१० विशिष्टाः प्रयोगाः

१०. दशमोऽध्यायः

विशिष्टाः प्रयोगाः

संस्कृतेन यद्यत् लिख्यते तत्सर्वं संस्कृतत्वोपेतं न भवति । संस्कृतत्वोपेतं किं, तद्भिन्नं च किमिति अवगमनं न सुकरम् । सूक्ष्मचिन्तनम् अपेक्षते तत् । प्रादेशिकभाषाप्रभावादिकारणतः क्वचित् अस्मदीयानि वाक्यानि बहुधा दुष्यन्ति । पुनः क्वचित् व्याकरणादिनियमानाम् अपालनात् दोषयुक्तानि भवन्ति । क्वचित् शिष्टव्यवहारस्य अपरिशीलनात् तानि शिष्टसम्मतानि न भवन्ति ।

अतः संस्कृतत्वस्य पालनं न सुकरम् । कानिचन वाक्यानि वाच्यमर्यादया यम् अर्थम् अभिव्यञ्जयन्ति स च अर्थः सङ्गतः न भवति । तादृशानि वाक्यानि साधूनि उत असाधूनि इति निर्णेतव्यं चेत् ग्रन्थादिपरिशीलनम् एव शरणम् । आपाततः यः अर्थः दृश्यते तम् अवलम्ब्य यदि तस्य वाक्यस्य शब्दस्य वा असाधुतां निर्णयेम तर्हि वयं दोषं कृतवन्तः स्याम । ग्रन्थपरिशीलनं, विदुषाम् उपसर्पणम् इत्यादयः आधिक्येन कृताः चेत् प्रायः वयं

समुचिततां निर्णेतुं शक्नुयाम | एतस्मिन् प्रकरणे तादृशाः केचन विषयाः उपस्थाप्यन्ते, येषाम् अध्ययनात् संस्कृतत्वनिर्णये उपकारः स्यात् । इह तादृशानि कानिचन

वाक्यानि प्रस्तूयन्ते, येषां च संस्कृतत्वविषये वयं सन्दिहानाः स्याम । ०१. वत्स ! एतस्य मोदकस्य उचिं पश्य ।।

‘रुचिं पश्य’ इति प्रयोगः न दोषाय । वस्तुतस्तु रुचिः न चक्षुरिन्द्रियेण गृह्यते । अतः दर्शनार्थकस्य दृशधातोः (पश्य) प्रयोगः न उचितः इत्यस्ति संशयस्य अवसरः । किन्तु दृशधातोः अनेकार्थत्वं शास्त्रकारैः अङ्गीकृतम् । यथा - मनसा हरिं पश्यति । प्रकृते दृशधातुः “जिह्वेन्द्रियस्य विषयीकरोतु’ इत्यर्थे अस्ति । अतः ‘रुचिं पश्यतु’ इति न दोषाय । एतस्मिन् एव अर्थे ‘रुचिम् आस्वाद्य

परिशीलयतु’ इत्यपि प्रयोगः सम्भवति । ०२. पित्रा पुत्रः आदिष्टः यत् तेन आपणः गन्तव्यः इति ।

‘तेन’ इति प्रयोगः अस्थाने । ‘त्वया’ इत्येव प्रयोक्तव्यम् ।

228

शुद्धिकौमुदी

पित्रा यत् उक्तं तत् तत्प्रयुक्तैः एव शब्दैः ज्ञापनीयम् इति तु संस्कृतशैली । पिता पुरतः स्थितं पुत्रम् उद्दिश्य युष्मच्छब्दं प्रयुक्तवान् भवति, न तु ‘तत्’शब्दम् । ‘तत्’शब्दः च दूरस्थं परामृशति । अतः ‘त्वया आपणः गन्तव्यः’ इत्येव प्रयोगः स्यात् ।

आंग्लभाषायां Direct Speach, Indirect Speach इति शैलीद्वयम् अस्ति । पूर्वोक्ते एव वाक्ये युष्मच्छब्दः (त्वया) प्रयुक्तः चेत्, अन्येन उक्तं तदीयैः एव शब्दैः ज्ञापितं चेत्, Direct Speach इति उच्यते । युष्मच्छब्दस्य स्थाने तच्छब्दस्य प्रयोगः कृतः चेत् Indirect Speach इति उच्यते । ताम् एव व्यवस्थाम् अनुकुर्वन्तः केचन, ‘यत्’शब्दः प्रयुक्तः चेत् युष्मच्छब्दस्य स्थाने तच्छब्दप्रयोगः भवितुम् अर्हति, तदा Indirect Speach भवितुम् अर्हति इति चिन्तयन्ति । सा च भ्रान्तिरेव । यच्छब्दः प्रयुक्तः चेदपि युष्मच्छब्दं प्रयुज्य एव पितुः वाक्यम् अनुवक्तव्यम् । (तेन आदेशकाले यत् वाक्यं प्रयुक्तं तदेव वाक्यं प्रयोक्तव्यम् ।) ‘त्वया आपणः गन्तव्यः इति पित्रा आदिष्टम्’ इत्येतस्य वाक्यस्य, “पित्रा आदिष्टं यत् त्वया आपणः गन्तव्यः इति’ इत्येतस्य वाक्यस्य च न कोऽपि भेदः । यच्छब्दप्रयोगप्रवृत्तिः औत्तराहेषु आधिक्येन

दृश्यते । ०३. एषः घटः स्रवति ।

‘घटः स्रवति’ इत्यपि प्रयोगः भवितुम् अर्हति । “सु’धातोः अत्र सकर्मकता । ‘जलम्’ इत्यादि अत्र कर्म । गत्यर्थकः ‘सु’धातुः वस्तुतः अकर्मकः । अतः ‘घटात् जलं स्रवति’ इति प्रयोगः सम्भवति । अत्र गतिः जले दृश्यते, न तु घटे । अतः जलस्य कर्तृत्वं, घटस्य अपादानता च स्फुटम् । एतदनुगुणाः केचन प्रयोगाः यथा -

• धनाद्धि धर्मः स्रवति, शैलादधि नदी यथा ।

  • रामायणम्

• न हि निम्बात् स्रवेत् क्षौद्रम् ।

  • रामायणम्

विशिष्टाः प्रयोगाः

• स्रवत्युदकं कुण्डिकात् ।

____- भाष्यम् किन्तु अयमेव ‘उ’धातुः सकर्मकत्वेनापि बहुधा प्रयुक्तः दृश्यते । यथा -

• कुञ्जरेण स्रवता मदम् ।

  • कथासरित्सागरः

• न हि मलयगतश्चन्दनतरुः परशुप्रहारतः स्रवेत् पूयम् ।

• वित्रासुस्तावकाः सैन्याः शकृन्मूत्रे च सुसुवुः ।

  • महाभारतम् अतः सुधातुः क्वचित् अकर्मकत्वेन, क्वचिच्च सकर्मकत्वेन च प्रयुज्यते इति स्पष्टम् । ‘घटः स्रवति’ इत्यत्र तु सकर्मकता । अतः । तादृशः प्रयोगः न दोषाय । अकर्मकस्य अपि धातोः सकर्मकत्वेन प्रयोगः न केवलं ‘सु’धातोः, अपि तु द्रु - गतौ, क्षर - सञ्चलने, स्यन्दू - प्रस्रवणे इत्यादीनाम् अपि । तद्यथा + रक्षांसि भीतानि दिशो द्रवन्ति ।

  • भगवद्गीता

• तस्य नित्यं क्षरत्येष पयो दधि घृतं मधु ।

  • मनुस्मृतिः

• सस्यन्दे शोणितं व्योम | .

  • भट्टिकाव्यम् अतः अकर्मकाणाम् अपि धातूनां सकर्मकत्वेन प्रयोगः शिष्टैः क्रियते इति सिद्धम् । ‘सु’धातोः तु उदाहरणानि प्रदर्शितानि एव । तस्मात् ‘घटः स्त्रवति’ (घटः जलं स्त्रवति) इति, ‘जलं स्रवति’ (घटात् जलं स्त्रवति) इति च उभयथा अपि प्रयोगः भवितुम् अर्हति । अथवा ‘मञ्चाः हसन्ति’ इत्यत्र लक्षणया (लक्षणावृत्त्या) ‘मञ्चस्थाः हसन्ति’ इति यथा उच्यते तथैव ‘घटः स्रवति’ इत्यस्य लक्षणया ‘घटस्थं जलं स्त्रवति’ इत्यपि समाधानं वक्तुं शक्यते । तदा तत्र जलस्य न कर्मता। अथवा ‘स्रवति’ इत्येतत् अन्तर्भावितण्यर्थम् इति वा भवितुम्

230

शुद्धिकौमुदी अर्हति । तन्नाम ‘स्त्रावयति’ इत्यर्थे स्रवतेः प्रयोगः । तदा जलस्य

कर्मता अपि उपपन्ना एव । ०४. उद्यानपालकः जलेन सिञ्चति / जलं सिञ्चति ।

उभयथा अपि प्रयोगः सम्भवति । ‘जलेन’ इत्यत्र जलस्य करणत्व विवक्षा । ‘जलम्’ इत्यत्र कर्मत्वविवक्षा । उभयमपि सङ्गतम् इत्यत्र

चारुदेवशास्त्रिणां वचनं प्रमाणम् । तद्यथा -

“धातूनाम् अर्थान्तरसङ्गमादपि व्यतियन्ति कारकाणि । यधा सिञ्चतेः क्षरणार्थे द्रवद्रव्यस्य कर्मत्वम्, आर्दीकरणार्थे च करण त्वम्’ इति ।

  • वाग्व्यवहारादर्श अतः ‘जलं सिञ्चति’ इति प्रयोगः अपि साधुः एव । ०५. एषा लेखनी सम्यक् लिखति ।

‘लेखनी लिखति’ इति प्रयोगः न दोषाय ।

अक्षरविन्यासार्थकः लिखधातुः सकर्मकः । लेखनक्रियायां लेखनी भवति साधनम् । अतः ‘बालः लेखन्या वाक्यं लिखति’ इति प्रयोगः सम्भवति । किन्तु लेखनी कदापि न लिखति, तस्याः अचेतनत्वात् । तस्मात् सन्देहस्य अवसरः अस्ति एव - ‘लेखनी लिखति इत्येषः प्रयोगः किं शुद्धः ?’ इति । यदा सौकर्यातिशयं द्योतयितुं करणादीनाम् अपि क्वचित् कर्तृत्वं विवक्ष्यते तदा ‘लेखनी लिखति’ इति प्रयोगः सम्भवति । एवमेव ‘स्थाली पचति’ ‘काष्ठं पचति’ ‘असिः छिनत्ति’ इत्यादयः

प्रयोगाः। ०६. धातूनाम् अनेकार्थता ।

‘धातवः अनेकार्थाः भवन्ति’ इति तु संस्कृतक्षेत्रे प्रसिद्धिः अस्ति । धातुनिर्देशावसरे यः अर्थनिर्देशः भवति स तु दिङ्मात्रप्रदर्शनपरः । “एतस्य धातोः एषः एव अर्थः’ इति न निर्दिश्यते तत्र । कस्य धातोः कियन्तः अर्थाः सम्भवन्ति इति तु प्रयोगबलात् एव द्रष्टव्यं भवति । धातोः ये अर्थाः स्फुरन्ति तेषां गुणप्रधानभावः नास्ति । यत्र लक्षणयः प्रयोगः, तत्र कदाचित् गौणभावः वक्तुं शक्येत । यथा -

बालाः क्षीरं पिबन्ति । (मुख्या वृत्तिः)

231

विशिष्टाः प्रयोगाः

___ श्रवणाञ्जलिपुटपेया रामायणकथा (गौणी वृत्तिः) किन्तु तदितरस्थलेषु अर्थानां समप्रधानता एव ।

अनेकार्थत्वस्य उदाहरणानि यथा –

• वपति - बीजं वपति । (बीजसन्तानार्थकः)

  • केशान् वपति । (लवनार्थकः)

• शंसति - देवं (प्रशंसति । (स्तुत्यर्थकः).

_ - नृन् शंसति । (हिंसार्थकः)

• वदति - बालकः वदति । (व्यक्तवचनार्थकः)

  • वीणा वदति । (अव्यक्तवचनार्थकः) (ध्वन्यर्थकः)

• वर्तयति - तत्र ते वर्तयिष्यामि यथा युद्धमवर्तत ।

  • भा. द्रोण. १३५.२८

(वर्णनार्थकः) - रामोऽपि सह वैदेह्या वने वन्येन वर्तयन् ।

  • रघुवंशः - १२.८६

(वृत्तिकरणार्थकः) - कर्णो भृशं न्यश्वसदश्रु वर्तयन् । __- भा. द्रोण. २.८

(मोचनार्थकः) ०७. अहं तस्मै दूरवाणीं करोमि ।

“दूरवाणीं करोति’ इति प्रयोगः साधुः एव । करोतिः लोके द्विधा प्रयुज्यते प्रायः - सामान्यार्थे विशेषार्थे चेति । सामान्यार्थे यथा - भोजनं करोति, अध्ययनं करोति, स्नानं करोति इत्यादयः । विशेषार्थः यथा - काव्यं करोति, घटं करोति इत्यादयः । रचनम् / उत्पादनम् / निर्माणम् इत्यादयः करोतेः विशेषार्थाः इति वक्तुं शक्यं प्रायः । प्रकृतवाक्ये तु दूरवाणीकर्ता न हि दूरवाणीम् उत्पादयति । तां तु उत्पादयति काचित् संस्था । (ऐ.टि.ऐ.नामिका, अन्या वा) अतः

अत्र करोतेः उत्पादनार्थकता न । अत्र ‘करोति’ नाम प्रवर्तयति इत्यर्थः, ‘कारीषोऽग्निः अध्यापयति’

232

शुद्धिकौमुदी

इत्यत्र यथा तथा । अतः ‘दूरवाणीं करोति’ इत्यस्य प्रयोगस्य साधुत्वम् । वस्तुतस्तु करोतिः बहुषु अर्थेषु प्रयुज्यते । तद्यथा -

• एवं त्वं पुत्रशोकेन राजन् कालं करिष्यसि ।

  • रामायणम् - २.६४.५२ (मरिष्यसि इत्यर्थः अत्र)

• चकाराङ्गिरसां श्रेष्ठाद् धनुर्वेदं गुरोस्तदा ।

  • शाकुन्तलम् - २.५. (अत्र करोतेः विद्योपादानम् अर्थः)

• अत्र ते पादौ करोमि यदि तन्वि ताम्यसि ।

  • रामचरितम् - ४.४६ (संवाहयामि इत्यर्थः अत्र)

• ते सर्वे चक्कुरश्रूणि ।

  • हरिवंशः - २.२६.२२ (अत्र मुमुचुः इत्यर्थः करोतेः)

• केशान् जानाम्यहं कर्तुम् ।

  • भा. विराट. ९.१८ (‘कर्तुम्’ इत्यस्य प्रसाधयितुम् इत्यर्थः)

• कृतानि प्रथमेनाह्ना योजनानि चतुर्दश ।

  • रामायणम् - ६.२२.६४ (कृतानि नाम अतिक्रान्तानि इत्यर्थः)

एवं करोतिना बहूनां धातूनाम् अर्थस्य अनुवादः क्रियते । ०८. मोदकं हस्ते मा ददातु ।।

“हस्ते (मा) ददातु’ इति प्रयोगः साधुः एव ।

अत्र ‘मा ददातु’ इत्यस्य दाननिषेधः न अर्थः । वाक्यप्रयोक्त्रा दानम् इष्यते एव । तन्नाम ‘बाल’स्य एव सम्प्रदानत्वम् इष्यते । एवं तर्हि ‘मा ददातु’ इत्यस्य निषेधगर्भस्य वाक्यस्य किं तात्पर्यम् ?

अत्र ददातेः अर्पणार्थकत्वम् । तस्मात् - ‘मोदकं बालाय दातव्यं, किन्तु हस्ते न स्थापनीयम्’ इत्ययम् अर्थः एतस्मात् वाक्यात् निर्गच्छति । अतः अयं वाक्यप्रयोगः साधुः एव ।

ददातेः अपि बह्वर्थकत्वम् अस्ति एव । ददातेः स्वस्वत्वनिवृत्तिपूर्वकविशिष्टाः प्रयोगाः

233

परस्वत्वारोपणार्थकता तु प्रसिद्धा एव । अन्ये केचन अर्थाः यथा -

• चैत्रः रजकाय वस्त्रं ददाति । (अधीनीकरणम् अर्थः)

• उपाध्यायः शिष्याय चपेटां ददाति । (संयोजयति इत्यर्थः)

• दीयन्तां पक्षद्वाराणि । - विद्धशालभञ्जिका (पिधानम् अर्थः)

• नतः पृष्ठं ददाति । (सन्निधापनम् अत्र अर्थः) ०९. अयं मार्गः मैसूरुनगरं गच्छति ।

‘मार्गः गच्छति’ इति प्रयोगः साधुः एव । गत्यर्थकः गम्धातुः । तस्य कर्तृपदानि भवन्ति रामादीनि गति क्रियाश्रयभूतानि । मार्गः तु न गतिक्रियाश्रयः । अतः ‘मार्गः गच्छति’ इति प्रयोगः अनुपपन्नः इति भासते आपाततः दर्शनात् ।

वस्तुतस्तु तत्स्थेषु गच्छत्सु मार्गः गच्छति इति उच्यते । “तद्गच्छति पथिदूतयोः’ (४.३.८५) इति सूत्रम् अत्र प्रमाणम् । अतः ‘मार्गः

गच्छति’ इत्यत्र न दोषः । १०. भवति, भिक्षां देहि ।

‘भवति, भिक्षां देहि इति प्रयोगः साधुः । ‘भवति !’ इति भवतीशब्दस्य सम्बोधनरूपम् । ‘भवद्योगे न मध्यमः’ इति वचनं श्रूयते । एवं स्थिते ‘देहि’ इति मध्यमपुरुषेण सह भवच्छब्दस्य प्रयोगः कथम् इति सन्देहस्य अस्ति अवसरः । ‘त्वम्’ इत्येतस्य अध्याहारः करणीयः इति तु एकं समाधानम् । माधवीयधातुवृत्तिकारः लिखति -

“यदा भवच्छब्दात् सम्बोधनविभक्तिः तदा युष्मदर्थयोगात् मध्यमो भवति - हे भवन्, भवसि इति” इति । उदाहरणदर्शनात् स्पष्टं भवति यत् भवच्छब्दात् यदा सम्बोधन विभक्तिः भवति तदा मध्यमपुरुषप्रयोगः सम्भवति इति । ‘भवति,

भिक्षां देहि’ इत्येतदपि तादृशम् एव । ११. ‘सः नगरं प्रस्थितः’

‘सः नगरं प्रस्थितः’ इति प्रयोगः साधुः । ‘प्र’ इत्युपसर्गपूर्वकः ष्ठाधातुः अकर्मकः । गमनक्रियारम्भमात्रं तस्य अर्थः । “समवप्रविभ्यः स्थः’ इत्यनेन तस्य आत्मनेपदित्वम् । अतः ‘प्रतिष्ठते’ इति रूपम् । अकर्मकस्य तस्य कथं सकर्मकत्वेन प्रयोगः

236

शुद्धिकौमुदी

प्रमाणम् । बालमनोरमापतिः इत्थम् - तथा च वसन् ददर्श इत्यत्र लडादेशः शतृप्रत्ययोः भूतकाले इति सिद्धं भवति । …. वसन् ददर्श इत्यादौ तिङन्तवाच्यदर्शनादिक्रिया प्रधानम् । दर्शनादिकार्थत्वात् वासादि क्रिया तु गुणभूता । अतः प्रधानभूतदर्शनादिक्रियानुसारेण गुणभूत वासादिक्रियावाचिभ्यः एव इह प्रत्ययाः कालान्तरेषु विधीयने इत्यर्थः । एतस्मात् - ‘कार्यक्रमः निश्चितः भविष्यति’ इत्यत्र क्तप्रत्ययः भविष्यदर्थे । एवमेव ‘सः आगतवान् अस्ति’ ‘सः वदन् गतवान्’ इत्यादिषु वाक्येषु

अपि ऊह्यम् । १५. लोडर्थे लट्

पाणिनिना वर्तमाने लट् विहितः । प्रार्थनादिषु लोट् विहितः । एषः अंशः सर्वैः ज्ञायते एव । क्वचित् लोडर्थे लटः प्रयोगः अपि दृश्यते । तद्यथा -

• किं करोमि, क्व गच्छामि । - अत्र संप्रश्न लोट् प्राप्तः । तथापि

लटः प्रयोगः ।

• आर्ये व्रजामोऽन्यत इत्यथैनाम्……

  • रघु. ६.८२ अत्रापि लोडर्थे लटः प्रयोगः ।

अतः लोडर्थे क्वचित् लटः प्रयोगः सम्भवति इति सिद्धम् । १६. अर्थान्तरे लकाराः

यथा लोडर्थे लट् दर्शितः तथैव अर्थान्तरे अपि केचन लकाराः प्रयुक्ताः दृश्यन्ते । यथा - * लडर्थे लट् -

• यदि विप्रस्य भगिनी व्यक्तमन्या भविष्यति ।

  • स्वप्ननाटकम् - ६.१४,

• व्यक्तं दूरे विराटस्य राजधानी भविष्यति ।

  • महाभारतम् - ५.६

विशिष्टाः प्रयोगाः

237

  • लडर्थे लोट् -

• तब्रूत वत्साः किमतः प्रार्थयध्वमिहागताः ।

  • कुमारसम्भवः - २.२८

•न भ्रातरो न च पिता नैव त्वं मधुसूदन । ये मां विप्रकृतां क्षुदैरुपेक्षध्वं विशोकवत् ।

  • भारत. वन. १२.२५ १७. परिविष्टवान्/परिवेषितवान् ।

परिविष्टवान् इति रूपं साधु, उत परिवेषितवान् इति ? उभयम्

अपि साधु एव । ‘परिवेवेष्टि’ इत्यत्र प्रकृतिः अण्यन्तो धातुः । एतस्मात् क्तवतुप्रत्यये कृते ‘परिविष्टवान्’ इति । ‘परिवेषयति’ इत्यत्र प्रकृतिः ण्यन्तो धातुः । एतस्मात् क्तवतुप्रत्यये ‘परिवेषितवान्’ इति । परिवेवेष्टि परिवेषयत्योः अर्थभेदः नास्ति इति पूर्वम् उक्तम् । (६. क्रियापद विभागः -१०) तथापि परिविष्टवान् इति प्रयोगः ज्यायान् । एवमेव

नियुक्तवान्/नियोजितवान् इत्यत्रापि ज्ञेयम् । १८. राजा भटान् आज्ञप्तवान् / आज्ञापितवान् ।

आज्ञापितवान्/आज्ञप्तवान् इति उभयथा अपि साधु । ज्ञाधातोः णिचि ‘वा दान्तशान्त….ज्ञप्ताः’ (७.२.२८) इति सूत्रेण निष्ठायां विकल्पेन इट् । तस्मात् इडभावे ‘आज्ञप्तवान्’ इति रूपम् । इटि ‘आज्ञापितवान्’ इति रूपम् । किन्तु सर्वत्रापि एवं रूपद्वयं न भवति । इड्विकल्पादिकं ज्ञात्वा प्रयो:

करणीयः । १९. स्वागतं करोति

‘स्वागतं करोति’ इत्येतत् किं साधुः प्रयोगः ? तस्य साधुता साधुतानिर्णयात् पूर्वं ‘स्वागत’शब्दस्य अर्थः तावत् चिन्तनीयः ।

आगतं नाम आगमनम् । शोभनम् आगतम् = स्वागतम् । अतः “स्वागत’शब्दस्य ‘शुभागमनम्’ इति अर्थः सिद्धः । ‘गृहस्वामी अतिथेः स्वागतं कृतवान्’ इति वाक्यं परिशीलयाम । अत्र स्वागतकर्ता तु गृहस्वामी । किन्तु तस्य आगमनं नास्ति अत्र ।

238

शुद्धिकौमुदी

आगमनं तु अतिथेः । तस्मात् ‘अतिथेः आगमनं गृहस्वामी कृतवान्’ इत्येषः असङ्गतः अर्थः एतस्मात् वाक्यात् सिध्यति ।

अतः एव प्राचीनानां प्रयोगः ‘स्वागतं वदति’ इति । स्वागतम् इति शब्दं वदति इति तस्य अर्थः । ‘स्वागतम्’ इत्येषः स्वागतशब्द पदार्थकः शब्दः । अतः एव स्वागतम् ‘उच्यते’, न तु क्रियते । कालिदासादीनां प्रयोगाः अपि अत्र प्रमाणम् । तद्यथा - * प्रीतप्रीतिप्रमुखवचनैः स्वागतं व्याजहार ।

  • मेघदूते * स्वागतेनोक्तौ (तौ) विष्टरे सन्निषीदतुः ।

___- महा. उद्योग. ११३.२ * परिघोरुभुजानाह हसन्ती स्वागतं कपीन् ।

  • भट्टिकाव्यम् - ७. ६३ अत एव सभादिषु अपि ‘स्वागतं व्याहरामि’ ‘स्वागतं व्याहृत्य विरमामि’ इत्यादयः एव प्रयोगाः श्रूयन्ते । (व्याहरति = वदति)

तस्मात् स्वागतं वचनविषयः, न तु कृतिविषयः इति सिद्धम् । एवं तर्हि ‘स्वागतं करोति’ इत्येषः प्रयोगः किम् असाधुः ? ‘न’ इति वदन्ति शिष्टाः । ‘स्वागतं करोति’ इति प्रयोगः साधुः एव । किन्तु अत्र करोतेः कृतिः नार्थः, अपि तु कथनम् अर्थः । प्रसिद्धाः वैयाकरणाः चारुदेवशास्त्रिणः वदन्ति - ‘करोतिरत्र व्याहरणे वर्तते’ इति । धातूनाम् अनेकार्थत्वम् अस्ति एव । करोतेः तु शताधिकाः अर्थाः उपवर्ण्यन्ते । प्राचीनप्रयोगः यथा - * ततोऽस्याः स्वागतं कृत्वा व्यादिश्य च वरासनम् ।

____- महाभा. शान्ति. - ३२०.१४ * शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः ।

  • पूर्वमेघः - २३

तस्मात् ‘स्वागतं करोति’ इति प्रयोगः अपि न असाधुः । व्याहरणार्थकत्वं यदा वर्ण्यते तदा एव साधुता । करोतेः ‘कृतिः’ इति अर्थविवरणे कृते तु असाधुता अस्ति एव ।

विशिष्टाः प्रयोगाः

239

२०. तस्मै स्वागतं व्याहरति ।

स्वागतशब्दयोगे का विभक्तिः प्रयोक्तव्या ? ‘चतुर्थी प्रयोक्तव्या’ इति वदन्ति शिष्टाः । प्राचीनप्रयोगाः यथा - * तस्मै… स्वागतं व्याजहार ।

. - पूर्वमेघे - ८ * युगबाहुभ्यः वः स्वागतम् ।

  • कुमारसम्भवे - २.१७ * स्वागतं देव्यै ।

___ - मालविकाग्निमित्रम् मल्लिनाथः लिखति - “क्रियाग्रहणम् अपि कर्तव्यम् इति सम्प्रदानात् चतुर्थी’ इति । तस्मात् ‘भवद्भ्यः सर्वेभ्यः स्वागतं व्याहरामि’ इति चतुर्थीयुक्तः प्रयोगः युक्तिसहः भवति । स्वागतशब्दयोगे द्वितीया षष्ठी चापि प्राचीनैः प्रयुक्ता दृश्यते । यथा * षष्ठी - स्वागतम् आर्यस्य ।

___- मृच्छकटिके - ५ * द्वितीया - परिघोरुभुजानाह हसन्ती स्वागतं कपीन् ।

    • भट्टिः - ७.६३ ‘स्वागतम् आर्यस्य’ इत्यत्रं ‘आर्यस्य स्वागतं वदामि’ इति तात्पर्यम् । आगतम् = आगमनं कस्य इति जिज्ञासायाम् ‘आर्यस्य’ इति समाधानम् । तस्मात् षष्ठी । अतः आर्यपदस्य षष्ठ्यन्तस्य आगतम् इत्यनेन अन्वयः । ‘सा कपीन् स्वागतम् आह’ इत्यत्र तु वदतेः द्विकर्मकत्वात् कपिशब्दस्य द्वितीया । (आह = वदति) तस्मात् षष्ठी द्वितीया च न

समर्थनाना । तथापि चतुर्थी प्रशस्यते इति भाति । २१. सुस्वागतम्

लोके ‘सुस्वागतम्’ इति प्रयोगः बहुधा दृश्यते । किम् एषः प्रयोगः साधुः ? सु + सु + आगतम् = सुस्वागतम् ।

9A

240

शुद्धिकौमुदी

‘सु’ इत्यस्य ‘शोभनम्’ इत्यर्थः । तस्मात् ‘स्वागतम्’ इत्यस्य ‘शोभनम् आगमनम्’ इति अर्थः सिद्ध्यति । पुनः तस्मिन् एव पदे शोभनार्थस्य ज्ञापनाय पुनरपि ‘सु’ इत्यस्य प्रयोगः न आवश्यकः । समानार्थकं पदद्वयं लोके एकस्मिन् एव वाक्ये कोऽपि न प्रयुङ्क्ते । न हि ‘घट कलशम् आनय’ इति कोऽपि वदति । तस्मात् ‘स्वागतम्’ इत्यनेन एव इष्टसिद्धौ पुनः ‘सु’ इत्यस्य प्रयोगस्य न आवश्यकता ।

अतः तं प्रयोगं परिहरेत् शब्द-कोविदः । किन्तु ‘सुस्वागतम्’ इति पदं बहुधा प्रयुक्तं दृश्यते प्राचीनैः । तद्यथा - * श्राद्धकर्मणि ‘स्वागतम्’ इति श्राद्धकर्तरि उक्ते ‘सुस्वागतम्’ इति

प्रतिवचनं वदति वैदिकः । . * भद्र सुस्वागतं तेऽस्तु ।

    • काकोलूकीयम् - १५९ * सुस्वागतं विदधुरुत्स्मयवीक्षितेन ।

__ - भाग - १०.७१.३५ * स्वागतं ते द्विजश्रेष्ठ ! भूयः सुस्वागतं तव ।

__- जैमिनीयाश्वमेधपर्व - ६६.३२ * पितामहश्चापि समीक्ष्य तं द्विजं ननन्द सुस्वागतमित्युवाच ।

___- रामा. अरण्य. - ५.४३ एतादृशानां प्रयोगाणां दर्शनात् एतत् वक्तव्यं भवति - “यद्यपि ‘सु’पदस्य द्विरुक्तिः तर्केण न अनुमन्यते, तथापि शिष्टलोकः एतादृशान् प्रयोगान् बहुधा करोतीत्यतः ‘सुस्वागत’पदस्य प्रयोगः न दुष्यति” इति । तथापि “स्वागतम्’ इत्येतावता एव स च आशयः अभिव्यक्तः

भवति इति तु न विस्मर्तव्यम् । २२. सौष्ठवेच्छुभिः यावच्छक्यं परिहरणीयः विशेषणपूर्वपदः कर्म

धारयः। * उत्तमबालकः समीचीनवाक्यम् उक्तवान् । ‘उत्तमः बालकः’ ‘समीचीनं पुस्तकम्’ इति उभयत्रापि व्यस्तप्रयोगः शिष्टसम्मतः ।

विशिष्टाः प्रयोगाः

241

‘उत्तमबालकः’ इत्यत्र विशेषणपूर्वपदः कर्मधारयः । यद्यपि अयं समासः शास्त्रसम्मतः एव, तथापि काव्येषु एतस्य उपयोगः अल्पशः एव कृतः दृश्यते कालिदासवाल्मीकिव्यासप्रभृतिभिः । अत एव शिष्टाः वदन्ति - “शूररावणः, धीररामः इत्यादयः समस्ताः प्रयोगाः यावच्छक्यं परिहरणीयाः । शूरः रावणः, धीरः रामः इत्यादयः व्यस्ताः प्रयोगाः एव आश्रयणीयाः” इति । [ राळ्ळपल्लि-अनन्तकृष्णशर्मवर्येण उक्तमिदं वचनम् । ‘दीवटिगेगळु नामकात् पुस्तकात् एतत् उद्धृतम् । पु - १३५] अतः व्यवहारे अपि एतादृशस्य समासस्य परिहारः एव करणीयः यावच्छक्यं भाषासौष्ठवाकांक्षिभिः । विशेषणपूर्वपदकर्मधारये कृते दोषः तु न । सौष्ठवस्य हानिः । भाषासौष्ठवं काव्यमात्रस्य विषयः

न । व्यवहारस्यापि विषयः सः । २३. अव्युत्पन्नानां संज्ञापदानां विभक्तियोजनम् ।

*गुण्डप्पः अप्पय्यम् अवदत् । अत्र ‘गुण्डप्प’शब्दः ‘अप्पय्य’शब्दो वा प्रकृतिप्रत्ययविवेकयुक्तः न । तौ उभौ अपि प्रादेशिकभाषीयौ संज्ञाशब्दौ । तयोः तादृशानां च विभक्तियोजनं किं युज्यते इति उदेति कश्चन प्रश्नः ।

‘अपदं न प्रयुञ्जीत’ इति शास्त्रोक्तिः । पदं च सुबन्तं तिङन्तं वा । गुण्डप्पादीनां तु असंस्कृतत्वात् न प्रातिपदिकसंज्ञा । तस्मात् तादृशेभ्यः शब्देभ्यः सुबुत्पत्तिः न । अतः तेषां प्रयोगानहत्वम्’ इति केचन अभिप्रयन्ति । व्याकरणे एतद्विषये विशेषचर्चा कृता दृश्यते । एतं विषयं विस्तरेण ज्ञातुम् इच्छवः तान् व्याकरणग्रन्थान् पठेयुः । “इदमित्थम्’ इत्येतस्मिन् पुस्तके विद्यमानान् लेखान् वा पठेयुः । एतद्विषये अयं निर्णयः - - संज्ञाशब्दाः विभक्तियोजनम् अर्हन्ति । ‘यर्वाणः तर्वाणः’ इत्यादि भाष्यप्रयोगात्, कल्हणः, जल्हणः, भट्टोजिः, अप्पय्यः इत्यादि शिष्टप्रयोगात् च संज्ञाशब्दानां विभक्तियोजनं शास्त्रसम्मतम् एव इति निर्णीयते । तस्मात् व्यक्ति वस्तु-ग्रामादीनां नामानि विभक्तियोजनम् अर्हन्ति

242

शुद्धिकौमुदी

एव । - यत्र व्याकरणसंस्कृतः साधुशब्दः भवति तत्र तदर्थप्रतिपादनेच्छया

असंस्कृतः असाधुशब्दः (अपशब्दः) न प्रयोक्तव्यः । यथा - व्युत्पन्ने ‘विद्यालय’शब्दे सति ‘स्कूलः’ इति न प्रयोक्तव्यम् । ‘कपाटिका’शब्दे सति ‘कबोर्डः’ इति न प्रयोक्तव्यम् । ‘उत्पीठिका’ शब्दे सति ‘टेबल्लः’ ‘टेबल्लस्य’ इत्यादयः न प्रयोक्तव्याः । एवमेव इतरत्रापि । अयमत्र सङ्ग्रहः - 0 अन्यभाषीयाः संज्ञाशब्दाः संस्कृतभाषायां विभक्तियोजनम् अर्हन्ति । _ यथा - गुण्डप्पः, बेङ्गलूरुः, इग्लेण्डः इत्यादयः ।

9 व्युत्पन्ने संस्कृतशब्दे सति तदर्थद्योतनाय असंस्कृतः शब्दः न प्रयोक्तव्यः । यथा - प्रोफेसरः, टेबलः, टैप्रैटरः इत्यादयः । ते तु असाधवः एव । असंस्कृतशब्दस्य अन्तिमे भागे संस्कृतशब्दस्य योजनात् अपि सरलः व्यवहारः कर्तुं शक्यः । कानिचन उदाहरणानि यथा - * कार्यानम्, जीप्यानम्, रैल्यानम् * टोमेटोशाकः, अनानसफलम्, नीम्दन्तफेनः

  • हेगडेवर्यः, म्यान्मर्देशः, न्यूजर्सीनगरम् २४. सङ्केते साधुत्वक्रमः

वयं यदा कस्मैचित् पत्रं लिखामः तदा तत्र सङ्केतम् (Address) अपि लिखामः । स च इत्थं भवति -

रामचन्द्रशर्मा ‘आशीर्वादः’ राममन्दिरमार्गः, द्वितीयः मुख्यमार्गः

सुभाश्चन्द्रनगरम्, वाराणसी (उ.प्र.) इति । अत्र सर्वाणि प्रथमान्तानि पदानि दृश्यन्ते । समानविभक्तिकत्वे विशेषणविशेष्यभावः घटते । सङ्केतस्थानां प्रथमान्तपदानां न विशेषण विशेष्यभावः इति तु स्फुटम् । एवं तर्हि प्रथमान्तानाम् एकत्र लेखनं

कथं सङ्गच्छते ? कथम् एतेषां साधुता ? वैयाकरणाः वदन्ति - “तत्र इत्यादीनि पदानि अध्याहर्तव्यानि । सप्तम्याद्यन्तत्वेन विपरिणामः वा चिन्तनीयः” इति ।

विशिष्टाः प्रयोगाः

243

सङ्केतलेखनक्रमः तु आधुनिकः । किन्तु प्रथमान्तपदानाम् एकत्र लेखनं तु प्राचीनम् एव । तद्यथा - रामायणम्, प्रथमः काण्डः, प्रथमोऽध्यायः इत्यादयः । एवं तु सर्वत्र लिख्यते एव आ प्राचीनकालात् । तत्र साधुत्वं कथम् ? “रामायणम्, तत्र प्रथमः काण्डः, तत्र प्रथमः अध्यायः’ इति खलु विवरणम् ? अथवा ‘रामायणे प्रथमे काण्डे प्रथमः अध्यायः’ इति वा वक्तव्यम् । तदा एव साधुत्वम् । तुल्यन्यायेन सङ्केते अपि अयमेव क्रमः अङ्गीक्रियते । अतः सङ्केते सर्वाणि पदानि प्रथमान्तत्वेन

यत् लिख्यन्ते तत् न दोषाय । २५. श्रीपदपूर्वको नामनिर्देशः

देवानां, गुरूणां, क्षेत्राणां, सामान्यानां चापि नाम्नः लेखनसमये उच्चारणसमये वा ‘श्री’पदं प्रयुज्यते आदौ भारतीयपरम्परायाम् । ‘श्री’पदस्य लक्ष्मीकान्तिसम्पत्त्यादयः बहवः अर्थाः सन्ति । गौरवार्हाणां नाम्नः आदौ श्रीपदं प्रयुञ्जीत इति वदन्ति विज्ञाः । ‘कल्पद्रुमे’ विषयेऽस्मिन् उच्यते -

“देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राधिदेवताम् । सिद्धं सिद्धाधिकारांश्च श्रीपूर्वं समुदीरयेत् ।। इति । राघवभट्टकृतप्रयोगदर्शनात् स्वर्गगामित्वादिना सिद्धोऽधिकारो येषां नराणाम् इत्यनेन जीवतां श्रीशब्दादित्वं नाम्नः । न तु मृतानां तथेति शिष्टाचारः इति संस्कारतत्त्वम्” इति । ललितासहस्रनामस्तोत्रस्य आदो ‘श्रीमाता श्रीमहाराज्ञी श्रीमत् सिंहासनेश्वरी’ इति प्रयोगः दृश्यते । तद्विषये भास्कररायप्रणीते सौभाग्यभास्करभाष्ये लिख्यते - ‘अथवा अभियुक्तानां नाम श्रीपदपूर्व प्रयुञ्जीत, श्रीचक्र-श्रीशैल-श्रीविधा-श्रीफलादिवत्’ इत्यभियुक्तप्रसिद्धेः’ इति । वैयाकरणभूषणसारस्य मङ्गलपद्यम् अस्ति - ‘श्रीलक्ष्मीरमणं नौमि..” इति । तत्र श्रीपदसमासविषये चर्चा क्रियते । तस्याः तात्पर्यम् (एतत्प्रकरणसम्बद्धम्) इत्यं भवितुम् अर्हति - (१) श्रीः नाम लोकोत्तरा कान्तिः । श्रीसहितः लक्ष्मीरमणः

श्रीलक्ष्मीरमणः इति मध्यमपदलोपी समासः ।

244

शुद्धिकौमुदी (२) अथवा श्रीशब्दस्य श्रीमति लक्षणा । श्रीरिति लक्ष्मीरमणस्य

विशेषणम् । एवं च सिद्धं यत् व्यक्तिनाम्नः क्षेत्रनाम्नः वा आदौ श्रीपदयोजनं पारम्परिकं शास्त्रसम्मतं च इति । ‘श्रीपदेन समासः’ इति तत्र वक्तव्यम् । तथा सति ‘श्री उमेशशर्मा’ इत्यादिषु सन्ध्यकरणं दोषाय स्यात् । सन्धौ कृते विरूपतया नाम्नः ग्रहणं स्यात् । अतः अजादेः शब्दस्य आदौ ‘श्रीमान्’ इत्यस्य पदस्य प्रयोगः एव औचित्यम् आवहेत् इति

भाति । २६. नाम्नः एकदेशस्य ग्रहणम्

लोके कानिचन नामानि भवन्ति दीर्घाणि - अजितकुमारः, रामचन्द्रः, सर्वमङ्गला इत्यादीनि । एतन्नामवतां सम्बोधनावसरे प्रायः नाम्नः एकदेशस्य ग्रहणं भवति । ‘अजित’ ‘कुमार’ ‘राम’ ‘मङ्गले’ इत्येवमादीनि वन्ति सम्बोधनरूपाणि ।। एषः क्रमः वस्तुतः अस्ति शास्त्रसम्मतः एव । वार्तिकं वदति - ‘विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वक्तव्यः’ इति । ‘देवदत्तः दत्तः । देवः । सत्यभामा । भामा । सत्या’ इत्यादीनि तस्य उदाहरणानि । भाष्ये अपि पस्पशाह्निकादिषु अयं विषयः प्रस्तुतः दृश्यते । अतः नामैकदेशग्रहणं न दोषाय । कनादिप्रत्ययाः अपि अत्र प्रयोक्तुं शक्याः । विस्तरस्तु कौमुद्यां द्रष्टव्यः । (अनुकम्पायाम् - ५.३.७६ इत्यादिषु) कृष्णः इति यस्य नाम भवति सः एव क्वचित् निर्दिश्येत - ‘कण्णः’ “किट्टिः’ “किशनः’ इत्यादिभिः प्रकारान्तरं प्राप्तवद्भिः नामभिः । एतादृशेषु प्रसङ्गेषु तेषां संज्ञापदानाम् अव्युत्पन्नत्वम् अङ्गीकरणीयं भवेत् ।भ्रमजनकाः प्राचीनाः प्रयोगाः

245