सुट्

सुट् कात्‌ पूर्वः

  • सुट् कात्‌ पूर्वः (अधिकारसूत्रम्)
  • अड्-अभ्यास-व्यवाये +++(उपसर्ग-धात्वोर् मध्ये)+++ ऽपि +++(सुट् कात् पूर्वः)+++ ।+++(5)+++
    • समस्कार्षीत्। सञ्चस्कर। परिचस्कार
  • सम्-पर्य्-उपेभ्यः करोतौ भूषणे ।+++(5)+++
    • संस्कर्ता। संस्कर्तुम्। संस्कर्तव्यम्।
    • परिष्कर्ता। परिष्कर्तुम्। परिष्कर्तव्यम्।
    • उपस्कर्ता। उपस्कर्तुम्। उपस्कर्तव्यम्।
    • भूषणे इति किम्? उपकरोति।
  • समवाये +++(=समुदायार्थे)+++ च ।
    • तत्र नः संस्कृतम्। तत्र नः परिष्कृतम्। तत्र न उपस्कृतम्।
  • उपात्‌ +++(गुणाधान-)+++प्रतियत्न-वै+++(वि)+++कृत-वाक्याध्याहारेषु ।
    • उपस्कृता कन्या ।
    • उपस्कृतं +++(→विकृतं)+++ भुङ्क्ते।
    • वाक्याध्याहारेषु - उपस्कृतं जल्पति। उपस्कृतमधीते।
  • किरतौ लवने । ( णमुलत्र वक्तव्यः।)
    • उपस्कारं काश्मीरका लुनन्ति। विक्षिप्य लुनन्ति इत्यर्थः।
  • हिंसायां प्रतेश्च (किरतौ) ।
    • उपस्कीर्णं हं ते वृषल भूयात्। प्रतिस्कीर्णं हं ते वृषल भूयात्। तथा ते वृषल विक्षेपो भूयात् यथा हिंसामनुबध्नाति इत्यर्थः।
  • अपाच् चतुष्पाच्-छकुनिष्व् आलेखने ।
    • अपस्किरते कुक्कुटो भक्ष्यार्थी। अपस्किरते श्वा आश्रयार्थी। आलिख्य विक्षिपति इत्यर्थः।
    • चतुष्पाच्छकुनिषु इति किम्? अपकिरति देवदत्तः।
    • (हर्ष-जीविकाकुलायकरणेष्विति वक्तव्यम्।) इह मा भूत्, अपकिरति श्वा ओदनपिण्डमाशितः।

निपातनानि

  • कुस्तुम्बुरूणि जातिः +++(निपातनम्)+++।
    • जातिः इति किम्? कुत्सितानि तुम्बुरूणि कुतुम्बुरूणि।
  • अपरस्पराः क्रियासातत्ये ।
    • अपरस्पराः सार्थाः गच्छन्ति।
  • गोष्पदं सेवितासेवितप्रमाणेषु ।
    • सेविते - गोष्पदो देशः। गावः पद्यन्ते यस्मिन् देशे स गोभिः सेवितो देशो गोष्पदः इत्युच्यते।
    • असेविते - अगोष्पदान्यरण्यानि।
    • प्रमाणे - गोष्पदमात्रं क्षेत्रम्। गोष्पदपूरं वृष्टो देवः।
  • आस्पदं प्रतिष्ठायाम्‌ ।
  • आश्चर्यम् अनित्ये+++(→अद्भुते)+++ ।
  • वर्चस्के+++(=कुवर्चः → अन्नमलम्)+++ ऽवस्करः ।
    • वर्चस्के इति किम्? अवकरः।
  • अपस्करो रथाङ्गम् ।
  • विष्किरः शकुनिर् विकरो वा ।
  • ह्रस्वाच् चन्द्रोत्तरपदे मन्त्रे ।
    • सुश्चन्द्रः युष्मान्।
    • ह्रस्वातिति किम्? सूर्याचन्द्रमसाविव। मन्त्रे इति किम्? सुचन्द्रा पौर्णमासी।
  • प्रतिष्कशश्च कशेः +++(गतिशासनयोः)+++ ।
  • प्रस्कण्व-हरिश्चन्द्राव् ऋषी ।
  • मस्कर-मस्करिणौ वेणु-परिव्राजकयोः ।
  • कास्तीराजस्तुन्दे नगरे ।
  • कारस्करो वृक्षः ।
  • पारस्करप्रभृतीनि च संज्ञायाम् ।
    • पारस्करो देशः। कारस्करो वृक्षः। रथस्पा नदी। किष्कुः प्रमाणम्। किष्किन्धा गुहा।