२ उपोद्घातः

[[TODO: proofread??]]

Source: TW

अथोपसर्गार्थचन्द्रिका

तत्रेदमुपोद्धन्म:-

उपसर्गार्था यथातथं प्रतिपन्ना बहूपकुर्वन्ति वाचं प्रतिपित्सूनामिति पण्डिताः प्रतिपन्नाः । सम्यक् प्रयुक्ताश्चोपसर्गा यथोपस्कुर्वते वाक्यविन्यासस्य न तथेत- रत्किञ्चित् । इमे हि यां सुषमां प्रसुवते सा सचेतसां सुमेधसामेव गम्या, यं च वाचि लोकोत्तरं निषिञ्चन्ति रसपीयूषप्रकर्षं सोपि तन्मात्रगोचरो न प्राकृ- तैश्चर्वणीयो भवति । न केवलं बन्धस्य सुभगंकरणा उपसर्गा इत्यर्थतः प्रयोग- तश्च परिचेतव्या विदुषा च विविदिषावता च । बहु नामोपकुर्वन्त्युपसर्गाः सम्यक् परिचिता विनेयस्य विशेषतः । अल्पैरेव कैश्चिद् धातुभिरुपसर्गसहचरतिः साधीयो निर्वक्ष्यति तस्यार्थ इति नेदानीं तस्यामकृद् घोषयतो रूपजातमुपदा- स्यते स्वरः क्षेष्यते च कायः । बाढं शब्दसौष्ठवं बन्धस्य तस्येष्टं नैकक्रियोक्ति- पाटवं च तस्योभयस्य कनीयसा यत्नेन चारुतरेण चौपयिकेन प्रसिद्धेर्नासौ फलव्यतिरिक्तं घटिष्यते । ‘अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेद्’ इति हि लौकिका आभणन्ति । तस्मादुपसर्गप्रयोगेऽभिविनेया विनेयाः प्रयत्नतो विनेतृभिः ।

इदं चाक्षिलक्षी भवति निःसामान्याऽभिरुचिरुपसर्गप्रयोगेषु पूर्वेषां वाग्योगविदाम् । तथा हि त एकस्मादेव धातोर्नानोपसर्गासञ्जनेन तत्तन्नामधेयं कल्पयन्ति । वायोः सप्त नेमयः स्मर्यन्ते पुराणकारैः । त एतैर्नामभिः कूर्ममहा- पुराणे (पूर्व० ४१।६) कीर्त्यन्ते - आवहः प्रवहश्चैव तत्रैवानुवहः पुनः । संवहो विवहश्चैव तदूर्ध्वं स्यात्परावहः । तथा परिवहश्चैव वायोर्वै सप्त नेमयः ॥ तत्रैव हिरण्यकशिपोरात्मजा एभिर्नामभिरुद्दिश्यन्ते – हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः । … प्रह्रादश्चानुह्रादश्च संह्रादो ह्राद एव च (कूर्म० पु० १६। ४६-४७) ।। विष्णु पुराणे (१।१५।१४२) प्येतान्येव नामधेयानि निर्दिष्टानि । ब्राह्मणकारा याज्ञवल्क्यादयो महर्षय एतज्जातीयकां प्रवृत्तिमासेवन्ते । चत्वारो ह वा अग्नयः । आहित उद्धृतः प्रहृतो विहृतः (श० वा० ११५२१) । अत्रोप- सर्गत्रययोगेण हरतिर्नैकेनाग्नित्रेता समाख्याता । कथाकारा अपि प्राच ऋषी- ननुविदधति - तेपीत्थं वयसां नामानि घटयन्ति - तस्य चान्वयागताः पञ्च सचिवाः । तद्यथा— उद्दीपी । सन्दीपी । श्रादीपो । प्रदीपी । चिरजीवी चेति (तन्त्रा० ३) ।

उपसर्गाचन्द्रिका

इदमत्रोपसर्गविषये निचाय्यम् - धातुना सम्प्रयुक्त उपसर्गस्तं तमर्थमाह । परं नहि यः कश्चिदुपसर्गो येन केन शक्यो घातुना योक्तुम् । कश्चिदेव तु केन चिदर्हति योगम् । प्रतिनियतविषयाः शब्दा भवन्तीति नात्र प्रायोक्त्री विवक्षा प्रभवति । अवाद्ग्रः ( पा० १।२।५१) इति सूत्रे गिरतेरिति वक्तव्यम् । न वक्तव्यम् । प्रयोगाभावात् । न चावपूर्वस्य गृणातेः प्रयोगोस्तीति भाष्यमत्र लिङ्गम् । न सम्पूर्वस्य ख्यातेस्तिङि प्रयोगोऽस्तीति च न्यासकारवचोपि । उप- पूर्वो जानातिराद्यज्ञानमाह न तूपपूर्वो वेत्तिः । तस्य तथाभूतस्य प्रयोगाभा- वात् । तस्माच्छब्दशक्ति स्वाभाव्यं सम्यग् विभाव्य प्रयोगविषयतां च निपुणं निरूप्य प्रवर्तनीयं सन्दर्भशुद्धिमभीप्सता सुमेधसा ।

इदमप्युपसर्गस्वालक्षण्यं विभाव्यताम् । केचिदुपसर्गाः कृति प्रत्यये यमर्थमाहु- र्न तं तिङि – प्रश्रित इत्यादृतो विनीतो वा भवति, प्रश्रयत इति तु प्रतिश्रयण- पूर्वकं निषदनमाचष्टे प्रायेण । कुड्यं प्रश्रयते कुड्यं संश्रित्य निषीदतीत्यर्थः । आग्रह इति निर्बन्धो भवति । आगृह्णातिस्तु तुरगसंयमने वर्तते न जातु निर्बन्धे । भवति च दाशतये प्रयोगः - आ त एता वचोयुजा हरी गृभ्णे सुमद्रथा (ऋ० ८।४५।३६) । आहारो भोज्यं भवति । आहरति इति तु भुङ्क्त इत्यत्रार्थे न क्वचित्प्रयुज्यते । प्रयतः पूतो भवति । प्रयमिस्तिङन्तस्तु न क्वचित्पवने पूतीभावे वा दृष्टः । आश्रव इति वचने स्थित इत्युच्यते । आशृणोतिस्तु न तत्रार्थे प्रसिध्यति । न ह्याशृणोतीत्युक्ते वशंबद इत्यर्थो गम्यते ।

वैयाकरणानां निकाये उपसर्गा द्योतकाः, उपसर्गा वाचकाश्चेति द्वौ वादौ प्रथेतेतराम् । उपसर्गाश्च पुनरेवमात्मकाः ससाधनां क्रियामाहुरिति भाष्यं (५।२। २८) विवृण्वानः कैयटः प्राह – क्रियोपसर्जनं साधनमाहुः । अतो वैयाकरणा अपि पार्थगर्थ्यं नैव निह्नुवते । स वाचको विशेषाणां सम्भवाद् द्योतकोऽपि वा । शक्त्याधानाय धातोर्वा सहकारी प्रयुज्यते ॥ ( वा०प०२।१८८) इति हर्युक्तेश्च ।

द्योतका उपसर्गा इति तावद् ब्रूमः –

न निर्बद्धा उपसर्गा अर्थान्निराहुरिति । नामाख्यातयोस्तु कर्मोपसंयोग- द्योतका भवन्ति इति निरुक्ते । अयमर्थः । चत्वारि पदजातानि नामाख्याते चोपसर्गनिपाताश्च । यथा नामाख्यातयोर्निपातस्य च वाक्ये पृथक्पदत्वेन प्रयोग उपलभ्यते न तथोपसर्गस्य । उपसर्गस्य धातुयुक्तस्यैव प्रयोगोपलम्भात्तस्य स्वकः कोऽप्यर्थो नास्तीति कल्प्यते । धातोरेवार्थविशेषं द्योतयन्त्युपसर्गास्तेनैवार्थवन्तो भवन्तीति शाकटायनाचार्यस्य दर्शनम् । तदिदं दर्शनं धातुष्वनेकार्थेषु सत्स्वेवोप- पद्यते इति तावद् धातूनामनेकार्थतोपपाद्यते । अत्राहुरभियुक्ताः - क्रिया- वाचित्वमाख्यातुमेकैकोर्थो निर्दाशतः | प्रयोगतोऽनुसर्तव्या अनेकार्था हि धातवः ॥ इति । एतदुक्तं भवति — धातुपारायणेऽर्थनिर्देशो निदर्शनाय कृतो न परिगणनाय । निर्दिष्टार्थेभ्यो व्यतिरिक्ता अपि धात्वर्था भवन्तीति । अत एव

उपसर्गाचन्द्रिका

1

कलिवली कामधेनू इति प्रथते प्रामाणिकोक्तिः । किञ्च धातुपाठऽन्तरप्यने- कार्थताया लिङ्गमस्ति । कगे नोच्यते, वनु च नोच्यत इति यद्विशिष्यार्थो नोक्त- स्तत्र धातूनामनेकार्थता हेतुरिति तद्व्याख्यातारः । कुर्द खुर्द गुर्द क्रीडायामेवे- त्येवकारोप्यत्र लिङ्गमस्ति । राधोऽकर्मकाद् वृद्धावेवेति चापि लिङ्गान्तरमुक्तार्थोपस्तम्भकम् । अत्र एवकारो भिन्नक्रमः । यदा राधिरकर्मकस्तदैव श्यनं लभते यथा वृद्धाविति तदर्थः । तेनान्यत्रार्थेऽप्ययमकर्मकः सञ्श्यनं लभते यथा दैवपर्यालोचने – देवदत्ताय राध्यति गर्ग इति । दृश्यन्ते च प्रयोगा अनिर्दिष्टार्थेषु धातूनामिति नैतद् रिक्तं वचः । तद्यथा वपिर्बीजसन्ताने पठितश्छेदनेपि वर्तते - वपति केशानिति । करोतिः करणेऽभूतप्रादुर्भावे पठितो निर्मलीकरणेपि दृश्यते – पृष्ठं कुरु । उन्मृदानेति गम्यते । ईडिः स्तुतौ पठितः प्रेरणायामपि प्रयुज्यते – अग्निर्वा इतो वृष्टिमीट्टे मरुतोऽमुतश्च्यावयन्तीति । चर्चयतिरध्ययने कीर्तितः — न केवलं चर्चापदानि व्याख्या भवतीति । विलेपनेपि वर्तते, चन्दनचर्चितभालः । चर्चा चार्चिक्यं स्थासक इति चामरः । कितिर्निवासे रोगापनयने च पठितः — निकेतयति निवसत्यत्रेति निकेतनं गृहम् । चिकित्सति मन्दं वैद्य इति । भिषज्यतीत्यर्थः । ज्ञाननिग्रहनाशननिमन्त्रणेष्वपि दृश्यते —केतयत्यनेनेति केतनं केतुः । शत्रुं चिकि- त्सति । नाशयतीत्यर्थः । सस्यार्थे क्षेत्रे तृणानि चिकित्सति । उन्मूलयतीत्यर्थः । श्राद्धे केतयति विप्रम् । निमन्त्रयत इत्यर्थः । केतितस्तु यथान्यायं हव्यकव्ये द्विजोत्तम इति च मानवे धर्मशास्त्रे ( ३।१६०) । शंसतिः स्तुतौ पठितो हिंसाया- मपि वर्तते नॄञ्शंसति हिनस्तीति नृशंसः । नृशंसो घातुकः क्रूर इति चामरः । चक्षिङ् व्यक्तायां वाचि पठितः । हिंसायामपि वर्तते —नृचक्षा राक्षस इति चक्षिङः ख्याञ् ( २|४|५४ ) इति सूत्रे काशिका | कृपूः स मर्थ्ये पठितो ऽन्यत्रार्थे कर्तनेपि व्यवह्रियते — कॢप्तकेशश्मश्रुर्यतिरिति । वसतिर्निवासे पठि- तोऽशनेपि वर्तते । तिसृणां वसतीनां हि स्थानं परमदुश्चरमित्यत्र भारते (वन० २६६।५) तथा दर्शनात् । अश्यर्थस्य नेति वार्तिकलिङ्गाच्च । एवं स्थिते उपसर्गैः किं क्रियते । तेन तेन धातुना सहोक्ता उपसर्गास्तत्तद्धात्वन्तर्हितांस्तांस्तान् अर्था- नुद्भावयन्तीत्यत्रैव पर्यवस्यति तेषां कृत्यम्, न कृत्यान्तरमस्ति । वधो घातो भवति विवधश्च वीवधश्च विहङ्गिका । हन हिंसागत्योरिति धातोर्विशब्देन गत्यर्थता समुद्भाव्यते । विशिष्टो वधो गमनमत्रेति व्युत्पत्तेः । तमिममर्थं रुचिरया कवि- पद्धत्या निबध्नाति शास्त्रकोविदः कविर्माधिः -

सन्तमेव चिरमप्रकृतत्वादप्रकाशितमदिद्युतदङ्गे । विभ्रमं मधुमदः प्रमदानां धातुलीनमुपसर्ग इवार्थम् ॥ (१०।१५ )

भङ्गयन्तरेणापि द्योतकतोपसर्गाणां शक्या प्रसाधयितुम् । यदि नामोप- सर्गसहकारेण यं यमर्थं धातवो ब्रुवन्ति तं तं केवला अपि ब्रुवीरंस्तदोपसर्गा

द्योतका इत्यर्थादापद्यतेऽनेकार्थता च धातूनां प्रसिध्यतितराम् इति काश्चिद् दिशोऽनेकार्थवाचिताया उदाहरामः । वरतिर्गतिभक्षणयोः पठितः, विपूर्वस्तु भ्रमणे पर्यटने वर्तते - अधिज्यधन्वा विचचार दावम् (रघु० २१८) । केवलोपि तत्रारर्थे दृश्यते - वयं हंसाश्चरामेमां पृथिवीं मानसौकसः (भा० ८।४१।१३) । चिञ् चयने इति धातुः प्रेणोपेन वोपसृष्टो वृद्धौ वर्तते, प्रचीयन्तेऽस्य गात्राणि, उपचीयन्ते वा । केवलोपि— चीयते बालिशस्यापि सत्क्षेत्रपतिता कृषिः (मुद्रा० १५) । विपूर्वोऽयं मार्गणेऽन्वेषणे वर्तते विचितश्चैष समन्तात् श्मशानवाटः ( मालती० ५ ) । अन्तरेणापि व्युपसर्गं तमर्थमाह – पुरराष्ट्राणि चिन्वन्तो नैषधं सह मार्यथा ( भा० वन० ६८ । ६) । भज सेवायाम् इति विपूर्वो वण्टने वर्तते– विभजन्ते वायं भ्रातरः । केवलोपि तमर्थमाह– अजाविकं सैकशफं न जातु विषमं भजेत (मन० ६।११६) । उपपूर्वी वसिरुपोषणेऽनशने वर्तते, उपवसति गृही पाप्मानं निर्णुदामीति । केवलोपि तत्रार्थे प्रयोगमवतरन्दृष्टः- अहोरात्रो- षितो भूत्वा पौर्णमास्यां विशेषतः । पञ्चगव्यं पिबेत्प्रातर्ब्रह्मकूर्चविषिः स्मृतः ॥ शुचिः पुरोधास्त्र्यहोषितः स्नात इति च वराहमिहिरसंहितायाम् (४६।१५) । विलग्नशब्दः कृशापरपर्यायो दृष्टः, वेदिविलग्नमध्या (कु०४/४५) । विलग्नमध्यश्च स नाभिदेशे ( भा० वन० ११२।४) । विविरहिसोऽपि – तं प्रादेशमात्रं पृथुबुध्नं मध्ये लग्नं (महावीर) करोति (बौ००६।३) । अयमेवा- स्यार्थ इत्यापस्तम्बतो विजानीमः– महावीरं करोति प्रादेशमात्रमूर्ध्वसानुमुष- रिष्टादासेचनवन्तं मध्ये सन्नतं वायव्यप्रकारमिति । प्रसव इत्यभ्यनुज्ञानमाह, सवोपि – सवं देवस्य सवितुर्जुषाणा (ऋ० ७|३८|४) | देवस्य सवितुः सवे कर्म कृण्वन्तु मानुषाः (अथर्व ० ३।२३।३) । सृज विसर्गे इति विपूर्व उत्पूर्वो वा त्यागे वर्तते, विसृष्ट उत्सृष्टो वा वृषः । वेवलोपि – सृष्टप्राणो भृशतरं तेन चेत्सङ्गमो मम ( भा० सभा० ८०।४७) । सृष्टः = उत्सृष्टः = त्यक्तः । सृष्टिर्मृष्टिर्द्विजाश्चाग्र्याः (मनु० ३।२५५) । सृष्टिरकार्पण्येनान्नादिविसर्ग इति कुल्लूक- भट्टः । यतिः प्रतियत्ने पठितः सम्पूर्वः स्पर्धायां वर्तते, देवाश्चासुराश्च संयत्ता आसन् इत्यत्र यथा । केवलोपि तत्रार्थे दृश्यते - वैश्वानरो यतते सूर्येण (ऋ० (१।६५१) । वैश्वानरः संयतते सूर्येणेति निरुक्तम् । संयतते संगच्छत इति च दुर्गः । यतमानो रश्मिभिः सूर्यस्य ( ऋ० ५/४१४) । इण गतौ धातुरपशब्द- साहित्येनापायमाचष्टे – पथोऽपैति । अपमन्तरेणापि तमर्थं ब्रवीति– न सत्या- दगा इति छान्दोग्योपनिषदि ( ४/४/५ ) । ह्वलति वा एष यो यज्ञादेति (श०ब्रा० ५।१।३।६) । एति = अपैति । अथो हास्य पौर्णमासात्तन्त्रादनितं भवति (शां ब्रा० ११४) । श्रनितमनपेतम् । यत निकारोपस्कारयोर्धातुः । निर्यातनं विशो- धनं भवति वैरस्य ऋणस्य वा । यातनं यातना वाप्युपसर्ग वैधुर्येणापि तमर्थं

उपसर्गाचन्द्रिका

मुक्तसंशयं ब्रूते । अहमस्य करोम्यद्य सदृशीं वैरयातनाम् (भा० शां० १३६ । १८ ) । पन्नगानां सुघोराणां कृत्वा तां वैरयातनाम् । (हरि० ३।५।८) । क्षत्रियं हत्वा गवां सहस्रं वैरयातनार्थम् (आप० ध० १|१४|१) । वैरं पापं तस्य यातनं निर्हरणमित्युज्ज्वलायां हरदत्तः । अयातयित्वा वैराणि ( भा० वन ० ३५।७) । यो न यातयति वैरमल्पसत्वोद्यमः पुमान् (भा० वन० ३५।८) । किरतिर्विक्षेषे पठितः । विपूर्वोऽवपूर्वो वा विक्षिप्तेनार्थेनाच्छादने परिवेष्टने वा वर्तते । रजोभिर्विकिरति अवकिरति वा वाटिकां वातः । केवलोऽपि तत्रार्थे दृष्ट:– किरद्भिरिव तत्रस्थान नागान् पुष्पाम्बुवृष्टिभिः (भा० आदि० २७॥ ७) । दर्भैरर्धावलीढः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा इति शाकुन्तले । जटानां कीर्णया केशैः संहत्या परितः सितैरिति किराते (११।३) । वह प्रापणे इति धातुर्विपूर्व उत्पूर्वी वा परिणयने उपयमने वर्तते, केवलोपि— वधूरियं पतिमिच्छन्त्येति य ई वहाते (ऋ० ११।५।३७) । स्मृतिषु च बहुलम् – वहेत् कन्यां हृद्यां द्वादशवार्षिकीम् । षदॣ विशरणादिष्विति धातुर्निपूर्व उपवेशने आसने वर्तते – उष्णालुः शिशिरे निषीदति तरोर्मूलालवाले शिखी (विक्रम० २।७३) । निषेदुषीमासनबन्धधीर इति च ( रघु ० २।६) । केवलोपि तमर्थमभिधत्ते — अग्ने देवाँ इहावह सादया योनिषु त्रिषु (ऋ०१।१२।३) । हन्तिरुत्पूर्वं उत्क्षेपे प्रसिध्यति, केवलोपि तत्रार्थे दृष्टः – तुरगखुरहतस्तथा हि रेणुः ( शा० ११२७) । परिपूर्व आपॣ व्याप्ताविति धातुः पर्याप्तौ पुष्कलायां वर्तते । केवलोपि —यजेत राजा क्रतुभिर्विविधैराप्तदक्षिणैः (मनु ०७।७६) । भूरिदक्षिणैरित्यर्थः । संस्थाप्य धर्मान् । मर्त्येषु यज्ञैरिष्ट्वाऽऽप्तदक्षिणैः (हरि० २।१०२।३१) | प्लुङ्गताविति धातुविपूर्वी विप्लवे विनाशे वर्तते । कर्णधारा जलधौ विप्लवेतेह नौरिव ( हित० ३।२) । विप्लवेत = विरुद्धां दिशं गच्छेत् नश्येत् । राज्यविप्लव इत्या- दिषु यथा । विशब्दमन्तरेणापि स एवार्थ उदितो भवति – कथं स्वपिति घर्मान्ते बुध्यते चाम्बुदप्लवे (हरि० १।४६।५) | अम्बुदप्लवो मेघनाशः ॥ वेदप्लावी यवाश्यब्दं त्यक्त्वा च शरणागतम् (याज्ञ० ३।२८८ ) । वेदप्लावी वेदस्य भ्रंशयिताऽनध्यायेऽध्येता । रुहिर्बीजजन्मनि पठितः । आङ्पूर्वो हि रुहिराक्रमणे वर्तते – आरोहति पर्वतम् । अन्तराप्याङम् - उत्तरामुत्तरां शाखां समालम्भं रोहेत् (श० ब्रा० ६।३।३।६) । रोहति सप्त स्वर्गाँल्लोकान् य एवं वेद (ऐ०वा० ५।१०) । यजमानाः स्वर्गलोकं रोहन्ति (श० ब्रा० १४।२।१| २) । स्वर्गस्य हैष लोकस्य रोहो यन्निविद् (ऐ० ब्रा० ३।१९ ) । सोपानमार्गो रोहः स्याद् रुहेर्घञ् करणे कृतः (इति पड्गुरु० ) । अवगुण्ठित इति प्रायिकः प्रयोगः । गुण्ठित इत्यवविधुरोपि तेन समानार्थको दृष्टः – भस्मना गुण्ठितः पादो येन मे मूर्ध्नि पातितः (हरि० २०१२१।३२ ) । मुखं ते दृश्यते वत्स

गुष्ठितं रणरेणुना ( भा० द्रोण० ७८१३) । हरतिः प्रापणे पठित उपपूर्वः समर्पणे करादिदाने दृष्टः । बलीनुपहरन्ति प्रजाः प्रजेशाय । नानाप्युपशब्द तत्रार्थेऽवतरन्दृष्टः प्रथो त इन्द्रः केवलीविशो बलिहूतस्करत् (बलीनां प्रदात्रीः) (ऋ०१०।१७३।६) । हरन्त्यस्मै विशो बलिम् (तं० ब्रा० २।७।१८।३) । उत्पूर्वं उन्नयने उत्थापन उद्ग्रहणे वा वर्तते - उद्धृत्य दक्षिण बाहुम् । विनाप्युदं तमर्थ निर्बाधमाचष्टे । तस्मादयं पशुरक्ष्णया पदो हरति (श० ब्रा० ३२८।३।२७) । प्रपूर्वः करोति क्रियारम्भे वर्तते - वाचि शिक्षमाणस्य प्रथम- वैयाकरणस्य साचिव्यं किमपि चिकीर्षामीति वाक्यमुक्तावलीं प्रकृतोऽस्मि (मत्कृती वाक्य- मुक्तावल्याम् ) । प्रशब्दात्पृथगपि केवलः करोतिस्तत्रार्थे दृष्टः प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम् ( रा० २।६।१०) । प्रपूर्वस्य सम्पूर्वस्य वा चरतेर्योर्थ स्तं केवलोपि चरति राचष्टे प्रतिवादोपि ते देवि महाँल्लोके चरिष्यति (रा० २।३५।३० ) । पत्लृ गताविति धातुरुत्पूर्व उड्डयने प्रसिद्ध: विनाप्युदं तमर्थमाह - प्रग्निः पक्षी भवति । नापक्षः पतितुमर्हति ( तै० सं०५।२।५।१) । श्रपि शक्या गतिर्ज्ञातुं पततां के पतत्त्रिरणाम् इति कौटलीयेऽर्थशास्त्रे (राह २७) । पतन्निति पक्षिपर्यायः – पतत्त्रिपत्रिपतगपतत्पत्ररथाण्डजा इत्यमरः । यातानि परराष्ट्राणि नृपा भुक्ताश्च दासवत् ( भा० शल्य० ६४।२२) । यातान्यभियातानीत्यर्थः । यातव्याय प्रहिणुयाद् वृतम् इति कामन्दके (१२।१) । यात व्यशब्दोऽभियात व्यशब्देन समानाभिधेयः । प्रपूर्व इष गतौ दिवादिर्ण्यन्तो विसर्जने प्रस्थापने वर्तते, प्रेषयति दूतं नृपः । केवलोपि तत्रैवार्थ प्रयोग- मवतरति — देवाः कपोत इषितो यदिच्छन्दूतो निर्ऋत्या इदभाजगाम (ऋ० १०।१६५।१) । गत्यर्थकः पद्यतिर्विपूर्वोऽवपूर्वो वा मरणे दृष्टः केवलोपि - भरन्नग्नि पुरीष्यं मा पाद्यायुषः पुरा ( वा० सं० ११।४६ ) । सो ग्रन्ते वृषलः पपाद (ऋ० १०।३४।११) । महान्बत नो वीरोऽपादि इति च शतपथे (१४|१|१|१० ) । श्रवपूर्वः पतने वर्तते ये गर्भा श्रवपद्यन्ते (अथर्व०५।१७।७) । अत्रा कर्तमवपदात्यप्रम : (ऋ०६।७३।६) । केवलोपि यदा वै पशोदन्ताः पखन्ते (पेदिरे अपत्सत) इति (ऐ० ब्रा०७।१४ ) । उत्पूर्वी नयतिरुन्नयने उद्धरणे वर्तते, केवलापि - यथा नयत्यसृक्पातैर्मृगस्य मृगयुः पदम् । नयेत्तथानुमानेन इति भृगुप्रोक्तायां मनुसंहितायाम् (८।४४) । नारदीय मनुसंहितायामपि स्मर्यते– यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत् । कक्षे शोणितलेशेन तथा धर्मपदं नयेत् (१।३२ ) ॥ पदानि नयत्युन्नयतीति पदनीः । नवनीतं नवोद्धृतम् इत्यमरः । नमिः प्रहृत्वे शब्दे च पठितः परिपूर्वः परिवृत्तौ वर्तते केवलोषि- ऋकाररकार- बकारा नकारं समानपदेऽवगृह्यं नमन्ति ( = नमयन्ति ) इत्यृक्प्रातिशाख्ये ( ५।२० ) । नमयन्ति दन्त्यं मूर्धन्यं कुर्वन्तीति नामिन इत्युक्प्रातिशाख्ये उवटः

1

उपसर्गायंचन्द्रिका

(१।१७) । उत्पूर्व ईरयतिरुच्चारणे वर्तते, उदीरितोऽर्थः पशुनापि गृह्यत इत्यत्र यथा । विनाप्युदं तदर्थको दृष्टः- निबोध चेमां गिरमीरितां मया (सावि० ५।२३) । इतीरयन्तीव तथा निरंक्षि (नैषध० १४।२१) । ईर्यमाणेन सततं सर्वतः (भा० वन० २३ २ ) । धृतराष्ट्रस्य पुत्रेण श्रुत्वा वचनमीरितम् ब्रह्मघोषेण ( भा० आदि० १४२।५ ) । ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ ईररणा व्यपदेशः । प्रपूर्वकः स्थापयतिविसर्जने प्रेरणे वर्तते प्रस्थापयति दूतं नृपः । केवलोपि - अमिराममहं रामं स्थापयिष्यामि दण्डकान् ( रा० २।१३।१०) । प्रतिपूर्वो हन्तिः प्रतिरोधे वर्तते - प्रतिहन्यतेऽस्य दुर्मेधसो गतिर्व्याकरणे । केवलोपि यदचिन्त्यं तु तद् देवं भूतेष्वपि न हन्यते ( रा० २।२०१२० ) । अभिपूर्वो हन्तिस्ताडने वर्तते । ततः शङ्खाश्च भेर्यश्च सहसैवाभ्यहन्यन्त ( गीता० १।१३) । श्रन्तरेणाप्यभि तत्रार्थे प्रवर्तते — त्रिः सामा हन्यतामेषा दुन्दुभिः शत्रुभीषरणा (भा० वन० २०१

१० ) । दर्शने वर्तमानो दशतिः सम्पूर्वः प्रायेण बन्धने वर्तते, सन्दंशः, सन्वष्टजिह्व इत्यत्र यथा । विनाप्युपसर्ग समं तत्रार्थे दृष्टः- दंशितो व्यूढकङ्कट इत्यमरः । दंशितो बद्धकवच इत्यर्थः । भिदिर् विदारणे पटितः सम्पूर्वः संयोजने वर्तते - गङ्गायमुनयोः सम्भेदः । केवलोपि तत्रार्थे दृश्यते श्रङ्गुष्ठनखांशुभिन्नया… अच्छस्पटिकाक्षमालयेति माघे (१) । भिन्नेषु रत्न किरणः किरणेष्विवेन्दोः (४।४६) । इति च सः । पुष्पोच्चयः पल्लव भङ्ग भिन्न इति च कुमारे (३।६१) । प्रपूर्वी युजिर्व्यवहारे रूढः प्रयुङ्क्ते शब्दान् । केवलोपि— प्रशस्ते कर्मरिण यथा सच्छन्दः पार्थ युज्यते ( व्यवह्रियते ) इति गीतासु ( १७।२६) । तस्मादनुष्टु जया मुख्या युज्यते सर्वेषां सदनानाम् (ऐ० ब्रा० ३ । १३) प्रयुज्यत इत्यर्थः । दो श्रवखण्डने इति सम्पूर्वो बन्धने दृष्टः सन्दितचररण इत्यत्र यथा । ग्रन्तरेणापीममु- पसर्गं बन्धनमर्थमाह निरवग्रहम्-दामेति दोहनकाले पशुबन्धनरज्ज्वां वर्तते । दीयते बध्यतेऽनेनेति व्युत्पत्तेः । धाताब्जयोनिर्द्ध हिरण इत्यमरे धातेति विधातारमाह । वेरर्थो धातुनैवोक्तः, उपसर्गारिणां द्योतकत्वाद् इत्यमरोद्घाटने स्वामी। प्रति- पूर्वः शृणोतिः प्रतिज्ञाने वर्तते । विप्राय गां प्रतिशृणोति । केवलोपि तत्रार्थे दृष्टः - तदवश्यं त्वया कार्यं तदनेन श्रुतं मम ( रा० २।१८।२१) । श्रविजी भय- चलनयोरिति तुदादिषु पठितः । प्रायेणायमुपूर्वक सम्मानाद् ब्राह्मणो नित्य- मुद्विजेत विषादिव (मनु० २।१६२ ) । परं विनाप्युदं प्रयुज्यते श्रायुधेम्यो ह स्मास्य विजमानः पराङेवैति (ऐ० वा०७।१६ ) । काश्चित्सवत्सा गात्रः पतिताः शीकरवेजिताः (हरि०२।१८।२३) । शिल्पकार्य उभयेन वेजिताः (रघु०१६।३५) । श्री रक्षांसि सेधति शुक्रशोचिरमर्त्यः (ऋ० १।७६।१२) । सेधति = अपसेधति, उत्सारयति । दूरं गमयति । अनन्तरत्नान्यादाय स जहार महाक्रतुम् (भा० आदि०.

1उपसर्गार्थचन्द्रिका

१२१।१६ ) । जहार = श्राजहार । श्राङ् द्योतकस्त्यक्तः । वाचकश्चेत् स्यान्न त्यज्येत । उपपूर्वो हरतिः प्राभृतीकरणे वर्तते । विनाप्युपशब्दं तमर्थमाह- आजग्मुः खाण्डवप्रस्थमादाय हरणं बहु ( भा० श्रादि० २२१।३३) । बहु हरणमुपहारजातम्, श्रपहारिकम् । दिश प्रतिसर्जन इति धातुः । श्रयमुच्चा- रणक्रियोप भाष्यकारवचनात्। उच्चारणक्रियां तूपादय उपसर्गा द्योतयन्ति । तेन मनोवाक्कर्मभिः शुद्धा पतिवेशानुवर्तनी (शुक्र० ४।१२ ) इत्यत्रादेशार्थे देशशब्द उपपन्नो भवत्याङा द्योतकेन विसंयुक्तोपि । सृज विसर्ग इत्यनेकार्थोऽयं धातुः प्रयोगेषु तथा दर्शनात् । त्यागार्थस्य द्योतनाय प्रायेण विपूर्व उत्पूर्वी वाऽयं प्रयुज्यते । विनापि व्युदौ। तथा च भारते प्रयोगः सगं मूत्रपुरीषयोः ( मा० अनु० १६२।३५) । कालपर्यय इति कालात्ययः कालपरिवासो भवति । कालविपर्ययश्च कालवैपरीत्यं समयप्रातिकूल्यम् । विशब्दोऽधिको वैपरीत्यं द्योत- यति । विना विनापि तदर्थगतेः । पश्य कालस्य पर्ययम् (भा० श्राश्रम० ११। १२ ) इत्यत्र यथा । धृतराष्ट्रः परीतात्मा धर्मं त्यजति शाश्वतम् (भा० प्रादि० १४१।६) । श्रपि बोद्बन्धनादीनि परीतानि व्यवस्यति (भा० प्राश्व०१७।१३) । इत्यत्र च विपरीत्यस्य द्योतकः । केवलस्य सारयतेः प्रसारणमप्यर्थः, प्रशब्दः प्रयुज्यमानस्तदर्थस्य द्योतकः । अत एव यदा सारणिकान्राजा पुत्रवत् परि- रक्षति ( भा० शां०६१।३६) । इत्यत्र सारणिकानित्युपपद्यते प्रयोगः । प्रसारिणी- प्रधानान् वरिणज इति तदर्थ इति नीलकण्ठः । वह मर्षण इति धातुरनेकार्थः शक्तयत्साहाभिभवेषु वर्तते । प्रशब्दसाहाय्येनाभिभवमाह । श्रन्तरेणापि प्रशब्द तमर्थमाह । उपसर्गाणां द्योतकत्वात् । तथा च शौनकसंहितायामाम्नायते -सह- स्व नो श्रभिमाति सहस्व पृतनायतः (अथर्व० १६।३२।६) । सहस्व प्रसहस्व । दु गताविति धातुर्गतिसामान्ये पठितस्तास्ताः क्रियाः स्यन्दनादिका ब्रवीत्यु- पसगं सहकारेण, केवलोपि । प्रद्रवतिः पलायने प्रसिध्यति, केवलोऽपि । प्रशब्दो द्योतकः । द्रवतां ननु पृष्ठमीक्षते द्रवतां सोपि न जातु विद्विषाम् (शिशु० १६। ६०) । द्रवतां प्रद्रवताम्। षु प्रसवैश्वर्ययोरिति प्रपूर्वः प्रसवेऽभ्यनुज्ञाने वर्तते, केवलोपि । प्रशब्दो द्योतकः । तद्यथा-सवं देवस्य सवितुर्जुषारणा ( ऋ० ७३८ ४) । सविताऽसि सत्यसवः ( तै० सं० ११८ १६ ) । सत्याभ्यनुज्ञ इत्यर्थं इति भट्टभास्करः । श्रय गताविति निःपूर्वो निष्क्रमणे वर्तते केवलोपि । आस्याद यदयते ( छा० उ० ११२।१२ ) । श्रयते निरयते निष्क्रामति । नानुरूपमहं मन्ये त्वयि जीवति कौरव द्रोणे चास्त्रविदां श्रेष्ठ सपुत्र ससुहृज्जने । कृपे चैव महेष्वासे द्रवते यद् विरूथिनी (भा० भीष्म ०५८।२४-२५) । श्रलं तेन वः शूराः ( भा० द्रोण० १६।१८ ) । उभयत्र विशब्दः प्रशब्दो वा द्योतकस्त्यक्तः । द्रुतेन विद्रुतेन तेन पलायनेनेत्यर्थः । धारणपोषणयोः पठितो धाञ विपूर्वः क्रियायां

|

बर्तते, सत्यधिके प्रतिशब्दे च प्रतिक्रियायाम् । परमसत्यपि तस्मिस्तमर्थमाह- ततस्तेषां विधातव्यं सर्वमेवाप्रमादतः (भा० शां० ८६।२२ ) । सर्व ( चिकी- षितं) प्रतिविधातव्यमित्यर्थः । गम्लृ गताविति गतिसामान्ये पटितो गमिरनु- साहचर्येणानुसरणमाह, विनाप्यनुं तमर्थमाचष्टे । अनुद्यतिकः । त्रियते यदि कुष्ठेन पुनर्जातेपि गच्छति (सुश्रुते निदान० ५।२४) । तिष्ठतिरनुना सहकृत श्राचरणे वर्तते, अननुरपि । सर्वभूतहितं तिष्ठ धर्म चैव प्रतिस्मरन् । (भा० शां० १५१।१६) । अनुद्यतकः । न संवत्सरसवारि तिष्ठ युरकुतोभयाः ( भा० शां० १५।३९ ) । इत्यत्रापि तथा । क्रमिः प्रारम्भादिष्वर्थेषु वर्तमान उपादीनपेक्षते न चापेक्षते । तस्मात्त उपादयो द्योतकाः । श्रा गर्भोच्छेदना- त्कान्तस्तवा मां मन्युराविशत् (भा० आदि० १८०१६ ) | क्रान्त उपक्रान्तः । प्रतिपूर्वो गमिर्लङ्घने प्रसिद्धः केवलोपि । कमुपादाय शवयेयं गन्तुं कष्टा- पत्तमा (भा० आदि० २३०।११) । गन्तुमतिगन्तुमित्यर्थः । तेनातिद्यतकः । प्रणिपातेऽर्थे उपसङ्ग्रहणशब्दः प्रसिध्यति, केवलोपि ग्रहणशब्दः । उपसमी द्योतकी । तयोर्जगृहतुः पादौ राजा राज्ञी च मागधी (रघु० १।५७) । चरतिर्गतिभक्षरणयोः पठितो विपूर्वी विहरणे भ्रमणे वा वर्तते, विनापि वि तत्रार्थे दृष्टः- शर्यातो ह वा इदं ग्रामेण चचार (श० ब्रा० ४|१|५|२) । चचार

हवा लोकान् विप्रषः प्रेक्षमाणो मनोजवः (भा० शां० २६१।४ ) । कान्तैर्वनान्त- पवनैः परिस्पृश्यमानः शक्नश्चरेद् भवनकाननदीर्घिकासु (सुश्रुते उत्तर० ४७। ३७) । तस्माद्विद्यतकः । विशरणगत्यवसादनेषु पठितः सदिरुच्छब्द सहकारेण विशररणमाह, केवलोपि । श्रत्यर्थं पुनरुत्सर्गः सादयेद् दैवतानपि (भा० उ० ३६| ५३) । सादयेद् उत्सादयेत् । उत्सर्गों विषयेष्वनिरुद्धं प्रवर्तनमिति नीलकण्ठः । ब्राह्मणानां परिक्लेशो देवतान्यपि सादयेत् (भा० वन० २।४) । अत्रापि तथा । ऊह वितर्क इति समुपसर्गेण सहायेन समूहमाचष्टे, केवलोपि । श्रक्षादूहिन्याम् इति वार्तिकम् । श्रमाणामूहिनी अक्षौहिणी । ऊहः समूहः । मन ज्ञाने इत्यनुपूर्वो ऽभ्युपगमे वर्ततेऽननुपूर्वोपि । ते वयं साधु पञ्चालान् गच्छाम यदि मन्यसे (भा० आदि० १६८ । ६) । तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव (भा० वन० ७७।

१७) । अनुद्यतकः । सम्पूर्वः ससुट्कः करोतिभूषणे प्रसिद्धः केवलोपि तत्रार्थे दृष्टः । करोतिः सर्वधात्वर्थानुवादीति मतम् । तेन समो भूषरणार्थस्य द्योतकता प्रसिध्यतितराम् । इदम त्रोदाहरणम् — केशाञ्जानाम्यहं कर्तुम् (भा० वि० ६।१८ ) । कतु भूषयितुं प्रसाधयितुम् । परिपूर्णतार्थे श्रापिः परिशब्दम- `पेक्षते द्योतकं न चापेक्षते । उभयथा प्रयोगा लक्ष्यन्ते । न्यूनस्याप्त्या प्रतिरिक्त- स्यानतिरिक्त्यै व्यृद्धस्य समृद्धचं (श० ब्रा० ६५ २ १) । जानातिर्ज्ञानसामा- न्ये वर्तते । अभिपूर्वः प्रत्यभिपूर्वश्चायं स्मरणे स्मरणपूर्वकेऽवबोधने वा वर्तते

१०

  • प्रभिजानासि देवदत्त कश्मीरेषु वत्स्यामः (पा० ३।२।११२ सूत्रवृत्ती) नूपुरे त्वभिजानामि (रा० ४।६।२३) | सप्रत्यभिज्ञमिव मामवलोक्य (मालती० ११२७) । केवलोपि तत्रार्थ :- तां हायं ज्ञात्वाभिपरोवाद (श० ब्रा० ११।५।१।६) । उपसर्गा द्योतका इति । श्रनुपूर्वश्चैषोऽनुमतो वर्तते धनु- जानीहि मां गमनाय । ग्रन्तरेणाप्यनुं तमर्थमाचष्टे तद्वा जज्ञौ तद्वा न जज्ञौ (श० ब्रा० १२८/११८) । अनुजज्ञावित्यर्थः । ततो देवा न जज्ञः । त ऋतवो देवेष्वजानत्स्वसुरानुपावर्तन्त (श० ग्रा० १।६।१।२) । अत्र जानातेरनुजानातेश्च समानेऽर्थे प्रयोग उक्तमर्थमुपोवलयति । प्रपूर्वो वृतिः प्रवाहे वर्तते । प्रेरण विनापि तत्र दृष्टः । तेन प्रशब्दो द्योतको न वाचकः । श्रश्रूणि कृपमागस्य यानि जीतस्य वावृतुः (अथर्व ० ५।१६।१३) । वावृतुः प्रववृतिरे प्रवहन्ति स्म । तमसा सोमविक्रयि- रणमर्पयति ( तै० सं० ६| १ | १०|४) । यं द्विष्यात्तं ध्यायेत् शुचैवैनमर्पयति ( तै० सं० ६।२।७) । उभयत्र संयुनक्तीत्यर्थः । स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद्भुवि नो विदीर्यते । श्रनेन दुःखेन च देहमर्पितं ध्रुवं ह्यकाले मरणं न विद्यते ( रा०२/२०१५१) ॥ अर्पितं समर्पितं संगतम् । सम्पूर्वः क्रामतिः प्रदेशान्तरसञ्चरणे वर्तते । पुत्रसङ्क्रान्तलक्ष्मीकः ( उत्तर० १।२२ ) । विनापि समं तत्रार्थे दृष्टः- दायादान्न च रिक्थवत्कवचन भोः शौर्यक्रिया क्रामति (बा० रा० ८। २८) । व्यक्तं सम् द्योतकः । सदिर्नानार्थ इत्युक्तचरम् । अवसादनेऽर्थेऽवम- पेक्षते न चापेक्षते । तथा च वाजसनेयिनः पठन्ति – जहामि सेमिनि राममी- वाम ( वा० सं० १२ १०५) । असंशयमवो द्योतकः । गतिसामान्ये पठितः सरतिरपपूर्वोऽपसर्पणे विदूरगमने पलायने वा वर्तते, वर्जयित्वाप्यपं तत्रार्थे दृष्टः न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु च । यत्र यातान्न नो हन्युः पाण्डवा: कि सूतेन बः (भा० ) । शंसु स्तुतौ इति धातुरनुपसृष्टः प्रायेण कथने कीर्तने वर्तते । स्तुत्यर्थस्य द्योतनाय प्रशब्दमपेक्षते । प्रशंसा प्रशस्तिरित्यादिषु तदर्थस्य प्रसिद्धेः । परं प्रवर्जमपि स्तुत्यर्थे प्रवृत्तिर्बहुला -दरिद्रं पातक’ लोके न तच्छंसितुमर्हति (भा० शां ८ । १४) । क्रुश आह्वाने रोदने चेति भ्रातुः । आङ्पूर्व उपपूर्वो वाऽयमपवादेऽभिशापेऽपभाषणे वा वर्तते । श्राक्रुष्टः कुशलं वदेत् (मनु०

६।४८ ) । प्राणैः किमुपक्रोशमलीमसर्वा (रघु० २।५३) । केवलोपि तमर्थमाह- दीर्घसूत्रोऽनृजुः क्रुष्टः (भा० शां० १६८।७) । व्यक्तमुपाङी द्योतकी । दिश अतिसर्जने आङ्पूर्व आज्ञापने वर्तते । विनाप्याऊं तत्रार्थे प्रयोगमवतरति । दिदेश । तान्यनीकानि प्रयाणाय महीपतिः (भा० उ० १६६।६ ) । ब्राङ तत्र तात्पर्यग्राहकः । अज्जूरिति व्यक्तिम्रक्षणकान्तिगतिषु पठितः । व्यक्त्यर्थ- व्यक्तये विशब्दमपेक्षते द्योतक न चापेक्षते - पुरुदस्मो विषुरूप इन्दुर्महिमानमा- नज धीरः ( वा० सं० ८३० ) । श्रानञ्ज व्यानञ्ज । सदित्याद्यर्थक :

११

प्रसिद्धः । गत्यर्थावगमनाय निशब्दमपेक्षते न चापेक्षते । यद् गुरु तम्निषीदति । अधोगच्छतीत्यर्थ: । निशब्दपरिहारेणापि स एवार्थ:- दुर्योधने चापि विवर्ध- माने कथं न सीदत्यवनिः सशैला ( भा० ) । पङ्के गौरिव सीवतीति हितोप- देशे च । षिध गत्याम् इति भूवादिषु पठ्यतेऽपपूर्वोऽपाकरणे वर्तते, केवलोपि— अपसेधन्रक्षसो यातुधानान् (ऋ० १।३५।१०) । ते सेधन्ति पथो बुकसू (ऋ० १।१०५।११ ) । सेधन्ति = अपसेधन्ति । निकृष्टसंनिकृष्टशब्दयोः समानार्थत्वे बाढ सम्शब्दः सामीप्यस्य द्योतकः । भवति च निकृष्टशब्दस्य संनिकृष्टशब्द- स्यार्थे प्रयोगः - निकृष्टयुद्धं संसक्त महदासीत्सुदारुणम् (भा० द्रोण० १८७ | १५) । निकृष्टयोः संनिकृष्टयोर्युद्धं निकृष्टयुद्धम् । वैमत्ये विप्रलापे वाऽर्थे विपूर्वस्य वदेः प्रसिध्यति प्रयोगः । अन्तरेणापि विशब्दम्-प्रथातो मनसश्चैव वाचश्च ग्रहम्भद्र उदितम्। मनश्च ह वै वाक् चाहम्भद्र कहाते (श० ब्रा०

१।४।५।८) । व्यक्तं विशब्दों द्योतकः । श्राङपूर्व इण् आगमनेर्थे वर्तते । आई विनापि यथा ह वा इतं पितरं प्रोषिवांसं पुत्राः प्रत्यागच्छन्ति (आप० श्र० ६।७।२५।४) । इतम् = आगतम् । आङ द्योतक इति परित्यक्तः । श्रव- पूर्वस्त रति रवगाहने वर्तते । नदीमवतीर्णः नदीमवगाढः । प्रवेनानुपसृष्टोपि । उपस्पृश्य नदीं तरेत् (भा० शां० १६३।४) । अवतरेदित्यर्थः । प्लुङ् गतावित्याङ - पूर्वः सर्वतो गतौ व्याप्तौ प्रपूरणे वा वर्तते रुधिराप्लुत इत्यादी यथा । ग्राङ्- वर्जितो पि तमर्थमाह– ततो जाम्बुनदीः पात्रीः प्रादान्मधुघृतप्लुताः (भा० शां० १७१।१७) । आङ् द्योतक इति त्यक्तः । नानाशनः स्यान्न महाशनः स्यादलो- लुपः साधुभिरागतः स्यात् ( भा० शां० २६६/२६) । श्रागतः समागतः सङ्गतः । सम्शब्दः साहचर्यस्य द्योतक इति परिहृतः । वहतिः प्रापणे प्रसिध्यति । निर्व इतिश्चान्तगमने समापने । निःशब्दमन्तरेणापि वहतिस्तत्रार्थे दृष्टः- तत्र सर्वात्मना युक्तो दक्ष्ये कार्य परन्तप ( भा० क० ३५।४२ ) । निर्वक्ष्य इत्यर्थः । गतिज्ञानप्राप्तयो गमेरर्थाः । ज्ञानार्थावगमनाय गमिरवमुपसर्गमपेक्षते द्योतकम् । तत्तदेवावगच्छ त्वं मम तेजोंशसंभवम् (गीता १०।४१) । श्रवमन्तरेणापि ज्ञानार्थं गमयति- नावां दोषेण गन्तव्यौ ( भा० अनु० ११६५ ) । दोषेण युक्तौ नावगन्तव्यावित्यर्थः । यथा त्वां पुरुषव्याघ्र ] लोको दोषेण गच्छति ( भा० आदि० २०३।१५) । मा वासवं मा च गुरुमात्मानं मा वपुष्टमा दोषेण कालो हि सर्वथा दुरतिक्रमः (हरि० ३।५।३५) ॥ इङ गताविति धातुरवपूर्वस्तुषारपतने वर्ततेऽवश्यायत इति । अवं वर्जयित्वापि तत्रार्थे प्रवृत्तो दृश्यते - स यवैतयोर्बलिष्ठं श्यायति (श० ब्रा० ४ | ३ |१| १९ ) । एतयोर्मासयोर्भूयानवश्यायः पततीत्यर्थः ।

। गच्छ

उक्तोऽर्थः ।

अलं पल्लवितेन । एतावता प्रसिद्धि गतानेकार्थता धातूनां तदनुषक्ता च

१२

द्योतको सरणम् । अनेकार्थेषु धातुष्वेकस्य कस्यचिदर्थस्य तात्पर्यग्राहकत्व- मेव द्योतकत्वमिति तद्विदः । तेन तत्रैवोपसर्गाणां द्योतकत्वमुपेयतां कामम् । न वयं विरुन्धमः । न च सर्वे धातवोऽनेकार्था इत्यकामेनापि वाचकतोपसर्गाणा- मभ्युपेया । न वयं प्रयोगेष्वनेकार्थतामुपलभामहे । ब्रूञ व्यक्तायां वाचि, मंत्रि गुप्तपरिभाषणे, मृङ प्राणपरित्यागे, मन ज्ञाने, मनु अवबोधने, चुर स्तेये, डुक्रीञ् द्रव्यविनिमये, मुष स्तेये, बन्ध बन्धने, हिसि हिंसायाम्, मन्थ विलोडने, अश भोजने, पा पाने, पुष पुष्टौ ज्ञा श्रवबोधने, तुद व्यथने इत्यादयः शतशो धातवः केवला उपसर्गे रसम्पृक्ता न जात्वनेकार्थका दृष्टाः । यच्च भगवन्तो भाष्यकारा ग्राहु: - तिष्ठतिरेव व्रजिक्रियामाह तिष्ठतिरेव च व्रजिक्रियाया निवृत्तिम् इति । तत्रोच्यते इदं नाम सर्वे सर्वार्थवाचका इतिवत्प्रत्यग्शां भगवती तेषां प्रत्यक्षं स्यान्नास्मादृशामवग्दृशाम् । वयं तु प्रयोगेषु क्वचनापि केवलं तिष्ठति गत्यर्थमाचक्षाणं नेक्षामहे ।

यद्युच्येत प्रब्राह्मण एष यस्तिष्ठन् मूत्रयतीत्यत्र तिष्ठतिर्गतिमाचष्ट इति तदसत् । ऊर्ध्वस्थितिरेव विवक्ष्यते न स्थानान्तरसंक्रमः, तद्रूपा च गतिर्गति- निवृत्ताविति धात्वर्थेभिसंहिता । अन्यथा तिष्ठन्ति पर्वता इत्यत्रापि गतिः प्रतीयेत ।

यच्च काशिकायां वेः पादविहरणे इति सूत्रे धात्वर्थनिर्देशाद् धातूनामने- कार्थकत्वमुन्नीतं तदपि दुरुन्नयम् । न हि पादविहरणं पादविक्षेपमात्रं भवति, किन्तु अश्वादीनां गतिविशेषो विक्रमरणम् । तस्यार्थस्य विपूर्वे कमी दर्शनात् केवले चादर्शनादन्वयव्यतिरेकाभ्यां यदत्र गतौ वैशिष्टयं तदुपसर्गस्यैव वाच्यं न धात्वर्थः ।

वाचका श्रप्युपसर्गा भवन्ति ।

एवमनेकार्थतायां धातूनां विघटितायां सोपसर्गकारणां चानेकार्थतायामुप- लभ्यमानायामुपसर्गाणां वाचकताऽर्थादापद्यते। सेयं वाचकता नास्माभिरुपज्ञायते । पूर्वेऽपीमां शब्दतोऽर्थतश्च प्रतिपेदिरे । आह भगवान् यास्काचार्य: – उच्चावचाः पदार्था भवन्तीति गार्ग्यः । तद्य एषु पदार्थः प्राहुरिमे तं नामाख्यातयोरर्थवि- कररणम् इति । उपसर्गो विशेषकृदिति ऋक्प्रातिशाख्यकारः शौनको भगवान्भाष्य- कारश्च । अधिरुपरि वर्तते इति च भूवादयो धातव इति सूत्रे भाष्यमपि कण्ठ- रवेणोपसर्गाणामर्थवत्तामूरी कुरुते ।

धातूपसर्गयोर्नेकविधः सम्बन्धः । क्वचिद् विशेषणविशेष्यभावः क्वचिच्च बाध्यबाधकभावः । केवलस्योपसर्गस्य वाक्ये स्वातन्त्र्येण प्रयोगो नेशि न तावत तस्य वाचकता विहन्यते । यथा प्रत्ययस्य कर्मादिकारकसख्याकालादीनां वाच-

१३

कत्वेपि पृथक् प्रयोगो नास्ति प्रत्ययो वाचकत्वेपि केवलो न प्रयुज्यत इति हर्युक्तेः, प्रत्ययस्य प्रकृत्यर्थान्वितस्वार्थाभिधायित्वनियमाच्च तथैवोपसर्गा अनिबंद्धास्त तमर्थं मा स्म वोचन् धातुतः प्राक् प्रयुक्तास्ते ब्रुवीरन्नित्यभ्युपगमः कुतो न स्यात् । तेन प्रादीनां वाचकत्वे भूयान्प्रकर्षः कीदृशो निश्चय इतिवद् भूयान्त्रः कीदृशो निरित्यपि स्यादिति चोद्यमचोद्यम् ।

स न मन्येतोपसर्गाणां वाचकत्वे अनु भू इत्यादौ भवतेः क्रियावाचित्वा- भावाद् धातुत्वं न स्यात्, अकर्मकत्वाच्च कर्मरिण लकारो न स्यादिति । न वयं ब्रम उपसर्गाः क्रियाया वाचका इति, किन्तहि विशेषस्य धातुवाच्यायां क्रिया- यामाधेयस्य वाचकाः, तेनैव च विशेषेण सकर्मकत्वापादकः इति सुतरामुपपद्यते कर्मणि लकारोत्पत्तिः । भवतेश्च सत्तकार्थत्वात्किन्नामोपसर्गेणानुना द्योत्येत । अनुः प्रायेण व्याप्तिमाह । व्याप्य विषयान् इन्द्रियाणां भवनमेवानुभव इत्यनुः सार्थक: ।

भू सत्तायाम् इति सत्तायां पठितो भवतिर्नार्थान्तरे क्वचिद् दृष्टः । श्रनुपूर्व- श्चेदयं लक्षणयाऽनुभवार्थमाचक्षीत, अनुनोपसर्गेण तत्र किं क्रियते ? अनेकार्थ- तायां सत्यामेव तात्पर्यं ग्राहक तोपपत्तिरुपसर्गारिणाम्, सैव च द्योतकतेति सम्प्रति- पन्नोऽर्थः ।

धात्वर्थं बाधते कश्चिदित्यभियुक्तोक्तिः । बाघो नाम धात्वन्तहितस्यार्थस्योद्- भावनं द्योतनं वेति न शक्यमास्थातुम् । विरोधात् । यद्युपसर्गारणां स्वकः कश्चि- दर्थो न स्यात्तदा केन सामथ्यन ते तं सर्वत्र प्रसिध्यन्तं धात्वर्थं बाधेरन् । पुराणका रोप्यर्थबाधमनुमनुते यदाह-

प्रकाशितायोधनसौष्ठवोऽथ मायासुरोऽन्यविपक्षलोकम् ।

विरुद्ध एकोऽधिरणं बबाधे प्रसह्य धात्वर्थमिवोपसर्गः ॥ ( दुर्गा० ४८ /६१ ) मितेन सन्दर्भेरणायमर्थबाधो निबध्यते

L

श्रमु तपसि खेदे चेति पठितो धातुः । विपूर्वस्तु खेदाभावे कार्यविराम- जनिते क्लमविनोदे वर्तते । श्रव्यवहितायां भूमौ विश्राम्यति सुखं श्रमी । तिष्ठ- तिर्गतिनिवृत्तौ पठितः, प्रपूर्वस्तु प्रयाणे गमनोपक्रमे दृश्यते— प्रतिष्ठते चैत्रः स्वगृहानिति । सम्पूर्वोऽयं परिसमाप्ती मरणे च प्रयुज्यते । सन्तिष्ठते यज्ञः । नियतमायुः प्राणिनामिति न कश्चिदकाले सन्तिष्ठते । सोऽयमर्थबाधः । प्रया- रणस्य परिसमाप्ते मरणस्य च स्थितिविरोधात् । ईक्षतिदर्शने पठितः, उपपूर्व- स्त्वदर्शने दर्शन परिहारे वा वर्तते - तदल्पमपि नोपेक्ष्यं दुष्टं काव्ये कदाचनेति काव्यादर्श । भिदिर् विदारणे दो अवखण्डने दंश दशने, दान खण्डने इत्येवं पठिता भिदिद्यतिदशतिदानयतयः समुपसृष्टाः संयोजने संगमने वर्तन्ते । श्रय- मप्यर्थबाधः । सम्भेदो गङ्गायमुनयोः । हर्षोद्वेगसम्भेदः । सम्मिन्नसर्वाङ्गः

1

१४

कूर्मः ( संहृतसर्वावयव इत्यर्थः) । सम्भिन्नबुद्धिः सम्मिश्रित बुद्धिर्नास्तिक इति यावत् । सं. परमान्त्समवमानयो सं द्यामि मध्यमान् इत्यथर्वसं- हितायाम् ( ६।१०३।२ ) । शृङ्खलासन्दितचररणः । सन्वंशः । सन्दष्ट जिह्नः । सन्वष्ट वस्त्रेष्त्रबला नितम्बेध्विति रघौ (१६।६५) । शृङ्खलासन्दानिताङ्घ्रिः । सन्दानिनी ( गोष्ठमित्यर्थः ) इति क्रमेणोदाहरणानि । रमिः क्रीडायां पठितः, व्युपसृष्टस्तु क्रियामात्रनिवृत्ती प्रयुज्यते — विरमति क्रीडाया इति । उपपूर्वोऽयं निधनेपि वर्तते । निधनं सर्वचेष्टाऽभावपर्यायः । उपरतो महात्मेति तमशोच्यमपि शोचन्त्यर्थाथिनो लोकाः । अस्यतिः क्षेपणे पठितः । निपूर्वस्तु निक्षेपे निधाने वर्तते । प्रवत्स्यन्निक्षिपति धनं वरिणजि । स्मरतिश्चिन्तायां पठितः प्रपूर्वो विपूर्वश्च तद्विपर्यये दृष्टः । प्रस्मरतिविस्मरणार्थ इति काव्या- लङ्कारसूत्रवृत्तौ वामनः । लषतिरिच्छायां पठितः । श्रपपूर्वस्त्वनिच्छायाम्- प्रलापिनो भविष्यन्ति कदा न्वेतेऽपलाषिण इति भट्टी (७/१२) । तत्रापलाषि- गोऽपलषरणशीला व्यपगतकामा इति जयमङ्गला । एवं काङ्क्षिरित्यपीच्छायां पठितः, विपूर्वस्तु तद्विपर्यये प्रसिध्यति न मे विकाङ्क्षा जायेत त्यक्तुं त्वां पाप- निश्चयाम् इति श्रीरामायणे (२।७३|१८ ) । पृष्ठमारोह मे देवि मा विकाड़- क्षस्व शोभने ( ५। ३७।२६ ) इति च । अन्यत्रापि विशब्दो बाघमाह – तद्यथा कथं न तद् विजानीयां किमु भाति विभाति वेति कठोपनिषदि (५।१४ ) | अत्र विभाति न भातीत्यनेन समानार्थकम् । निर्ज्ञातार्थस्य समाप्तिर्वा भवति विस- माप्तिर्वेति ( ५।३।६७) सूत्रे भाष्ये । अत्र नत्रर्थो विशब्द इति कैयटः । अस्ति तु ज्ञानमर्थविसहचरं स्वप्नावो कल्पितम् (४/१४ योगसूत्रभाष्ये ) । अर्थेनासह- चरितमित्यर्थः । यदि विप्रत्ययो ह्येष तदिदं दर्शयामि ते ( भा० शां० १११। ५५) । विप्रत्ययः प्रत्ययाभावोऽविश्वासः । तयोविवाहः सख्यं च न तु पुष्टवि पुष्टयोः (भा० श्रादि० १३१।१७) । विपुष्टोऽपुष्टः ।

1

अयं चापरश्चित्रीयाकरोऽर्थबाधः - प्रवपालितावर्कारगताऽवज्ञाताऽवगण- तेष्ववोऽर्थविपर्यये । तथा ह्यवपालितोsपालितो भवत्यवर्कारणतोऽनाकरिणत ईषदाकरितो वा । एवमवज्ञाताव गरिणतावनाहतौ भवतः । इहापि स्पष्टमेवा- वशब्दोऽर्थ विपर्यासकृत् । यो नाम न ज्ञायते न संस्तूयते न गण्यते कोऽसौ कतमो- ऽसाविति स आत्मानमवहेलितम्मन्यते ।

विशेषं वैशिष्टयं प्रकर्षमपकर्ष वापि धात्वर्थ प्रादधात्युपसर्गस्तेनाप्ययं वाचक इत्युपपद्यते वक्तुम् । ब्रू व् व्यक्ताक्षरे भाषणे पठितः प्रोपसृष्टः प्रकर्षेण भाषणे व्याख्याने वर्तते —सूत्रं प्रब्रवीति । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् । चतुभिश्च प्रकाविद्योपयुक्ता भवत्यागमकालेन स्वाध्यायकालेन प्रवचनकालेन व्यवहारकालेनेति च भाष्ये पस्पशायाम् । सरतिगंती प्रयुज्यते प्रसरतिस्तु

१५

व्यतिरिक्तायां गतौ प्रथने - शीतस शीनं (सुप्तं ) न मे पाणिपादं प्रसरति । प्रसरति किवदन्तीति । ञित्वरा संभ्रमे। अत्रापि प्रशब्दः प्रकर्षमाह । तद्यथा । यद्वं क्षिप्रं तत्त्र्तम् । अथ यत्क्षिप्रात्क्षेपीय स्तत्प्रतूत्तम् (श० ब्रा० ६।३।२।२) । एवं चरतिरपि गतिसामान्ये पठितः प्रपूर्वः साधयसि गमने प्रथने वर्तते — यावत्स्था- स्यन्ति गिरयः सरितश्च महीतले । तावद् रामायणकथा लोकेषु प्रचरिष्यति ( रा ० १ २ ३६) । उत्पूर्वोतिक्रमणे वर्तते धर्ममुच्चरते । ऊर्ध्वगमनेपि- तच्चक्षुर्वेवहितं पुरस्ताच्छुक्रमुच्चरत् (ऋ० ७७६६।१६ ) । ण्यधिकश्चोदी रणे दृश्यते - श्रोङ्कारमुच्चारयति । गमुतरच यौगपद्योपलक्षिते बहुकर्ता के तस्मिन् - व्यक्तवाचां समुच्चारणे (पा० १२३।४८) । वस निवास इति धातुः प्रपूर्वो विप्रकृष्टान्तरे निवासमाह प्रोषितभतृ केत्यत्र यथा । साधयतिः सम्पादने वर्तते, प्रपूर्वस्तु साधीयः सम्पादनेऽलङ्करणे – प्रसाधयति शिरोरुहान् । प्रसाधनो कङ्कतिका भवति । रप लप व्यक्तायां वाचीति धातुपाठः । केवलो लपिव्यं- क्तायां वाच्येव वर्तते प्रयोगेषु यथा वचिः । श्राङाद्युपसृष्टस्यास्य ते ते लपन- विशेषा वाच्याः । अनुक्रान्ताश्च तेऽमरेण-

स्थावा भाषणमालापः प्रलापोऽनर्थकं वचः । अनुलापो मुहुर्भाषा विलापः परिदेवनम् ॥ विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः । सुप्रलापः सुवचनमपलापस्तु निह्नवः ॥

व्यक्तमत्रालापादिषु यो यो लपनविशेषः स स धातुवाच्येऽर्थे उपसर्गेणा- हित इत्युपसर्गवाच्य इत्यवश्यमुरसिकरणीयम् । ग्रह च भगवान्भाष्यकार उप- सर्गो विशेषकृदिति । अयं च तथा रूढि गतोऽर्थो यथाऽर्थशास्त्रकारः कौटल्यो- ऽपोममनुवदति - क्रियाविशेषकाः प्रादय उपसर्गा: ( २।१० ) । श्राश्रय श्राश्रयण- मास्यानं वक्ति । व्याश्रय इति नानापक्षसमाश्रयम् । षष्ठ्या व्याश्रये ( ३२४|४८ ) इति सूत्रे तथार्थापनात् । भगवतो भाष्यकारस्य प्रयोगश्च - व्याश्रिताश्च भवन्ति केचित्कंस भक्ताः केचित् वासुदेवभक्ताः । श्रवशब्दः क्रियाया वैकल्यमपूर्णता- माह । श्रवदाघ इति पूर्वो भैष्मी मासः, निदाघ इति चोत्तरः ।

क्वचिदुपसर्ग विशेषयोगे योऽर्थः सोऽभ्युच्चितेनोपसर्गान्तरेणान्यथास्व नीयते । तदप्युपसर्गाणां वाचकत्वे लिङ्गम् । तत्सङ्ग्रहेण ब्रूमः । अवहरति- रित्युपसंहरणे वर्तते — प्रस्थमवहरति स्थाली प्रास्थिकी । संभवत्यवहरति पचति (५।१।५२ ) इत्यनेन तद्धितविधिः । प्रभेरभ्युच्चयेऽभ्यवहरति भुङ्क्त इत्यनर्था- न्तरं भवति । अहो अथवैचित्र्यम् । प्राङ्पूर्वो ददातिरादाने ग्रहणे प्रत्येषणे वा वर्तते । सहस्रमुत्त्रष्टुमादत्ते हि रसं रविः । प्रभ्यधिकोऽयं क्रियोपक्रममाचष्टे ।

१६

|

श्रोमभ्यादाने (पा० ८ २८७ ) इति सूत्रे यथा । श्रवधत्ते नीचैनिधत्त इति समा- नार्थंके । विशब्दे व्यतिरिक्ते सति मध्यगेनार्थेन पृथक्करणं तिरस्करणे वा वर्तते । न वयं कुडचादिना व्यवहितं वस्तु पश्यामः । सङ्ग्रहणं समुच्च्यनं संक्षेपणं वा भवति । उपसङ्ग्रहरणमिति तु वन्दनोद्देश्यके चररणपीडने वर्तते । स्मयंते चोपसङ ग्रहण विधिस्तत्र तत्र स्मृतिकारैः । श्रालम्भः स्पर्शो भवति । समालम्मरचन्दनादिस्पर्श विशेषो विलेपनम् । व्याहरणं व्याहारो लपितं भवति । धनुष्याहरणं तु शापः । आङ्पूर्वः ख्या प्रकथनान्न किंचिद् व्यति- रिक्तमाह । श्रभ्यधिकेनाभिनोपसृष्टस्त्वभिशंसने दूषणे वर्तते । श्रथाभ्या- यातेषु । ये तत्र ब्राह्मणाः सम्मशिन इत्यादि (तं० उ०१।११।४) । श्रथाम्या- क्यानं मिथ्याभिशंसनम् इत्यमरे मिथ्येति पदं सुत्यजम् ।

धातुपसर्गयोः संभूय धातुत्वम् इत्यपि ।

वस्तुत उपसर्गश्च धातुश्चेति द्वयमपि सम्भूय धातुरेव । धातुना क्रोडीकृत उपसर्गस्तदवयव एवेति परमार्थः । श्रत एवानुभू इत्यस्य धातुत्वे तदेकदेशेन भू इत्यनेनानुभवनमर्थोऽपि क्वचित्प्रत्याय्यते - इन्द्रोऽब्रवीद् भवतु भवानपां पतिर्यमः कुबेरश्च मयाऽभिषेकम् ( भा० उ० १६।३१) । भवतु = अनुभवतु । उक्तं च वाक्यपदीये–

अडादीनां व्यवस्थार्थं पृथक्त्वेन प्रकल्पनम् ।

धातूपसर्गयोः शास्त्रे धातुरेव स तादृशः । (२।१८० ) इति । अद्विर्वचनव्यवस्थार्थं केवलं धातवः पृथगुपदिष्टाः, वस्तुतः पुनर्विशिष्ट- क्रियावचना एव त इति सोपसर्गाणामेव धातुत्वम् ।

तथा हि सङ्ग्रामयतेः सोपसर्गाद् विधिः स्मृतः ।

क्रियाविशेषाः सङ्घातैः प्रक्रम्यन्ते तथाविधाः ॥ (२/१८१) असंग्रामयत, सिसङ्ग्रामयिषते सोपसर्गस्यैवाद्विर्वचनदर्शनात् सोपसर्गस्यै- वास्य धातुत्वम् । अत एवोपक्रम एवाख्याते सङ्घातैर्धातुपसर्गसमुदाय व शिष्टंव क्रियाऽभिधीयते ।

कुत एतदित्यत्र हेतुमाह-

कार्याणामन्तरङ्गत्वमेवं धातूपसर्गयोः ।

साधनैर्याति सम्बन्धं तथाभूतैव सा क्रिया । (२।१८२)

उपसर्ग सम्बन्धाधीना स्वार्थव्यवस्था धातूनाम् । स्वार्थसम्बन्धे च निर्वृ ते सम्बन्ध्यन्तरेण संनिधातव्यम् । यथा करोतेरुपसर्गेण योगे निष्पन्ने सुडादय आसज्यन्ते । आह च सूत्रकारः — सम्परिम्यां करोती भूषणे । उपाच्च प्रति- परन वैकृत वाक्याध्याहारेषु । धातूपसर्ग समुदायवाच्यैव सा विशिष्टा क्रिया साध्या

१७

सती साधनः कारकैः सम्बन्धं याति । धातूपसर्गयोः कार्यमन्तरङ्गम्, तस्मिन् सति बाहयैः साधनैः कर्तृ कर्मादिभिः सम्बध्यते धातुरिति च युक्तम् । उक्तं च भाष्ये पूर्व धातुरुपसर्गेण युज्यत इति ।

श्रस्मिन्पक्षे अनुभूयत इत्यत्र कर्मरिण लकारः सिध्यति । तथा षत्वसुकोर- सिद्ध (पा०६।१।८६ ) । इत्यारम्भणीयं भवति । धातूपसर्गयोः कार्याणामन्तरङ्गत्वे हि श्रधीत्येत्यत्र दीर्घत्वे तदसिद्धत्वे च तुकः सम्भवो नेतरथेतीष्ट एष पक्षो भगवतः पाणिनेः । तथा चाडभ्यासव्यवायेऽपीति वार्तिकं नारम्भरणीयं भवति । अडुत्पत्तेर्लकारोत्पत्त्युत्तरकालभावित्वेन ततः प्रागेव धातूपसर्गयोः सम्बन्धे षत्वसिद्ध: ।

ननु पूर्व धातुः साधनेन युज्यते तत उपसर्गेणेत्यपि पक्षो भाष्ये स्थितः । हरिणा च-

प्रयोगाहेषु सिद्धः सन् भेत्तव्योऽर्थो विशिष्यते ।

प्राक् च साधनसम्बन्धात् क्रिया नैवोपजायते ।। (वा०प०२११८३) इति कारिकायां समर्थितः । इदमुक्तं भवति - लब्धात्मा क्रिया विशेष्य- भावमुपगन्तुमर्हति । धातुषु सिद्धः स क्रियार्थं उपसर्गादिभिर्भेत्तव्यो विशेष्यो भवति । साधनसम्बन्धात् पूर्व क्रियाऽनिर्वृत्ता निरात्मिका सती द्योतकेनोप- सरेण सह विशेषण - विशेष्यसम्बन्धं नोत्सहते प्रतिपत्तुम् । एवं हि भाष्यकार आह- साधनं क्रियां निर्वर्तयति तामुपसर्गो विशिनष्टोति ।

अस्मिन् पक्ष अडभ्यासव्यवायेऽपीत्यारम्भरणीयम् । षत्वतुकोरसिद्ध इति च तुकि कर्त्तव्ये एकादेशासिद्धत्वं न वक्तव्यं भवति । प्रतिपूर्वादिणोऽचि

प्रत्ययेऽन्तरङ्गत्वात्साधनाभिधाय कार्धधातुकाश्रयो गुणः प्रवर्तत इति गुणेऽयादेशे च सवर्णदीर्घाप्राप्त्या यरणः प्राप्त्या च प्रत्ययशब्दसिद्धिर्भवति । र् अध्ययने वृत्तम् (पा०७।२।२६) अध्ययनतोऽविप्रकृष्टाख्यायाम् (पा० २।४।५) इत्यादिषु अध्ययनशब्द प्रयुञ्जानस्य भगवतः सूत्रकारस्याप्यभीष्ट एष पक्ष इति न दुरुन्नयम् । अत्रापि पूर्ववत् पूर्वं साधनयोगे गुरणादिप्रक्रिययाऽध्ययन शब्दनिष्पत्तिः सम्भविनी नान्यथेति प्रव्यक्तम् ।

एवं स्थिते पूर्वं धातुरुपसर्गेण युज्यत इत्यस्य का गतिरित्यत्रोच्यते-

धातोः साधनयोगस्य भाविनः प्रक्रमाद्यथा ।

धातुत्वं कर्मभावश्च तथान्यदपि दृश्यताम् ॥ ( वा०प० २ १८४) क्रियावचनो धातुरित्युक्तम् । प्राक् क्रियानिवृ त्तेरसम्भवाद् यथा धातोः कर्मणः समानकर्तृ का इच्छायां वेत्यत्र भाविसाधनसम्बन्धसमाश्रयणेनोपक्रम

एव धातुसंज्ञा क्रियते, कर्म यो धातुरितीषिकर्मत्वस्य भावित्वाद१८

उपक्रम एवेषिकर्मत्वमुक्तं तथाऽन्यदपि भाविसाधन सम्बन्धादुपक्रम एव विशिष्ट- क्रियावचनत्वं दृश्यताम् । को दोष इति पुण्यराजः ।

उपक्रम एवासौ त्रिया विशिष्टैवाभ्युपगन्तुं युवतेति दृष्टान्त प्रदर्शन पूर्व-

माह-

बीजकाले तु सम्बद्धा यथा लाक्षारसादयः ।

वर्णादिपरिणामेन फलानामुपकुर्वते ॥ ( वा०प०२।१८५) बुद्धिस्थादभिसम्बन्धात्तथा धातूपसर्गयोः ।

अभ्यन्तरीकृतो मेदः पदकाले प्रकाशते ।। ( वा०प०२।१६६ )

लाक्षारसादिवद् धातूपसर्ग यो बुं द्विस्यादभिसम्बन्धाद् न तु वस्तुतः धातू- पसगं समुदायस्य वस्तुतो धातुत्वेन धातूपसर्ग विभागस्याडादिकार्यार्थं कल्पितत्वेन बाह्यस्य तयोरभिसम्बन्धस्यासंभवे बौद्धस्यैव तस्य संभवात् । श्रन्तर्लीनोऽव्यक्तं प्रतीयमानः क्रियाविशेषः साधनसम्बन्धोत्तरं पदनिष्पत्तिकाले प्रकाशते ।

एवमन्वादीनां वाचकत्वे शिष्टस्य भ्वादेरक्रियावचनत्वप्रसङ्गः कर्मलकारानु- पपत्तिप्रसङ्गश्चेत्यादिचोद्यस्यानवतरः । धातूपसगं समुदायस्य वाचकत्वेपि क्रियावाचित्वं धात्वंशनिष्ठम् । विशेषवाचकत्वं चोपसर्गं गतम् उभयस्य विशिष्ट- क्रियावाचित्वमित्यभ्युपगम एवोत्तरः पक्षः ।

प्रातश्च धातुपसर्गसमुदायस्य धातुत्वम् । केचन धातव उपसर्गविशेषमन्त- रेण न प्रयोगमवतरन्ति । इङ् अध्ययने इति धातुन जातु व्यभिचरत्यधिमुप- सर्ग म् । आङ: शसि इच्छायाम् श्राङ: शासु इच्छायामिति सङग्राम युद्धे इति तु सोपसर्गा एव पठिता इति व्यभिचारशङ्कव नोदेति । एवंन्यासः सत्युप- सर्गयोगे समुदायस्यैव धातुत्वमिति मुक्तसंशयं व्यवसाययति ।

1

किञ्च । येपि नाम धातवो निरुपसर्गाः पठितास्तेषां केचनोपसर्गमन्तरेण न प्रयोगमवतरन्ति - चाय पूजानिशामनयोरिति चायतिरर्थद्वये पठितः । न च केवल एकतरस्मिन्नप्यर्थे वर्तते । अपोपसृष्ट एवायं पूजामाह कृति प्रत्यये । अप- चाय्यः पूज्यो भवति न तु चाय्यः । केवलेन तदर्थस्याप्रतीतेः । तिङि तु क्वाचित्को दृश्यते प्रयोगः - प्रपो दिव्या प्रचायिषम् (ग्रथर्व ० ७१८६१) । निचाय्य एव च निशाम्यो द्रष्टव्यो भवति न केवलश्चाय्यः । स्वच्छन्दवाच ऋषयोपि निश्चाय्य तं मृत्युमुखात् प्रमुच्यत इत्येवं प्रयुयुजिरे । अयमंत्र निर्गलितोऽर्थः पूजानिशा- मनयोः पठितोऽपि चायतिरशक्तोऽनुपसृष्टः पूजानिशामने श्रभिधातुम् । तत्रापि प्रत्यर्थमुपसर्ग विशेषमपेक्षते ।

इदमत्र तत्त्वम् - यथानुबन्धा एकान्ता अनेकान्ताश्चेति पक्षद्वयं यथा वाऽनु- करणशब्दाः सार्थ का अनर्थ काश्चेत्युभयमप्यास्थीयते तथैवोपसर्गा वाचका द्योत काश्चेति यथालक्ष्यमुभयः कृतान्त इति स्थितम् ।

अनर्थका श्रपि केचिदुपसर्गा भवन्ति ।

१६

उपसर्ग व्यापारं निरूपयद्भिर्वाचि विचक्षणैरभियुक्तैर्यदभ्युक्तं - कश्चित्तमनु- वर्तत इति तत्र कोऽभिसन्धिस्तेषाम् । न ह्यनुवर्तनं नाम क्यापि युक्त्या वाच- कत्वं भवति न च होतकत्वम् । विशेषानभिधानात् । अत्र पक्षेऽनर्थका एवोप- सर्गा अनर्थान्तराभिधायिनः । न हि ते धात्वर्थस्य किमप्युपस्कुर्वते । शब्दोपजन एव भवति नाथपजनः ।

1

अनर्थकत्वं चामीषां केषाञ्चिदाचार्योऽपि कण्ठरवेणाभ्युपैति यदधिपरी अन- थंकाविति (१।४।६३) सूत्रयति । अनुवृत्तेस्तावत् कतिचिदुदाहरणानि स्थूलोच्च- येनोच्यन्ते — श्रर्थयति रुपयाच्यायां पठ्यते, प्रपूर्वोऽपि तमेवार्थमभिधत्ते, सम्प्रपू- र्वोपि — उपाध्यायमर्थयते प्रार्थयते सम्प्रार्थयते क्षितीश इति । द्विष श्रश्रीताविति धातुरपपूर्वकोपि तदर्थक एव-स मामपठिष्टे, अहं च न जातु तं द्विषे । यमर्थं शृणोतिराह तमेव संशृणोतिरपि । एवं विशतिः प्रविशतिना समानार्थः । ऋदि श्राह्वाने रोदने च परितः । केवलोप्याह्वाने वर्तते - कन्दत्यविरतं सोथ भ्रातृ- मातृसुतानथ इति मार्कण्डयपुराणे (१०।६० ) । ग्राङ्पूर्वोपि श्रापन्न श्राक्रन्द- त्यभ्युपपत्तारम् । खिजिर शौच पोषणयोः केवलोपि शौच शोधन प्रक्षालनमाह निःपूर्वोपि प्रप्सु निक्त्वा तण्डुलान् ( कौशिकसूत्रे ५१ ) । श्रश्वो न निवतो नदीषु (ऋ०८।२।२) । निःपूर्वस्तु प्रसिद्धयतितरां प्रयोगेषु । बद्ल विशरणगत्य- वसादनेष्विति धातुः केवलोऽप्यवसादे वर्तते, अवोपसृष्टोपि - प्रतायन्तां वाचो निमितविविधार्थामृतरसा न सादः कर्तव्यः कविभिरनघे स्वविषये इति ध्वन्या- लोके (४।१७) तथा दर्शनात् । पृची सम्पर्क इति धातुः प्रायेण समुपसृष्टः प्रयोगमवत रति । धात्वर्थनिर्देशेऽपि समुपात्तः । अन्तरेणापि समं तमेवार्थमाह- तमित्राक्षि शवसोत राया (ऋ० ६।१५।११) इत्यत्र यथा । कत्थ श्लाघाया- मिति धातुपाठः । इक्ष्वाकुरणां विशेषेण बाहुवीर्ये न कत्थनम् ( भा० ३ ४८) । गजितेन वृथा कि ते कत्थितेन च ( भा० १।१६६५) । विपूर्वोऽपि तमेवार्थमभिधत्ते-नात्मना विकत्थते । वृहू उद्यमन मुत्पाटन मुन्मूलनमाह । विनाप्युदं तत्रायें दृष्ट:- मूलं तूलं वृहति दुर्विवषतुः ( श्राप० घ० १|३२|२४) । आगामिनी सम्पत् तूलमिति हरदत्तः । शसु हिंसायामिति धातुपाठः । तस्मि स्तथा मया शस्ते (भा० द्रोण० १६७/२८ ) । विशसित विशसन विशसित्रादि- ध्वपि धात्वर्थो वाच्यः । स्पष्टं विशब्दोऽनर्थकः । न तु मात्राभिशप्तानां मोक्षः क्वचन विद्यते ( ) । शापोऽभिशापः । शब्दोपजनो नाथपजनः । सिद्धि समभिसम्प्राप्ताः पुण्येन महतान्विताः (भा० बन० ८२२२६) । अत्र प्रकर्षे साकल्ये वाऽभिधित्सिते समादीनामेवत मेनैव सिद्धेः शिष्टमुपसर्गत्रय- मपार्थकम् । उपोपविष्टा मञ्चेषु द्रष्टुकामाः स्वयंवरम् (भा० आदि० १८५ ।

२०

१५) । प्रसमुपोब: पावपूरणे (पा० ८।१।६) इत्युपशब्दः पादपूरणो नार्थ- विशेषमभिधत्ते । कूलं रोधश्च तीरं च तटं त्रिषु ( इत्यमर: ) । तीरप्रतीरे दीपप्रदीपवद इति स्वामी । यमर्थं तीरशब्द ग्रह तमेव प्राधिकस्ती रशब्दः । चन्द्रोपरागं प्रति तु केमापि विप्रलब्धासि ( मुद्रा० १) । मया प्रलब्धो ब्रह्मर्षि- नारद: सुमहातपाः ( भा० वन० ६६।५) । गृधिवच्योः प्रलम्भने ( पा० १।३। ६९) । प्रलम्भनं वञ्चनं भवति । समानेर्थे विप्रलम्भे विशब्देन तत्र किं क्रियते । कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति (भा० श्रादि० २०६।१८) । सर्वत इत्यनेन परिपृच्छतीत्यत्र परिशब्दो गतार्थः । सर्वतः परिरक्षेच्च यो महीं भोक्तु- मिच्छति ( भा० शां० १०२।४१) । इहापि तथा । सङ्कल्पजेनाभिपरिप्लुताङ्गाः (भा० प्रादि० १८७१३) । श्रभिपर्योरेकतरः शक्यस्त्यक्तुम् । असन्तुष्टाश्च्युताः स्थानान्मानात् प्रत्यवरोपिताः (भा० शां० १११।७७)। प्रतिरनर्थकः । श्रनरोपिता इत्यनेनैव विवक्षितार्थलब्धेः । विव्यास वेदान्यस्मात्स तस्माद् व्यास इति स्मृतः (भा० श्रादि० ६३३८८ ) । विभक्तवानित्यर्थः । स च व्यासेत्यनेनैवोच्येत, किं विना । येऽसितः परिजज्ञिरे (अथर्व० १०/७/२५) । परिशब्दो धात्वर्थाद् व्यतिरिक्तं न किञ्चिदाह । श्रानर्थक्ये च श्रधिपरी अनर्थकाविति सूत्रं (पा० १| ४|१३) मानम् । न्यग् वातोऽवयाति (ऋ० १० १६० ११) । श्रनर्थकोऽवशब्दः, न्यग् इत्यनेन गतार्थः । सम्प्राकुष्टे रुदितस्त्री कुमारे (भा० द्रोण० २२।१) । आङश्चारितार्थ्येपि सम्प्रयोरेकतरस्य वैयथ्यं विस्पष्टम् । श्रनभ्युपाय एव शब्दानां प्रतिपत्तौ प्रतिपदपाठः (भा०) । श्रभिशब्दोऽनर्थकः । उपायाभ्युपाययो- नर्थ विशेषः कश्चिदस्ति । न्यत्तानोऽ६ पद्यते न ( ऋ० ४११३५) । श्रव- शब्दस्याऽघोलक्षणोर्थ इह न्यङ् इत्यनेनैवोक्तः । अपरिह वृताः सनुयाम वाजम् (ऋ० १ १०२ ११) । अपरिह वृता प्रकुटिलगतयः । पर्यर्थो घात्वर्थेनोपसङ - गृहीत इति परिरपार्थकः । एवं व्युत्थापिते धर्मे बहुधा विप्रबोधिते ( मा० आश्व० ४६।१३) । विशब्दोनर्थकः । बहुधेत्यनेन तदर्थगतेः । पर्यन्वेष्टुमित- स्ततः (भा० श्रादि० ४० १४ ) । अनर्थकः परिः । इतस्तत इत्यस्मिन्त्सति किं तेन । रक्षसा विप्रमुक्तोऽथ स नृपस्तद्वनं महत्। तेजसा रज्जयामास… (मा० आदि० १७७/२८) | मुक्त इत्येव पर्याप्तं नार्थो विप्राभ्याम् । श्रहमेनं त्वया दष्ट जीवयिष्ये भुजङ्गम ( भा० आदि० ४४।३) । श्रहं तं संजीवयिष्यामि पश्यतस्ते भुजङ्गम (भा० आदि० ४४ । ८ ) । उभयत्र समानोऽर्थः । तेन सम्शब्दोऽनर्थकः । आरात् तिष्ठत मा मह्यं समीपमुपसर्पत ( भा० आदि० १७०।१२ ) । अनर्थक उपशब्दः । ऊर्ध्वं प्रारणा ह्युत्क्रामन्ति यूनः स्थविर श्रायति (मनु० २।१२०, भा० उ० ३८।१) । ऊर्ध्वमित्युक्ते रुच्छब्दो नर्थकः ।

जरयाऽभिपरीतेन शत्रुभिव्यंसितेन वा (भा० शां०१०।१७) । अनर्थकोऽभिः ।

उपसथिंचन्द्रिका

२१

परीतः परिगतः । अभिपरी समानार्थी प्रसिद्धौ । तस्मादिह व्यतिरिच्यतेऽभिः । भुजानो मनुजव्याघ्र नैव शङ्कां समाचरेत् (भा० अनु० १०४।१००) । समा नार्थः । न हि सम्यक्त्वमभिप्रेयते । तेजसः प्रतिसंहारमात्मनः स चकार ह (भा० श्रादि० २३।२७) । तस्मात्तेजस्तु संहरे (भा० प्रादि० २४१२ ) । उभयत्र समा- नोऽर्थः । तेन प्रतिरनर्थकः । श्रनिष्टस्याभिनिर्वृत्तिम् । ( भा० शां० २२०१२० ) । तेन निर्वृत्तम् (पा०४।२।६८ ) । उभयत्राभिन्ना सिद्धिरूपा क्रियोच्यते । अभिना नार्थान्तरं किमपि गम्यते । तमः श्वभ्रनिभं दृष्ट्वा वर्षबुद्बुदसंनिभम् ( भा० शां० ३०१।६० ) । समानेऽर्थे सम्शब्देन किं क्रियते । ज्ञात्वा शूलं च देवेशः पाणिना समनामयत् । श्रानतेनाथ शूलेन… ( भा० शां० २८६११७-१८ ) ॥ स्पष्टमिह सम्- सहितस्याप्यानमेः स एवार्थो यः केवलस्यानमेः । श्रात्मना विप्र- हीरणानि काष्ठकुडघसमानि तु (भा० शां० ३०११८७ ) । विप्रावनर्थको न ह्याभ्यां प्रकर्षः कश्चिदाधीयते क्रियायाम् । लङ्कायामभिगुप्तायां सागरेण समन्ततः ( रा० । श्रभिना नार्थः, समन्तत इत्यनेन तदर्थगतेः । रूप- सम्पत्समायुक्ता सर्वस्य प्रियदर्शना (वि० पु० १।१५/६६ ) । आङा नार्थः । संयोगस्य समैवोक्तत्वात् । बहुगोकुलसंकुलम् । ( भा० शां० ३२५।२० ) । नर- नारीसमाकुलम् (भा० शां० ३२५।२३) । उभयत्र समानोऽर्थः । एकत्रानर्थक श्राङ् । उदक्रोशन्नरव्याघ्राः शब्देन महता तदा ( भा० द्रोरण० १८।२) । उच्छ- ब्दवाच्यमुच्चैस्त्वं महतेतिशब्देनैवोक्तमित्युच्छब्दोऽनर्थकः । पुत्रीकृतो राजपुत्रः पर्याप्तं पर्यवर्धत (राज० ३।१०७) । पर्याप्तमित्यनेन पर्यर्थस्योक्तत्वात्परिर- नर्थकः । इति संचिन्त्य मनसा कृत्वा चाभिप्रदक्षिणम् (भा० शां० ३४३ | ४१) । अभिशब्दः पादपूरणः । श्रानन्त्यमुपसम्प्राप्ताः सन्तोषादिति वैदिकम् ( भा० शां० २७०।२५) । इहोपसर्ग त्रयमप्यनर्थकम् । प्राप्तिरेवाभिप्रेता । निकामे निकामे नः पर्जन्यो वर्षतु ( वा० सं० २२ २२ ) । निकामः कामः । निशब्दो विशेषकृन्न । श्रन्यं वरं वृणीध्वं वं यादृशं सम्प्ररोचते (भा० कर्ण० ३३।१०) । सम्शब्दोऽनर्थकः । कच सुस्वागतं तेऽस्तु (भा० आदि० ७६।२१) । प्रसमुपोदः पादपूरण (पा० ८ | १|६ ) इति सम्शब्दः पादपूरणोऽनर्थकः । गद्येऽद्य- तनाः केचित्सुस्वागतं प्रयुञ्जाना भ्रान्ता इत्युपेक्ष्याः । कच्चिद् धर्मसुतो राजा त्वया प्रत्यभिनन्दितः (भा० आश्रम ० २८।७) । प्रतिशब्दोऽधिकः । परिवार्य च विश्वेशं पर्यासत दिवौकसः (भा० उ० ४६१४) । पर्यासतेत्यत्र परिशब्दोऽनर्थकः । परिवार्येत्यनेन तदर्थंगतेः । विनीतमोहो व्यपनीतकल्मषः (भा० शां० २४५ । ३५) । अपेन नार्थः ।

प्रयुञ्जते हि शिष्टा अन्यत्रापि नामभिः सहचरिताननर्थ कान्प्रादीन् – सुमेरुः, प्रतीरम् प्रदीपः, प्रलम्बः, प्राग्रम्, विस्फुलिङ्गः, विलोचनम् इत्यादिषु ।

२२

स वाचको विशेषारणां सम्भवाद् द्योतकोऽपि वा ।

शक्त्याधानाय धातोर्वा सहकारी प्रयुज्यते । ( वा०प०२।१८८) |

इत्यत्र कारिकायामुपसर्गारणां केषाञ्चिच्छक्त्याधानलक्षणं सहकारित्वमुक्तं हरिणा । शक्तिमात्रमुपसर्गः कुरुत इत्यर्थाभिधाने सहकारिण उपसर्गा इत्येवं व्याख्यात’ च पुण्यराजेन । कश्चित्तमनुवर्तत इत्यस्य वायमनुवाद इत्युक्तं भव- तीति च व्याहृत’ तेन । वाचकत्वद्योतकत्व-व्यतिरिक्त एष पक्ष इति कारिकायाः प्रकृतायाः स्वरसः । इदं नो बुद्धि नोपारोहति यो नामोपसर्ग श्रात्मनाऽनर्थंक: स केन सामर्थ्येन धातावर्थाभिधाने शक्तिमादधीत । प्रागेव चासौ धातुश्शक्तः स्वार्थाभिधाने, इति तस्य शक्त्यपह्नवः कथमाञ्जस्यमश्नुवीत ? त ेन लक्ष्यानु- रोधात् केचिदनर्थका उपसर्गा इत्यपि नापलाप्यं भवति । कथं वात्र सूरयः पश्यन्ति ?

वेदे धातूपसर्गयोगः

तत्तदर्थविवक्षया प्रणुन्ना ऋषयस्तत्तदर्थवचनान्धातून प्रयुज्योपसर्गसहकारेण त तमर्थमाहुरित्यमीषां शीलम् । तथाहि वैदिकाः पिङ्गलादयो महर्षयश्छन्दो- जातीनां तास्ताः संज्ञाश्चिकीर्षन्तो धातु साधारणीकृत्योपसर्ग विशेषविशेषं विवक्षन्ति । तद्यथा— कृतिः प्रकृतिराकृतिरुत्कृतिरिति च्छन्दोजातय इति प्रतिजानते । एवं स्थिते वेदे यदुपसर्गं प्राचुर्यं व्यवहारवशगमक्षिलक्षी भवति न तदन्यत्र । शब्दतोऽर्थतश्च चित्रीयाकर एष धातूपसर्गयोग इति तमुपपरीक्षामहे ।

प्रयासाय स्वाहाऽऽयासाय स्वाहा वियासाय स्वाहा संयासाय स्वाहोद्यासाय स्वाहाऽवयासाय स्वाहा ( तै० सं० ११४।३५) । इत्थमत्रोपसर्गकृतमर्थभेदमभ्यू- हते भट्टभास्करः - प्रयासः प्रकृष्टो यासः क्रियायागादिः । आयासः शास्त्र- पूर्व कः प्रयासः, अर्थार्जनादिः । वियासो विविधो व्यापारो हसितकण्डूयितादिः । संयासः समीचीनप्रयत्नः परोपकारादिः । श्रवयासो निकृष्टव्यापारो दुष्कर्म । यतोऽयं पवते । यदभिपवते । यदभिसम्पवते ( तै० ब्रा० २|३||१) | अभिपवतेऽभिलक्ष्य वाति । अभिस पवते तस्मिन्नभिलक्ष्ये वस्तुनि यत्सम्यग्वाति । दिशः प्रदिश आदिशो विदिश उद्दिशः ( तै० सं १।३।१० ) । प्रधानभूता दिशः प्राच्यादयः प्रदिशः । प्रास्थिता दिश आदिशः, या जन्तुभिरास्थीयन्ते श्रागता अधोदिशो मध्यदिशश्च । उद्गता दिश उद्दिशः, ऊर्ध्वं दिशः। विगता विविध- स्वयाना वा दिशो विदिशः । ऋतेनास्य निवर्तये । सत्येन परिवर्तये । तपसा- स्यानुवर्तये । शिवेनास्योपवर्तये । शग्मयेनास्याभिवर्तये ( तै० ब्रा० १।५।५।१-२) । निवर्तये निवृत्तान्करोमि (यजमानस्य केशान् ) । परिवर्तये परितः परित्यक्ता-

२३

न्करोमि । अनुवर्त येऽनुकूलान्करोमि । उपवत ये समीपे केशमुले क्षुरस्य वर्तनं कुर्वे । श्रभिवर्तयेऽभितः क्षुरं व्यापारयामि ।

श्रञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाऽभ्यञ्जते (अथर्व ० १८ । ३।१८ ) । श्रत्र मन्त्रेऽञ्जिरेको घातुः, उपसर्गश्चानेकः । श्रञ्जनेन यजमानस्या- क्ष्णोरञ्जनमुच्यते, तदेव विना विशेष्यते । इदं हि दिव्यं कर्म मानुषाद भिद्यते । यजमानस्य पूर्व दक्षिण मध्यज्जन्त्यत्विजः, मनुष्यास्तु पूर्व सव्य- मञ्जन्ति । अभ्यञ्जनेन तु शारीरोभ्यङ्ग उच्यत इत्येवमुपसगं भिदा सूपपन्ना भवति ।

राद्धिः प्राप्तिः समाप्तिर्व्याप्तिर्मह एधतुः । श्रत्याप्तिरुच्छिष्टे भूतिराहिता निहिता हिता (अथर्व ० ११।७।२२ ) । अत्रापि श्राप्लु व्याप्ताविति धातौ तत्तदुपसर्गासङ्गो धात्वर्थविशेषणतया सार्थकः । समाप्तिः सम्यगाप्तिर्भवति, व्याप्तिश्च विविधा प्राप्तिः, अत्याप्तिश्चातिक्रान्ताऽऽप्तिरिति विशदम् । एवं दुधाsssयुपयोगो यर्थान्तर कृदिति वहु विज्ञाप्यं भवति । श्राभिमुख्येन स्थापिता भूतिः समृद्धिराहिता भवति, निक्षिप्ता च संव निहिता भवति ।

उपमितां प्रतिमितामथो परिमितामुत। शालाया विश्ववाराया नद्धानि विवृतामसि (अथर्व० ६।३।१) ॥ अत्र डुमित्र प्रक्षेप इति धातोरुपादिभिरुपसर्ग: सहचारोऽर्थविशेषाय भवति । सोऽर्थविशेषो दुरवधारो नाम । उपमिताऽवलम्बिता, प्रतिमिताऽवषुब्धा, परिमिता चाभिसंहिता भवतीति केषाञ्चिदभ्यूहः ।

विजावति प्रजावति वि ते पाशांश्चतामसि (अथर्व ० १ ३ १३) । अत्र विजाशब्देन विजननं गर्भमोचनमुच्यतो प्रजाशब्देन च प्रसूतिर्जातमपत्यम् ।

परा च यन्ति पुनरा च यन्ति भद्रा नाम वहमाना उषासः (ऋ० १।१२३ । १३) । अत्र परापूर्व इण् गताविति धातुनिवृत्तौ वर्तत े श्राङ्पूर्वस्तु स एवा- वृत्तावाभिमुख्येनागमने । यातेरप्येतदुपसर्गद्वये तादृश एवार्थ:- परा यात पितर प्रा च यात (अथर्व० १८।३।१४ ) ।

वि में पुरुत्रा पतयन्ति कामाः (ऋ० ३।५५।३) । श्रत्र ऋचि विपतन्ती- त्यस्य नाना दिक्षु गच्छन्तीत्यर्थः ।

हविषः प्रस्थितस्य वीतं वृषरणा हर्यतं जुषेथाम् (ऋ० १६३७) । अत्र अग्नी- षोमी देवते प्रार्थ्येते । प्रपूर्वस्तिष्ठतिरत्र प्रवृत्ति स्पन्दन लक्षरणामाह, याऽन्यत्र वेदे ‘पवते’ इत्यनेनाभिधीयते । सायरणस्त्वन्यथा गृह्णाति - होमार्थमाहवनीयं प्राप्त- स्य हविष इत्येवमर्थापयते । द्रविणोदाः पिपोषति जुहोत प्र च तिष्ठत (वा० सं० २६।२२ ) । अत्र प्रपूर्वस्तिष्ठतिः प्रवृत्तौ व्यापारे वर्तते ।

२४

अम्यूर्णोति यन्मग्नं भिषक्ति विश्वं यत्तुरम् (ऋ० ८७६२) । प्रभिपूर्वं ऊर्णुष अभित श्राच्छादने वर्तते । व्यूवंती दाशुषे वार्याणि (ऋ० ५/८०२६) । पत्र विपूर्व ऊर्णोतिर्विवरणे उद्घाटने वर्तते ।

प्रपूर्वस्तारयतिलोंके वञ्चनायां दृश्यते । प्रतारको वञ्चक इत्यनर्थान्तरम् । वेदे त्वन्य एवार्थः—गयस्फानः प्रतरणः सुवीर इति गवां नः स्फावयिता प्रतार- यितंधीत्याह (ऐ० ब्रा० १।१३) । प्रतारयिता उत्तारणहेतुरिति सायणः । पापादित्यध्याहारः । श्रवपूर्वस्तु तरतिविनाशे दृष्टः । श्रयमप्यलौकिकोऽर्थः । श्रभिविश्वा श्रभियुजो विषूचीरार्याय विशोऽव तारीर्दासीः (ऋ० ६।२५।२) ।

अग्ने हंसि न्यत्रिरणम् (ऋ० १०।११८ ।१) । नितरां हंसीत्यर्थः । लोके तु निहन्तीति निघातं नीचः करणमाह प्रायेण ।

तान्येकयर्चाऽवारुरुत्सत (ऐ० ब्रा० १।१२) । श्रवरुधिः स्वायत्तीकरणे वर्तते । लोके तू गोष्ठादौ निरोधने गोपने च दृश्यते । व्रजमवरुरगद्धि गाम् । श्रवरोघो नामान्तःपुरं भवति यत्र राजयोषितोऽवरुध्यन्तेऽसूर्यम्पश्याः । पाण्ड- वास्त्रयोदश वर्षाण्यवरुद्धा विचेरुः (संवृताकारा इत्यर्थः) । अपपूर्वस्तु वेदेऽपसा- रणे वर्तते - प्रनुव्रतामप जायामरोधम् (ऋ० १०।३४।२) ।

यस्त ऊरू विहरत्यन्तरा दम्पती शये (ऋ० १०।१६२।४) । तस्मात् स्यूरू विहरति (ऐ०ब्रा० २।३५) । श्रग्नीदग्नीन् विहर ( तै० सं० ६ ३ १२, मै० सं० ३।८।१०) । अत्र सर्वत्र विहरतिविश्लेषणे पृथक्करणे वर्तत े । लोकेऽदूरविप्रकर्षेणायमेवार्थः क्वचिदुच्यत े । श्रभूरिण विहरति । प्रमाष्टर्टीत्यर्थः । कीर्ति बहुभ्यो विहर द्विराजे (अथर्व ० ५|२०१६) । अत्र विहरतिविभजने वि- भज्य दाने वर्तत े ।

पशुं नः सोम रक्षसि पुरुत्रा विष्ठितं जगत् (ऋ० १०।२५।६) । अत्र विष्ठित शब्देनावस्थित मुच्यत े, न तु स्थानाच्च्युतम् । अद्यत्वे लोका स्थानात् प्रच्याविते विष्ठापित शब्दं व्यवहरन्ति । सोऽर्थः शब्दमर्यादया दुर्लभ इति न विजानन्ति । यावत् सप्त सिन्धवो वितष्ठिरे (अथर्व ० ४।६।२) । अत्र वितष्ठिर इति विततास्तस्थुरित्यर्थमाह ।

सुप्रारणा अस्मिन्यज्ञ विश्रयन्ताम् ( वा० सं० २८।५ ) । विश्रयन्तां विव्रि- यन्ताम् इत्यनर्थान्तरम् । देवीद्वरो विश्रयध्वम् (ऋ० ५।५।४) । अत्राप्युक्तपूर्व एवार्थः । या न ऊरू उशती विश्रयाते (ऋ० १०/८५।३७) । अत्रापि विपूर्वः श्रयतिर्विवरणे वर्तते । अवश्यमयमेवार्थोभ्युपेयः, तस्मात्स्त्र्यूरू विहरतीत्युक्तचर्या ऐतरेयश्रुत्या संवादाय । सायरास्तु नः पुंसामूरू कामयमाना विशेषेण श्रयत इत्याह । सोऽस्य भ्रमः ।

२५

ग्रहश्च कृष्णमहरर्जुनं च विवर्तते (ऋ०६६।१) । विवर्तते = पर्यावर्तते । विवर्तते श्रहनी चक्रियेव (ऋ० १।१८५१) इत्यत्रापि स एवार्थः । शाङ्करा- रामद्वैतिनां विवर्तार्थस्त्वृषे रविदितः ।

उरौ पथि व्युते तस्थुरन्तः (ऋ० ३।५४।६) । श्रत्र ऋचि पनितार इति कर्तृपदम् । विपूर्वाद् वेजो निष्ठायां व्युतमिति रूपम् । विविक्तमिति चार्थः । लोके प्राङ्पूर्वः प्रपूर्वो वायं धातुः प्रयोगमवतरन्दृष्टः ।

व्यब्रवीद् वयुना मत्यभ्यः (ऋ० १।१४५ । ५) । कद्ध रत्नं वि नो वोचः ( ऋ० ४।५।१२ ) । श्रस्ति स्विन्नु वीयं तत्त इन्द्र न स्विदस्ति तदृतुथा वि वोचः (ऋ०६।१८।३) । वि लोके प्रप्सु तनये च सूरेऽवोचन्त चर्षणयो विवाचः (ऋ० ६।३१।१९ ) । अत्र सर्वत्र विपूर्वी ब्रूव्यक्तायां वाचीति धातुर्विशिष्य भाषणे व्याख्याने वर्तत

े । लोके तु विपरीत भाषणे प्रसिद्धः - अन वन् विन वन्वापि नरो भवति किल्बिषीति मनुसंहितायां ( ८1११) यथा ।

वायुर्वी विविनक्तु ( वा० सं० १११६ ) । वस्तण्डुलान् व्रीहिभ्यः पृथक् करो- त्वित्यर्थः । ( मरुतः) विविञ्चन्ति वनस्पतीन् (ऋ० १।३६।५) । विविच्य सन्ध्य- क्षराणामकारं प्लावयेत् ( श्राश्व० श्री० ११५२६) । लोके प्रायेण सदसद्विवेचने विपूर्वो विचिवर्तते । कृत्सु तु वेदोक्तोऽर्थः समुपलभ्यते । विविक्त सेवते । विविक्तासन इत्यत्र यथा ।

वि वात वाहि यद्रपः (ऋ० १०।१३७।३) । अत्र हे बात वांस्त्व यन्मयि दूषणं तद् दूरे गमयेत्यर्थो विवक्षितः । उपसर्ग सहकारेण धातुः सकर्मकः संवृत्तः । लोके तु विपूर्व एष दिक्षु विदिक्षु सञ्चारमेवाह - वायुविवाति हृदयानि हरन्नराणाम् (ऋतुसं० ६।२२) ।

यत् पुरुषं व्यदधुः कतिधा व्यकल्पयन् (ऋ ०१०१०११) । पाङ्क्त योऽयं पुरुषो पञ्चधा विहितः, लोमानि त्वङ्मांसमस्थि मज्जा (ऐ० ब्रा० ६ । २६ ) । अन्नमशितं त्रेधा विधीयते ( छा० उ० ६।५।१) । अत्र सर्वत्र विधान् विभजने वर्तत । लोके तु प्रायशो विधानेऽनुष्ठानेऽर्थे प्रयोगः प्रचरति । एतदधिविधाय ऋषिरवोचत् पाङ्क्तं वा इदं सर्वम् (त० उ० १।७।१) । श्रत्र श्रधिविधाये- त्यधिकृत्यशब्दार्थमाह । लोके त्वधिविपूर्वस्य धाञः प्रयोग एवं दुर्लभः ।

स्यन्दन्तां कुल्या विषिताः पुरस्तात् (ऋ०५८३८) । ये ते शुक्रासः शुचयः शुचिष्मः क्षां वपन्ति विषितासो अश्वाः (ऋ० ६ ६ ४) । अत्रोदाहृतिद्वये विपूर्वः षिञ बन्धने इति धातुर्मोचने वर्तत । सोऽयमुपसर्ग कृतोर्थबाधः ।

२६

वि पिबध्वं कुशिकाः सोम्यं मधु (ऋ० ३।५३ | १० ) । अत्र विपूर्वः पिब- तिविविधे पाने काले कालेऽभीक्ष्ण वा पाने वर्तत ।

वि पृचौ स्थो वि मा पाप्मना पृङ्क्तम् ( वा० स ० ६४, १६ ११ ) । पृची सम्पर्क इति धातुर्लोके सम्पूर्वकः क्वचित्केवलो वा प्रयुज्यते विपुर्वी वियोजने वर्तमानस्तु न क्वापीतिच्छन्दोमात्रगोचरोऽयं प्रयोगः ।

श्रासिञ्चोदकमवघेह्येनम् (अथर्व ० ६।५।५) । अधोघेहीत्यर्थः । पचन- मवधाय महावीरमवदधाति (श० ब्रा० १४।१२।२१) । श्रवदधाति श्रधः श्रयतीत्यनर्थान्तरम् । त्रितः कूपेऽवहितो देवान् हवत ऊतये (ऋ०१।१०५।१७ ) । श्रवहित इत्यधः पतितमाह । उत देवा श्रवहितं देवा उन्नयथा पुनः (ऋ० १०।१३७।१) । लोके त्विदमादिरर्थो बहुविदामप्यविदितः ।

ये गर्भा श्रवपद्यन्ते (अथर्व ० ४।७।१७) । अनायतो अनिबद्धः कथाऽयं न्यत्तानोऽवपद्यते न ( ऋ० ४।१३।५ ) । जामिमृत्वा माडवपत्सि लोकात् (अथर्व ० ६ । १२००२) । त्राध्वं कर्तादवपदो यजत्राः (ऋ० २।२६।६ ) । अत्रा कर्तमवपदात्यप्रभुः (ऋ० ६ ७३६) । अत्रोदाहृतिषु सर्वत्रावपूर्वः पदिः प्रपतने भ्रशने वर्तत े । उत्तमायामृचि चायं सकर्मक इति विशेषः ।

विमुच्या वयोsवसायाश्वान् ( निरुक्ते १।१७ ) । अत्रावपूर्वः षो अन्तकर्म- गीति विमोचने वर्तत े । लोके त्ववपूर्वः स्यतिरवसानमेवाह ।

निवें क्षत्रं नयति हन्ति वर्चः (अथर्व ० ५।१८।४) । अत्र निर्णयतिरपनय- नेऽपवाहने वर्तत । सोऽयमर्थो लौकिकानामत्यन्तमविदितः ।

एवा त्वं दशमास्य सहावेहि जरायुरगा (ऋ० ५।७८।८ ) । अत्र श्रवपूर्व इण गताविति धातुरधोगमने निष्क्रमणे वर्तते । अवस्याधोर्थे प्रसिद्धेः । श्रग्निव देवानामवमो बिष्णुः परमः (ऐ० ब्रा० १।१) । इत्यत्र यथा । लोके त्वयं नियमेनावगमने बोधने वर्तते । श्रवैमि ते सारम् (कु० ३।१३) । केनेमां भूमिमौर्णोत् केन पर्याभवद् दिवम् (अथर्व० १०।२।१८ ) । अत्र परिभवतिः परिवेष्टने वर्तते । लोके तु परिभवनं तिरस्करणं नाशो वा भवति ।

शिक्षानरः समिथेषु प्रहावान् वस्वो राशिमभिनेतासि भूरिम् (ऋ० ४। २०१८ ) । अत्राभिनयतिराहरणेऽभिमुखं प्रापणे वर्तते लोके त्वङ्गविक्षेपेण तत्तद्भावाविष्करणे प्रसिद्धः ।

पूर्वो राज्ञोऽभिवदति ( श० ब्रा० ३ | ३ | ४ | १४) । अत्राभिवदिराभिमुख्य- सम्पादनपूर्वके भाषणे वर्तते । यत्कर्म क्रियमाणमृगभिवदति ( निरुक्ते ) । अत्रा-

भविशिष्टोऽर्थो नास्ति ।

२७

वेद मासो धृतव्रतो द्वादश प्रजावतः । वेदा य उपजायते ( ऋ० १।२५।८ ) । अत्र उपपूर्वी जनिरधिकोत्पत्ते वर्तते । यथोपजनशब्दे ।

द्रवन्त्वस्य हरय उप नः (ऋ० ४।१६।१) । उपगच्छन्त्वित्यर्थः । लोके तूपद्रव उपप्लवों विघ्नो भवति । उपद्रवतीत्याक्रामतिनाऽपि समानाभिधेयो दृश्यते ।

तं हेम उपोदुर्दास्या वं एवं पुत्रोसि (शां० ब्रा० १२।३) । उपपूर्वो वदिर- पपूर्वस्य परिपूर्वस्य वा वदेरर्थे वर्तते ।

यदीं……नमस्यन्त उपवोचन्त मृगवः (ऋ०१।१२७।७) । प्रेरयन्तेत्यर्थः । देवासुरा यज्ञमुपावसन्नस्मभ्यमनुवक्ष्यत्यस्मभ्यमिति (ऐ० ब्रा० २।१५) । अत्रोपवसिः प्रतीक्षायां वर्तते ।

श्रसन्धेयमिति ह विश्वामित्र उपपवाद (ऐ० ब्रा० ७११७) । युक्तिभिरुपपा- दितवानित्यर्थः ।

प्राणो वातमपिपद्यते (श० ब्रा० ३।४।२।६) । अत्रापिपदिरप्यये वर्तते । प्रारणस्तमपीतो भवतीत्याह ।

येन सूक्तेन निविदमतिपद्येत न तत् पुनरुपनिवर्तेत, वास्तुहमेव तत् (ऐ० ब्रा० ३।११) । प्रतिपद्य ेत प्रतिक्रामेत् परित्यजेत् ।

=

श्रोष्ठोपसंहार उवर्णे ( तै० प्रा० २।२४) । प्रोष्ठोपसंहार इत्योष्ठ- सङ्कोचमाह ।

यदाप उच्छष्यन्ति वायुमेवापियन्ति ( छा० उ० ४।३।२) । स्वकारणे वायो लीयन्त इत्याह ।

देवकृतस्यै नसोऽवयजनमसि ( वा० सं० ८।१३) । श्रवपूर्वो यजिर्नाशने वर्तत इत्युवटः । श्रव देवानां यज हेडो अग्ने (अथर्व० १६।३।४) । देवानां क्रोधं नाशय शमयेत्याह । श्रव यक्ष्व नो वरुणं रराणः (ऋ० ४।११५) वरुरणकृतं जलोदरा- दिरोगं विनाशयेत्याह ।

परा शृणीहि हरसा यातुधानान् (ऋ० १०२८७/१४) । हिंसित्वा पराव- पेत्याह । परापूर्वः शृणातिर्बहुलं प्रयुयुज इत्यत्र पराशरशब्दे परेत्युपसर्गयोगो मानम् ।

अपीव योवा जनिमानि वन (ऋ० ३।३८१८) । इहाषिवृरपोतिरावरणे वर्तते । लोकेऽस्योपसर्गस्य वृणोती योगो न दृष्टः ।

परा हि मे विमन्यवः पतन्ति वस्य इष्टये (ऋ० १।२५।४) । अत्र पराशब्दों२८

वैदूर्यमाचष्टे । परापतन्ति दूरतरं गच्छन्ति पराङ्मुखाः पुनरावृत्तिरहिता इत्यर्थः । पक्षिणः परापातमासते (काठक० ३४१८ ) । परापातम् == दूरं गत्वा । पूर्णा दवि परापत सुपूर्णा पुनरापत ( वा० स० ३।४६ ) । अत्रापि दूरगमनरूप एवार्थः । तस्य रेतः परापतत् ( तै० ब्रा० १।१।३।८ ) । अत्र परापतिः स्कन्दने वर्तते । परा शुक्लानि पातय ( प्रथर्व० १।२३।२) । अपगमयेत्यर्थः ।

संचरेते (ऋ० १।२३।७)

अश्राप-

श्रपान्यदेत्यभ्यन्यदेति विषुरूपे ग्रहनी तीति अभ्येतीति च प्रतियोगिनी पदे । सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात् (ऋ० १।११५।२) । अत्राभ्येतिः प्रत्यनन्तरीभूयानुगमने वर्तते ।

N

स्वाष्ट्रस्य त्रीणि शीर्षा परावर्क (ऋ० १०1८1 ) । परापूर्वो वृजिश्छेदने वर्तते । परापूर्वेषां सख्या वृणक्ति (ऋ० ६ ४७।१७) । मा नो अस्मिन्महाधने परावर्भारभृद्यथा ( ऋ० ८।७५।१२) । प्रत्रोभयत्र परावृजिः परासने पराकरणे वर्तते ।

सं पूषन् विदुषा नय यो अञ्जसाऽनुशासति (ऋ० ६।५४।१) । सन्नयेति संगमयेत्यर्थमाह । लोके समापूर्वो नयतिः प्रायेण प्रयोगस्य विषयः ।

यस्ते गर्भ ममीवा दुर्गामा योनिमाशये (ऋ० १०।१६२।२ ) । अत्राङ्पूर्वः शीङ् प्रस्थान आश्रित्य स्थितौ वर्तते ।

यावदेष विष्णरभिशेते तावद् वो दद्मः (श० ब्रा० १।२।५।१) । यावतीं भुवमावृत्य तिष्ठतीत्याह ।

निर्गा ऊपे यवमिव स्थिविभ्यः (ऋ० १०/६८।३) । अत्र निर्वपतिरर्पणे वर्तते यथा निरुक्ते —- अगस्त्य इन्द्राय हविनिरुप्य मरुद्भ्यः सम्प्रदित्साञ्चकार ( १ | ५ | १३ ) इत्यत्र ।

परा वा एष यज्ञ पशून वर्षाति योऽग्निमुद्वासयति (तं० सं० १|५|२| १ ) । परापूर्वो वपिर्वेदे बहुलं प्रयुज्यते परासनाद्यर्थं च ब्रूते । ये निखाता ये परोप्ता ये दग्धा ये चोद्धिताः (अथर्व ०१८।२।३४) । परोप्ता विकीर्णा इति यावत् । त्वं कल्याण वसु विश्वमोपिषे ( ० १ ३१।९ ) । अत्राङ्पूर्वी वपिराहरणे वर्तते । अयं परादपतेर्विपरीतमर्थमाह । सोम राजन् संज्ञानमावपैभ्यः । (अथर्व ० ११ । १।२६)। संज्ञानशब्देन मधूच्यते । आवपेत्यानिधेहीत्यर्थमाह ।

आशिषश्च प्रशिषश्च संशिषो विशिषश्च याः ।

चित्तानि सर्वे संकल्पाः शरीरमनुप्राविशन् ॥ (अथर्व ० ११।८।२७)

आशिष: प्रार्थनानि भवन्ति, प्रशिषः प्रशासनानि शास्त्रीयारिण विधि- वाक्यानि विशिषो व्याख्यानानि भवन्ति । संशिष इत्यनेन किं विवक्षत्युषिरिति

२६

न विद्मः । वस्तुतोऽस्यामृच्युपसर्गकृतो विशेषो दुरुन्नयः । सायरणोप्यत्रोपसर्ग- वशाद धात्वर्थस्य भेदोऽवगन्तव्य इति ब्र ुवन्नपि नात्मनाऽपपारतं विवरीतुम् ।

शरीरं सर्वे प्राविशन्नायुजः प्रयुजो युजः (अथर्व ० ११।८।२५) । अत्रापि सायणेन समं वयमपि विवक्षितेऽर्थे व्यामुह्यामः ।

ये दग्धा ये चोद्धिताः (अथर्व ० १८ |२|३४ ) । उद्धिता इत्यवहिता इत्यस्य प्रतिद्वन्द्विनमर्थमाह । श्रत उद्धिता इत्युत्खाता इत्यनेन समानार्थकम् । उत्पूर्वाद् धात्रो निष्ठायां रूपम् ।

श्री हि ष्मा सूनवे पिताऽऽपियजत्यापये सखा सख्ये वरेण्यः (ऋ० १।२६ | ३) । पूर्वो यजिदने वर्तते । यस्मै स्वमायजसे स साधत्यनर्वा क्षेति दधते सुवीर्यम् (ऋ० ११६४१२ ) । अत्राप्युक्तपूर्व एवार्थः ।

यस्त्वा भ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते (ऋ० १०।१६२।१२) । अत्र निपद्यतिः सकर्मकः संविशतीत्यर्थः । मिथुनी भवतीति यावत् ।

यत्त्रिषु यूपेष्वालभेत ( तै० ब्रा० १।८।६।१) । प्रातवें पशूनालभन्ते ( श० ब्रा० ३।७।२।४) । वशामालभ्य संज्ञपयन्ति (श०वा०४।५।२।१) । अत्र सर्वत्र प्राङ्पूर्वो लभिर्बन्धने वर्तते ।

ता श्रालम्बमिष्टकामिष्टकामुपदध्यात् (काठक० २२८ ) । अत्रोपरिदध्यादि- त्यर्थ इत्युप उपसर्ग उपर्थर्थे वर्तते । यथोपवपिरपर्याय उपधानशब्दे ।

मित्रो जनान् यातयति ब्रुवाणः (ऋ० ३।५६।१) । मित्रो जनानायात- यति ब्रुवाण इति यास्क : ( निरुक्ते १०।२२ ) । प्रवर्तयतीत्यर्थः । श्रायातन- मारम्भः । तद्यथा भोजनमायातितमनेनेति दुर्ग: ।

श्रद्धि तृणमध्ये विश्वदानों पिब शुद्धमुदकमाचरन्ती ( ऋ० १।१६४।४० ) । श्रत्राङ्पूर्वश्चरतिविचरणे वर्तते । लोके तु दुर्लभोऽयमर्थः । श्रा च परा च चरति प्रजानन् (ऋ०१०।१७।६ ) | आचरति इतोऽभिवर्तते संनिकर्षे वर्तते । पराचरति परागच्छति विप्रकर्षे गच्छति । भूम्या अन्ते पर्यके चरन्ति (ऋ०१० | १४।१० ) । परिचरन्ति । परिभ्रमन्ति । लोके परिचरतिः शुश्रूषायां प्रसिध्यति । अधि यदपां स्तुभिश्चराव ( ऋ० ७१८८३) । अपामुपरि नोभिश्च रावेत्युक्तं भवति । अधिचरतिरुपरिप्लवने वर्तते । अव द्वे अव त्रिका दिवश्चरन्ति भेषजा (ऋ० १०६५।६ ) । अत्रावचरतिरवतरणे वर्तते । लोके त्ववोपसृष्टस्य चरतेः प्रयोग एव दुर्लभः, दूरेऽर्थः । बाढमष्टाङ्गहृदये (सूत्र० १६ १४) युक्तधाऽवचारये- त्स्नेह भक्ष्याद्यन्नेन वस्तिभिरित्यत्र ण्यन्तस्यावचारेः प्रयोगो दृश्यते । अवचारयेत् श्रसिञ्चेत् ।

३०

प्रास्थाता ते जयतु जेत्वानि (ऋ०६।४७।२६) । ग्रास्थातेत्याश्रयितारं रथारोहमाह ।

श्रनामृणः कुविदादस्य रायो गवां केतं परमावर्जते नः (ऋ० १|३३|१ ) । श्रावर्जते = प्रावर्जयति प्रापयति । देवीं देवेभ्यः पर्येयुषीं गामा मावृक्त मयों दभ्रचेताः (ऋ० ८।१०१०१६) । पर्यावृक्त पर्यावर्जयति, प्रतिषेध- तीत्यर्थः ।

=

यास्ते रुहः प्ररुहो यास्त श्रारुहो याभिरापृणासि दिवमन्तरिक्षम् (अथर्व ० १३।११६) । अत्र प्ररुह उपर्युपर्याक्रमरणानि भवन्ति, आरुहः समन्ताद् उप- रिगमनानीत्यभिप्रेत्यृषिः ।

कश्छन्दसां योगमावेद धीरः ( ऋ० १०।११४६ ) | आवेदनं साकल्येन वेदनं भवति ।

पशूनां वाच प्राजानाति (पञ्च० ब्रा० १०१२|७) । य एवाविदेरर्थः स एवाजानातेः ।

असौ वै लोकः प्रतिमेष ह्यन्तरिक्षलोके प्रतिमित इव (श० ब्रा० ८३ ३५) । प्रतिमितः प्रतिबिम्बित इति यावत् !

यस्य गार्हपत्याहवनीयावन्तरेणानो वा रथो वा श्वा वा प्रतिपद्येत (ऐ०ब्रा० ७/१२ ) । प्रतिपद्येत श्रागच्छेत् ।

युष्मान् दिवा हवामहे युष्मान् प्रयत्यध्वरे (ऋ०८।७।६) । अत्र प्रपूर्व एतिः प्रवृत्ती वर्तते । प्रयति प्रवर्त माने इत्यर्थः । अयमर्थो लोके दुर्लभः ।

मेन्द्रो नो विष्णुर्मरुतः परि ख्यन् (ऋ०७६३८) । परिपूर्वश्चक्षिङ् दर्शन- विषये वर्जने वर्तते । अस्मान्परित्यज्यान्यान्मा द्राक्षुरित्यर्थः । प्रतिचक्ष्व विच- क्ष्वेन्द्रश्च सोम जागृतम् (ऋ० ७ १०४/२५) । प्रतिचक्ष्व नः प्रत्येकं पश्येत्याह । विचक्ष्व विविधं पश्येत्याह ।

मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः (ऋ० १०।४७।१) । अत्र प्रगा- मेत्यत्र प्रशब्दो विप्रकर्षे वर्तते। यथा प्रवास इत्यत्र । यथा वा प्रगत प्राचार्यः प्राचार्य इत्यत्र ।

तृतीयेन ज्योतिषा संविशस्व ( ऋ० १०।२६।१) । अत्र संविशिरकर्मकः । संगच्छस्वेत्यर्थः ।

यथा श्रेयस्यायाति पापीयान्प्रत्यवरोहेत् (श० ब्रा० ४|१|२२६) । अत्र प्रत्यवपूर्वी रुहिः प्रत्युत्थाने वर्तते । पापीयान् इति जघन्यमवरमाह न त्वेनस्विन- मागस्विनं वा ।

३१

तेनो श्रीः प्रत्युपोदिता (पञ्च० ब्रा० १००७/२) । प्रत्युपवदिरत्रावमान- नेऽयं प्रयुक्तः । लोके तूपवदिरुपसं भाषायामुपसान्त्वने वर्तते कर्मकरानुपवदत इत्यत्र यथा, उपमन्त्रणे रहस्युपच्छन्दने वा परदारान् उपवदत इत्यत्र यथा

T

श्रायुर्मा निर्वादिष्टम् ( वा० सं० ५।१७) । अक्षशब्देन मा निराकाष्ट- मित्याह । वाचं विषस्य दूषणों तामितो निरवादिषम् (अथर्व ० ४।६।२) । निरवादिपम् उदचीच रम् इत्याह ।

निरुक्तमेनः कनीयो भवति (श० ब्रा० २२२२२० ) । निरुक्त प्रख्यापित- मित्यर्थः । श्रपस्कम्भस्य शल्यान्निरवोचमहं विषम् (अथर्व ०४ |६|४) । निरवोचं वचसा निरगमयम् इति वक्ति । उतापवक्ता हृदयाविधश्चित् (ऋ० १।२४।८ ) । अपवक्ता = निराकर्ता । धात्वर्थस्तु निराक्रियायां क्रियायामध्यवसीयते । लोकेऽ- पवक्ताऽपवदिता भवति । तत्रा न इन्द्रावरुणाषि वोचतम् (ऋ० ७१८३२) । अस्मत्पक्षपातवचनौ भवतम् इत्याह ।

यथा वातेन प्रक्षीरणा वृक्षाः शेरे न्यपिताः (अथवं० १०।३।१५) । निपूर्व ऋच्छति रधोगमने वर्तते । तेन न्यपिता इत्यधोगमिता इत्याह । ऋच्छते- रयमर्थो निॠ तिशब्देऽसन्देहं स्थितः ।

मा त्वा निकन् पूर्वचित्ता निकारिरण: ( श्रथर्व ० ७१८२/३ ) । न त्वा निकर्तुमर्हति (अथर्व ० १०।१।२६) । उभयत्र निकरोतिर्व्यक्क रणेऽधस्पदे निधाने वर्तते । योऽमियातो निलयते त्वां रुद्र निचिकीर्षति (अथर्व ० ११।२।१३) । इत्यत्रापि पूर्वेण समानोऽर्थः ।

|

यथा पुंसो वृषण्यतः स्त्रियां निम्यते मनः (अथर्व० ६।७०1१) । अत्र निहन्तिनिखनने प्रयुक्तः । क्वचिल्ला के निशब्दमन्तरापि हन्ति निखनने प्रयुञ्जते कुशलाः प्रयोक्तारः । सोम्नि पुष्कलको हतः । (निमित्तत्कर्मसंयोग इति वार्तिक उदाहरणम्) । सीमाप्रदेशे शकुनिखात इत्यर्थः ।

तं वृक्षा अपसेधन्ति छायां नो मोपगा इति (अथर्व ०५।१६।६ ) । अपसेधन्ति दूरे गमयन्ति । निषेधन्तीति यावत् । यमदूतांश्चरतोऽपसेषामि सर्वान् (अथवं ० ८।२।११) । पराणुदामीत्यर्थः ।

सपत्ना ये मेऽप ते भवन्तु (अथर्व० ४।३५।७) । अपहृता भवन्त्वित्याह । नापाभूत न वोऽतीतृषाम (ऋ० ४।३४।११) । मा स्मापगच्छतेत्याह । अपरक्ता मा स्म भवतेत्यभिसन्धित्सत्यृषिः ।

६।४।१ ।

पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् (श० ब्रा० १४ । ६ । ४ । १ ) । पाण्डित्यं

३२

वैदुष्यं निःशेषेण कात्स्म्येंन प्राप्येत्यर्थः । अयमेवार्थ: स्मृतिकारैरित्थमनूदित:- जानन्नपि हि मेधावी जडवल्लोक प्राचरेत् (मनु० ) । श्रध स्वप्नस्य निविदेऽभुञ्जतश्च रेवतः (ऋ०१।१२० १२) । निर्विण्णोऽस्मीत्याह । निर्विद इत्यत्रागमशास्त्रस्य नित्यत्वान्नुम् न कृतः ।

स्नुषा श्वसुराल्लज्जमाना निलीयमानैति ( ऐ०ब्रा० ३।२२ ) । निलीयमाना तिरोदधती सती। लीङ् श्लेपरण इति धातुः ।

(वज्र ेण ) तेनाहममूं सेनां निलिम्पामि (अथर्व० ११।१०।१३) । यथा गोमयादिलेपेन भूतलादि निःशोध्यं क्रियते, अवस्कराद्यभावो निर्वर्त्यते तथा वज्र ेण सेनाया प्रभावं निर्वर्तयामीत्यर्थः । सर्वे साकं न्यलिप्सत (ऋ०

१।११।३) । नि केतवो जनानां न्यदृष्टा प्रलिप्सत (ऋ० १।१६१।४) । इहो- भयत्र पराभूतिविनाशोऽर्थः । सर्वे साकं न्यलिप्सत (ऋ० १ १९१३) इत्युग्- वर्णेन संवादायोक्तार्थ एव विवक्षर्षोरिति व्यवस्यामः ।

किमन्ये पर्यासतेऽस्मत्स्तोमेभिरश्विना (ऋ० दादा ) । लोके त्राऽर्थोऽन्वासत उपासत इति वा व्यवहरन्ति वाग्योगविदः । अर्थे तु न कश्चन विशेषः ।

श्रप्रतीतो जयति सं धनानि (ऋ० ४।५०६ ) । श्रप्रतीतोऽप्रतिगतोऽपराङ- मुखो भवति । अयमेवार्थोऽन्यत्र ऋक्षु अप्रत्यत इति पदेनाभिधीयते लोके त्वेष दुर्लभोऽर्थः ।

इन्द्रप्रसूता वरुणप्रशिष्टाः (देवा) (ऋ० १० । ६६ । २ ) । प्रसूताः प्रेरिता भवन्ति । प्रशिष्टाश्च ज्ञप्ताः ।

देवान्वसिष्ठो अमृतान्ववन्दे यो विश्वा भुवनाभि प्रतस्युः (ऋ० १०।६५॥ १५) । अभिप्रतिष्ठन्तं विचरन्तीत्यर्थः । श्रभिनाभ्यतिरिक्त’ नास्यार्थस्योपलब्धिः, प्रमात्रपूर्वस्य तु तिष्ठत: प्रयाणे रूढिः ।

विप्रुतं रेभमुदनि प्रयुक्तम् (ऋ० १।११६।२४) । इह प्रवृजि: प्रक्षेपणे वर्तते । प्रवृक्त प्रक्षिप्त प्रास्तम् ।

गच्छामित्रान् प्रपद्यस्व मामीषां कञ्चनोच्छिषः (ऋ० ६।७५।१६) । यह प्रपद्यतिरस्कन्दने वर्तते । लोके त्वयं शरणागती दृष्टः । शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् इति गीतासु । प्रपत्तिः शरणागतिरुच्यत े ।

प्र वा व्रजति प्र वा धावति (श० ब्रा० २|४|१| ६ ) । अत्र प्रपूर्वस्य व्रजत े : संन्यस्य गमनं नार्थ:, त्वरितगमनमेव विवक्षितम् ।

वयं घा ते अपूर्येन्द्र ब्रह्मारिण वृत्रहन् ।

पुस्तमासः पुरुहूत वज्रिवो भूति न प्र भरामसि (ऋ०८/६६ ११) ॥

उपसर्गार्थिचन्द्रिका

३३

अत्र प्रपूर्वी भरतिरुपहरणे वर्ततं । लोके प्रपूर्वस्य भृमस्तिङन्तस्य प्रयोग एव दुर्लभः । कृति प्रत्यय एवं प्रभृतिः प्राभृतं प्राभृतकमित्याद्युपलभ्यत े ।

ता वामद्य सुमतिभिः शुभस्पती अश्विना प्रस्तुवीमहि (ऋ०८।२२।६ ) । प्रकरण स्तुम इत्येवार्थः । लोके तु प्रपूर्वस्य ष्टुञः स्तुत्यर्थो निगीर्यते । प्रस्तावः प्रारम्भो भवत्यवसरो वा । प्रस्तावनाऽऽमुखमुच्यते । प्रस्तूयतेऽधिक्रियते प्रारभ्यतेऽनयेति ।

श्रावस्य वातो धनु वाति शोचिरस्तुनं शर्याम् (ऋ०१।१४८।४) । अनुवाति धनुकूलः सन्वातीत्यर्थः ।

गर्भे तु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा ( ऋ० ४।२७।१ ) 1 अनुशब्दो व्याप्ती रूढः । अन्ववेदं साकल्येनाजनामित्याह । पूषेमा आशा अनु

वेद सर्वाः (ऋ०१०।१७।५) । अत्रापि पूर्वोक्त एवाऽर्थः । न निविदः पवे विपरिहरेत् (ऐ० प्रा० ३।११) । वैपरीत्येन न पठे दिव्यर्थः । विपरिहरण विपर्यासनं भवति क्रमव्युत्क्रमणं वा ।

अनु वं श्रेयांसं पर्यावर्तन्ते (ऐ० ब्रा० २।२० ) । पश्चादासनं गृह्णत इत्याह ।

अनु वीरंरतु पुष्यास्म गोमिरन्वश्वंरतु सर्वेण पुष्ट : ( वा० सं० २६।१६ ) । इह अनुपुषिः क्रमेण वर्धने वर्तते ।

उन्नो वीरां अर्पय भेषजेभिः (ऋ० २।३३।४) । उदर्पय- उत्थापय, उल्ला- धान् कुवित्यर्थः । श्रद्यापि यो गदान्निर्गतो भवति स उत्थित इति लोक भाषयो- च्यते ।

पिशाचास्तस्मान्नश्यन्ति न पापमुपजानते (अथर्व ० ४१३३ ८ ) । उपजानत उपलभन्त े, स्वस्य बोधस्य विषयं कुर्वते । लोक उपज्ञाऽऽद्यज्ञानं भवतीति प्रती- तम् । तिङि प्रयोगस्तु दुर्लभः ।

यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया विवहामि ते (अथर्व ० २।३३।१) | निर्ग मयामीत्याह । लोके तु विपूर्वस्य वृहतेः प्रयोगो दुर्लभः । मुष्कावर्हो गवामिव (अथर्व० ३।६।२) । मुष्क मावृहत्युन्मूलयतीति मुष्कावहः । पाणिनीयेऽप्याङ पूर्वो वृहिरत्रार्थे प्रयुक्त:- मूलमस्यार्वाह (४|४|८८ ) ।

शतेन पाशैरभिधेहि वरुणनम् (अथर्व ० ४ | १६ | ७) । श्रमि तं निर्ऋऋ तिथं- तामश्वमिवाश्वाभिधान्या (अथर्व ० ४ । ३६ । १० ) । अत्र सर्वत्राभिधान् बन्धने वर्तते । अभिधानीति बन्धनरज्जुर्भवति । उभोभयाविन्नुपधेहि वंष्ट्रा (ऋ०१० |

३४

८७१३) । उपरिधे हीत्यर्थः । उप त्मनि दधानो घुर्याशून् त्सहस्राणि शतानि वज्र- बाहुः (ऋ०४/२६/४) । उपदधान: संयोजयन्नित्यनर्थान्तरम् ।

ऋबीसे श्रत्रिमश्विनावनीतमुन्निन्यथुः सर्वगरणं स्वस्ति (ऋ० १।११६१८ ) । अवनीतमित्यवहितमाह । उन्निन्यथुः - निष्क्रमयामासथः । लोक उत्पूर्वो नयतिः प्रसिध्यति प्रयोगेषु, नावपूर्वः ।

दाशराज्ञे परियत्ताय विश्वतः सुदासे (ऋ० ७८३३८) । परियत्तः परि- वेष्टितो रुद्धो भवति । परिपूर्वस्य यतेलोंके प्रयोगो दुर्लभः ।

श्रञ्जः समुद्र मवजग्मुरापः (ऋ० १।३२।२) । श्रत्रावपूर्वो गमिनींचंगमने वर्तते । लोके त्ववगमनं बोधनं भवति । श्रवगच्छति वेदार्थम् । श्रब्ज इति शीघ्रार्थेऽव्ययम् ।

अपाधमदभिशस्तीरशस्तिहा (ऋ०८८२) । अत्र ऋच्यभिशस्तिशब्देन हिंसकमरिमभिप्रेति सायणः, श्ररिकृतां हिंसां वा । अन्यत्राऽभिशस्तिश्चारित्र- दूषणं भवत्याक्षाररणा वा । श्रसकृद्धि वेदेऽभिशस्तिपा इत्येवं विशिष्यन्तेऽग्न्यादयो देवाः ।

मा वः परि ष्ठात्सरयुः पुरीषिणी ( ऋ० ५। ५३।६) । सलिलस्य पूरर्णा सरयु - युष्मान्मा प्रत्यूहिष्ट, गतिप्रतिबन्धं मा स्म करोदित्याह । लोके तु पर्यवाभ्यामु- भाभ्यामयमर्थ उच्यते । पर्यवस्था विरोधनमित्यम रोक्तेः ।

इन्द्रं यं विश्वा भुवनाभिसन्दधुः (ऋ० १।१०१।६) । श्रभिसन्दधुराभिमुख्येन स्थापयन्ति स्वेषु कृत्येष्विति सायरणः । वयं तु जानीमोऽभिसन्धिरभिप्रायो भवति,

तु तेनाभिसन्दधतेऽभिप्रयन्ति इच्छन्तीत्यर्थ इति पश्यामः ।

ब्रह्म विद्वान् ब्रहमेवाभिप्रेति ( ( कौ० ब्रा० ११४) । अभिपूर्व इण प्राप्तौ वर्तते, स्वरितत्रितः कर्त्रभिप्राये क्रियाफले (पा० १।३।७२) इत्यत्र यथा । संवर्तयंस्तमः सूर्यात् (बृह० दे० २२६३) । निवर्तयन्नित्याह । अन्यत्र विरल- तमोऽयमर्थः ।

विमुच्या वयोऽवसायाश्वान् (ऋ० १।१०४|१) । ग्रवसायेति विमुच्येत्य- नर्थान्तरम् । स्यतिरुपसृष्टो मोचन इति निरुक्तम् । लोके दुर्लभोऽयमर्थः ।

देवीं वाचं दुन्दुभ प्रागुरस्व (अथर्व०५/२०१४ ) । उदीरयेत्यर्थः । लोके प्रायेणाङ पूर्वी गुरी उद्यमन इति हिमार्थं दण्डाद्युद्यमने दृश्यते ।

श्रमित्रा येऽत्र नः सन्ति तानग्न श्राद्या स्वम् (अथर्व० ६ १०४।३) । अत्राङपूर्वस्य दो अवखण्डन इत्यस्य प्रयोगः । लोके त्ववपूर्व एव प्रचरति प्रयोगः ।

३५

प्रतिशुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश्च नक्तम् (ऋ० ७। १०४ । ११) । प्रतिपूर्वः शुपिरत्र शोषणमात्रमेवार्थमाचष्ट इति सायरणभाष्या- दवसीयते । ग्रहन्तु मन्ये प्रतिरिह सद्योऽर्थकः, नानर्थकः । यथा प्रतिधुक्छब्देन सद्यः क्षरितं पय उच्यते यथा वा प्रत्युत्पद्यते मतिः, प्रत्युत्पन्नमतिरित्यत्र च तथैव प्रकृत इति सद्यस्कशोपरणमेव प्रार्ध्यमानमर्थवद् भवति ।

श्रयं चापरश्चित्रीयाकर उपसर्गकृतोऽर्थसङ्क्रमो वेदे - कलिः शयानो भवति संजिहानस्तु द्वापर (ऐ० ब्रा० ७।१५) इत्येतरेयश्रुतौ सम्पूर्व श्रोहाङ् गताविति धातुः शय्यापरित्यागे वर्तते न तु सङ्गमने । गत्यर्थकानि तु घात्वन्तराणि समुपानि साहित्यसंहित गमनमाहुः । परिसम्पूर्व एष त्यागमात्रेऽपि । विद्युतो ज्योतिः परिसंजिहानम् (ऋ० ७।३३।१०) यथेह |

निनदीभ्यां स्नातेः कौशले इति सूत्रे (पा० ८३८) निपूर्वः स्नातिः प्रसिद्धः । निस्नातः, निष्णात इति । प्रस्न इत्यत्र प्रपूर्वोपि विदितः । उत्पूर्वो विरलं विदितोऽविदितो वेति स वेद्यते—त उत्स्नाय रयिमभिप्रतस्थुरित्यग्वर्णः (२।१५: ५) । उत्स्नायोत्तीर्येत्यर्थः । अन्यत्रापि ( तै० ब्रा० ३।५।७।३) शृत उत्स्ना- तीति प्रयोगः ।

परापूर्वः षिच क्षरण इति धातुः पराकरणे वर्तते । धात्वर्थस्योपसर्गेणा- त्यन्त ं बाधात् । मा नो गयमारे अस्मत् परासिचः (ऋ० १८१३) । माहं प्रजां परासिचम् (प्राश्व० श्री० १।११।८ ) ।

सम्पूर्वी ग्रहिर्लोक एकीकरणे संक्षेपणे पिण्डीकरणे वा वत ते, वेदे तु विधारणे सन्धारणे वापि दृश्यते— इमे चिदिन्द्र रोदसी श्रपारे यत्संगृभ्णा मघ- वन्काशिरिते (ऋ० ३|३०|५) । संगृभ्णा समधारय इत्यर्थः । अयमेव गीतादिषु प्रथितस्य लोकसंग्रहशब्दस्यार्थः । लोकसङ्ग्रहो नाम लोकस्य सन्धारणं लोक- स्थितिप्रकल्पनं भवति ।

उपसर्गवशाद् धातूनां सकर्मकत्वा कर्मकत्वे

उपसर्गो विशेषकृदित्यसकृदुक्त चरम् । उपसर्गेण च तथाजातीयको धात्वर्थे विशेष उपजन्यते यथाजातीयकेनाकर्मको धातुः सकर्मकतां याति सकर्मकश्च कर्मकताम् । तदिदं लोकवेदयोः प्रसिध्यद्भिः प्रयोग र्व्यक्तयामः ।

श्लिषशीस्थासवस जनरुहजीयंतयः केवला अकर्मकाः सोपसर्गास्तु सकर्मकाः । अत्र दिशः काश्चिदनुक्रामाम:-

३६

अध्ययनायो पश्लिष्यति गुरु शिष्यः । गुरुमुपसीदति गुरौ संनिधीयत इत्यर्थः ।

,

अद्य देवदत्तो गुरुमुपशयिष्यत े श्वो यज्ञदत्तः । एष तयोरुपशयने पर्याय उप- शाय इत्यर्थः ।

सुवर्गे लोकेऽप्सरस एनं जाया भूत्वोषशेरते इति व्याकरणमहाभाष्ये । उदीयं नाभि जीवलोकं गतासुमेतमुप शेष एहि (ऋ० १० १८१८) । उपशेषे समीपे शेष इत्यर्थः । प्रतिशिष्ये जलनिधि विधिवत्कुशसंस्तरे (भा० वन० २८३। ३२) । अन्यत्र प्रतिशीङ् अकर्मकोपि - प्रञ्जलि प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः (रा० ६।२१।१) । प्रतिशब्दः सामीप्ये । श्रहं पतीन्नातिशये ( भा० वन० २३३।३८ ) । पतीनतिक्रम्य न शये, पतीनां शयनादर्वाङ् नाहं शये, नाहं संविशामीत्याह याज्ञसेनी । प्रायशोऽतिशायन शब्दोतिक्रमरणमात्रं गुणादिभि- राह । तत्र शीङ् गतिसामान्यमेवार्थमुपसङ्क्रान्त इति विज्ञयम् । ज्योगेव दोघं तम श्राशयिष्ठाः (ऋ० १० १२४|१) । आस्थाय शयनमकार्षीरित्यर्थः । यस्ते गर्भभमीवा दुर्गामा योनिमाशये (ऋ०१० | १६२१२ ) । अत्र शीङ् प्रास्थान ग्राश्रित्यावस्थाने वर्तत े । कुसुमान्याशेरते षट्पदाः (विक्रमोर्वश्यां २।२२ पाठान्तरम्) । दत्त मिष्टमपि नान्वशेत सः (शिशु० १४ । ४५) । दत्ते इष्टे च नान्वतप्यतेत्यर्थः । अत्रार्थेऽयमकर्मकोपि । तथा च भारविप्रयोगः - पुराऽनुशेते तव चञ्चलं मनः ( कि० ८1८) । चपलं ते मनोऽचिरादनुशयमनुतापं भक्ष्यतीत्यर्थः ।

आदित्यमुपतिष्ठते । पूजयतीत्यर्थः । गङ्गा यमुनामुपतिष्ठते। गङ्गायमुनया संगच्छत इत्यर्थः ।

अहरहः सन्ध्यामुपासीत । कस्तान्युधि समासीत जरामरणवान्नरः (भा० वन० १०।२७) । समासीतेति प्रतिरुन्धीतेत्याह । भीष्मद्रोणादयो युद्धेऽशक्याः प्रतिसमासितुम् । क्वचिदकर्मकोपि तव राम रणे शक्तास्तथा प्रतिसमासितुम् ( रा० ५।६७।२० ) इत्यत्र यथा ।

देवासुरा यज्ञमुपावसन्नस्मभ्यमनुवक्ष्यत्यस्मभ्यमिति (ऐ० ब्रा० २।१५) । यज्ञ प्रत्यक्षन्तेत्यर्थः । वनमुपवसन्ति यतयः । वने वसन्तीत्यर्थः ।

श्रनुजातो मारणवको मारणविकाम् । मारणविकायाः पश्चाज्जात इत्यर्थः । आश्चर्य पङ्गुर्नाम गिरिमारोक्ष्यति । उपसर्ग कृतेनार्थान्तरेण सकर्म- कत्वम् ।

अनुजीर्णो वृषलीं देवदत्तः । वृषल्याः कृते जरां गत इत्यर्थः ।

मा माने केवलोऽकर्मकः । यथा-

३७

तनौ ममुस्तत्र न कंटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः ( शिशु० १।२३) । प्रमदावमानिव पुरे महीयसि ( शिशु० १३।२) । प्रमदो हर्षः । श्रमान् इति मातेः शता । नन् । परिपूर्वस्तु सकर्मकः, उदरं परिमाति मुष्टिना । मिमीत इत्यर्थः ।

व तु वर्तनेऽकर्मकः । श्रनुपूर्वस्तु सकर्मकः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थे सर्वशः (गीता ४|११ ) । निर्र्वोपि कुशाम्बेन निर्वृता नगरी कौशाम्बी (तेन निर्वृतम् पा० ४।२।६८ इति सूत्रे वृत्तौ ) ।

वैदूर्यान् काञ्चनान्दान्ताम्फलं ज्योतीरसः सह ।

कृष्णाक्षांल्लोहिताक्षांश्च निर्वत्स्यमि मनोरमान् ।। ( भा०वि० १।२५) निर्वृतिरयं निष्पत्तिमाचक्षाणोऽकर्मकोपि क्वचित् । तद्यथा-हस्तपाद- शिरसां पञ्च पिण्डका निर्वर्तन्ते ( सुश्रुते १।३२२ ) । निर्वर्तेतास्य यावद्भि- रितिकर्तव्यता नृभिः (मनु०७/६१) । सिध्येदित्यर्थः । श्रत एव सकर्मकत्वलाभाय रिणच्प्रयोगः संगच्छते – मङ्गलोदग्रं तदहो निर्वर्तयत् ( राज० ३।२४७) । आङ पूर्वस्तु भयथा दृष्टः । न च पुनरावर्तते ( छा० उ०८।१५।१) । इत्यत्राकर्मकः । श्रावर्तते गृहमित्यत्र च सकर्मकः । श्रतिपूर्वोपि वृतिस्तथाविधः । कालोऽतिवर्तते । अत्येति काल इत्यर्थः । पितुर्वचनमतिवर्तते । लङ्घत इत्यर्थः ।

संजानातिः सकर्मकोऽकर्मकश्चार्थभेदात् । मातरं संजानाति । स्मरतीत्यर्थः । अत्र सकर्मकः । संजानते न यतन्ते मिथस्ते (ऋ० ७७६।५) । अत्रायमकर्मकः । संजानते संविद्रते ऐकमत्यं प्राप्ता भवन्ति । भृगुरपश्यद् ग्रापो वा प्रस्पर्धन्त वयं पूर्व प्रज्ञं वक्ष्याम इति ता एतयच समज्ञपयत् समन्या यन्त्युप यन्त्यन्याः (ऋ० २।३५।३) इति ताः समजानत (ऐ० ब्रा० २।२० ) । उक्तोऽर्थः ।

आङ्पूर्वः प्लवतिः सकर्मकोऽकर्मकश्चार्थभेदात् —

सवासा जलमाप्लुत्य (मनु० ५।७७)। जलमवगाह्य जले निमज्ज्येत्यर्थः । प्रथमो वार्षिको मासः श्रावणः सलिलाप्लुतः (रा० ४।२५।१२ ) । सलिलेन पूर्ण इत्यर्थः । स भीमसेनस्य रथम्… आपुप्लुवे सिंह इवाचलाप्रम् (भा० क ०८४। ३६) । उत्प्लुत्यारुरोहेत्यर्थः । आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः (भा० द्रोण ०११६।२५) । समाप्लुताभ्यां नेत्राभ्यां शोकजेनाथ वारिणा (भा० वन० ५६ ५१ ) इत्यादिषु सकर्मकः । स्नातक प्राप्लुतो व्रती (भ्रमरे) । श्राप्लुतः कृतस्नानः, स्नात्वा समावृत्त इत्यर्थः । गङ्गायामाप्लुतः शुचिः (भा० वन० ४२।२० ) । इत्युभयत्राकर्मकः । अतएव प्रस्नापनेर्थे रिणचं प्रयुञ्जते - माता३८

कुमारमादायाऽऽप्लाव्य ( पार० गृ० २।१) । एतेषु तीर्थेषु काशिकन्याऽऽप्लावय गात्राणि (भा० ५|३७| ५६ ) | सार्व वणिकमन्नाद्य सन्नीयाप्लाव्य वारिणा (मनु० ३।२४४) । अभिषिच्येत्यर्थः । मूत्रेणाप्लाव्य सप्ताहं स्नुहीक्षीरे ततः परम् (सुश्रुते० १।६८।१३) ।

वस तिरकर्मकः । सोपसर्गकस्तु सकर्मकः । उपाङनुभिः सहचरितस्य वसे: सकर्मकस्य प्रथन्ते प्रयोगाः । निर्पूर्वस्य तु विरल प्रयोग इति स दश्यते- कृच्छ्रवने वासमिमं निरुष्य ( भा० वन० २५।१८ ) । रोहिणीं निवसत्येष प्रीयमाणो मुहुर्मुहुः (सोमः ) ( भा० शल्य० ३५।५५)

श्रवपूर्वो लबिः सकर्मकोऽकर्मकञ्चार्थानुरोधात् - श्रन्तरेण तालुके य एष स्तन इवावलम्बते ( तै० उ० १।६।१)

स्कन्दिर् गतिशोषणयोः । श्राङपूर्वोऽवपूर्वश्च नैयत्येन सकर्मकः– अरातिमास्कन्दति । पुरीमवस्कन्द लुनीहि नन्दनम् ( शिशु० १।५१) । ते ( मरुतः) स्पन्द्रासो नोक्षरणोऽतिष्कन्दन्ति शर्वरीः (ऋ० ५।५२ ३ ) । उक्षरणः जलस्य सेक्तारः । श्रतिष्कन्दन्ति = प्रतिक्रामन्ति ।

भा दीप्तावकर्मकः । सोपसर्गस्तु सकर्मकतां याति यं यं लोकं मनसा संविभाति (संकल्पयति) इति मुण्डके । एकैवोषाः सर्व मिदं विभाति (ऋ०८। ५८।२) | विभाति प्रकाशयति इति यावत् ।

जीव प्राणधारणेऽकर्मकः, ग्राङपूर्व उपपूर्वस्तु समाश्रयणे वर्तमानः सकर्मकः - यमाजीवन्ति पुरुषं सर्व भूतानि संजय (भा० उद्योग० १३३।४३) ।

युध सम्प्रहारेऽकर्मकः निपूर्वः प्रतिपूर्वश्च सकर्मकः । तानहं नियोत्स्यामि ( भा० विराट० २|७) । कोऽन्यो बृहन्नलायास्तान् प्रतियुध्येत सङ्गतान् ( भा०वि० ६८।४२ ) । तांश्च प्रतियुध्यत्वं युद्धे राजा प्रवासितः (रा० १।७० । २६) । प्रवासितो हत इत्यर्थः । वसेश्चौरादिकस्य स्नेहच्छेदापहरणेषु पठितस्य निष्ठायां रूपम् । अतएव प्रमापरणं निवर्हरणं निकारणं विशारणं प्रवासनमिति पर्यायान् पठत्यमरः ।

रु शब्देऽकर्मकः, उपसर्गवशात्सकर्मकः । सारसाभिरुताः ( नद्यः) । निना- दिता इत्यर्थः । शब्देऽकर्मकः, उपसर्गवशात्सकर्मकः - हंसकारण्डवोद्गीताः

( नद्यः ) ( भा० वन० ) ।

क्रमु

पादविक्षेप इति धात्वर्थेन कर्मण उपसङ्ग्रहादकर्मकः । ग्राङ्पूर्वस्तु प्रायेण सकर्मकः - श्राक्रान्तं न किं केन वा (भर्तृ ० ) । परं ज्योतिषामुद्गमनेऽर्थेऽ

३६

व मंक एव श्राक्रमते सूर्यः । आक्रामति धूमो हर्म्यतलात् । निपूर्वोपि सकर्मको दृष्ट:- महान्तं चिदर्बुदं निक्रमीः पदा (ऋ० १।५।१६ ) ।

प्रतिपूर्वो नन्दिरभिपूर्वश्च सकर्मकतां न व्यभिचरति - (१) तो गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः (रघु० १।५७ ) । आशिषा वर्धयामा- सतुः । (२) श्रात्मविडम्बनामभिनन्दन्ति (३) । श्रतस्ते वचो नाभिनन्दामि ( शा०२) । न रोचयामीत्यर्थः । (४) तापसीभिरभिनद्यमाना शकुन्तला तिष्ठति ( शा० ४) ।

श्राङ्पूर्व स्तिष्ठतिराश्रयणे प्रतिज्ञाने वा प्रवृत्तो नित्यं सकर्मकः प्रास्थित- निषेधो वक्तव्यः ( वार्तिकम्) । रथमास्थितः । रथमास्थाय । रथमारुह्य त्यर्थः । अस्तिं सकारमात्रमातिष्ठन्ते व याकरणाः । अयमर्थः । केचिद् वैयाकरणा अस भुवि इत्यपठित्वा स भुवीत्यभ्युपगच्छन्ति ।

एकं वा इवं विबभूव सर्वम् (ऋ० ८५८२) । नाना बभूवेत्यर्थः । विशब्दो वैविध्ये |

क्षौतिरकर्मकः । सोपसर्गस्तु सकर्मको दृष्टः । पक्षिजग्धं गवाघ्रातमवधूत- मवक्षुतम् (मनु० ५।१२५) । प्रवक्षुतम् = उपरिकृतक्षुतम् ।

लम्बेरकर्मकस्यावस्त्र सनार्थस्योपसर्गवशः सकर्मकत्वलाभो भवति न च भव- त्यर्थानुरोधात्-जवंशी राजानमवलम्बते । राजानमवष्टम्भमाश्रयत इत्यर्थः । चित्रलेखा हस्तावलम्बिता शकुन्तला । हस्तेऽवलम्ब्य तमू (कथा ० ५।१२१ । १७३) । अवलम्ब्यापराः कण्ठे हरिम् (हरि०८३।२६) । न च भवति - अन्तरेख तालुके य एष स्तन इवावलम्बते ( तै० उ० १।६।१) । के भवन्तोऽवलम्बते गर्ते ह्यस्मिन्नधोमुखाः (भा० आदि०१३।१६) । वृक्षशाखास्ववलम्बन्ते चीराणि मुनीनाम् इत्यत्राकर्मकः ।

शन्न इषिरो अभिवातु वातः (ऋ० ७।३५।४) । अस्मानभिलक्ष्य वारिव- त्यर्थः । सुखो वातोऽभिवाति मामू ( भा० ४।२२३८ ) ।

वाशु शब्द इत्यभिनोपसृष्टः सकर्मकः । केवलस्त्वकर्मकः । नहि काको वाश्यत इत्याहयत्वं निवर्तते इत्यत्र भाष्येऽसकृदकर्मकः प्रयुक्तः । श्रभि त्वा नक्तीरवसो ववाशिरेऽग्ने वत्सं न स्वसरेषु धेनवः (ऋ० २।६।२ ) । इत्यत्राभिपूर्वः सकर्मकः । आक्रन्दनमाह्वानं चार्थः । वश कान्तौ इत्यस्माल्लिटि ववाशिरे इति रूपमिति भ्रमति सायरणः । तथा कल्पनायां हि बह्वनुपपन्नं भवति । वाश्यते रूपस्वीकारे तु ऋज्वी प्रक्रिया ।

लीङ श्लेषणेऽनुपसर्गोऽकर्मकः, उपेनोपसृष्टस्तु सकर्मको दृष्टः, तद्यथा-

यथा सर्वाणि भूतानि मृत्योर्भीतानि मारिष । धर्ममेवोपलीयन्ते कर्मवन्ति हि यानि च ॥ नथा कर्णं महेष्वासं तव पुत्रा नराधिप । उपालीयन्त सन्त्रासात् पाण्डवस्य महात्मनः ( भा० कर्ण ०६१।५०) ।

उपविशिः प्रायेणाकर्मकः । सकर्मकोपि बहुत्र दृष्टोऽर्थे निर्विशेषः । तद्यथा —— उपो नमोभिर्वृषभं विशेम (ऋ०८ ६६ ६) । तमार्तम् - उपाविशत्सा परिषत् समन्तात् (गो० सं रा० २२७६/४० ) । द्रौपदी यत्र भर्तृनुपाविशत् त्रब्रह्मत्वे स्वयं कुर्वन्ब्राह्मासनमुपविश्य – ( खा०

( भा० आदि० २।३०३-४) ।

गृ० १।१।२४) । लङ्कामुपनिविष्टे च रामे– (रा० ६।१६।२६) ।

निपूर्वः पदिः सकर्मकोऽकर्मकश्चार्थानुरोधात् — नारी निपद्यत उप त्वा मत्यं प्रेतम् (अथर्व ० १८ | ३|१) । उपशेत इत्यर्थः । देवा भने न्यपद्यन्त पत्नीः (अथर्व ०१४।२।३२) । पत्नीभिः समभवन्नित्यर्थः । महिषीमश्वायोपनिपादयन्ति

  • (श० ब्रा० १३५ २ २ ) । अत्राकर्मकः सकर्मकत्वला भाय रिगच्प्रयोगः ।

प्लवतिः केवलोऽकर्मको नयत्येन । सोपसर्गस्तु प्राप्ति-व्याप्त्यनुगमनादि ब्र. वाणः सकर्मकः सम्पद्यते । तद्यथा— सामभिः स्वर्गं लोकमम्यप्लवन्त (श० ब्रा० १२।२\२|१०) । प्राप्नुवन्नित्यर्थः – यश्चाषमं चरेल्लोभात्कामक्रोषा- वनुप्लवन (भा० शां० २१२।७ ) । अनुप्लवन् अनुप्लवमानः प्रनुगच्छन् । रजसाभिप्लुता नारी (मनु० ४।४१) । व्यवसनाभिप्लुतेऽपि वा (याज्ञ०२।५० ) । असाध्यव्याध्युपसृष्टे इत्यर्थः । अनुप्लवोऽनुचरो भवति । अनुप्लवते ऽनुगच्छति स्वामिनम् इति व्युत्पत्तेः ।

निष्क्रामतिरकर्मकः । श्रभिनिष्क्रामतिस्तु सकर्मकः त्र ुघ्नमभिनिष्कामति द्वारं स्रौघ्नम् (पा० ४।३।८६ सूत्रवृत्ती) ।

निष्परिकर्मकः, अभिनिष्पदिस्त, सकर्मकः । एतां दिशमभिनिष्पद्य (श० ब्रा० १३।८।१।६ ) | अभिनिष्क्रम्येत्यर्थः । अतएव सकर्मकत्वलाभाय णिचं प्रयुञ्जते वाचि कोविदाः प्रज्ञा वर्धमाना चतुरो धर्मान् ब्राह्मणमभिनिष्पाद- यति ( श० ब्रा० ११।५।७।१) । प्रापयतीत्यर्थः ।

पूर्वी वृतिरकर्मकः, अभिप्रपूर्वस्तु सकर्मकः – एतां दिशं रथोऽभिप्रवर्त ताम् (ऐ० ब्रा० ८।१०) । यत्र भागीरथीं गङ्गां यमुनाभिप्रवर्तते (रा० २।५४।२) ।

प्राङ्पूर्वः पूङ् पवने सकर्मकः - इन्द्रस्येन्दो जठरमापवस्व (२८०६।७० । १०) । ते नः सहस्रिणं रयिम् पवन्तामा सुवीर्यम् (ऋ० ६।१३।५) । पवन्तां क्षारयन्तामित्यर्थः । केवलस्त्वकर्मकः पवमानः पवते, वातो वातीत्यर्थः ।

४१

संविशेद् भार्तवे स्त्रियम् (मनु० ३।४८ ) । मिथुनीभावे संविशिः सकर्मकः स्वापे त्वकर्मकः - संविष्टः कुशशयने निशां निनाय (रघु० १।६५) ।

श्राङ्पूर्वः सदिः सकर्मकः - श्रा वामुपस्थमब्रहा देवाः सीदन्तु यज्ञियाः (ऋ० २।४१।२१) । उपपूर्वश्च । श्रथैनं प्रस्तोतोपससाद ( छा० उ० १।११। ४) । विनयेनोपपेदे ।

ष्ठा गतिनिवृत्तावकर्मकः । सोपसर्ग स्त्वर्थं वशात्सकर्मकोऽपि । एष दात्यू - हको हृष्टः ……

…..प्रवदन्मन्मथाविष्टः स्वकान्तामनुतिष्ठति ( रा० ३।७९।१२) । क्वचिदुपसर्गासङ्गेऽपि तत्कृतं सकर्मकत्वं न । न तत्र समुह्यत्सुधीरिति तदपि कलया दर्शयामः उपपूर्वो विशिः क्रियान्तरमुद्दिशलक्षणं क्रोडीकृत्य तदपेक्षया सकर्मकत्वं लभते । तद्यथा— श्रथ प्रायमुपवेक्ष्यामीत्यत्रापि प्रायमनशनमुद्दिश्य कृतासनो भविष्यामीत्येवार्थः । प्रतिशब्देऽतिरिक्तेपि स एवार्थः श्रायं प्रत्युपवे- क्यामि यावन्मे संप्रसीदति । ( रा० २।१११०३) ।

यत्रोपसर्गकृतमर्थान्तरं यद्वशश्चाकर्मकतया प्रयोगो धातूनां सकर्मकारणां स इदानीं प्रस्तूयते विषय :—

कश्चिदेवोपसर्गः सकर्मकस्य धातोरकर्मकतां प्रकल्पयति न सर्वोऽविशेषेण । सति च तस्मिन्नेकस्मिन्नर्थविशेष एवाकर्मकत्वमुत्पद्यते नार्थान्तरे । प्रतिनियत- विषया हि शब्दाः । तद्यथा प्रसु क्षेपणे स्पष्टं सकर्मकोऽयम् । उपसर्गयोगे कृतेऽर्थं वैशिष्ट्ये सकर्मकत्वं न जहाति प्रायेण कन्यां जातां परास्यन्ति । उदस्यति पुच्छं गौः । व्यास चतुरो वेदान् इति कृष्णद्वैपायनो व्यास इत्युच्यते । एकार्थीभावाय पदानि समस्यति । अभ्यस्यति वेदम् । शीलयतीत्यर्थः । त्रिभिर- भ्यस्ता षड् श्रष्टादश सम्पद्यन्ते । अभ्यस्ता गुणिता श्राहता उच्यन्ते । पर- मस्यति बिपरिपूर्वो विभ्रमे विपर्यये वा वर्तमानोऽकर्मको भवति स्तम्भ इति जानतो बुद्धिः सुपरिनिश्चिता कथं विपर्यसिष्यति ( मीमांसाभाष्ये १ | ११५) । देवेनोपहतस्य बुद्धिरय वा पूर्व विपर्यस्यति (मुद्रा०६८ ) । प्रतीकारो व्याषेः सुखमिति विपर्यस्यति जन: ( भर्तृ ० ३ | १९ ) ।

विपूर्वः करोतिरकर्मकोऽपि —प्रोदनस्य पूर्णाश्छात्रा विकुर्वते ( पा० १। ३।३५ सूत्रवृत्ती) । निष्फलं चेष्टन्त इत्यर्थः ।

अपपूर्वः किरतिरकर्मकः । अपाच्चतुष्पा च्छकुनिष्वालेखने ( पा०६।१।४२ ) । अवस्किरते वृषभो हृष्टः । भूरिति कर्म तु प्रसिद्धेः परित्यक्तम् । परित्यागश्चाप- पूर्वमेव किति गोचरयति ससुट्कं न किरतिमात्रम् ।

दिह उपच्चये सकर्मकः । सुषया विग्धे सद्मभित्तीः । सम्पूर्वस्तु संशये वर्त -

४२

मानोऽकमकः ज्ञातसारोऽपि खल्वेकः सन्दिग्धे कार्यवस्तुनि (शिशु० २०१२ ) ।

गह् बन्धने सकर्मकः । सम्पूर्वकस्तु सज्जीभावे वर्तमानोऽकर्मकः । नहि कुलशैलनिवहवाहिनो वायवः संनह्यन्ति श्रतितरले तुलराशी (हर्ष ० ) ।

वो श्रन्तकर्मरिण सकर्मकः । श्रवपूर्वः पर्यवपूर्वश्चाकर्मकोऽपि दृष्टः - शक्ति- मंमावस्यति हीनयुद्ध ( कि० १६।१७) । श्रवस्यति नश्यति ।

सृजतिस्तौदादिको नित्यं सकर्मकः । उपपूर्वस्तूपगमने सामीप्यप्राप्तो वर्त - मानोऽकर्मकः - अनाहूतोपसृष्टानामनाहू तोपजल्पिनाम् (भा० श्रादि० १३६ । १८) । उपसृष्टा उपगता इति समानोऽर्थः ।

वेड वेष्टने सकर्मकः । प्रतिसम्पूर्वकः संकोचेऽर्थे कर्मकः । प्रतिसंवेष्टते भूमि- रग्नौ चर्माहितं यथा ( भा० उ० ) ।

रणीञ प्रापणे सकर्मकः । श्रपपूर्वस्तु मार्गभ्र शमाचक्षाणोऽकर्मको भवति - न कश्चिन्नापनयते पुमानन्यत्र भार्गवात् ( भा० उ० ३६।३०) । प्रपनयते नयाद् भ्रश्यति, अपचरति दुर्वृत्तो भवतीत्यर्थः ।

वृणोतिः सकर्मकः । निर्र्वेस्तु सोऽकर्मको दृष्टः – निबंवार मधुनोत्रिय- वर्ग: ( शिशु० १०1३) । निर्ववार निर्वृति लेभे, सुखितो बभूवेत्यर्थः ।

बिच क्षरणे सकर्मकः - सिञ्चति केदारं जलेन (कुल्याभिः) । उत्पूर्वस्तु प्तीभावमाचक्षाणोऽकर्मकः - न तस्योत्सिषिचे मनः

मनः (रघु० १७१४३) । नोत्सिषिचे न जगवं । तथा च मल्लिः – सिञ्चतेः स्वरितत्वादात्मने-

पदम् ।

अनुपूर्वो वदिरकर्मकोऽपि । तत्र चानोरकर्मकादिति सूत्रं ( पा० १|३|४६) लिङ्गम् । अनुवदते कठः कलापस्य | अनुवदति वीरणा । क्वणतीत्यर्थः । विपञ्ची. सा तु तन्त्रीभिः सप्तभिः परिवादिनीत्यमरः । अत्र परिवदिरप्य- कर्मकः । सम्पूर्वी वर्दिनित्यमकर्मकः - सवदन्त्यक्षराणि (मुद्रा० ) । सिद्धानां न विस ंवदन्ति वाच: (अभिनन्दकृते रामचरिते १४।१००) । मिथ्या न भवन्ती-

त्याह ।

भूष तितिक्षायां दिवादिः सकर्मकः । मृष्यन्तु लवस्य बालिशतां तातपादाः ( उत्तर० ६ ) । परिपूर्वस्त्वकर्मकोऽसूयतिना समानाभिधेयो भवति पुरा- मृष्यति देवाय । परेषः (पा० १ ३८२) इति सूत्रवृत्तावुदाहरणम् । परिमृष्यति

असूयति ।

=

प्राङ्पूर्वो ण्यन्तो लीड् सम्मानने पूजाधिगमनेऽकर्मकः । लियः संमानन-

उपसर्मार्थचन्द्रिका

४३

शालीनीकरणायोश्च (पा० १।३।७० ) । इति सूत्रे जटाभिरुल्लापयत इत्युदाहर गम् । पूजां समधिगच्छतीत्यर्थं इति काशिका ।

हन हिंसागत्योः सकर्मकः प्रसिद्धः । यम उपरम इत्यपि । श्राङ्पूर्वयोरेत- योरकर्मकत्वमपि प्रसिध्यति - मिस्याऽस्य शिर ग्राहतेऽनवहितस्य । श्रायच्छते लोहान्यूष्मसहचरितानि । श्रायतानि भवन्तीत्यर्थः । सकर्मकत्वे कः कपाटमा- हन्ति, भारमुयच्छतीत्युदाहरणे ।

घृषु संघर्षे इति सकर्मकः । संपूर्वः स्पर्धायां वर्तमानोऽकर्मकः । तथा च रघुकारस्य प्रयोगः - स प्रयोगनिपुणैः प्रयोक्तृभिः संजघवं सह सन्निधौ (१९३६) ।

उपसम्पूर्वः पदिमरणे वर्तमानोऽकर्मकः : — श्रोत्रिये तूपसम्पन्ने त्रिरा- श्रमशुचिर्भवेत् (मनु० ५।८१) । प्रमीतोपसम्पन्नप्रोक्षिता हते इत्यमरः (२ ७।२६) ।

निविशस्वेति दुःखार्तः सन्तानस्य चिकीर्षया ( भा० प्रादि०४६ । १४) । निविश- स्वेत्यनेन दारान् परिगृहाण, गृहस्थो भवेत्याह । अतएव सकर्मकत्वलाभाय रिगच्प्रयोगः सूपपन्नो भवति — दौःष्यन्तिमप्रतिरथं तनयं निवेश्य ( शा०४) । नवेशिकानि च ततः श्रोत्रियेभ्यो गृहाणि च (याज्ञ० १।३३३ ) । नबैशिकानि = विवाहयोग्यानि इत्यर्थं इति मिलाक्षरा । ते चेदभिनिवेक्ष्यन्ते नाभ्युपैष्यन्ति मे वचः (भा० उ० ७७।१७ ) । श्रभिनिविशिरिहाक मंकोऽविवक्षितकर्माऽऽग्रह- मभिनिवेशमाचष्टे । अन्यत्र कर्म श्रूयते - सन्मार्गमभिनिविशते । गुरुभिरभिनि- विष्टं लोकपालानुभावैः (२०२७५) || अभिनिविष्ट मित्यभिव्याप्तमाह ।

श्रयतिः केवलः सकर्मकः, सम्पूर्वस्त्वकर्मकोपि । तद्यथा- प्रभ्राणि विद्युती वर्षमुच्छिष्टे संश्रिता श्रिता (अथर्व ० ११।७।२१) । चूतेन संश्रितवती नवमालि- केयम् इति शाकुन्तले (४।१२) ।

श्रापदिरक कोऽपि - श्रर्थधर्मो परित्यज्य यः काममनुवर्तते । एवमाप- द्यते क्षिप्रं राजा दशरथो यथा ( रा० २०५३।१३) । विपदमाप्नोतीत्यर्थः । एवमापद्यते ( माल०) । इदमर्थादापन्नं प्रसक्त सिद्धं भवतीत्यर्थः । एष रावणि- रापादि वानराणां भयङ्करः ( भट्टि० १५५६ ) । आपादि आपन्नः प्राप्त इत्यर्थः । कर्मविवक्षायां तु सकर्मकोऽपि तस्य मत्स्यः पारणी प्रपेदे ब्रा० १।८।१।१) । निपदिरकर्मकोपि—- स्वादोः फलस्य जग्ध्वाय यथाकामं निपद्यते ( ऋ० १०।१४६ । १५) । शेते इत्यर्थः । एष हीदं सर्वं गोपयत्यो निपद्यते (श० ब्रा० १४/१/४६ ) | न निपद्यते न विश्राम्यतीत्यर्थः ।

(श०

४४

श्राङ्पूर्वः पतिरकर्मकोऽपि श्रा " न इषा वयो न पप्तता (ऋ० ११८८ १) । श्रापप्तत = श्रापतत भागच्छत । प्रबलद्वीपिनमापतन्तमुच्चैः (राज० ३) ।

तत्र काष्ठं कुठारेण पाट्यमानं विधेवंशात् ।

श्रापत्य तस्य जङ्घायां मिस्वान्तः प्रविवेश तम् ॥ ( कथा० २४)

निर्वहतिः प्रायेणाकर्मकः । तद्यथा-चर्यां विना योगोऽपि

(कथा०

न निर्वहति ।

( सर्व० द०) । न सिध्यतीत्यर्थः । तत्कर्म निर्वहेच्च नः ३२।३२ ) । सिध्येदित्यर्थः । गृहस्थाश्रयेण सर्वाश्रमिणो निर्वहन्ति (मनु० ३७।७) इत्यत्र कुल्लूकः । प्रर्थान्तरे तु श्रोध इमाः सर्वाः प्रजा निर्वोढा (श० ब्रा० १८ ११२ ) इत्यत्र सकर्मकः । निर्वोढेति निर्पूर्वाद् वहेर्लुटि रूपम् । प्लावयितेति चार्थः ।

निविशतिरकर्मकः सकर्मकदचार्थभेदात् । मयि गोष्ठे निविशध्वम् (प्राश्व ० गृ० २।१०।६) । पदमेन चैव धूप निविशेत सदा स्वयम् (मनु० ७ १८८ ) । सैन्यनिवेशं कुर्यादित्यर्थः । द्वारवत्यां पुरा पार्थ निविशन्त्याम् इति श्रुतिः ( भा० अनु० ७०१२ ) । विश्वमन्यन्नि विशते यदेजति (ऋ०१०। ३७।२) । निवेष्टुकामस्तु पुरा श्रष्टावक्रो महातपाः । ऋषेरथ वदान्यस्य कन्यां व महात्मनः ॥ ( भा० अनु० १६।११) ॥ निवेष्टुकामः = विवाहमिच्छुः = दारकर्मरणा गृही बुभूषुः ।

संरभिस्त्वरायां वर्तमानोऽकर्मकः । श्रमन्वती रोयते, संरभध्वम् उत्तिष्ठत प्रतरता सखायः (ऋ० १०।३५।८ ) । संरभध्वमिति त्वरध्वम् इत्याह ।

अनुपूर्वोऽपि कपि चलने क्वचिदकर्मकः । सौहृदेन तथा प्रेम्णा सदा मध्यमु- कम्पसे (भा० आश्वमे० २।१० ) । अन्यत्र प्रायेण सकर्मकः ।

एतावतोपसर्गकृते धातूनां सकर्मकत्वा कर्मकत्वे साधूपदर्शिते भवत इत्यलं विस्तरेण ।

अर्थविकासक्रमः

अथेदानीमुपसर्गकृते धात्वर्थविकासे कः क्रम इति समासेन विन्यस्य निबन्धमिममवसाययामः ।

सम्पूर्व स्तिष्ठ तिमरणे वर्तत इत्युक्तमधस्तात्, अर्थबाधस्योदाहरण मिति चोदाहारि । श्रर्थान्तरसमुन्मेषस्य कः क्रम इति न प्रादर्शीति स सम्प्रति प्रदर्श्यते । तिष्ठतिरयं गतिनिवृत्तिमाह । सम्-शब्दश्च तस्याः परिपूर्णताम् । प्रत्यन्तं निवृत्तगतिको निश्चेष्टो मृतो भवतीति संस्थितशब्देनोच्यते ।

उपसर्ग चिंचन्द्रिका

४५

वृतु वर्तने इति धातुः सम्पूर्वी जनि क्रियायां वर्तते । हिरण्यगर्भः सम बर्ततेति श्रुतेः (ऋ०१०।१२२।१) । संवतिकेति नवं कुमुद किसलयम् इति कोषाच्च । तन्ना- तीव चित्रम् । जनिर्नाम प्रादुर्भावः स एव सम्यग्भवनम् । सम्शब्दः सम्यग्भावे । संवर्तत इत्युक्ते जायत इति गम्यते । स वर्तत इत्युक्ते प्रलीयत इति च । संव- तश्च भूतसम्प्लवः प्रलयः । तत्कस्मादेषा विरुद्धार्थोपलब्धिः ? उच्यते । संवर्तते जनपद एकीभवति समवतीत्यर्थ इति वाक्यपदीयटीकायां वृषभदेवः । इह सम्शब्दः सहभावे एकीभावे वर्तते । को नाम प्रलयः । प्रपञ्चस्यास्य कार्य- जातस्य कारणे लय इत्येव । कारणेन सहैकरूप्यं तदात्मनाऽवस्थानमिति यावत् । अतो युज्यते स सवर्तशब्देनाभिघीयेतेति ।

1

डुधाञ् इति धारणपोषणयोः पठितः । श्रभिपूर्वश्चायं कथने वर्तते । तत्कस्मात् । उपसर्गेण धात्वर्थो बलादन्यत्र नीयत इति चेत् । किं तवलमिति पृच्छामः । सति च तस्मिन् कस्मान्न धात्वर्थो यत्र तत्रान्यत्र च निरवग्रहं नीयते । किमिति विहरति परिक्रमरणमनुक्त्वाऽऽहननं नाचक्षीत ? किं वाऽनु- हरतिरनुकरणमनभिधाय स हननं नाभिदधीत । न ह्युपसर्गो धात्वर्थेनात्यन्तम- सम्बद्धमर्थान्तरं प्रकल्पयेत् । श्रवश्यमुपसर्गकारितेप्यर्थान्तरसङ्क्रमे हेतुनोप- पादकेन भाव्यम् । यावत्स हेतुर्नोद्भाव्यते तावद् बलादन्यत्र नीयत इति प्रति- ज्ञानमात्रेण कथं परितोषः प्रादुःष्यात्परीक्षकारणाम् ? अभिपूर्वो दधातिस्तावद् बन्धनेऽर्थे प्रयोगमवतरन् दृष्टः । तद्यथा - रशनाभिर्दशभिरभ्यधीताम् इति ऋग्वर्णः (१०।४।६) । यस्त्वा मृत्युरभ्यधत्त जायमानं सुपाशया इत्याथर्वणो वेदः (३५१११८ ) । तेनाहमिन्द्रजालेनामूंस्तमसाऽभिदधामि सर्वान् इति च (ISIS) । श्रश्वाभिधानीमादत्ते इति तैत्तिरीयश्रुतिश्च ( ५।१।२।१) । पति- यद् वध्वो वाससा स्वमङ्गमभिधित्सते (ऋक् १०८५।३० ) । बन्धन रूपोऽयमर्थ औपदेशिकेनार्थेन न न सम्बद्धः । धारणेन धानो ऽर्थेन सम्बद्धश्चायमिति न यत्नोपपाद्यः । यद्धयभितो धार्यते तद् बध्यत इति शब्दान्तरेणोच्यते । श्रभि- धानं च शब्दरर्थानां निबन्धनमेवेत्यभिदधातिः कथनमर्थान्तरं सङ्क्रान्तः कालेन ।

प्रतिपूर्व ईक्षतिरवसरप्रतिपालने वर्तते । कः क्रमोऽत्रार्थविकासे । श्रयमत्र कमो भाति - प्रतिः प्रातिलोम्ये पराङ भावे प्रसिद्ध आभिमुख्येऽपि । श्रभिप्रती श्राभिमुख्य ( ) इति वचनात् । श्रभिमुख्ये तावत् - गार्हपत्यं प्रतीक्षते ( भा० श्र० ६ १२२६) । शशित्रं प्रतीक्षते (का० श्री० २।२।१५) । तत् (मधु) प्रतीक्षते ( प्राग्नि०गृ० ११४) । प्रतीक्षमाणोऽभिजनं तदार्तमनार्तरूपः (रा० २।३३।२९) । अत्र सर्वत्राभिमुखीभूयेक्षत इत्येवार्थः । अत्राभिमुख्येनेक्षण-

४६

मेवार्थो न तु प्रतिपालनम्। प्रतिपालनं च नातो दवीयानर्थः । यतः प्रियो जन ऐप्यति तां दिशम् प्रति दिदृक्षयाञ्वस्थानमेव तद् भवति । प्रतिः प्रातिलोम्ये खल्वपि । प्रतिगतप्रतिषिद्धप्रतिरुद्धादिषु तथा दर्शनात् । प्रतिलोमं पराङ्मुर्ख भूय प्रतिनिवृत्य यदीक्षण तदपि प्रतिपूर्व ईक्षतिगह मुख्यया वृत्त्या । तथा चापस्त- म्वधर्म सूत्रे (२/६/१५/६ ) प्रयोगः- तत्प्रत्ययमुदकमुत्सिच्याप्रतीक्षा ग्राममेत्य । अप्रतीक्षा पुराङ्मुखीभूय पृष्ठतोऽनिरीक्षमाणा इत्यर्थः । श्रहं चाप्रतीक्षमेव सङ्ग्राम भूमिपर्यन्तमागत इति च महावीरचरिते । श्रविद्यमाना प्रतीक्षा पृष्ठतो- ऽवलोकन यस्मिन् कर्मरिण तद्यथा स्यात्तथेत्यर्थः । यं प्रतीक्षामहे तमुद्दिश्य पुरो वा पृष्ठतो वालोकयामो दृशौ व्यापारयामो यावत्स नोपैति ।

प्रतिपूर्व ईक्षतिः पूजामप्याह । तत्कस्मात् । अत्र प्रतिपालनं नार्थः । यच्च सादरमभिसुखमवलोकनमुपेतस्य जनस्य सा प्रतीक्षाऽतिथिपूजा | तथा च प्रयोगः - तस्यारण्येनैवात ऊध्वं होमो वृत्तिः प्रतीक्षाऽऽच्छापनं चेत्यापस्तम्ब- धर्मसूत्रे ( २६ २२।१७ ) ।

प्राङपूर्वी लभिः स्पर्श वर्तते । मुग्धे हि जन्ती मृतोऽयं स्यान्न वा मृत इति संशयाना ऊष्मास्ति नास्तीति हृदयदेशमालभन्ते इति ब्रह्मसूत्रभाष्ये ( ३।२।२० ) भगवच्छङ करपादाः । ग्रालम्भनं हिंसनं भवति । अश्वालम्भो गवालम्भ इत्यादिषु प्रथितोऽयमर्थः । तत्कथमयमर्थान्त रोप सङ्क्रमोऽजनीत्युच्यते - स्पर्शो हि तैक्ष्ण्यं गुणमादाय हिंसया परिणमते इति नातिरेकरणीयम् । पद- रुजविशस्पृशो घञ् इति कर्तरि घञन्तः स्पर्शशब्दो रोगवचनः । अत्र स्पृशतिः क्लेशने व्यथने वा वर्तते, मर्मस्पृग् इत्यत्र यथा । यद्येवं प्रकृते श्राल भेहिंसनमर्थः साधूत्प्रेक्षितो भवति ।

प्रतिपूर्वो शीङ् शय इति धातुविशेषणेऽतिक्रमणे वा वर्तते । श्रतिशायने तमबिष्ठनी (५।३।५५) सूत्रे यथा । तदर्थे कथमस्य वृत्तिरभूदिति विमृश्यम् । न कस्मादर्थान्तरोपगमो भवति । भारते नाहं पतीनतिशये (वन० २३३।३८ ) इति याज्ञसेन्या वचनं स्मर्यते । तत्र पतीनतिक्रम्य न शये न स्वपिमीत्यर्थः । प्रकृते शयनलक्षणो धात्वर्थोऽतिक्रमणेन निगीर्ण इत्यतिक्रमरणमात्रे वर्तते ।

अवपूर्वको दधाति मनोदाने वर्तते - श्रत्रार्थेऽवधानं दीयमानं प्रार्थये इत्यत्र यथा । कुतोऽस्यार्थान्तरस्य लब्धिः । श्रवपूर्वकोऽयं धातुरादौ नीचं निधानेऽवतिष्ट- त्रितः कूपेऽवहितो देवान् हवत ऊतय इत्यत्र ऋग्वण ( ३ । १०५।१७) तथा दर्शनात् । अव इत्यधोऽर्थे रूढः । तत् पूर्वत्रान्तरङ्गस्य मनसो नीचैनिधानमपरत्र बहिर- ङ्गस्यार्थस्य शरीरादेः । नीचैनिधानं तुभयत्र समानम् । तेनाऽयमर्थान्तरसङ्क्रमो

न क्लिष्टकल्पना भवति ।

उपसर्गायं वन्द्रिका

४७

अवपूर्वी गभिर्ज्ञाने वर्तते । तत्कस्मात् । किं सर्वे गत्यर्था ज्ञानार्था इत्य- स्मात् । नेत्याह । श्रवपूर्वस्य गमेश्छन्दसि निम्नगती वृत्तिर्दृश्यते - प्रञ्जः समुद्र- मवजग्मुरापः (ऋ० १ ३२/२) प्रवराः सत्यः समुद्र माप्नुवन्तीत्यर्थः ।

उत्सेको गर्यो भवति उत्सिक्तरच गर्वितः । दर्पाध्मातः । तत्कस्मात् । सिञ्चति नमि द्रवद्रव्यस्य कर्मत्वे क्षरणे क्षारणे वा वर्तते । सिञ्चति जलं जल- संचः । कररणत्वे त्वार्दीकरणे – प्रभिषिञ्चति पादपानुदकेन । उत्पूर्वोऽयम् श्रा- व. ण्ठं परिपूरणे प्रयुज्यते - तथा च दाशतये प्रयोग:- उद्वा सिञ्चध्वमुप वा पृणध्वम् (ऋ० ७ १६ ११) । तर्द्धक उत्सिच्य

छयन्ति इति शतपथे च

( ११।४।२६ ) | कर्मवाचिनि तिङि धातुरयं श्रीयमाणस्य पयसः पात्राद्- बहिः संप्लवने वर्तते — प्रतृप्तमुत्सृज्य जवेन सा ययावुत्सिच्यमाने पयसि त्वधि- श्रिते इति (भा० पु० १०६५) । ततो य श्रात्मसंभावनयात्मनि न माति स उच्यत उत्सिच्यत इत्यर्थान्तरसङ्कान्तिर्न विप्रकृष्टान्तरा भवति ।

प्रतिसन्धानं वञ्चनं भवति । तत्कस्मात् । उच्यते । मूलतः सन्धेरति- कम एवातिसन्धानमभूत् । तच्च वञ्चनान्नातिरितमिति कालपरिवासेना- विशेषेण वञ्चने प्रतारणेऽर्थे सङ्क्रान्तिः । ग्रत्र कौटल्यवचनं मानम् । कल्याणबुद्धिना सन्दधीत । शठं तथेति प्रतिगृह्या तिसन्दध्यात् (कौ० ६|३| १४१) । सन्धिमतिक्रामे दित्यर्थः ।

स विश्वजितमाजह यज्ञ सर्वस्वदक्षिरणम् (रघु० ४ = ६ ) | श्राजह्रे ऽनु- तष्ठौ चकारेत्यर्थः । श्राहरतिरवार्थे कस्मात्प्रवृत्तः । ग्रहरणं हि मुख्यया वृत्त्या समाहरणं सम्भरणं भवति । तेनाजहारेत्यस्य यज्ञसंभारान् संबभारेति मुख्योर्थः । ततस्तेषां यज्ञार्थत्वादाहरणमनुष्ठाने पर्यवस्यति । श्रनुष्ठानमाहरणशब्देनोच्यते । तादर्थ्यात्ताच्छन्द्यम् ।

अन्वेषणं विचयनं मार्गरणमिति प्रसिध्यतितमाम् । कुतोऽस्यार्थस्य लब्धिः । इप गताविति दिवादि मुख्यया वृत्त्याऽनुसरणे वर्तते । तथा च भारते प्रयोगः श्रन्विष्यामि भर्तारमहं प्रेतवशं गतम् (यादि० १२५ । १२४) । यद्विचयनार्थ- मनुसरणं तदेवान्वेषणं भवति नातोऽतिरिक्त किञ्चित् ।

सन्दोह इति समूहं सङ्घातं वक्ति । कुन्दमा कन्दमधुबिन्दुसन्दोहवाहिना मारुतेनोत्ताम्यति ( मालती ० ३ ) । कथमस्यार्थस्योपलम्भः । सम्शब्दः संसर्ग माह । समुदितः सम्पिण्डितो दोहः सन्दोह इति मुख्यया वृत्त्याऽर्थः । तथा च हरि-४८

वंशे विष्णुपुराणे च प्रयोगाः सर्वघोषस्य सन्दोहः क्रियतां किं विचार्यते (हरि० २।१६।११) । त्रिरात्रं च व सन्दोहः सर्वघोषस्य गृह्यताम् (हरि० २। १०/१४) । सर्वघोषस्य सन्दोहो गृह्यतां मा विचार्यताम् (वि०पु०५।१०।३६) । दुहि र्वाच्यार्थ तिरस्कारेण क्रियासामान्ये वर्तमानः समा सहायेन समूहमात्रमा - चष्टे । अयमेवात्रार्थान्तरसङ्क्रमे क्रमः ।

शत्रु उपरम इति धातुनिपूर्वः श्रवणे वर्तते । तत्कस्मात् । निशाम्यत्यत्रेति निशान्तं गेहम् । अत्र निपूर्वस्यापि शम एवार्थः । अर्थान्तसङ्क्रमे त्वयं क्रमो भाति – शान्तः प्रशान्तः समाहितचेता एव सम्यक् श्रवणायालं भवति । नितरां शाम्यति निशास्यतीति निशमिः श्रवणार्थं सङ्क्रान्तः ।

अर्थान्तरसङ्क्रमो दिङ्मात्रमिह दर्शितः । अशक्त्या विरम्यते परिच्छे- द्यभूम्ना च । भूयोविद्या अभियुक्ता अत्र भूयोऽभियोक्ष्यन्त इति सम्प्रार्थये ।

इत्युपोद्घातः ।

अथेदानों लौकिके वैदिके च साहित्ये स्थितान्धातुपसर्ग योगानर्थ सहचरिता- ननुक्रामामः । तत्र प्र इति प्रथममुपसर्गमुपादाय तावदुच्यते-