स्थग

  • ष्ठगेँ (संवरणे, भ्वादिः) इति शब्दकल्पद्रुमे, वाचस्पत्ये, क्षीरतरङ्गिण्याम्, धातुप्रदीपे । षत्वनिवृत्तौ ष्टुत्वनिवृत्तिः, अतः “स्थगति” इति रूपम् ।
  • ष्टगेँ (संवरणे, भ्वादिः) इति सिद्धान्तकौमुद्याम् । षत्वनिवृत्तौ ष्टुत्वनिवृत्तिः, अतः “स्तगति” इति रूपम् ।
  • ष्टगेँ / ष्ठगेँ (संवरणे, भ्वादिः) इति उभयथा कृदन्तरूपमालायाम् ।
  • स्थग (आच्छादने, चुरादिः)’ इति शब्दार्थकौस्तुभे ।
    • माघकृते शिशुपालवधे स्थगयति इति प्रयोगः (४.२४)।