१२८ अधिनि

धा

  • {अधिनिधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘अथ छदिरधिनिदधाति’ (श० ब्रा० ३।६।१।२२)। छदिः कुथां कटं वा। आस्तृणातीत्याह।
  • ‘द्वयोर्ह्येतत् तृतीयं छदिरधिनिधीयते’ (श० ब्रा० ३।५।३।९)।
  • ‘कुरीरमस्य शीर्षण्यधिनिदध्मसि’ (अथर्व० ६।१३८।२)। नीचैर्न्यस्याम इत्याह।
  • ‘अस्मे सोम श्रियमधिनेधेहि’ (ऋ० १।४३।७)। अधिकं देहीत्यर्थः।
  • ‘प्रजां त्वष्टरधिनिधेह्यस्मै’ (अथर्व० २।२९।२)। उक्तोऽर्थः।
  • ‘तानधिनिधाय परिचार्यं चरेत्’ (पञ्च० ब्रा० १३।४।१७)। अधिनिधाय रथमारोप्य।