिति ‘वृञ् वरणे’ भावे घञ्। तेन वारपदमावृत्तिवचनं स्वत एव कियत्कृत्व इति। ‘निष्ठुरं परुषं ग्राम्यम्’ इत्यभरः। अत्र वारशब्दः कृदन्तः। कियत्कृत्व इत्यत्र वारसङ्ख्यावाचकतायां कृत्वसुजिति कृदर्थता। कृदन्तस्य कृदर्थस्य चावृत्तिरूपेण पौनःपुन्यतया क्रियाविशेषणता। ‘नपुंसकत्वं कर्मत्वं तुल्यत्वं च तथैकता। क्रियाविशेषणस्यैव मतं सूरिभिरादरात्॥’ इति मतमनुमत्य क्लीबत्वमुष्ट्रासिकादीनां शङ्कते—“नन्विति”। समाधत्ते—“त्रिधेति”। यत्र धर्मधर्मिणोरभेदोपचारस्तत्र धर्मोऽजहत्स्वरूप एव धर्मिविशेषकः। सोऽयमित्यादौ विशेषरूपेण लिङ्गसङ्ख्ययोरन्वये उष्ट्रासिकादौ कथमन्यलिङ्गग्रहः। ‘गुणवचनानामाश्रयतो लिङ्गवचनानि’ इति गुणरूपाणां विशेष्यलिङ्गता॥

तद्धितकृत्समासाव्ययोक्तस्थानादिनोच्यते’ घतद्धितकृत्वसुचोक्तः, थालादिनोच्यते—

यथा—

‘अकृतकवलारम्भैर्भूयो भयस्थगितेक्षणाः किमपि वलितग्रीवं स्थित्वा मुहुर्मृगपङ्क्तयः।
गगनमसकृत्पश्यन्त्येतास्तथाश्रुघनैर्मुखै- र्निपतति यथा शृङ्गाग्रेभ्यो भ्रमन्नयनोदकम्॥ १८१॥’

अत्राद्यः प्रकारवचने थाल् अनेकवारानित्यर्थे ‘असकृत्’ इति तद्धितेन, ‘पश्यन्ति’ इति ‘क्रियाम्’ ‘क्रियायाः’ वा भवेत्क्रियायाम्, ‘वलितग्रीवम्’ इति समासेन, ‘किमपि’ इति नाम्नाव्ययेन, ‘स्थित्वा’ इति कृता, ‘मुहुः’ इति कृदर्थे वीप्सया च क्रियाविशेषणेन सह विशेषयति, द्वितीयश्च ‘यथा भ्रमन्नयनोदकं निपतति’ इति शतृलक्षितया ‘पतति’‘पतनक्रियया’ क ख इति क्रियया तमेवार्थमनुसन्दधानः पूर्वक्रियाया एव विशेषणं भवति, ‘योऽयम्’ ग घसोऽयं कृत्तद्धित-समासाव्ययानां सन्निपातरूपेऽपि क्रियापरिकरे ‘यथा, तथा’ इत्येतयोः प्राधान्यात्तद्धितेनैवोपदिश्यते॥

“अकृतेत्यादि”। एता मृगपङ्क्तयस्तथा तेन प्रकारेण निबिडनेत्रजलैर्मुखैरसकृद्वारंवारं गगनं पश्यन्ति। यथा येन प्रकारेण नयनजलं भ्रमत् सत् शृङ्गाग्रेभ्यो निपतति। किं कृत्वा। अकृतकवलोद्यमैरास्यैः किमपि वलितग्रीवमुत्तोलितघाटाकं यथा स्यादेवं स्थित्वा। कीदृश्यः। भयेन स्थगिते निश्चले ईक्षणे यासां ताः। अत्र तथेत्यत्र प्रकारवचने थाल्। पश्यन्तीति क्रियायामनेनानेन क्रियाविशेषणेन सह विशेषयतीत्यन्वयः॥ असकृदिति ‘एकस्य सकृच्च ५।४।१९’ इति सुच्प्रत्ययः, सकृदादेशः संयोगान्तलोपश्च। तेन सकृच्छब्दस्तद्धिताधिकारीयः। पश्चान्नञ्समासः। चलिता ग्रीवा यत्रेति समासः। नाम्ना प्रातिपदिकेन। क्त्वाप्रत्ययः कृत्। “मुहुरिति”। वारंवारं स्थित्वेत्यत्र पूर्वकालिकावस्थान एव वीप्सेति कृदर्थे वीप्सा स्यादेवेत्यर्थः। “द्वितीय इति”। यथेत्यत्र थाल्। तमेवार्थं प्रकाररूपं सन्दधान उपस्थापयन् पूर्वक्रियायाः प्रधानक्रियायाः पश्यन्तीतिरूपाया विशेषणं भवति। तथा च कृत्वसुचा प्रत्ययेनोक्तं यत्स्थानं वारंवारादिलक्षणं तेन यदि तद्धित उच्यते तद्धितस्य वारंवारार्थता भवति तदायं परिकरभेदः कृत्प्रभृतीनां सन्निपातरूपः समन्वयरूप इत्यर्थः॥

एतेन तद्यदोर्विपर्ययस्तद्विशेषणयोगश्च व्याङ्ख्यातः। तद्यथा—

‘जह जह णिसा समप्पइ तह तह वेविरतरङ्गपडिमापडिअम्सेतुबन्धे ‘वडिअम्’ इति पाठः।
किङ्काअव्वविमूढं वेवइसेतुबन्धे ‘धोडइ’ इति पाठः, ‘घूर्णते’ इति छाया च हिअअं व्व उअहिणो ससिबिम्बम्॥ १८२॥’

[यथा यथा निशा समाप्यते तथा तथा वेपमानतरङ्गप्रतिमापतितम्।
किङ्कर्तव्यविमूढं वेपते हृदयमिवोदधेः शशिबिम्बम्॥]

अत्र ‘यथा, तथा’ इति क्रियाविशेषणयोरपरमपि विशेषणं वीप्सा भवति। सोऽयमेवम्प्रकारः क्रियापरिकरो द्रष्टव्यः॥

“जह जहेत्यादि”। “यथा यथा निशा समाप्यते तथा तथा वेपमानतरङ्गप्रतिमापतितम्। किङ्कर्तव्यविमूढं सेतुबन्धे ‘धोडइ’ इति पाठः, ‘घूर्णते’ इति छाया चवेपते हृदयमिवोदधेः शशिबिम्बम्॥” इह निशा यथा यथा समाप्यते स्वयं समाप्तिं याति। कर्मकर्तरि तङ्। तथा तथा शशिबिम्बं घूर्णते। कीदृशम्। वेपनशीलतरङ्गे प्रतिमया प्रतिबिम्बेन पतितम्। किङ्कर्तव्यमत्रेति विमूढं मुग्धमुदधेर्हृदयमिव। इवशब्द उत्प्रेक्षायाम्। अत्र तच्छब्दयच्छब्दयोर्वैपरीत्यम्। यथा शशिबिम्बं घूर्णते तथा निशा समाप्यत इति वक्तव्ये यथोक्तं विपरीतम्। तद्विशेषणयोगः क्रियाविशेषणान्तरयोगे वीप्साकारितः॥

क्रियाविशेषणं कैश्चित्सम्बोधनमपीष्यते।
सम्बन्धिभिः पदैरेव लक्ष्यन्ते लक्षणादयः॥ ७४॥

तेषु सम्बोधनपरिकरो यथा—

‘धर्मस्योत्सववैजयन्ति मुकुटस्रग्वेणि गौरीपतेस्त्वां रत्नाकरपत्नि जह्नुतनये भागीरथि प्रार्थये।
त्वत्तोयान्तशिलनिषण्णवपुषस्त्वद्वीचिभिः प्रेङ्खतस्त्वन्नाम स्मरतस्त्वदर्पितदृशः प्राणाः प्रयास्यन्ति मे॥ १८३॥’

अत्र ‘भागीरथि’ इति सम्बोधनपदं ‘धर्मस्योत्सववैजयन्ति’ इत्यादिभिः परिष्क्रियते। तत्र यथाकथञ्चिदप्युच्यमानोऽर्थः क्रियाविशेषणत्वं‘क्रियाविशेषणम्’ क ख नातिक्रामतीत्ययमपि क्रियापरिकरः।

“धर्मस्येत्यादि”। हे भगीरथि भगीरथावतारिते हे गङ्गे, त्वामहं प्रार्थये धर्मस्योत्सवे वैजयन्ति पताकारूपे, हे भवानीपतेर्मुकुटमालारूपा वेणी प्रवाहो यस्यास्तादृशे, हे रत्नाकरस्य समुद्रस्य पत्नि जाये, हे जह्नुमुनिकन्यके। प्रार्थनाविषयमाह—मम प्राणाः प्रयास्यन्ति गमिष्यन्ति। कीदृशस्य। त्वत्तोयस्यान्ते समीपे शिलानिषण्णाङ्गस्य त्वद्वीचिभिः त्वत्तरङ्गैः प्रेङ्खतश्चलतस्त्वदीयं नाम स्मरतस्त्वदर्पितदृशस्त्वयि दत्तनेत्रस्य च। ‘वैजयन्ती पताकायाम्’ इति मेदिनीकारः। ‘अन्तः शेषेऽन्तिके स्त्रियाम्’ इति च। अत्र स्फुटक्रियाविशेषणत्वं नास्तीत्यत आह—“तत्रेति”। विशिष्टायाः प्रार्थनकर्मतया विशेषणस्याप्यन्वय इति यथाकथञ्चिदित्यस्यार्थः॥

लक्षणपरिकरो यथा—

‘महाप्रथिम्ना जघनस्थलेन सा महेभकुम्भोच्चकुचेन वक्षसा।
मुखेन दीर्घोज्ज्वललोलचक्षुषा वयस्य कान्ता कथय क्व वर्तते॥ १८४॥’

अत्र जघनस्थलादीनि लक्षणानि महाप्रथिम्नेत्यादिभिः परिष्क्रियन्ते; सोऽयं लक्षणपरिकरः॥

महावाक्यस्थसम्बन्धिपदैर्लक्षणादयो यत्र लक्ष्यन्ते स परिकर एवेत्युक्तं विवृणोति—“लक्षणेति”॥ “महेत्यादि”। हे वयस्य मित्र, त्वं कथय सा कान्ता क्व वर्तते। कीदृशी। महान् प्रथिमा स्थूलत्वं यस्य तेन जघनस्थलेन लक्षिता। महाकुम्भिकुम्भस्थलादप्युच्चौ कुचौ यत्र तेन हृदयेन लक्षिता। दीर्घे, उज्ज्वले, निर्मले, लोले चपले चक्षुषी यत्र तेन मुखेन लक्षिता च। इह लक्षकपदानां सम्बन्धिभिर्विशेषणैः परिष्कारः॥

हेतुपरिकरो यथा—

‘त्वया जगन्ति पुण्यानि त्वय्यपुण्या‘त्वया पुण्या’ क-घ जनोक्तयः।
नाथवन्तस्त्वया लोकास्त्वमनाथा विपद्यसेमुद्रित उत्तररामचरिते ‘विपत्स्यसे’ इति पाठः॥ १८५॥’

अत्र प्रथमतृतीयपादयोः ‘त्वया, त्वया’ इति हेतू द्वितीयचतुर्थपादाभ्यां परिष्क्रियेते; सोऽयं हेतुपरिकरः॥

आदिपदग्राह्यं हेत्वादि। तत्र हेतावाह—“हेत्विति”। “त्वयेत्यादि”। त्वया जगन्ति पवित्राणि। त्वयि जनोक्तयोऽपुण्या अकुशलाः। त्वया लोका जना नाथवन्तः सरक्षकाः। त्वमनाथा अशरणा विपद्यसे विपन्ना भवसि। अत्र हेतुद्वयपरिष्कारो व्यक्त एव॥

सहार्थपरिकरो यथा—

‘अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन्मनसो रुचिस्ते।
सिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरम्परासु॥ १८६॥’

अत्र ‘अनेन’ इति सहार्थः ‘यूना, पार्थिवेन’ इति च पदाभ्यां परिष्क्रियते; सोऽयं सहार्थपरिकरः॥

“अनेनेत्यादि”। हे रम्भोरु, अनेन तरुणेन भूपेन सह तव मनसो रुचिरभिलाषः कच्चित्कथयेत्यर्थः। किमर्थम्। वनपङ्क्तिषु विहर्तुं क्रीडां कर्तुम्। कीदृशीषु। सिप्रा नदीभेदस्तत्तरङ्गसङ्गिवायुना कल्पितासु। ‘कच्चित्कामप्रवेदनेऽ इत्यमरः। अत्रानेनेति ‘सहयुक्तेऽप्रधाने २।३।१९’ इति तृतीया। तत्प्रतिपाद्यः सहार्थोऽत्र विशेषणाभ्यां परिष्क्रियते॥

तादर्थ्यपरिकरो यथा—

‘इन्दीवरश्यामतनुर्नृपोऽयम्मुद्रितरघुवंशपुस्तकेषु ‘नृपोऽसौ’ इति पाठः त्वं रोचनागौरशरीरयष्टिः।
अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु १८७’

अत्र ‘अन्योन्यशोभापरिवृद्धये’ इति तादर्थ्यार्थः शेषपदार्थैः परिष्क्रियते; सोऽयं तादर्थ्यपरिकरः॥

“इन्दीवरेत्यादि”। वां युवयोर्योगः सम्बन्धः परस्परशोभासम्पत्त्यै भवतु। विद्युन्मेघयोरिव, यथा तयोर्योगः परस्परशोभायै तथेत्यर्थः। अयं नृपो नीलनलिनश्यामाङ्गः, त्वं च गोरोचनावत् गौराङ्गयष्टिः। अत्र परिवृद्धये इति तादर्थ्ये चतुर्थीति तादर्थ्यार्थपरिष्कारः॥

उपपदपरिकरो यथा—

‘प्रत्यक्षवस्तुविषयाय जगद्धिताय विश्वस्थितिप्रलयसम्भवकारणाय।
सर्वात्मने विजितकोपमनोभवाय‘काममनोभवाय’ ध तुभ्यं नमस्त्रिभुवनप्रभवे शिवाय॥ १८८॥’

अत्र ‘नमस्तुभ्यम्’ इत्युपपदार्थः समस्तपदैः परिष्क्रियते; सोऽयमुपपदपरिकरः॥

“प्रत्यक्षेत्यादि”। तुभ्यं नमः। कीदृशाय। प्रत्यक्षो वस्तूनां पदार्थानां विषयो रूपादिकं यस्य तस्मै। यद्वा प्रत्यक्षौ वस्तुविषयौ पदार्थघटपटादी यस्य तस्मै। पदार्थ इह स्वर्गापूर्वदेवतादिः। ‘रूपादौ विषयः पुमान्’ इति मेदिनीकारः। जगतां हितायोपकारकाय। विश्वस्य भुवनस्य स्थितिरवस्थानम्, प्रलयो नाशः, सम्भव उत्पत्तिस्तेषां हेतवे। सर्वं वस्तु आत्मा स्वं यस्य तस्मै। सर्वरूपायेत्यर्थः। विजितौ रोषकामौ येन तस्मै। त्रिभुवनस्य प्रभवे ईश्वराय शिवाय कल्याणकारकाय च। अत्र ‘नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च २।३।१६’ इति तुभ्यमिति नमोयोगे उपपदविभक्तिश्चतुर्थी तदर्थ इतरपदार्थैः परिष्क्रियते॥

उपमारूपकादीनां शब्दार्थोभयभङ्गिभिः।
साधर्म्योत्पादनं यत्तन्मन्ये परिकरं विदुः॥ ७५॥

“उपमेति”। उपमादीनां शब्दार्थोभयभङ्गिभिर्यत्साधर्म्योत्पादनं स परिकरः। शब्दश्चार्थश्चोभयं च तेषां भङ्गिभिर्भजनैः॥

तत्र सशब्दकृत उपमायां यथा—

‘कह कह विरएइ पअं मग्गं पुलएइ छेज्जमाविसइ।
चोरव्व कई अत्थं लद्धुं दुक्खेण णिव्वहइ॥ १८९॥’

[कथं कथं विरचयति पदं मार्गं प्रलोकते छेद्यमाविशति।
चोर इव कविरर्थं लब्धुं दुःखेन निर्वहति॥]

अत्र पदमागच्छेद्यैः शब्दैर्भिन्नार्थैरभिन्नार्थविरचनादिक्रियानिवेशिभिः कविचोरयोरप्रसिद्धमौपभ्यं साधितमिति शाब्दोऽयमौपम्यपरिकरः॥

“कह इत्यादि”। ‘कथं कथमपि रचयति। पदं मार्गं प्रलोकते छेद्यमाविशति। चौर इव कविरर्थं लब्धुं दुःखेन निर्वहति॥’ इह कविरर्थं वाच्यं लब्धुं प्राप्तुं दुःखेन निर्वहति समर्थो भवतीत्यर्थः। चौरसाम्यमाह—कथं कथमपि कष्टसृष्ट्या पदं विभक्त्यन्तरं रचयति, कुत्रकुत्रापि वा पदं रचयति, मार्गं कविवर्त्म प्रलोकते पश्यति। अनेन पथा कविभिः किं गतमित्यनुसन्दधातीत्यर्थः। छेद्यं छेदनीयमशुद्धमाविशति। चौर इव। यथा चौरः क्वापि कथमपि पदं व्यवसायं पादं वा रचयति, मार्गं गतागतवर्त्म पश्यति, छेद्यं छेदार्हं स्थानं प्रविशति, अर्थं साधुधनं प्राप्तुं दुःखेन शक्नोति तथेत्यर्थः। अत्र साम्यापादकविशेषणैरुपमा असिद्धापि साधिता॥

अर्थकृतो रूपके यथा—

‘विअडे गअणसमुद्दे दिअसे सूरेण मन्दरेण व महिए।
णीइ मइरव्व सञ्ज्झा तिस्सा मग्गेण अमअकलसो व्व ससी॥ १९०॥’

[विकटे गगनसमुद्रे दिवसे सूर्येण मन्दरेणेव मथिते।
निर्याति मदिरेव सन्ध्या मार्गेणामृतकलश इव शशी॥]

अत्र गगने समुद्रत्वेन रूपिते सूर्यसन्ध्याशशिभिः, मन्दरमदिराऽमृतकलशैश्च मथनादिक्रियानिवेशिभिरर्थैः परस्परोपमानात्साधर्म्यमुत्पादितमित्यर्थोऽयं रूपकपरिकरः॥

“विअडे इत्यादि”। ‘विकटे गगनसमुद्रे मन्दरेणेव (महिते) मथिते। निर्गच्छति मदिरेव सन्ध्या तस्या मार्गेणामृतकलश इव शशी॥’ इह सन्ध्या निर्गच्छति। विकटे महति गगनसमुद्रे मन्दरगिरिणेव रविणा दिवसे महिते पूजितेऽथ च मथिते सति मदिरेव यथा मन्दरमथिते समुद्रे मदिरा निर्गच्छति तथेत्यर्थः। तस्याः सन्ध्याया मार्गेण यथा चन्द्रोऽमृतकलश इवास्ति निर्गच्छति वा। आकाङ्क्षाक्रमेण निर्गच्छतिरुभयान्वयी। अत्र सूर्यादिभिरर्थैरन्योन्योपमानात्साधर्म्योपपत्तिरित्यार्थोऽयम्॥

उभयकृतश्च विरोधश्लेषे‘विरोधश्लेषयोः’ क ‘विरोधश्लेषो’ ख यथा—

‘रइअमुणालाहरणो णलिणदलत्थइअपीवरत्थणअलसो‘च्छइअ’ ग घ।
वहइ पिअसङ्गमम्भि वि मअणाअप्पप्पसाहणं जुअइजणो॥ १९१॥’

[रचितमृणालाभरणो नलिनदलस्थगितपीवरस्तनकलशः।
वहति प्रियसङ्गमेऽपि मदनाकल्पप्रसाधनं युवतिजनः॥]

अत्र ‘प्रियसङ्गमेऽपि मदनाकल्पप्रसाधनं भवति’ इति विरुद्धार्थयोः साधर्म्योत्पादनायअत्र ‘अन्येष्वपि दृश्यते’ इति भाव्यम्। अपिशब्दः सर्वोपाधिव्यभिचारार्थः। तेन जनिव्यतिरिक्तादपि धातोर्भवितुमर्हतीति वैयाकरणाः जले क्रीडतो युवतिजनस्य यथोक्तविशेषणाभ्यां शब्दतोऽर्थतश्चोपस्कारः कृत इत्युभयकृतोऽयं विरोधश्लेषपरिकरः। एवमलङ्कारान्तरेष्वपि द्रष्टव्यम्॥

“रइअ इत्यादि”। ‘रचितमृणालाभरणो नलिनीदलोत्थगितपीवरस्तनकलशः। वहति प्रियसङ्गमेऽपि मदनाकल्पप्रसाधनं युवतिजनः॥’ इह युवतिजनः पतिसङ्गमेऽपि मदनस्याकल्प उत्कण्ठा तदर्थं प्रसाधनमलङ्कारं वहति। कीदृशः। कृतमृणालालङ्कारः। पद्मिनीपत्रैरुत्थगित उत्तम्भितः। आवृत इति यावत्। पीवरकुचघटो येन सः। उत्थगित इति उत्पूर्वात् ‘थगि’ (ष्ठगे) संवरणे’ कर्मणि क्तः। ‘आकल्पकस्तमोमोहग्रस्ताबू’ (न्थिंषू)त्कलिकामुदोः।’ इति मेदिनीकारः। यद्वा मदनस्य रतिपतेराकल्पकमञ्जनकं प्रसाधनमित्यर्थः। अत्र प्रियसङ्गमे कामजनकमेव प्रसाधनं युक्तमिह तु तद्वैपरीत्येन विरुद्धार्थता। जलक्रीडायां तु मृणालनलिनीभ्यां युवतेरुपस्कारः शाब्द आर्थश्च व्यक्त एव॥

एकावलीति या सापि भिन्ना परिकरान्न हि।
त्रिधा सापि समुद्दिष्टा शब्दार्थोभयभेदतः॥ ७६॥

पूर्वं प्रति यत्रोत्तरस्य वस्तुनो वीप्सया विशेषणत्वेन स्थापनं निषेधो वा सैकावली। इयमपि परिकरादभिन्नैवेत्याह—“एकावलीति”। एकेनापरस्य परिष्करणमेकावल्यामपि लभ्यते इत्यनयोरभेद इत्यर्थः॥

तत्र शब्दैकावली यथा—

‘पर्वतभेदि पवित्रं जैत्रं नरकस्य बहुमतङ्गहनम्।
हरिमिव हरिमिव हरिमिव वहति पयः पश्यत पयोष्णी॥ १९२॥’

अत्र ‘हरिमिव, हरिमिव, हरिमिव’ इति शब्दैकावल्या विभिन्नार्थया ‘पयः’ कर्मकारकमुपस्क्रियते; सेयं शब्दैकावली परिकरस्यैव भेदः॥

“पर्वतेत्यादि”। इयं पयोष्णी नदीभेदः पयो जलं वहति तत्पश्यत। वाक्यार्थस्यैव वा कर्मता। पयः कीदृशम्। पर्वतस्याद्रेर्भेदनशीलम्। अद्रिं भित्त्वा वहनात्। पवित्रं पुण्यहेतुकम्। नरकस्य निरयस्य जैत्रमत एव बहुमतमनेकसम्मतं गहनमगाधम्। हरिरिन्द्रस्तमिव। इन्द्रं कीदृशम्। ‘अद्रिपक्षस्य छेद्यत्वेन पर्वतभेदी पविना वज्रेण त्रायते ‘अन्यत्रापि दृश्यते’ इति त्रः पवित्रः। पश्चात्कर्मधारयः। यद्वा पर्वतभेदिना पविना त्रायते इति पर्वतभेदिपवित्रस्तम्। हे नर नल इति सम्बोध्रनम्। रलयोरेकत्र स्मरणात्। कस्य बहुमतमीषन्मतं जैत्रं किन्तु सर्वस्यैव सम्पूर्णमेव स्वीकृतम्। बहुमतमितीषदसमाप्तौ बहुच्। स चादौ भवति ‘विभाषा सुपो बहुच् पुरस्तात्तु ५।३।६८’ इति सूत्रेण। गहनं कठोरम्। हरिः सिंहस्तमिव पर्वतस्य। भिद्यत इति भेदो विवरम्। गुहेति यावत्। तत्सम्बद्धं तच्छायित्वात्। पवित्रं श्वेतं नरकस्य प्रशस्तपुंसोऽपि जेतारम्। बहुर्बहुमानविषयो मतङ्गो मुनिभेदो येषां ते बहुमतङ्गा हस्तिनस्तेषां पितृत्वेन तस्य पूज्यत्वात् तान् हन्ति तम्। हरिर्विष्णुस्तमिव। पर्वतस्य गोवर्धनस्य भेदकमुत्थापकत्वात्। पवेर्वज्रात् त्रः त्राणं यस्मात्तत्। विष्णुस्मरणस्य तदपि फलम्। नरकस्य दैत्यभेदस्य जैत्रम्। बहुमतङ्गान् हिंस्त्रान् हन्ति यस्तम्। हरिर्वायुस्तमिव सोऽप्यतिवेगित्वादद्रिभेदी, पवित्रः पवनत्वात्। अत एव नरकस्य कश्मलस्य निवारकः। बहूनां वातयोगिनां स्वीकृतः गहनः कष्टेन परिचेयश्च भवति। ‘इन्द्रे सिंहेऽनिले विष्णौ हरिः शमनसूर्ययोः।’ इति शाश्वतःशाश्वतकोषे तु ‘इन्द्रचन्द्राश्ववातार्कशुकभेकयमाहिषु। कपौ सिंहे सुवर्णाभे वर्णे विष्णौ हरिं विदुः॥’ इति विद्यते।। अत्र हरिमिवेत्यादिशब्दरूपैकावल्या विशेषणत्वेन पयोरूपस्य कर्मकारकस्य परिष्कारः॥

अर्थैकावली यथा—

‘किमिति कबरी यादृक् तादृग् दृशौ किमकज्जले न खलु लिखिताः पत्रावल्यः किमद्य कपोलयोः।
अयमयमयं किञ्च क्लाम्यत्यसंस्मरणेन ते प्रियसखि सखीहस्तन्यस्तो विलासपरिच्छदः॥ १९३॥’

अत्र ‘अयमयमयम्’ इति सर्वनामपरामृश्यमानया प्रागुपन्यस्तकारणभूतया ततोऽन्यया वा तथाविधयार्थैकावल्या ‘परिच्छदः’ इति कर्तृकारकमभिन्नार्थ इव परिष्क्रियते; सेयमर्थैकावली परिकरस्यैव भेदः॥

“किमित्यादि”। हे शशिमुखि, सखीहस्तारोपितोऽयमयं विलासार्थं परिच्छदस्तवासंस्मरणेन किञ्चित्क्लाम्यति। तदाह—कबरी केशवेशः। किमिति यादृक् तादृक्। न रम्य इत्यर्थः। ‘कबरी केशवेशः स्यात्’ इत्यमरः। दृशौ नेत्रे अकज्जले किम्, कपोलयोः पत्रावल्योऽद्याधुना किं नैव लिखिताः। खलुशब्दोऽवधारणे वाक्यभूषायां वा। अत्रायमिति सर्वनामोपस्थापितयार्थैकावल्या तुल्ययैव परिच्छदरूपस्य कर्तृकारकस्य परिष्कारः॥

उभयैकावली यथा—

‘अम्बा तुष्यति न मया स्नुषया सापि नाम्बया न मया।
अहमपि न तया न तया वद राजन् कस्य दोषोऽयम्॥ १९४॥’

अत्राम्बास्नुषास्मदर्थलक्षणैरर्थैस्तद्वाचिभिः सर्वनामभिः शब्दैरेकावलीक्रमेण मिथोऽनुस्यूतैर्मिथोऽनुस्यूत एव ‘तुष्यति’ इति क्रियाहेतुर्मयेत्यादिभिः परिष्क्रियते; सेयमुभयग्रथितत्वादुभयैकावली परिकरस्यैव भेदः॥

“अम्बेत्यादि”। अम्बा माता न मया तुष्यति तुष्टा भवति। न स्नुषया पुत्रवध्वा तुष्यति। सापि स्नुषा नाम्बया न मया च तुष्यति। अहमपि न तयाम्बया न तया स्नुषया च तुष्यामि। हे राजन्, कस्य दोषोऽयमिति वद। वदेत्यत्र वाक्यार्थस्यैव कर्मता। ‘अम्बा माताम्बिकापि च’ इति रत्नकोषः। ‘समाः स्नुषाजनीवध्वः’ इत्यमरः। अत्राम्बाद्यर्थैस्तद्वाचकशब्दैश्च मयेत्यादेः परिष्कारः॥ इति परिकरालङ्कारनिरूपणम्॥

दीपकालङ्कारनिरूपणम्।

दीपकं लक्षयति—

क्रियाजातिगुणद्रव्यवाचिनैकत्रवर्तिना।
सर्ववाक्योपकारश्चेद्दीपकं तन्निगद्यते॥ ७७॥

अर्थावृत्तिः पदावृत्तिरुभयावृत्तिरावली।
सम्पुटं रसना माला चक्रवालं च तद्भिदाः॥ ७८॥

“क्रियेत्यादि”। एकत्र स्थितेन जात्यादिवाचिना पदेन यदि सर्ववाक्योपकारः क्रियते तदा दीपकम्। दीपयतीति दीपकमित्यन्वर्थं नाम। अष्टधा तदित्याह—“अर्थेति”। तस्य दीपकस्य भिदा भेदाः॥

तेषु क्रियावाचिना आदिदीपकं यथा—

‘चरन्ति चतुरम्भोधिवेलोद्यानेषु दन्तिनः।
चक्रवालाद्रिकुञ्जेषु कुन्दभासो गुणाश्च ते॥ १९५॥’

अत्र ‘चरन्ति’ इति क्रियया द्वयोरपि वाक्ययोरादिपस्थयैवोपकारः क्रियत इत्यादिदीपकमिदं क्रियाविषयमुच्यते। एवं मध्यान्तयोरपि द्रष्टव्यम्॥

“चरन्तीत्यादि”। तव दन्तिनो हस्तिनश्चतुःसमुद्रकूलवनेषु चरन्ति। कुन्दपुष्पदीप्तयो निर्मलास्तव गुणाश्च चक्रवालस्य लोकालोकस्याद्रेः कुञ्जेषु चरन्ति गच्छन्ति। अत्र क्रियावाचिना चरन्तीति पदेनादिस्थेन वाक्यद्वयं दीपितम्। मध्यास्थितेन वा क्रियापदेन यत्र वाक्यदीपनं तदपि मध्यदीपकमन्तदीपकं चेति मन्तव्यमित्याह—“एवमिति”॥

जातिवाचिना आदिदीपकं यथा—

‘पवनो दक्षिणः पर्णं जीर्णं हरति वीरुधाम्।
स एव च नताङ्गीनां मानभङ्गाय कल्पते॥ १९६॥’

अत्र ‘पवनः’ इत्यादिपादे जातिपदं तेनादिदीपकमिदं जातिविषयमुच्यते। एवं मध्यान्तयोरपि द्रष्टव्यम्॥

“पवन इत्यादि”। दक्षिणः पवनो मलयानिलो वीरुधां लतानां जीर्णं पक्वं पर्णं पत्रं हरति। स एव पवनो नागरीणां मानभङ्गाय कल्पते शक्तो भवति। अत्र पवनपदस्य सामान्यत एवोभयत्रान्वयाज्जातिवाचकत्वमादिस्थत्वं च। एवं चेत्ययं समुदायोऽत्यन्तमभेदमाह। मध्यान्तस्थयोरपि जातिवाचिनोर्दीपकं तत्तन्नाम्ना ज्ञेयमित्याह—“एवमिति”॥

गुणवाचिना आदिदीपकं यथा—

‘श्यामलाः प्रावृषेण्याभिर्दिशो जीमूतपङ्किभिः।
भुवश्च सुकुमाराभिर्नवशाद्वलराजिभिः॥ १९७॥’

अत्र ‘श्यामलाः’ इत्यादिपादे गुणपदं तेनादिदीपकमिदं गुणविषयमुच्यते। एवं मध्यान्तयोरपि द्रष्टव्यम्॥

“श्यामला इत्यादि”। प्रावृषेण्याभिर्वर्षजाताभिर्जीमूतपङ्किभिर्मेघसन्धैर्दिशः श्यामलाः श्यामाः। रम्याभिर्नूतनतृणपङ्किभिर्भुवश्च श्यामलाः सन्ति। ‘कालश्यामलमेचकाः’ इत्यमरः। अत्र जाते इत्यर्थे ‘प्रावृष एण्यः ४।३।१७’ इत्येण्यप्रत्ययः। ‘घनजीमूतमुदिर’ इत्यमरः। ‘शाद्वलः शादहरिते’ इति च। ‘शादः स्यात्कर्दमे शस्ये’ इति मेदिनीकारः। अत्र श्यामलपदेन गुणवाचिनानादिस्थेन दीपनम्। मध्यान्तस्थयोरपि गुणवाचिनोरेवं ज्ञेयमित्याह—“एवमिति”॥

द्रव्यवाचिना आदिदीपकं यथा—

‘विष्णुना विक्रमस्थेन दानवानां विभूतयः।
क्वापि नीताः कुतोऽप्यासन्नानीता देवतर्द्धयः॥ १९८॥’

अत्र ‘विष्णुना’ इत्यादिपादे द्रव्यपदं तेनादिदीपकमिदं द्रव्यविषयमुच्यते। एवं मध्यान्तयोरपि द्रष्टव्यम्॥

“विष्णुनेत्यादि”। दानवानां दनोरपत्यानामसुराणां विभूतयः सम्पत्तयो विक्रान्तेन विष्णुना क्वापि नीताः प्रापिताः। तेनैव देवतानाभृद्धयः श्रियः कुतोऽप्यवधिभूतादानीता आसन् स्थिताः। ‘संशता‘प्रीयते’ ग घ नास्ति (?) वुपचये ऋद्धिः’ इति नानार्थः। अत्र विष्णुशब्दो द्रव्यपर आदिस्थश्च। मध्यान्तस्थयोरपि द्रव्यवाचिनोरेवं द्रष्टव्यमित्याह—“एवमिति”॥

अर्थावृत्तिर्यथा—

‘हृष्यति चूतेषु चिरं तुष्यति बकुलेषु मोदते मरुति।
इह हि मधौ कलकूजिषु पिकेषु च प्रीयते‘सम्पत्तावुपचये ऋद्धिः’ इति भवेत् कामी॥ १९९॥’

अत्र ‘हृष्यति, तुष्यति, मोदते, प्रीयते’ इत्येतैः पदैः स एवार्थ आवर्त्यमानः सर्ववाक्यानि दीपयति; सेयमर्थावृत्तिर्दीपकस्य भेदः॥

“हृष्यतीति”। कामी इह मधौ वसन्ते चूतेषु हृष्यति हृष्टो भवति। बकुलेषु तुष्यति। मरुति वाते भोदते। कलरवेषु कोकिलेषु च प्रीयते प्रीतो भवति। सर्वत्र चिरमित्यन्वयः। हिरवधारणे। प्रीयत इति ‘प्रीङ् प्रीतौ’ दैवादिकः। अत्र हृष्यतीत्यादिपदैरावर्तमानोऽर्थः सर्ववाक्यदीपकः॥

पदावृत्तिर्यथा—

‘उत्कण्ठयति मेघानां माला वृन्दं कलापिनाम्।
यूनामुत्कण्ठयत्यद्य मानसं मकरध्वजः॥ २००॥’

अत्रोग्द्रीवं करोति, उत्कण्ठावन्तं करोतीत्यर्थयोः ‘उत्कण्ठयति’ इति पदमावर्त्यमानं वाक्यद्वयमपि दीपयति; सेयं पदावृत्तिर्दीपकस्य भेदः॥

“उत्कण्ठ्यतीत्यादि”। मेघानां पङ्क्तिः, मयूराणां वृन्दं समूहमुत्कण्ठययत्युग्द्रीवयति। अद्येदानीं कामश्च यूनां चित्तमुत्कण्ठयत्युत्सुकयति। अत्रोत्कण्ठयतीति पदमावर्त्यमानं वाक्यद्वयदीपकम्॥

उभयावृत्तिर्यथा—

‘जय देव भुवनभावन जय भगवन्निखिलवरद निगमनिधे।
जय रुचिरचन्द्रशेखर जय मदनान्तक जयादिगुरो॥ २०१॥’

अत्र जयेत्यर्थः शब्दश्चावर्त्यमानः सर्ववाक्यानि दीपयति; सेयमुभयावृत्तिर्दीपकस्य भेदः॥

“जयेत्यादि”। हे देव महादेव, भुवनस्य जगतो भावन जनक, जय। हे भगवन्नखिलेषु जनेषु वरप्रद, निगमस्य‘निगमो वाणिजे पुर्यां कटे वेदे वणिक्पथे’ इति मेदिनी वेदस्य निधे आश्रय, जय। रम्यचन्द्रचूड, जय। मदननाशक, जय प्रथमगुरो, जय। ‘निगमो नगरे वेदे’ इति मेदिनीकारः। अत्र जयशब्दस्तदर्थश्चावर्त्यमानः सर्ववाक्यदीपकः॥

आवली यथा—

‘त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह- स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च।
परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि॥ २०२॥’

अत्र पूर्वार्धे त्वमिति शब्दार्थयोः प्रथमावृत्तिः प्रथमपादस्थया “‘असि’” इति क्रियया दीप्यते। ततस्तृतीयपादे ‘त्वयि’ इति रूपान्तरेण युष्मदर्थ आवर्त्यमानः क्रियान्तरेण सम्बध्यते, चतुर्थपादे पुनरपि तेनैव रूपेणास्त्यर्थेन भवतिना सम्बध्यत इति; सेयं वृत्तीनामावृत्तिरावलीति दीपकस्यैव भेदो भवति॥

“त्वमित्यादि”। परिणताः परिणामिनोऽर्कादयस्त्वयि त्वद्विषय एवं परिच्छिन्नां गिरं वाणीं बिभ्रति धारयन्ति। इह जगति यत्तत्त्वं वस्तु त्वं न भवसि तत्तत्त्वं वयं पुनर्न विद्मो न जानीमः। सर्वात्मकत्वाद्भवस्य। परिच्छिन्नवाणीमाह—त्वमादित्यस्त्वं चन्द्रस्त्वं वायुस्त्वमग्निस्त्वं जलं त्वमाकाशम्। उ हे। त्वं भूमिस्त्वमात्मा चासीति। ‘उ सम्बोधनशेषोक्त्योः’ इति मेदिनीकारः॥ अत्र प्रथमार्धे त्वमितिशब्दार्थयोरावृत्तिरसीतिक्रियया दीपिता, तृतीयपादे त्वयीतिरूपान्तरेण विषयत्वेन युष्मदर्थस्त्वमित्येवंरूपो धारणक्रियान्वयी। अन्त्यपादेऽपि त्वमित्येव भवनान्वयीत्यावृत्तीनामावृत्तिरावलीति॥

सम्पुटं यथा—

‘णवपल्लवेसु लोलइ घोलइ विडवेसु चलइ सिहरेसु।
थवइ थवएसु चलणे वसन्तलच्छी असोअस्स॥ २०३॥’

[नवपल्लवेषु लोलति घूर्णते विटपेषु चलति शिखरेषु।
स्थापयति स्तबकेषु चरणौ वसन्तलक्ष्मीरशोकस्य॥]

अत्र ‘नवपल्लवेषु— इत्यादिनि ‘अशोकस्य’ इति; ‘लोलति—’ इत्यादीनि ‘वसन्तलक्ष्मीः’ इति पदे द्रव्यवाचिनी सम्पुटक्रमेण मिथः सम्बध्यमाने मिथः सम्बद्धान्येव दीपयतः, तदेतत्सम्पुटं नाम दीपकस्य भेदः॥

“णवेत्यादि”। “नवपल्लवेषु लोलति घूर्णते विटपेषु चलति शिखरेषु। स्थापयति स्तबकेषु चरणौ वसन्तलक्ष्मीरशोकस्य॥” इहाशोकस्य नवपल्लवेषु वसन्तलक्ष्मीर्लोलति लुठति। तस्य विटपेषु शाखासु घूर्णते, तस्य शिखरेष्वग्रेषु चलति गच्छति, तस्य स्तबकेषु पुष्पगुच्छेषु चरणौ स्थापयति। लोलतीति ‘लोलनैष धातुः क्वापि धातुपाठे वर्तन्ते। ‘लुड विलोडने’ इति, ‘लोड उन्मादे’ इति च भौवादिकौ। उभयोरपि लोडतीति। डलयोरभेदाल्लोलतीति च चलने’ तौदादिकः। यद्वा लोकतीति क्विबन्तात्तिप्। अत्र पदद्वयं द्रव्यवाचकं सम्पुटक्रमेण मिथः सम्बध्यमानं मिथः सम्बद्धान्येव पदानि दीपयतीति सम्पुटम्॥

रसना यथा—

‘सलिलं विकाशिकमलं कमलानि सुगन्धिमधुसमृद्धानि।
मधु ‘लीलालिकुल’ ग घलीनालिकुलाकुलमलिकुलमपि च मधुरणितमिह॥ २०४॥’

अत्र रसनाक्रमेण मिथः सङ्ग्रथितानि ‘सलिलं विकाशिकमलम्’ इत्यादीनि वाक्यानि ‘इह’ इत्यन्तस्थितेनाधिकरणवाचिना द्रव्यदीपकेन दीप्यन्ते; तदेतत् रसनादीपकं नामादिदीपकभेदः॥

“सलिलमित्यादि”। जलं प्रफुल्लपद्मम, पद्मानि सुगन्धमधुना समृद्धानि। लीनं यदलिकुलं तेनाकुलं मधु, भ्रमरकुलमपीह वसन्ते मधुरणितं मधुना पुष्परसेन शब्दितं मधौ मधूकद्रुमे वा शब्दितम्। ‘मधु पुष्परसक्षौद्रमद्ये ना तु मधुद्रुमे’ इति मेदिनीकारः। अत्र क्षुद्रघण्टिकाक्रमेण सङ्ग्रथितानि सलिलादिपदान्यन्तःस्थिताधिकरणरूपद्रव्यवाचकेनेहेति पदेन दीप्यन्ते॥

माला यथा—

‘इमिणा सरएण ससी ससिणा वि णिसा णिसाइ‘णिसाए’ ग कुमुअवणम्।
कुमुअवणेण अ पुलिणं अत्रैकमात्राया न्यूनत्वाच्छन्दोदोषः प्रतिभातिपुलिणेण अ सोहए हंसउलम्॥ २०५॥’

[अनया शरदा शशी शशिनापि निशा निशया कुमुदवनम्।
कुमुदवनेन च पुलिनं पुलिनेन च शोभते हंसकुलम्॥]

अत्र मालाक्रमेण परस्परग्रथिताः कर्तारो हेतवश्च शशिप्रभृतयः ‘शोभते’ इति क्रियया दीप्यन्ते; तदेतन्मालादीपकं नाम दीपकस्य भेदः॥

कः पुनरस्य पूर्वस्माद्विशेषः। पूर्वत्र वृत्तिच्छिन्नं रसनायां सर्वत्र इह तु स्वतन्त्रं मालापुष्पवत् पदं पदेन युज्यमानं क्रियादिभिः सम्बध्यतइति ‘ततोऽयं भिद्यते’ क खततो भिद्यते॥

“इमिणेत्यादि”। “अनया शरदा शशी शशिनापि निशा निशया कुमुदवनम्। कुमुदवनेन च पुलिनं पुलिनेन च शोभते हंसकुलम्॥” इह सर्वत्र शोभत इति क्रियान्वयः। अत्रान्योन्यग्रथनया मालाक्रमस्तेन च प्रधानक्रियायां दीपनम्। परस्परग्रथनया रसनामालयोर्भेदं पृच्छति—“क इति”। उत्तरम्। “पूर्वत्रेति”। रसनायां सर्वत्र वृत्त्या छन्दसा छिन्नं भिन्नीभूतं पदं पदेन युज्यते। मालायां तु प्रत्येकमेव पदं पदेन युज्यत इत्यनयोर्भेद इत्यर्थ॥

चक्रवालं यथा—

‘सङ्ग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय‘देवालोकय’ क पुस्तके येन येन सहसा यद्यत्समासादितम्।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च ‘सप्ताब्धयः’ इत्यपि पाठः घलोकत्रयम्॥ २०६॥’

अत्र ‘सङ्ग्रामाङ्गणमागतेन भवता चापे समारोपिते’ इति भावलक्षणाक्षिप्तस्य भावविशेषस्य द्वितीयपादे कारकवीप्सया यत् सङ्क्षेपेणाभिधानं तदेतच्चक्रवालाद्रिणेव मालादीपकेन विस्तारवता वेष्टितमिदं चक्रवालं नाम दीपकस्य भेदः॥

“सङ्ग्रामेत्यादि”। विवृतोऽयं विस्तारगुणे। अत्र भावः क्रिया। सा च सामान्यलक्षणेन ज्ञाता विशेषमाक्षिपति। ज्ञानसामान्यस्य विशेषे जिज्ञासोदयात् तत्र च समारोपणरूपे कारङ्कजिज्ञासायां सामान्यत एव वीप्सयाभिधानं येनेति यदिति च। विस्तरवत्त्वैन चक्रवालादिसाम्यमस्य॥ इति दीपकालङ्कारनिरूपणम्॥

क्रमालङ्कारनिरूपणम्।

क्रमलक्षणमाह—

शब्दस्य यदि वार्थस्य द्वयोरप्यनयोरथ।
भणनं परिपाट्या यत् क्रमः स परिकीर्तितः॥ ७९॥

“शब्दस्येति”। शब्दार्थयोः परिपाठ्या भणनं क्रमः। शब्दतदर्थतदुभयभेदात्स त्रिधेति विभागः॥

अत्र शब्दपरिपाटी द्विधा—पदतो वाक्यतश्च। तयोराद्या यथा—

‘तस्याः प्रवृद्धलीलाभिरालापस्मितदृष्टिभिः।
जीयन्ते वल्लकीकुन्दस्रगिन्दीवरसम्पदः॥ २०७॥’

अत्रालापस्मितदृष्टिभिः पदार्थौर्वल्लकी‘वल्लक्यादयः पदार्थाः’ धकुन्दस्रगिन्दीवरसम्पदः पदार्था जीयन्त इति शब्दपरिपाट्या भणनम्; सेयं पदतः शब्दपरिपाटी क्रमः॥

“तस्या इत्यादि”। तस्या आलापस्मितदृष्टिभिर्वचनेषद्धासालोकनैर्वल्लकीकुन्दस्रगिन्दीवरसम्पदो वीणाकुन्दमालानीलाब्जसम्पत्तयो जीयन्ते। कीदृशीभिः। उपचितविलासाभिः। अत्र शब्दस्य पदरूपस्य परिपाट्या भणनमिति पदघटितः शाब्दक्रमः॥

वाक्यतो यथा—

‘इन्दुर्मूर्ध्नि शिवस्य शैलदुहितुर्वक्रो नखाङ्क स्तने देयाद्वोऽभ्युदयं द्वयं तदुपमामालम्बमानं मिथः।
संवादः प्रणवेन यस्य दलता‘लसता’ ख कायैकतायां तयो- रूर्ध्वद्वारि‘ऊर्ध्वद्वारविचिन्तितेन’ ख ग विचिन्तितेन च हृदि ‘हृदि ध्यातः, स्वरूपेण च’ क गध्यातस्वरूपेण च २०८’

अत्र ‘इन्दुर्मूर्ध्नि शिवस्यऽ, शैलदुहितुर्वक्रो नखाङ्कः स्तने’ इति ‘चान्यार्थवाचिनौ’ क खवाच्यार्थवाचिनौ शब्दसमुदायौ क्रमेण ‘ऊर्ध्वद्वारि‘ऊर्ध्वद्वारविचिन्तितेन’ ख ग विचिन्तितेव च’, ‘हृदि ‘हृदि ध्यातः, स्वरूपेण च’ क गध्यातस्वरूपेण च’ इति वाक्यार्थद्वयवाचिभ्यां शब्दसमुदायाभ्यां सम्बध्येते; सेयं वाक्यतः शब्दपरिपाटि क्रमः॥

“इन्दुरित्यादि”। विवृतोऽयं सम्मितत्वगुणे। अत्र वाक्यार्थाभिधायकौ शब्दसमुदायौ तादृशाभ्यां शब्दसमुदायाभ्यां सम्बद्धाविति वाक्यघटितः शाब्दक्रमः॥

अर्थपरिपाटी द्विधा—कालतो देशतश्च। तयोराद्या यथा—

‘हस्ते लीलाकमलमलकं बालकुन्दानुविद्धं नीता लोध्रप्रसवरजसा पाण्डुतामाननश्रीः।
चूडापाशे नवकुरबकं चारु कर्णे शिरीषं सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम्॥ २०९॥’

अत्र ‘हस्ते’ लीलाकमलमलकं बालकुन्दानुविद्धम्’ इत्याद्यर्थानां शरदादिकालक्रमेण भणनम्; सेयं कालतोऽर्थपरिपाटी क्रमः॥

“हस्ते इत्यादि”। यत्र पुर्यां वधूनां हस्ते लीलाकमलम्, अलकं चूर्णकुन्तलं बालकुन्देनानुविद्धं सम्बद्धम्। लोध्रप्रसवस्य लोध्रपुष्पस्य रजसा धूल्या मुखश्रीः पाण्डुतां श्वेततां नीता। चूडापाशे प्रशस्तशिखायां नूतनकुरबकपुष्पम्, चारु मनोज्ञं शिरीषपुष्पं कर्णे, सीमन्ते नीपं कदम्बपुष्पम्। त्वदुपगमस्त्वदीयागमनं तस्माज्जातम्। इदं सर्वपुष्पविशेषणम्। ‘चूडा शिखायां बाहुभूषणे’ इति मेदिनीकारः। शिखापरस्यापि पाशपदस्य केशपरत्वेमेव। अत्र शरदादिकालक्रमेणार्थानां क्रमादार्थक्रमः॥

द्वितीया यथा—

‘पायाद्वो रचितत्रिविक्रमतनुर्देवः स दैत्यान्तको यस्याकस्मिकवर्धमानवपुषस्तिग्मद्युतेर्मण्डलम्।
मौलौ रत्नरुचि‘रत्नरुचिः’ ग घ श्रुतौ परिलसत्ताटङ्ङ्कान्ति‘तालङ्ककान्तिः’ ग घ क्रमा- ज्जातं‘यातं’ ग घ वक्षसि कौस्तुभाभमुदरे नाभीसरोजोपमम्॥ २१०॥’

अत्र त्रिविक्रमतोनोर्वैकुण्ठस्य प्रवृद्धिसमये क्रमेणैव मौलिश्रुतिवक्षउदरलक्षणेषु शरीरदेशेषु भास्वन्मण्डलस्य चूडारत्नताटङ्ककौस्तुभनाभ्यम्बुजैर्योऽयमौपम्यलाभः; ‘उमौपम्यलाभो ग घसेयं देशतोऽर्थपरिपाटी क्रमः॥

“पायादित्यादि”। स देवो वो युष्मान् पायात् रक्षतात्। कीदृशः। रचिता त्रिविक्रमस्य वामनस्य तनुः शरीरं येन सः। दैत्यनाशकश्च। यस्वाकस्माद्वर्धमानशरीरस्य सूर्यमण्डलं मौलो रत्नरुचि जातम्, क्रमात् श्रुतौ कर्णे शोभमानताटङ्ककान्ति जातम्, वक्षसि कौस्तुभदीप्ति जातम्, उदरै नाभिपद्मोपमं जातम्। ‘कौस्तुभो मणिः’ इत्यमरः। इह हरेर्नाभिपद्मस्य श्वेततया रूपेण न साम्यं किं त्वाकारादिनेत्यवधेयम्। ‘वैकुण्ठो विष्टरश्रवाः’ इत्यमरः। अत्र मौलिप्रभृतिदेशपुरस्कारेणार्थक्रमः॥

उभयपरिपाटी द्विधा—शब्दप्रधाना, अर्थप्रधाना च। तयोराद्या यथा—

‘पङ्कअ पङ्कि वहेलिअ कुवलअ खित्तउ दहहिं वालिहिं बिम्ब विविल्लिओ घत्तिओ चन्दु णहहि।
करणअणाहरवअणहिं तहिं लीलावइहिं णिअसिट्टि वि उच्चिट्ठिणा इं पआवइहिं॥ २११॥’

[पङ्कजं पङ्केऽवहेल्य कुवलयं क्षिप्त्वा हृदे वृन्ते बिम्बं विप्रकीर्णे निरस्तश्चन्द्रो नभसि।
करनयनाधरवदनैस्तत्र लीलावत्यां निजसृष्टिरप्युत्सृष्टा किं प्रजापतिना॥]

अत्र पङ्कजकुवलयबिम्बिफलचन्द्रमसां करनयनाघरवदनैर्यथासङ्ख्यं पराजयत इति शब्दपरिपाठ्यैव पङ्कजानि पङ्के न्यस्तानि, कुवलयानि हृदे क्षिप्तानि, बिम्बं ‘मुहपूरिअतिणवज्ज वाली’ इतिदेशीनाममालनुसारेण सच्छिन्द्रं तृण वृन्तमपि भवति। ‘वृत्तौ’ ग घवृन्ते प्रकीर्णम्, चन्द्रो नभसि निरस्त इत्याधाराणामुपर्युपरिभावः, क्रियाणां च त्यागतारतम्यमित्यर्थपरिपाटी न्यग्भवति; सेयं शब्दप्रधानोभयपरिपाटी क्रमः॥

“पङ्क इत्यादि”। “पङ्कजानि पङ्क न्यस्तानि कुवलयानि क्षिप्तानि ह्रदे कृत्तौ बिम्बं विनिकीर्णं निरस्तश्चन्द्रो नभसि। करनयनाधरवदनैस्तस्यां लीलावत्यां निजसृष्टिरप्युत्सृष्टेव प्रजापतिना॥” इह प्रजापतिना ब्रह्माणा तस्यां लीलावत्यां नायि-कायाँ हस्तनेत्राधरमुखैर्निजसृष्टिरप्युत्सृष्टेव दत्तेव। पङ्कजादीनामपासनात्। तदेवाह—पङ्कजानि पद्मे कर्दमे न्यस्तानि। नीलाब्जानि ह्रदेऽगाधजले क्षिप्तानि। वृत्तौ वेष्टने बिम्बफलं न्यस्तम्, चन्द्रो गगने क्षिप्त इति। ‘स्रष्टा प्रजापतिर्वेधाः’ इत्यमरः। अत्र पङ्कजादीनां करादिना जये शाब्दक्रमः प्रधानीभूतोऽधिकरणानामुपर्युपरिभावः, क्रियाणां च त्यागतारतम्यमित्यार्थक्रमश्च न्यग्भूतोऽप्रधान इत्युभयक्रमेऽपि शब्दप्रधानता॥

अर्थप्रधाना यथा—

‘गङ्गे देवि दृशा पुनीहि यमुने मातः पुनर्दर्शनं सम्प्रश्नोऽस्तु पितः प्रयाग भगवन्न्यग्रोध मां ध्यास्यसि।
तं हारासिलतावतंसविपुलस्थूलंसवक्षोभुजं पुम्भावं भवतामवन्तिनगरीनाथं दिदृक्षामहे॥ २१२॥’

अत्र गङ्गायमुनाप्रयागन्यग्रोधतत्पुम्भावावन्तिनगरीनाथलक्षणानामर्थानां मुख्यक्रमेण ‘ देवि दृशा पुनीहि’, ‘मातः पुनर्दर्शनम्’, ‘पितः सम्प्रश्नः’, ‘भगवन्मां ध्यास्यसि’ इति मुख्यक्रमेणैव सम्भ्रमद्भिर्वचोविशेषैरभ्यर्थ्य‘अभ्यर्चा’ क ‘भवतामेव पुम्भावमवन्तिनगरीनाथं दिदृक्षामहे’ इति येयमभ्यर्थनाभङ्गिः सार्थपरिपाटीकृता तस्यां च ‘गङ्गे’ यमुने, प्रयाग, न्यग्रोध’ इति, ‘हारासिलतावतंसविपुलवक्षःस्थूलांस’ इति च शब्दपरिपाटी परस्परमुपमानोपमेयभूते न्यग्भवतः, सेयमर्थप्रधानोभयपरिपाटी क्रमः॥

“गङ्गेत्यादि”। हे गङ्गे देवि, दृशा मां पुनीहि, हे मातर्यमुने, पुनर्दर्शनमस्तु, हे पितः प्रयाग, भवान् स्वाप्रश्नोऽस्तु सुसंवादोऽस्तु। हे भगवन् न्यग्रोध अक्षयवट, मां ध्यास्यसि, स्मरिष्यसि। तमवन्तिनगरीनाथमुज्जियिनीपतिं, भोजराजं नृपं वयं दिदृक्षामहे द्रष्टुमिच्छामः। कीदृशम्। हारखङ्गलताकर्णालङ्कारैर्विपुलाः पीनबाहुमूल्युक्तवक्षोभुजा यस्य तम्। भवतामेव पुम्भावं पुरुषरूपम्। स्वाप्रश्न इति। स्वस्य आ समन्तात् प्रश्नः संवादः। यथा आपृच्छस्वेत्यत्र। वतंसेन कर्णालङ्कारेण विपुलः स्थूलश्चांसो बाहुमूलं यत्र वक्षसि तत्। ‘वतंसः कर्णपूरे स्यात्’ इति विश्वः। अत्रादरवता वचनरचनेनाभ्यर्च्य प्रार्थनाभाङ्गिरर्थपरिपाटीकृता। तस्यां च गङ्गया हारस्य, यमुनयासिलतायाः, प्रयागेण वतंसविपुलस्थूलांसवक्षसः, न्यग्रोधेन भुजस्य शाब्देन क्रमेण मिथ उपमानोपमेयभावो न्यग्भूत इत्युभयक्रमेऽर्थप्रधानता॥ इति क्रमालङ्कारनिरूपणम्॥

पर्यायलङ्कारनिरूपणम्।

पर्यायं लक्षयति—

मिषं यदुक्तिभङ्गिर्यावसरो यः स सूरिभिः।
निराकाङ्क्षोऽथ साकाङ्क्षः पर्याय इति गीयते॥ ८०॥

“मिषमिति”। यन्मिषम्, योक्तिभङ्गिः, यश्चावसरः स पर्यायः। मिषाद्यन्यतम एव पर्याय इति लक्षणम्॥

तेषु निराकाङ्क्षं मिषं यथा—

‘मया विमुक्ता बाहिरेव वल्लकी व्रजेदवश्यायकणैश्च सार्द्रताम्।
द्रुतं तदेनां करवै निचोलके कयाचिदेवं मिषतो विनिर्यये २१३’

अत्र ‘कयाचिदेवं मिषतो विनिर्यये’ इत्युदर्काभिधानेनाकाङ्क्षा‘निराकृतेर्निराकाङ्क्ष’ क ‘निराकृतेति’ खनिवृत्तेर्निराकाङ्क्षमेतन्मिषं नाम पर्यायभेदः॥

“मयेत्यादि”। कयाचिन्नायिकया एवमनेन प्रकारेण मिषतो व्याजाद्विनिर्यये बहिर्भूतम्। तदेवाह—मया त्यक्ता वल्लकी वीणा बहिरेव गच्छेत्। अवश्यायकणैर्हिमलवैः सार्द्रतां च व्रजेत्। तत एनां शीघ्रं निचोलके वस्त्रेऽहं करवै करिष्यामि। ऽअवश्यायस्तु नीहारः’ इत्यमरः। ‘निचोलः प्रच्छदपटः’ इति च। उदर्क उत्तरकालशुद्धिस्तदभिधानं मिषपर्यायः॥

तदेव साकाङ्क्षं यथा—

‘दशत्यसौ परभृतः सहकारस्य मञ्जरीम्।
तमहं वारयिष्यामि युवाभ्यां स्वैरमास्यताम्॥ २१४॥’

अत्र ‘कयाचिदेवं मिषतो विनिर्यये’ इतिवदुदर्कानभिधानात् साकाङ्क्षमेतन्मिषं नाम पर्यायस्य भेदः॥

“दशतीत्यादि”। असौ परभृतः पिकः सहकारस्य भञ्जरी दशति तमहं वारयिष्यामि। ततो युवाभ्यां स्वैरं स्वच्छन्दमास्यतामुपविश्यताम्। ‘स्वच्छन्दमन्दयोः स्वैरम्’ इति विश्वः। अत्रोदर्कानभिधानात्साकाङ्क्षत्वम्॥

निराकाङ्क्षोक्तिभङ्गिर्यथा—

‘राजन् राजसुता न पाठयति मं देव्योऽपि तूष्णीं स्थिताः कुब्जे भोजय मां कुमार कुशलं‘गम्यते’ ग नाद्याज्जुके भुज्यते।
इत्थं नाथ शुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जरा- च्चित्रस्थानवलोक्य ‘सचिवैर्नाद्यचापि कि भुज्यते’ इति, ‘शून्यूबलभावैकैकमाभावते’ इति च काव्यप्रकाशेऽप्रस्तुतप्रशंसायामुदाहृतेऽस्मिन्नेव श्लोके पाठभेदःवेश्मवलभीष्वेकैकमाभाषते॥ २१५॥’

अत्रानयोक्तिभङ्ग्या शून्यीकृतारिनगरस्य नरपतेः कश्चित् प्रतापं वर्णयति। तत्र वाक्यस्य परिपूर्णत्वेन निराकाङ्क्षत्वान्निराकाङ्क्षेयमुक्तिभङ्गिः॥

“राजन्नित्यादि”। हे नाथ हे प्रभो, तबारिभवने शत्रुगृहे इत्थमनेनाकारेण वेश्मवलभीषु गृहोपरिकुटीषु चित्रलिखितानेतान्विलोक्य प्रत्येकं शुक आभाषते वदति। कीदृशः। अध्वगैः पथिकैः पञ्जरान्मुक्तस्त्यक्तः। आभाषणस्वरूपमाह—हे राजन्, राजसुता कुमारिका मां न पाठयति। देव्यो महादेव्योऽपि तूष्णीं स्थिताः कृतमौनाः। हे कुब्जे, मां भोज्य। हे कुमार राजबालक, तव कुशलम्। हे अज्जुके गणिके, अद्य मया न भुज्यते। ‘देवी कृताभिषेकायाम्’ इत्यमरः। बाहुल्येन कुब्जायाः शुकभोजनं नृपगृहे कर्म। ‘युवराजस्तु कुमारः’ इत्यमरः। ‘नाट्योक्तौ गणिकाज्जुका’ इति च। अत्र प्रतापवर्णने पूर्णवाक्यतया निराकाङ्क्षत्वम्। उक्तौ तु भङ्गर्व्वक्तैव॥

साकाङ्क्ष यथा—

‘शान्त्यै वोऽस्तु कपालदाम जगतां पत्युर्यदीयां लिपिं क्वापि क्वापि गणाः पठन्ति षदशो नातिप्रसिद्धाक्षराम्।
विश्वं सक्ष्यति वक्ष्यति क्षितिमपामीशिष्यतेऽशिष्यते‘शिष्यते’ ग नागै रागिषु रंस्यतेऽत्स्यति जगन्निर्वेक्ष्यति द्यामिति॥ २१६॥’

अत्रानयोक्तिभङ्ग्या ब्रह्माद्यस्तमयेऽप्यनस्तमितस्य भगवतो महेश्वरस्य प्रभावो वर्ण्यते, तत्र च ‘यदीयां लिपिं क्वापि क्वापि गण्माः पठन्ति पदशो नातिप्रसिद्धाक्षराम्’ इत्यनेनैव वाक्येऽस्मिन्नाकाङ्क्षोत्थाप्यते। सा च ‘विश्वं स्रक्ष्यति’ इत्यस्मिन्नीदृशी—ब्रह्माणां‘ब्रह्माणश्च’ इति युक्तं प्रतिभाति। ‘चतुर्युगसहस्रान्ते ब्रह्माणो दिनमुच्यते’ इत्यत्र प्रमाणम् चतुर्युगसहस्रान्ते दिनमेकमिति मानेनैष वर्षशतजीवी विश्वं स्रक्ष्यति ब्रह्मेति ज्ञाप्यते, कपालं चास्य भगवतो भूषणं भविष्यति‘भविष्यतीति’ क ख। ‘वक्ष्यति क्षितिम्’ इत्यस्मिन्नीदृशी—ब्रह्माणामयं‘ब्रह्माणामेवं वर्षशतेन’ इति भवेत्। यत्र ब्राह्मे वर्षे मानुषचतुर्युगसहस्रात्मकमेकं दिनमित्यर्थः (?) वर्षशतेनैकं दिनमिति मानेनैष पुरुषायुषजीवी क्षितिं वक्ष्यति विष्णुरिति ज्ञाप्यते, कपालं चास्य भगवतो भूषा भविष्यतीति। एवम् ‘अपामीशिष्यते—’ इत्यादिषु वरुणकामयमेन्द्रविषयत्वेन योजनीयम्। सेयमनेकप्रकारेण ब्रह्मादीनां साक्षादनभिधानेन साकाङ्क्षोक्तिभङ्गि॥

“शान्त्या इत्यादि”। जगतां पत्युर्हरस्य कपालदाम ललाटमाला वो युष्माकं शान्त्यै शमायास्तु। पञ्चवक्रतया कपालानां माला। यदीयां लिपिं यत्सम्बन्धिनीमक्षरालीं गणा नन्द्यादयः क्वापि पदशः पदक्रमेण पठन्ति वाचयन्ति। कीदृशीम्। नातिप्रसिद्धवर्णाम्। अत एव क्वाचित्कः पाठः। पाठविषयमाह—अयं शिवो विश्वं जगत् स्रक्ष्यति निर्मास्यति। क्षितिं भूमिं क्क्ष्यति धारयिष्यति। अपामीशिष्यते जलेष्वैश्वर्यं लप्स्यते। नागैः सर्पैरशिष्यते भोक्ष्यते। अयं रागिषु विषयासक्तेषु रंस्यते क्रीडिष्यति। जगदयमत्स्यसि भक्षिष्यति। द्यां स्वर्गं निर्वेक्ष्यत्युपभोक्ष्यति। इति। स्रक्ष्यतीति ‘सृज विसर्गे’ लृटू। ‘सृजिदृशोर्झल्यमकिति’ ६।१। ५८’ इत्यम्। वक्ष्यतीति ‘वह प्रापणे’ लृट्। ‘षढोः कः सि ८।२।४१’ इति कत्वम्। ईशिष्यत इति ‘ईश ऐश्वर्ये’ लृट्। अशिष्यत इति ‘अश भोजने’ लृटि कर्मणि। रंस्यत इति ‘रमु क्रीडायाम्’ लृट्। अत्स्यतीति ‘अद भक्षणे’ लृट्। निर्वेक्ष्यतीति निपूर्वात् विशेर्लृट्। अस्तसमये विनाशे। ब्रह्मणा करणेनेदृशी आकाङ्क्ष। चतुर्णां युगानामेकसहस्रेण ब्रह्मण एकं दिनम्। अनेनैव क्रमेणाहोरात्रादिकम्। ईदृश्याकाङ्क्षा। शतसङ्ख्यब्रह्मापवर्गान्तरमेकं दिनं वैष्णवम्। अनेनैव क्रमेणाहोरात्रादिकम्। पुरुषायुषेति अचतुरादौ निपातितम्। अपामीशिष्यत इति वरुणादयो ज्ञेयाः। अत्र ब्रह्मादीनां साक्षादभिधानाभावात् साकाङ्क्षता॥

अवसरो निराकाङ्क्षो यथा—

‘अथ तैः परिदेविताक्षरैर्हृदये दिग्धशरैरिवार्दितः‘आदित’ इति कुमारसम्भवटीकायां मल्लिनाथवृतः पाठः।
रतिमभ्युपपत्तुमातुरां मधुरात्मानमदर्शयत्पुरः॥ २१७॥’

“अथेत्यादि”। अनन्तरं मधुर्वसन्तोऽग्रे आत्मानमदर्शयत् दर्शितवान्। किं कर्तुम्। आतुरां विह्वलां रतिं कामवधूमभ्युपपत्तुं बोधयितुम्। कीदृशः। तैः परिदेविताक्षरैर्विलापाक्षरैर्दिग्धर्विषाक्तशरैरिवार्दितः पीडितः। ‘विलापः परिदेवनम्’ इत्यमरः। ‘दिग्धो विषाक्तबाणे स्यात्पुंसि लिप्तेऽन्यलिङ्गकः’ इति मेदिनीकारः। नानार्थत्वादेव, नियमार्थं शरपदमिह। अत्र वसन्तविर्भावप्रस्तावो निरपेक्ष एवेति निराकाङ्क्षत्वम्॥

अत्र

‘क्व नु ते हृदयङ्गमः सखा कुसुमायोजितकार्मुको मधुः।
न खलूग्ररुषा पिनाकिना गमितः सोऽपिसुहृद्गतां गतिम्॥ २१८॥’

इति यानि रतेः परिदेविताक्षराणि तैराकृष्टहृदयस्य मधोर्योऽयमात्मदर्शनाय प्रस्तावः सोऽयं न किञ्चनाकाङ्क्षतीति निराकाङ्क्षोऽयमवसरः पर्यायस्य भेदः॥

साकाङ्क्षो यथा—

‘अज्जवि बालो दामोअरो त्ति इअ जम्पिए जसोआए।
कह्णमुहपेसिअच्छं णिहुअं हसिअं वअवहूएगाथासप्तशत्यां तु ‘वअवहूहिं’ इथि पाठः, ‘व्रजवधूभिः’ इति छाया च॥ २१९॥’

[अद्यापि बालो दामोदर इतीति जल्पिते यशोदया।
कृष्णमुखप्रेषिताक्षं निभृतं हसितं व्रजवध्वागाथासप्तशत्यां तु ‘वअवहूहिं’ इथि पाठः, ‘व्रजवधूभिः’ इति छाया च॥]

अत्र ‘अद्यापि बालो दामोदरः’ इति यशोदया कृतप्रस्तावनस्य कृष्णस्य वक्रे विन्यस्तलोचनया तद्रहस्यवेदिन्या व्रजवधूमतल्लिकया यदेतन्निभृतं हसितं तत् तवाम्बा ‘बालत्वम्’ गबालं त्वां ब्रूते, त्वं तु मादृशीभिर्निधुवनविदग्धाभिर्दिवानिशं यमुनानिकुञ्जोदरेषु विहरसीत्यादिनार्थजातेन साकाङ्क्षमिति साकाङ्क्षोऽयमवसरः पर्यायस्य भेदः॥

“अज्जवि इत्यादि”। “अद्यापि बालो दामोदक इतीति जल्पिते यशोदया। कृष्णमुखप्रेषिताक्षं निभृतं हसितं व्रजवध्वा॥” यशोदया कृष्णबाल्य उद्भाविते व्रजवधूः स्मेरं दृष्ट्वा काचित् कस्यैचित् कथयति—“अद्यापीति”। यशोदयाद्यापि दामोदरो बाल एवेत्युक्ते कयाचिद्नोपवध्वा कृष्णमुखे प्रेषितं न्यस्तमक्षि यत्र हसिते एवं निभृतमेकान्ते हसितम्। रहो रहस्यमेकान्तचेष्टा। मतल्लिका प्रशस्ता। ‘मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ। प्रशस्तवाचकान्यमूनि’ इत्यमरः। निधुवनं सुरतम्। ‘निधुवनमायोजनमाहुः’ इति हारावली। अत्रानेकेनार्थजातेव साकाङ्क्षता व्यक्तैव॥ इति पर्यायालङ्कारनिरूपणम्॥

अतिशयोक्त्यलङ्कारः।

अतिशयलक्षणमाह—

विवक्षया विशेषस्य लोकसीमातिवर्तिनी।
असावतिशयोक्तिः स्यादलङ्कारोत्तमा च सा॥ ८१॥

सा च प्रायो गुणानां च क्रियाणां चोपकल्पते‘चोपकल्पते’ क ख।
नहि द्रव्यस्य जातेर्वा भवत्यतिशयः कचित्॥ ८२॥

प्रभावातिशयो यश्च यश्चानुभवनात्मकः।
अन्योन्यातिशयो यश्च तेऽपि नातिशयात्पृथक्॥ ८३॥

अलङ्कारान्तराणामप्येकमाहुः परायणम्।
वागीशमहितामुक्तिमिमामतिशयाह्व याम्॥ ८४॥

“विवक्षेति”। विशेषस्य प्रकर्षस्य लोकसीमातिवर्तिनी लोकमर्यादातिशयिता या विवक्षा वक्तुमिच्छा सातिशयोक्तिः। केवलस्य, अखण्डाया जातेश्चातिशयाभावाद्गुणक्रिययोरेवातिशय इत्याह—“सा चेति”। उपकल्प्यते समर्थ्यते॥ “अलमिति”। न केवलं प्रभावादीनामेवातिशयोक्तिरपि त्वलङ्काराणामपीमामतिशयामिधानामुक्तिमेकं परायणमाश्रये वदन्ति। कीदृशीम्। वागीशेन वाक्पतिना महितां पूजिताम्। ‘परायणमाश्रये’ इति विश्वः॥

तत्र गुणातिशयेन महत्त्वातिशयो यथा—

‘अहो विशालं भूपाल भुवनत्रितयोदरम्।
माति मातुमशक्योऽपि यशोराशिर्यदत्र ते॥ २२०॥’

अत्रैवं यशोराशोरशक्यमानस्याप्यतिशयोक्त्य विशेषविवक्षा। येन त्रिभुवनोदरमपि सङ्कीर्णमाशङ्क्यते; सोऽयं महत्त्वातिशयो नामातिशयभेदः॥

“अहो इत्यादि”। हे भूपाल, यस्मादत्र भुवनत्रितयोदरे मातुं परिच्छेत्तुमशक्योऽपि तव यशोराशिर्माति सम्माति। तस्माद्भुवनत्रितयोदरं विशालमत्राहो आश्चर्यम्। अत्र यशोराशिरूपस्य गुणस्यातिशयेन महत्त्वातिशयः स्फुट एव॥

तनुत्वातिशयो यथा—

‘स्तनयोर्जघनस्यापि मध्ये मध्यं प्रिये तव।
अस्ति नास्तीति सन्देहो न मेऽद्यापि निवर्तते॥ २२१॥’

अत्रैवं मध्यस्य लोकसीमतिक्रमेण तानवातिशयविवक्षा येन तदस्ति नास्तीति वा सन्दिह्यते; सोऽयं तनुत्वातिशयो नामातिशयभेदः॥

“स्तनयोरित्यादि”। हे प्रिये, तव स्तनयोर्जघनस्यापि मध्येऽन्तराले मध्यमवलग्नमतिकृशत्वादस्ति नास्तीति सन्देहो ममाद्यापि न निवर्तते। अत्र तानवस्य तनुत्वस्यातिशयः। “लोकेति”। नहि लोकः पयोधरभरस्थित्यन्यथानुपपत्त्यापि मध्यं निश्चिनोतीत्यर्थः॥

कान्त्यतिशयो यथा—

‘मल्लिकामालभारिण्यः सर्वाङ्गीणार्द्रचन्दनाः।
क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः॥ २२२॥’

अत्रैवं चन्द्रालोकस्य लोकसीमातिक्रमेण बाहुल्योत्कर्षविवक्षा। येन तस्मिन् समानाभिहारेणाभिसारिका अपि न लक्ष्यन्ते सोऽयं कान्त्यतिशयो नामातिशयभेदः॥ अथास्य पिहितात्को विशेषः। उच्यते। पिहिते चन्द्रातपस्योत्कर्षेणाभिसारिकातिरस्कारो विवक्ष्यते, इह त्वभिसारिकातिरस्कारेण चन्द्रातपोत्कर्ष इति॥

“मल्लिकेत्यादि”। ईदृश्योऽभिसारिका ज्योत्स्नायां चन्द्रकिरणेऽपि न लक्ष्यन्ते न ज्ञायन्ते केनापि। कीदृश्यः। मल्लिका मालती तस्या मालां बिभ्रति। ‘इष्टकेषीकामालानां चिततूलभारिषु ६।३।६५’ इति भाव्यम्‘मालेषीकाष्टकानां भारतूलहि(चि)तेषु’ इति ह्रस्वः। सर्वाङ्गीणं सर्वाङ्गव्यापकमार्द्रं चन्दनं यासां ताः। क्षौमवत्यो दुकूलयुक्ताश्च। क्षौम इति ‘टुक्षु शब्दे’ इति मनिन्। क्षुमा प्रज्ञादित्वात् स्वार्थेऽण् वृद्धिश्च। अत एव ‘क्षुमवत्’ इत्यपि पाठः। अत्र चन्द्रकान्तेरतिशयः स्फुट एव। ‘अभिहारोऽभियोगः स्यात्’ इति मेदिनीकारः। लोकसीमातिक्रमश्च नहि शुक्लाम्बरतया ज्योत्स्नायामभिसारिका न लक्ष्यन्त इति लोकसीमेत्यर्थः। उत्कर्षरूपस्यार्थस्योभयत्र विवक्षणात् पिहितकान्त्यतिशययोरभेदः। किमिति पृच्छति—“अथेति”। उत्तरम्। “पिहित इति”। चन्द्रातपोत्कर्षतया तौल्येऽपि पिहिते तेनाभिसारिकातिरस्कार इह तु तस्यास्तिरस्कारेण चन्द्रातपोत्कर्ष इति प्रकाराभ्यां तयोर्भेद इत्याशयः॥

प्रभावातिशयो यथा—

‘तं दइआहिण्णाणं‘भिण्णाणं’ ग जम्मि वि अङ्गम्मि राहवेण ण णिमिअम्।
सीआपरिमट्टेण व ऊढो तेण वि णिरन्तरं रोमञ्चो॥ २२३॥’

[तद्दयिताभिज्ञानं यस्मिन्नप्यङ्गे राघवेण न न्यस्तम्।
सीतापरिमृष्टेनेवोढस्तेनापि‘सेतुबन्धे’ तु ‘वूढो’ इति पाठः, ‘व्यूढः’ (विशेषेणोढः) इति छाया च निरन्तरं रोमाञ्चः॥]

अत्र दयिताभिज्ञानस्य योऽयं रोमाञ्चक्रियाविशेषः स क्रियातिशयस्यैव भेदः प्रभावातिशय उच्यते॥

“तमित्यादि”। ‘तद्दयिताभिज्ञानं यस्मिन्नप्यङ्गे राघवेण न निर्भितम्। सीता परिस्पृष्टेनेव व्यूढस्तेनापि निरन्तरं रोमाञ्चः॥” इह तद्दयिताया वल्लभायाः सीताया अभिज्ञानं चिह्नं मणिरूपं यस्मिन्नप्यङ्गे रामेण न निर्मितं न निहितं तेनाप्यङ्गेन सीतया परि सर्वतोभावेन स्पृष्टेनेव निरन्तरं यथा भवत्येवं रोमाञ्चो व्यूढो धृतः। ‘अभिज्ञानं भवेच्चिह्ने’ इति शाश्वतः। अत्र रोमाञ्चहेतुक्रियातिशयेन प्रभावातिशय एव विवक्षितः॥

अनुभावातिशयो यथा—

‘विमलिअरसाअलेण वि विसहरवइणा अदिट्ठमूलच्छेअम्।
अप्पत्ततुङ्गसिहरं तिहुअणहरणे पवढ्ढिएणसेतुबन्धे ‘तिहुअणहरणपरिवढ्ढिएण’ इति पाठभेदः ‘त्रिभुवनहरणपरिवर्धितेन’ इति छायाभेदश्च वि हरिणा॥ २२४॥’

[विमर्दितरसातलेनापि विषधरपतिनादृष्टमूलच्छेदम्।
अप्राप्ततुङ्गशिखरं त्रिभुवनहरणे सेतुबन्धे ‘तिहुअणहरणपरिवढ्ढिएण’ इति पाठभेदः ‘त्रिभुवनहरणपरिवर्धितेन’ इति छायाभेदश्चप्रवर्धितेनापि हरिणा॥]

अत्र रसातलमपि मृद्नता शेषेणापि च तस्य मूलं न दृष्टम्, त्रिभुवनमप्युल्लङ्घयता हरिणापि न तुङ्गशिखराणि प्राप्तानीति यदेतल्लोकसीमातिक्रमेण विशेषव्यवस्थया पर्वतानुभावभणनं सोऽयमनुभूयमानमाहात्म्यातिशयस्यैव भेदोऽनुभावातिशय उच्यते॥

“विमलिअ इत्यादि”। ‘ऽविमर्दितरसातलेनापि विषधरपतिनादृष्टमूलच्छेदम्। अप्राप्ततुङ्गशिखरं त्रिभुवनहरणप्रवर्धितेनापि हरिणा॥” इह सुवेलं कीदृशम्। विषपरपतिना शेषेणादृष्टो मूलस्य छेदः शेषो यस्य तम्। कीदृशेन। विमर्दितं विमलितं निर्मलीकृतं वा रसातलं येन तेन। पुनः कीदृशम्। हरिणा त्रिविक्रमेणाप्यप्राप्ततुङ्गशिखरम्। कीदृशेन। त्रिभुवनहरणाय सर्वतो भावाद्वर्धितेन वृद्धिं गतेन। मृद्नता मर्दयता। अत्र पर्वतानुभावातिशयविवक्षयातिशयः स च तैरनुभूयमान एव॥

‘रणदुज्जओ दहमुहो सुरा अवज्झा अ तिहुअणस्स इमे।
पडइ अणत्थोत्ति फुडं विहीसणेन फुडिआहरं णीससिअम् २२५’

[रणदुर्जयो दशमुखः सुरा अवध्याश्च त्रिभुवनस्येमे।
पतत्यनर्थ इति स्फुटं विभीषणेन स्फुटिताधरं निश्वसितम्॥

अत्र दशास्यः समरे न जीयते, सुराश्चामरत्वान्न वध्यन्ते, तयोश्च परस्परं सङ्घट्टक्रियातिशयात्त्रिभुवनमपि क्षयं यास्यतीति येयमन्योन्यक्रियातिशयभणनाल्लोकसीमातिक्रमेण विशेषविवक्षा सोऽयं क्रियातिशयो नामातिशय एवान्योन्यातिशय उच्यते॥

“रणेत्यादि”। “रणदुर्जयो दशमुखः सुरा अवध्या अहो त्रिभुवनस्यासौ। पतत्यनर्थ इति स्फुटं विभीषणेन स्फुटिताधरं निश्वसितम्॥” इह स्फुटिताधरं व्यक्तीकृताधरं यथा स्यादेवं विभीषणेन रावणभ्रात्रा निश्वसितं निश्वासस्त्यक्तः स्फुटं व्यक्तमेव। कुतः। दशास्यो रणे दुर्जयः, सुरा देवा अमरत्वादवध्याः। अहो आश्चर्यमसौ त्रिभुवनस्यानर्थः पततीति। इतिर्हेतौ। अत्र दशास्यसुरयोरन्योन्यक्रियातिशयोक्तेरन्योन्यातिशयः। सकलभुवनक्षयकारितया लोकसीमातिपातः॥ इत्यतिशयोक्त्यलङ्कारनिरूपणम्॥

श्लेषालङ्कारनिरूपणम्।

श्लेषं लक्षयति—

श्लेषोऽनेकार्थकथनं पदेनैकेन कथ्यते।
पदक्रियाकारकैः स्याद्भिन्नाभिन्नैः स षड्विधः॥ ८५॥

“श्लेष इति”। एकेन पदेन विभक्त्यन्तेनानेकेषामर्थानां कथनं यत्र स श्लेषः कथ्यते। एकरूपान्वितमनेकार्थं वचः श्लेष इति लक्षणम्। स च षड्विधः पदादिभिः स्यात्॥

तेषु भिन्नपदो यथा—

‘दोषाकरेण ‘राजमार्गाभिगामिना’ घसम्बध्नन्नक्षत्रपथवर्तिना।
राज्ञा प्रदोषो मामित्थमप्रियं किं न बाधते॥ २२६॥’

अत्र ‘प्रदोषो रात्रेः प्रथमयामः किमिति प्रियारहितं मां न बाधते’ इत्युक्तेर्युक्तिमाह—इत्थमनुभूयमानेन प्रकारेण। राज्ञा सम्बध्नन्। कीदृशेन। दोषाकरेण नक्षत्रपथवर्तिनेति। यो हि दोषाणामाकरेण राजमार्गातिगामिना च राज्ञा प्रकृष्टदोषः सम्बध्यते सोऽप्रियमवश्यं‘सोऽपि प्रियम्’ ग बाधत एव; तदत्र पूर्वस्मिन्प्राकरणिकेऽर्थे द्वितीयोऽर्थोऽप्राकरणिकः पदभेदेनोपश्लिष्यमाणो भिन्नपदश्लेषापदेशमासादयति॥

“दोषेत्यादि”। प्रकृष्टो दोषो दूषणं यस्य स दुर्जनो मां किं न बाधते, किन्तु बाधत एव। मां कीदृशम्। अप्रियं तस्य द्वेष्यम्। कीदृशः। इत्थमनुभूयमानेन प्रकारेण राज्ञा भूपेन सह सम्बध्नन् युञ्जन्। आत्मानमित्यध्याहार्यम्। अत्र कर्मवद्भावो न कृतः सम्बध्यमान इत्यर्थत्वात्। राज्ञा कीदृशेन। दोषाणां दूषणानामाकरेण स्थानेन। क्षत्रपथः क्षत्रियमार्गस्तत्र वर्तितुं शीलं यस्य तेन। पश्चान्नकारसम्बन्धः। क्षत्रियधर्मशून्येनेत्यर्थः। पक्षे प्रदोषो रजनीमुखं मामप्रियं प्रियारहितं किं न बाधते किन्तु बाधत एव। कीदृशः। राज्ञा चन्द्रेणेत्थं सम्बध्यमानः। कीदृशेन। दोषाकरेण रात्रिकरेण। नक्षत्रपथं व्योम तदवस्थितिशीलेन च। अत्र राजपदमभिन्नम्। शेषपदानां भेदाद्भिन्नपदश्लेषः॥

अभिन्नपदो यथा—

‘असावुदयमारूढः कान्तिमान् रक्तमण्डलः।
राजा हरति लोकस्य‘सर्वस्य’ ग हृदयं मृदुभिः करैः॥ २२७॥’

अत्रायमुदीयमानश्चन्द्रमा लोकस्य हृदयं हरतीत्युक्तेर्युक्तिमाह—राजानुरक्तमण्डल उदयी मृदुकरः कान्तिमानिति। यो ह्येवम्भूतो राजा सोऽवश्यं लोकस्य हृदयहारी भवति। अत्रापि च प्राकरणिकेऽर्थेऽप्राकरणिक उपश्लिष्यमाणः पदानामभेदेनाभिन्नपदश्लेषो भवति॥

“असावित्यादि”। असौ राजा नृपो मृदुभिरपीडाकरैः करै राजग्राह्यैर्लोकस्य हृदयं हरति। कीदृशः। उदयं वृद्धिमारूढः प्राप्तः। कान्तिमान् शोभायुक्तः। रक्तमनुरक्तं मण्डलं देशो यस्य सः। पक्षे असौ राजा चन्द्रः करैः किरणैर्मृदुभिः शीतलैर्जनस्य हृदयं हरति गृह्णाति। कीदृशः। उदयमुदयाद्रिमुपगतः। कान्तिमान् दीप्तियुक्तो रक्तमण्डलो लोहितबिम्बश्च। ‘उदयो वृद्धावुदयपर्वते’ इति विश्वः। ऽमण्डलं बिम्बदेशयोः’ इति च। अत्र राजादिपदानामभेदेनाभिन्नपदश्लेषत्वम्॥

भिन्नक्रियो यथा—

‘मधुरा रागवर्धिन्यः कोमलाः कोकिलागिरः।
आकर्ण्यन्ते मदकलाः श्लिष्यन्ते चासितेक्षणाः॥ २२८॥’

अत्र ‘आकर्ण्यन्ते, श्लिष्यन्ते च’ इति क्रियापदद्वितयस्य प्राधान्यतः समुच्चयेनोपात्तस्य ‘मधुरा—’ इत्यादिभिः श्लिष्टपदैः ‘कोकिलागिरःऽ, ‘असितेक्षणाः’ इति वा विशेष्यैकपदवर्जं पर्यायतः सम्बन्धो भवति। तद्यथा—आकर्ण्यन्ते। काः। कोकिलागिरः। कीदृश्यः। मधुराः, रागवर्धिन्यः, कोमलाः। पुनरपि किम्भूताः। आसिते उपवेशिते निश्चलीकृते अन्तःप्रमोदानुभावादीक्षणे याभिस्तास्तथा। सर्वोऽपि हि मधुरं शब्दमाकर्णयन् निश्चलाक्षो भवति। श्लिष्यन्ते च। काः। असितेक्षणाः हरिणचक्षुषः। किम्भूताः। मदकलाः, कोकिलागिरः, कोमलाः, रागवर्धिन्यः, मधुरा इति। सोऽयं द्वयोर्विभिन्नक्रिययोर्भिन्नार्थे‘भिन्नार्थैकरूपाणाम्’ ख च रूपिणां पदार्थानामुपश्लेषो भिन्नक्रियः श्लेष उच्यते॥

“मधुरा इत्यादि”। कोकिलागिर आकर्ण्यन्ते, असितेक्षणाः श्यामनेत्राः प्रियानाश्लिष्यन्ते च। कीदृश्यः। मधुराः श्रुतिसुखा रम्याश्च। रागवर्धिन्योऽनुरागजनिका रतिजनिकाश्च। कोमला मनोज्ञा मृद्वङ्ग्यश्च। मदकला यौवनवसन्तादिकृत-मदमधुराः। मदेन मद्यविकारेण कलध्वनियुक्ताश्च। आसिते उपवेशिते निश्चलीकृतेऽन्तःप्रमोदानुभवादीक्षणे याभिस्तासां मधुरं रवमाकर्णयन्निश्चलाक्षो भवति। पक्षेऽसितेक्षणाः। कीदृश्यः। कोकिलानामिव गिरो यासां ताः। अत्र क्रियाभेदाद्भिन्नक्रियत्वमितरपदानामभिन्नानामेवार्थद्वयबोधकता॥

‘अभिन्नक्रिययोः’ गअभिन्नक्रियो यथा—

‘स्वभावमधुराः स्निग्धाः शंसन्त्यो रागमुल्बणम्।
दृशो दूत्यश्च कर्षन्ति कान्ताभिः प्रेषिताः प्रियान्॥ २२९॥’

अत्र ‘कर्षन्ति’ इत्येतस्यां क्रियायां दृशां दूतीनां च श्लिष्टपदत्वेनावेशादयमभिन्नक्रियो नाम श्लेषविशेषः। प्रथमयोरस्य वा को विशेष इति चेत्। तत्रैकस्यैव प्राकरणिकत्वम् अत्र तु द्वयोरपीति। अयं च भिन्नकारकोऽपि भवति॥

“स्वभावेत्यादि”। कान्ताभिः प्रेषिता दृशो दूत्यश्च प्रियान् वल्लभान् कर्षन्ति। कीदृश्यः। स्वभावेन सहजेन मधुरा ललिताः। तदुक्तं मत्सङ्गीतसर्वस्वे—ऽमधुरा कुञ्चितान्ता च सभ्रूक्षेपा च सस्मिता। समन्मथविकारा च दृष्टिः सा ललिता मता॥’ इति। स्निग्धाः स्नेहवत्यः। उल्बणमधिकं रागं लौहित्यं शंसन्त्यः। पक्षे सहजमधुराः। यद्वा स्वभावात्प्रियवादिन्यः स्निग्धा आत्मीयाः। अधिकं रागं मद्यविकारकृतं शंसन्त्यः। यद्वा रागमनुरागं कथयन्त्यः। अत्र प्रियाकर्षणरूपैकैव क्रिया साधारणीत्येकक्रियात्वम्। भिन्नपदाभिन्नपदाभ्यामस्य च को भेद इति पृच्छति—“प्रथमयोरिति”। वाशब्दश्चार्थे। उत्तरम्—“तत्रेति”। तयोरेकैकस्यैव प्रकरणापन्नत्वमत्र तु दृष्टं द्व्योरपि प्राकरणिकत्वमिति भेद इत्यर्थः। अनेककर्तृकत्वेनायं भिन्नकारकोदाहरणमपीत्याह—“अयमिति”॥

भिन्नकारको यथा—

‘गतिर्वेणी च नागेन वपुरूरू च रम्भया।
ओष्ठौ पाणी प्रवालैश्च तस्यास्तुल्यत्वमाययुः॥ २३०॥

अत्रैकस्मिन् पक्षे धर्मधर्मिणोरभेदोपचारान्नागगतिर्गृह्यते। तत्र गते-र्वेण्याश्च नागेन हस्तिना अहिना च तुल्यत्वम्, वपुष ऊर्वोश्च रम्भया कदल्या अप्सरोभिश्च तुल्यत्वम्, ओष्ठयोः पाण्योश्च प्रवालैर्विद्रुमैर्नवपल्लवैश्च ‘तुल्यत्वम्’ क ख गतुल्यत्वं वर्णनीययोः श्लेषप्रभावाल्लभ्यते; सोऽयमनेककर्तृकत्वाद्भिन्नकारक इति श्लेषो भवति॥

“गतिरित्यादि”। तस्या नायिकाया गतिर्गमनं वेणी केशरचना च नागेन हस्तिना सर्पेण च, तस्या वपुरूरुद्वयं च रम्भयाऽप्सरोभेदेन कदल्या च, तस्याः पाणी हस्तावोष्ठौ च प्रवालैर्विद्रुमैः पल्लवैश्च सर्वाणि तुल्यत्वमाययुः। ‘नागो हस्तिभुजङ्गयोः’ इति शाश्वतः। ‘कदल्यप्सरसो रम्भा’ इति च। ‘पल्लवे विद्रुमे चापि प्रवालः’ इति धरणिः। गतिनानात्वादाह—“धर्मेति”। अत्र नानाकर्तृकत्वादेव भिन्नकारकता॥

अभिन्नकारको यथा—

‘कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी।
याति विश्वसनीयत्वं कस्य ते कलभाषिणि॥ २३१॥’

अत्र ‘हे कलभाषिणि, कस्य ते दृष्टिर्विश्वास्या भवति’ इत्युक्तेर्युक्तिमाह—‘कृष्णार्जुनानुरक्तापि कर्णावलम्बिनी’ इति च। या हि कृष्णार्जुनेनानुरज्यते कथं सा कर्णपक्षपातिनी भवति, या चैवमुभयगता तस्यां को विश्वसिति; स चायमेककर्तृकत्वादभिन्नकारक इति श्लेषो भवति॥

“कृष्णेत्यादि”। हे कलभाषिणि मधुरवचने, तव दृष्टिः कस्य विश्वसनीयत्वं विश्वासविषयतां याति किन्तु न कस्यापि। अत्र हेतुः कृष्णा श्यामा, अर्जुना धवला, अनुरक्ता प्रान्तलोहिता च। प्रादेशिकोऽयं क्रमः। कर्णपर्यन्तगामिनी च। पक्षे कृष्णे हरौ, अर्जुने पार्थे चानुरक्तानुरागवती कर्णपक्षपातिनी च या सा विरुद्धोभयगता कथं विश्वसनीया भवति। ‘वलक्षो धवलोऽर्जुनः’ इत्यमरः। अत्र कर्तुरेकतयाभिन्नकारकता॥ इति श्लेषालङ्कारनिरूपणम्॥

भाविकालङ्कारनिरूपणम्।

भावनालक्षणमाह—

स्वाभिप्रायस्य कथनं यदि वाप्यन्यभावना।
अन्यापदेशो वा यस्तु त्रिविधं भाविकं विदुः॥ ८६॥

मते चास्माकमुद्भेदो विद्यते नैव भाविकात्।
व्यक्ताव्यक्तोभयाख्याभिस्त्रिविधः सोऽपि कथ्यते॥ ८७॥

“स्वेत्यादि”। निजाशयकथनमन्यकथनमन्यापदेशश्च भाविकम्। भावे कवेरभिप्राये भवं भाविकमित्यन्वर्थनामतापि। उद्भेदभाविकयोरभेदमाह—“मत इति”। सोऽपि उद्भेदोऽपि॥

तत्र भाविकभेदेषु स्वाभिप्रायकथनं यथा—

‘णावज्झइ दुग्गेज्झिआ दिट्ठम्मि जम्मि भिउडिआ जत्थ ण अव्वाहारओ घिप्पइ आहासत्तए।
विच्छुहइ अहिणिन्दए जत्थ ण सो वअंसिआ तं मे ‘कहहु’ क ख गकहउ माणअं जइ मे इच्छहि ‘जीइअम्’ इति घजीअअम्॥ २३२॥

[नाबध्यते दुर्गृहीता दृष्टे यस्मिन् भृकुटिका यत्र नाव्याहारो गृह्यते आभाषमाणे।
विक्षुभ्यतेऽभिनिन्द्यते यत्र न स वयस्यया तं मे कथय मानं यदि मे इच्छसि जीवनम्॥]

अत्र ‘भ्रूद्भेदा’ खभ्रूभेदासम्भाषणप्रियतमावक्षेपान् प्रत्यनभिमतप्रतिपादनरूपस्याभिप्रायस्य कथितत्वादिदं स्वाभिप्रायकथनं नाम भाविकम्॥

“णावज्जइ इत्यादि”। “नाबध्यते दुर्ग्राह्या दृष्टे यस्मिन् भ्रुकुटिका यत्र न च (चा) व्याहारो गृह्यते आभाषमाणे। विक्षुभ्यतेऽभिनीयमाने यत्र न स वयस्यया तं मे कथय मानं यदि मे इच्छसि जीवितम्॥” इह यस्मिन् दृष्टे दुर्ग्रहा भ्रुकुटिर्नाबध्यते समन्तान्न बध्यते यत्राभाषमाणेऽव्याहारो न च गृह्यते। यत्राभिनीयमाने वयस्यया स न क्षुभ्यते तं मानं मम कथय यदि मम जीवनमिच्छसि। अत्रानाकाङ्क्षितरूपस्याभिप्रायस्य कथनम्॥

अन्यभावना यथा—

‘दंसणवलिअं दढकं विबन्धणं दीहरं सुपरिणाहम्।
होइ घरे साहीणं मुसलं धण्णाणं महिलाणम्॥ २३३॥’

[दंशनवलितं दृढकं विबन्धनं दीर्धं सुपरिणाहम्।
भवति गृहे स्वाधीनं मुसलं धन्यानां महिलानाम्॥]

अत्र मेढ्रभावनया मुसलरूपस्योक्तत्वादिदमन्यभावनाभिधानं भाविकम्॥

“दंसणेत्यादि”। “दंशनेन वलितं दृढकं विबन्धनं दीर्घं सुपरिणाहम्। भवति गृहे स्वाधीनं मुसलं धन्यानां महिलानाम्॥” इहोत्तमस्त्रीणां गृहे ईदृशं मुसलं स्वायत्तं भवति। कीदृशम्। दंशने धान्यादिमर्दने वलितं लग्नम्। दृढकं दृढम्। स्वार्थे कन्। विगतबन्धनं दीर्घं सुपरिणाहमतिस्थूलं च। मेढ्रपक्षे दंशने भगमर्दने वलितं सन्नद्धं दृढं विगतबन्धनं दीर्घमतिस्थूलं च। अत्र मेढ्राभिप्रायेण मुसलोक्तेरन्यभावना॥

अन्यापदेशो यथा—

‘आसाइअमण्णाएण जेत्तिअं‘जित्तिअम्’ ग घ तेत्तिअं चिअ विहिणम्।
ओरमसु वसह एण्हिं रक्खिज्जइ गहवइच्छेत्तम्॥ २३४॥’

[आस्वादितमज्ञातेन यावत्तावदेव व्रीहीणाम्।
उपरम वृषभेदानीं रक्ष्यते गृहपतिक्षेत्रम्॥]

अत्र परक्षेत्रस्य घस्मरवृषनिवारणापदेशेन चिरात्परिज्ञात ‘वार्यते’ क खउपपतिर्निवार्यते, तदिदमन्यापदेशाख्यं भाविकम्॥

“आसाइअ इत्यादि”। “आस्वादितमज्ञातेन यावत्तावतैव बन्धय धृतिम्। उपरमस्व वृषभात्र रक्षयित्वा गृहपतिक्षेत्रम्॥” इह हे वृषभ, गृहपतिक्षेत्रं रक्षयित्वा त्वमुपरमस्व क्रीडय। अज्ञातेन त्वया यावदेवास्वादितं तावतैव धृतिं बन्धय। अत्र वृषभनिवारणव्याजेनोपपतिनिवारणमन्यापदेशः॥

उद्भेदेषु व्यक्तो यथा—

‘मन्तेसि महुमहपणअं सन्दाणेसि तिअसेसपाअवरअणम्।
ओजसु ‘सुद्ध’ इति पाठः।मुद्धसुहावं सम्भावेसु सुरणाह जाअवलोअम्‘जा अव’ ख ग॥ २३५॥’

[मनुषे मधुमथप्रणयं सन्दानयसि त्रिदशेशपादपरत्नम्।
अपजहि मुग्धस्वभावं सम्भावय सुरनाथ यादवलोकम्॥]

अत्र मायाविनो महेन्द्रस्याभिप्रायः सत्यकेन व्यक्तमेवोद्भिन्न इति व्यक्तोऽयमुद्भेदः॥

“मन्तेसीत्यादि”। “मनुषे मधुमथप्रणयं सन्दानयसि त्रिदशेश पादपरत्नम्। अपजहि मुग्धस्वभावं सम्भावय सुरनाथ यादवलोकम्॥” इह हे सुरनाथ इन्द्र, यदि मधुमथस्य कृष्णस्य प्रणयं प्रीतिं मनुषे स्वीकरोषि। देवे पादपरत्नं पारिजातवृक्षं सन्ददाने सति मुग्धं स्वभावं मौग्ध्यमपजहि त्यज। यादवलोकं सम्भावय प्रीणय। अत्रेन्द्राभिप्रायः सत्यकेन तत्सारथिना व्यक्तः प्रकाशितः॥

अव्यक्तो यथा—

‘निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः।
मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे‘पीडागमा’ क। ख। वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्॥ २३६॥’

अत्र ‘वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्’ इत्याक्षेपवता ‘प्रकृतोदाहरणेन’ क खप्राकरणिकोदाहरणेन यद्यपि दूत्या दुश्चेष्टितं निर्भिन्नं तथापि न पूर्ववव्द्यक्तमित्यव्यक्तोऽयमुद्भेदः॥

“निःशेषेत्यादि”। हे दूति, इतः स्थानात्त्वं वापीं पुष्करिणीं स्नातुं गतासि। तस्याधमस्यान्तिकं न गतासि। हे मिथ्यावादिनि, हे सुहृज्जनस्याज्ञातदुःखागमे। स्नानचिह्नान्याह—स्तनतटं निःशेषच्युतचन्दनमशेषक्षरितचन्दनमस्ति। तवाधरोऽपि त्यक्तलौहित्यः। तव नेत्रेऽत्यर्थमञ्जनशून्ये। तथा तवेयं तन्वी कृशा तनुः शरीरं पुलकिता रोमाञ्चवती च। अत्र स्नानसम्भोगयोस्तुल्यचिह्नस्योपदर्शनेन प्रकरणपरिप्राप्तं दूतीदुश्चेष्टितमुद्भिन्नम्, न च प्राग्वव्द्यक्तता॥

उभयरूपो यथा—

‘अम्लानोत्पलकोमले सखि दृशौ नीलाञ्जनेनाञ्चिते कर्पूरच्छुरणाच्च गण्डफलके संवेल्लितः‘न पुनस्तस्याधमस्यान्तिकम्’ क ख पाण्डिमा।
श्वासाः सन्तु च कन्दुकभ्रमिभुवः किन्तु प्रभावाहिना- मङ्गानां क्रशिमानमुत्कटममुं को नाम नोत्प्रेक्षते॥ २३७॥’

अत्र ‘दृशोर्म्लानता, गण्डयोः पाण्डुरत्वम्, श्वासानां दैर्ध्यम्’ इत्युत्कण्ठाचिह्ननिह्नवाय योऽयमविनयवत्या नीलाञ्जनादिप्रयोगस्तस्य ‘तत्त्वाभ्युपगमेऽपि’ क खतथाभ्युपगमेऽपि ‘अङ्गानां क्रशिमानमुत्कटममुं को नाम नोत्प्रेक्षते’ इति योऽयं सखीव्याहारस्तेन तदभिप्राय उद्भिन्नोऽनुद्भिन्नश्च भवतीत्युभयरूपोऽयमुद्भेदः। तेऽमी त्रयोऽप्युद्भेदा भाविकान्न भिद्यन्ते॥

“अम्लानेत्यादि”। किन्तु हे सखि, तवाङ्गानाममुमुद्भटं क्रशिमानं कृशत्वं को न नामोत्प्रेक्षते किन्तून्नयत एव। यद्यपि तव दृशावम्लाने म्लानिहीने उत्पन्ने इव कोमले मनोज्ञे स्तः। कीदृशे। नीलकज्जलेनाञ्चिते। यतः कर्पूरस्य छुरणात् सम्बन्धात् पाण्डिमा पाण्डुरत्वं गण्डफलके संवेल्लितः सम्बद्धः। श्वासाश्च कन्दुकक्रीडनार्थं या भ्रमिर्भ्रमणं तत्प्रभवाः सन्तु। अङ्गानां कीदृशानाम्। प्रभावाहिनां प्रभां दीप्तिं वोढुं धर्तुं शीलं येषां तेषाम्। सहजरम्याणामित्यर्थः। अविनयवत्या असत्याः। अत्राविनयवत्या आशयः किञ्चिव्द्यक्तीकृतः। किञ्चिच्चाव्यक्तीकृत इत्युभयरूपता॥ इति भाविकालङ्कारनिरूपणम्॥

संसृष्ट्यलङ्कारनिरूपणम्।

संसृष्टिलक्षणमाह—

संसृष्टिरिति विज्ञेया नानालङ्कारसङ्करः‘सर्वालङ्कारसङ्करः’ क ख।
सा तु व्यक्ता तथाव्यक्ता व्यक्ताव्यक्तेति च त्रिधा॥ ८८॥

तिलतण्डुलवव्द्यक्ता छायादर्शवदेव च।
अव्यक्ता क्षीरजलवत्पांसुपानीयवच्च‘पांशुपानीयवच्च सा’ पाठः सा॥ ८९॥

व्यक्ताव्यक्ता च संसृष्टिर्नरसिंहवदिष्यते।
चित्रवर्णवदन्यस्मिन्नानालङ्कारसङ्करे॥ ९०॥

“संसृष्टिरिति”। नानालङ्काराणां सङ्करोऽपि॥॥॥संसृष्टिः। “छायेति”। प्रतिबिम्बदर्पणवदित्यर्थः। क्षीरं दुग्धम्। पांसुर्धूलिः। “चित्रेति”। चित्रलिखितवर्णिकावदित्यर्थः॥

व्यक्ता तिलतण्डुलवद्यथा—

‘पिनष्टीव तरङ्गाग्रैरुदघिः फेनचन्दनम्।
तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः॥ २३८॥’

अत्रोत्प्रेक्षाद्व्यम्, रूपकद्व्यं च तिलतण्डुलवत्सङ्कीर्यते॥

“पिनष्टीत्यादि”। समुद्रस्तरङ्गाग्रैः फेनचन्दनं पिनष्टीव। इन्दुः करैस्तदादाय दिगङ्गना लिम्पतीव। अत्रेवशब्दाभ्यामुत्प्रेक्षाद्व्यम्। फेन एव चन्दनम्, दिश एवाङ्गना इति रूपकद्व्यम्। तदिदं मिश्रितं तिलतण्डुलवत्। यथा तिलानां तण्डुलानां च मिथो निरपेक्षाणामेव सङ्कीर्णता तथात्रापि॥

व्यक्तैव छायादर्शवद्यथा—

‘निर्मलेन्दु नभो रेजे विकचाब्जं बभौ सरः।
परं पर्यश्रुनयनौ मम्लतुर्भ्रातरावुभौ॥ २३९॥’

अत्रादर्शे‘अत्रादर्शच्छायेव’ ख छायेव हेत्वलङ्कारे रामलक्ष्मणमुखयोरिन्दुपद्मौपम्येन सदृशासदृशव्यतिरेको दृश्यते॥

“निर्मलेत्यादि”। विवृतोऽयं व्यतिरेकालङ्कारे। अत्र पूर्वार्धेन हेत्वलङ्कारे दर्शिते तदाधारक एव सदृशासदृशयोर्व्यतिरेकः। स च दर्पणे प्रतिबिम्ब इवाधाराधेयभावेन व्यवस्थापितः॥

अव्यक्ता क्षीरजलवद्यथा—

‘क्षीरक्षालितचन्द्रेव नीलीधौताम्बरेव च।
टङ्कोल्लिखितसूर्येव वसन्तश्रीरदृश्यत॥ २४०॥’

अत्रोपमोत्प्रेक्षे क्षीरनीरवन्मिश्रे संसृष्टे न व्यज्येते॥

“क्षीरेत्यादि”। वसन्तश्रीर्वसन्तशोभाऽदृश्यत जनैः। कीदृशी। क्षीरेण दुग्धेन क्षालितश्चन्द्रो यस्यां सा। नीलीद्रव्येन धौतं क्षालितमम्बरमाकाशं यस्यां सा। टङ्केन पाषाणदारणेनोल्लिखित उत्खण्डितः सूर्यो यस्यां सा। ‘टङ्कः पाषाणदारणः’ इत्यमरः। अत्रोपमोत्प्रेक्षयोर्मिथो मिलनादव्यक्तता। उभयव्यञ्जकस्य तुल्यकक्षतया प्रवृत्तेरिदं बोद्धव्यम्॥

अव्यक्तैव पांसूदकवद्यथा—

‘कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी।
याति विश्वसनीयत्वं कस्य ते कलभाषिणि॥ २४१॥’

अत्र पांसूदकयोरिव मृत्पिण्डे‘मृत्पिण्डश्लेषविरोधयोः’ घ श्लेषविरोधयोरव्यक्तयोरेव व्याजस्तुतावङ्गभावोऽवगम्यते॥

“कृष्णेत्यादि”। विवृतोऽयं भाविकालङ्कारे। अत्र यथा मृत्तिकापिण्डे धूलिजलयोर्मिथो मिलनादव्यक्तता तथा श्लेषविरोधयोर्व्याजस्तुतिप्रसङ्गतः सङ्कर॥

व्यक्ताव्यक्ता नरसिंहवद्यथा—

‘रजोभिस्तुरगोत्कीर्णैर्गजैश्च घनसन्निभैः।
भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम्॥ २४२॥’

अत्र नरसिंहजाताविव सिंहनरशरीरभागयोः परिवृत्त्यलङ्कारहेतूपमयोरङ्गभावो व्यक्ताव्यक्तरूपः परिस्फुरन्नुपलभ्यते॥

“रजोभिरित्यादि”। स कीदृशः। हयखुरक्षुण्णै रजोभिर्मेघतुल्यैर्हस्तिभिश्च गगनं भूतलमिव, भूतलं गगनतलमिव कुर्वन्। अत्र यथा नरसिंहजातौ सिंहनराङ्गभागयोर्व्यक्ताव्यक्तरूपं स्फुरणं तथा परिवृत्त्यलङ्कारे हेतूपमयोरङ्गभावो व्यक्ताव्यक्तरूपः॥

व्यक्ताव्यक्तैव चित्रवर्णवद्यथा—

‘‘मयूरारावमुखरा’ गमयूरारावमुखरां प्रावृषं सतडिल्लताम्।
महाटवीमिवोल्लङ्घ्य तोयानि मुमुचुर्घनाः॥ २४३॥’

अत्र पटावयवस्थानां नीलादीनामिव पटावयव्याश्रिते चित्रवर्णे श्लेषरूपकोपमार्थश्लेषाणां पदपदार्थाश्रयाणां शरद्वर्णनवाक्याश्रयिणि समाध्यलङ्कारे व्यक्ताव्यक्तरूपोऽङ्गङ्गिभावः प्रतीयते॥

“मयूरेत्यादि”। मेघा जलानि त्यजन्ति स्म। महाटवीं महारण्यमिव प्रावृषं वर्षा उल्लङ्घ्य। कीदृशीम्। मयूरशब्दमुखरां, सह तडितेव लतया वर्तते ताम्। अत्रावयवाश्रितनीलादीनामवयव्याश्रिते चित्रवर्णे यथाङ्गङ्गिभावस्तथा श्लेषादीनां समाध्यलङ्कारे व्यक्ताव्यक्तरूपोऽङ्गाङ्गिभावः प्रतीयत इति॥

चतुर्विंशतिरित्येताः क्रमेणोभयसंश्रयाः।
काव्यालङ्कृतयः प्रोक्ता यथावदुपमादयः॥ ९१॥

“इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते सरस्वतीकण्ठाभरणे उभयालङ्कारविवेचनो नाम चतुर्थः परिच्छेदः”॥

“चतुर्विंशतिरिति”। इत्यनेन प्रकारेण चतुर्विंशतिरेता उपमादयः काव्यालङ्कृतय उक्ता इत्यन्वयः। अजहल्लिङ्गतात्र॥ “उभयेति”। शब्दार्थाश्रिता इत्यर्थः॥

रत्नं रत्नधरोऽजनिष्ट गुणिनामाद्योऽनवद्यः सतां सा शुद्धा दमयन्तिकापि सुषुवे नैयायिकं यं सुतम्।
तस्य श्रीशजगद्धरस्य कवितुर्वाणीगणा(ला)लङ्कृते- ष्टीकायामुभयप्रकाशनपरिच्छेदश्चतुर्थो गतः॥

इति महामहोपाध्यायधर्माधिकरणिकश्रीजगद्धरविरचिते सरस्वतीकण्ठाभरणविवरणे चतुर्थः परिच्छेदः॥