०७५ निस् (निर्)

अज्

  • {निरज्}
  • अज् (अज गतिक्षेपणयोः)।
  • ‘निर्वो गोष्ठादजामसि’ (अथर्व० २।१४।२)। निरजामसि=निरजामः=निःसारयामः=प्रकालयामः।

अय्

  • {निरय्}
  • अय् (अय गतौ)।
  • ‘यो भियातो निलयते’ (अथर्व० ११।२।१३)। निलयते=निरयते। (निसः प्रयोगश्चेत्)। निष्क्रामति, अपयातीत्यर्थः।
  • ‘स निलायत सोऽपः प्राविशत्’ (तै० सं० २।६।६।१)। निलायत=अन्तरधात्।
  • ‘यो निलायं चरति यः प्रतङ्कम्।’ (अथर्व० ४।१६।२)।
  • ‘असितं ते निलयनमास्थानमसितं तव’ (तै० ब्रा० २।४।४।१)। निलयनं रक्षास्थानम्, शरणम्।
  • ‘प्रसूत्या अग्निर्देवेभ्यो निलायत’ (तै० सं० ५।१।१।४)। निलायत निरगच्छत्, तिरोऽधत्त, तिरोहितोऽभूत्।

अस्

  • {निरस्}
  • अस् (असु क्षेपे)।
  • ‘स होतृषदनादेकं तृणं निरस्यति’ (श० ब्रा० १।५।१।२३)। निरस्यति=बहिष्प्रक्षिपति।
  • ‘यशांसि सर्वेषुभृतां निरास्थत्’ (भट्टि० १।३)। निरास्थत्=प्रामार्जीत्। मलिनान्युपरक्तानीवाकरोदित्यर्थः।
  • ‘युवयोर्हि कृते वृद्धः स कंसेन निरस्यते’ (वि० पु० ५।१९।१३)। निरस्यते=अवहेल्यते=अवज्ञायते।
  • ‘सर्व ऊष्माण अग्रस्तानिरस्ता विवृता वक्तव्याः’ (छां० उ० २।२२।५)। अनिरस्ताः=त्वरयानुच्चारिताः। निरस्तं त्वरितोदितमित्यमरः।
  • ‘अह्नाय तावदरुणेन तमो निरस्तम्’ (रघु० ५।७०)। निरस्तम्=अपाकृतम्, अपनीतम्, अपगमितम्।
  • ‘कौलीनभीतेन गृहान्निरस्ता न तेन वैदेहसुता मनस्तः’ (रघु० १४।८४)। निरस्ता=बहिष्कृता=निर्वासिता।
  • ‘निरस्तपादपे देशे एरण्डोपि द्रुमायते’ (हितोप० १।६७)। निरस्ता नष्टाः पादपा यत्र स निरस्तपादपो देशः तस्मिन्। इह निरासोऽसंनिधानमाह लक्षणया।
  • ‘त्वं पुण्डरीकमुख बन्धुतया निरस्तमेको निवापसलिलं पिबसीत्ययुक्तम्’ (मालती० ९।४०)। निरस्तं निक्षिप्तम्। निरस्तः प्रहिते बाण इत्यमरः। निरस्तः प्रहितमाह बाणे विषये। यदा यः प्रहितः स बाणो भवति तदा निरस्तशब्दः प्रहितार्थक इति कोषकृद्धृदयम्। न तु निरस्तः पुंसि प्रहितबाणमाहेति तद्विवक्षितम्। त्रिषूत्तरे इत्युपक्रम्य प्रकृतः पाठः। वाच्यलिङ्गका निरस्तदिग्धलिप्तका भवन्तीति तदर्थः। कश्चिद् बाणविशेषस्य संज्ञा इमा इति मन्यमानो भ्रान्तः।
  • ‘निरस्तः शण्डः। निरस्तो मर्कः (तै० ब्रा० १।१।१।५)। निरस्तो बहिष्कृतः।

अश्

  • {निरश्}
  • अश् (अश भोजने)।
  • ‘अथ यत्स्रुचं निरश्नाति तेन देवजनान् प्रीणाति’ (जै० ब्रा० १।४१)।

  • {निरि}
  • इ (इण् गतौ)।
  • ‘निर्यत् पूतेव स्वधितिः शुचिर्गात्’ (ऋ० ७।३।९)। निरगात्=निरक्रमीत्।
  • ‘चिरप्रविष्टो निरगान्नैव सोन्तःपुरान्नृपः। निरगादरिवर्गस्य हृदयात्तु रुजाज्वरः’ (कथा० १८।८३)॥ उक्तोऽर्थः।
  • ‘तीक्ष्णाञ्जनेनाञ्जितलोचनस्य यः सम्प्रदुष्टो न निरेति नेत्रात्। श्लेष्मा… (चरक० सूत्र० ५।१७-२१ इत्यस्य चक्रदत्तव्याख्यायाम्)। स्पष्टोऽर्थः।
  • ‘निरुध्यते तस्य गुदे पुरीषं निरेति कृच्छ्रादपि चाल्पमल्पम्। स एष निरयं प्राप्तो मत्स्यस्य परिचारकः’ (भा० वि० १८।२५)। निरयं पारतन्त्र्यम् इति नीलकण्ठः। दुःखमिति तु साधीयः स्यात्।
  • ‘दुर्लभो ह्यस्य निरयः शशाङ्कस्येव कल्मषम्’ (रा० २।३६।२७)। निरयः पापम्।
  • ‘निरेति सह मूत्रेण प्रतिलोमे निरुध्यते’ (माधव० ३२।१५)।
  • ‘निरेति पूति मुखनासिकाभ्यां तं पूतिनासं प्रवदन्ति रोगम्’ (सुश्रुत० उत्तर० २२।४)।

ईक्ष्

  • {निरीक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘यावदेतान्निरीक्षेहं योद्धुकामानवस्थितान्’ (गीता० १।२२)। निःशब्दः साकल्ये। सर्वत ईक्ष इत्यर्थः।
  • ‘निरीक्षते केलिवनं प्रविष्टः क्रमेलकः कण्टकजालमेव’ (विक्रमाङ्क० १।२९)।
  • ‘न चोदके निरीक्षेत स्वं रूपमिति धारणा’ (मनु० ४।३८)। स्वशरीरच्छायां नावलोकयेदित्यर्थः। इह निरः कश्चिदर्थविशेषो नास्ति।
  • ‘निरीक्षमाणस्तां ददर्श’ (रा० २।७४।१५)। निरीक्षमाणः=इतस्ततो विचिन्वानः।
  • ‘निरीक्ष्य दिशः सर्वाः’ (रा० ३।५६।५)। सर्वतो विलोक्येत्यर्थः।

ईह्

  • {निरीह्}
  • ईह् (ईह चेष्टायाम्)।
  • ‘निरीहस्य हतद्विषः’ (रघु० १०।२४)। निरीहस्य=निश्चेष्टस्य।

उक्ष्

  • {निरुक्ष्}
  • उक्ष् (उक्ष सेचने)।
  • ‘किं स्रुच्यप आनीय निरौक्षीः’ (श० ब्रा० ११।५।३।४)। निःशेषमसिच इत्यर्थः।
  • ‘तां दिशं निरुक्षति यस्यामस्य द्वेष्यो भवति’ (बौ० ध० २।५।८।५)। निरुक्षति=अभ्युक्षति।

उब्ज्

  • {निरुब्ज्}
  • उब्ज् (उब्ज आर्जवे)।
  • ‘अहन्वृत्रं निरपामौब्जदर्णवम्’ (ऋ० १।८५।९)। निरौब्जत्=प्रावाहयत्।

ऊह्

  • {निरुह्}
  • ऊह् (ऊह वितर्के)।
  • ‘आरादग्निं क्रव्यादं निरौहम्’ (अथर्व० ८।२।९)। निरूहामि=निर्गमयामि।
  • ‘गार्हपत्यादुदीचोऽङ्गारान्निरूहति’ (भा० श्रौ० ६।१०।५)। निरूहति उद्धरति।
  • ‘प्राणानस्य निरौहीत् क्षिप्रेऽमुं लोकमेष्यतीति’ (श० ब्रा० १०।५।५।९)। निरौहीत् निरक्रमयत्।
  • ‘निरूहै तं गर्भम्’ (श० ब्रा० ४।५।२।३)। उक्तोऽर्थः।
  • ‘गार्हपत्यादुष्णं भस्म निरुह्य’ (श० ब्रा० १२।४।२।२)। निरुह्य=निष्कास्य एकतो राशीकृत्येत्यर्थः।
  • ‘निरूढपशुबन्धः’ (शां० श्रौ० ६।१।३३)। निरूढः=दत्तविरेचनः।
  • ‘निरूहैः सानुवासनैः’ (चरक० सूत्र० १६।२२)।
  • ‘निरूहयेद्वा मतिमान् सुस्विन्नं तदहर्नरम्’ (सुश्रुत उत्तर० ३९।१२८)।
  • ‘वातघ्नमधुरैर्योज्या निरूहा वातजे ज्वरे’ (सुश्रुत० उत्तर० ३९।१२८)।

  • {निर्ॠ}
  • ॠ (ॠ गतिप्रापणयोः)।
  • ‘इयं वै (पृथिवी) निर्ॠतिरियं वैतं निरर्पयति यो निर्ॠच्छति’ (श० ब्रा० ७।२। २।२।११)। निर्ॠच्छति पापमाचरति। निरर्पयति नीचैर्गमयति। विनाशयतीत्यर्थः।
  • ‘मा ते गोदत्र निरराम राधसः’ (ऋ० ८।२१।१६)। निरराम=निर्गता मा भूमेत्याह। स्वे राधसि न आभजेति तात्पर्यार्थः।
  • ‘मा वो दात्रान्मरुतो निरराम’ (ऋ० ७।५६।२१)। उक्तोऽर्थः।
  • ‘देवान्त्सब्राह्मणानृत्वा जिह्मो लोकान्निर्ॠच्छति’ (अथर्व० १२।४।५३)। निर्ॠच्छति=निर्गच्छति। प्रच्यवत इत्यर्थः।

ऋच्छ्

  • {निर्ऋच्छ्}
  • ऋच्छ् (ऋच्छ गतीन्द्रियप्रलयमूर्त्तिभावेषु)।
  • ‘न हस्तवेष्यान्निर्ऋच्छति’ (पञ्च० ब्रा० ६।६।१३)। निर्ऋच्छति निर्गच्छति।
  • ‘ताभ्यः स निर्ऋच्छाद्यः। नः प्रथमोऽन्योन्यस्मै द्रुह्यात्’ (तै० सं० ६।२।२।१-२)। उक्तोऽर्थः।

ऋज्

  • {निर्ऋज्}
  • ऋज् (ऋज गतिस्थानार्जनोपार्जनेषु)।
  • ‘पशून् निरार्जत’ (तै० सं० १।५।९।३)। निरार्जत निरगमयत्।

कल्

  • {निष्कल्}
  • कल् (कल विल क्षेपे)।
  • ‘दत्त्वा पादप्रहारांस्तैस्तद्भृत्यै र्निरकाल्यत’ (कथा० ५२।३०९)। स्पष्टोर्थः।

कस्

  • {निष्कस्}
  • कस् (कस गतौ)।
  • ‘पिशुनस्थमिव रहस्यं समन्ततो निष्कसति पुष्पम्’ (पद्म० श्लो० ४)। निष्कसति उद्गच्छति।
  • ‘निरकासयद्रविमपेतवसुं वियदालयादपरदिग्गणिका’ (शिशु० ९।१०)। निरकासयत्=निरगमयत्, निरवासयत्।
  • ‘प्रायणीयस्य निष्कासं निदध्यात्’ (ऐ० ब्रा० २।५)। स्थाल्यां लग्नः पुलाको निष्कासः।
  • ‘स्वैरिण्यब्राह्मणी वेश्या दासी निष्कासिनी च या’ (याज्ञ० २।२९० इत्यत्र मिताक्षरायामुद्धृतं नारदवचनम्)। निष्कासिनी स्वाम्यनवरुद्धा दासी।
  • ‘याश्चानिष्कासिन्यः प्रोषिता विधवा न्यङ्गाः कन्यकाः’ (कौ० अ० २।२३।११)।
  • ‘स्त्रीणामनिष्कासिनीनाम्’ (कौ० अ० ३।१।७)। अनिष्कासिन्यः=गृहे ऽन्तरवस्थायिन्यः, गृहान्निष्क्रमणं न शीलयन्ति याः।

कु

  • {निष्कु}
  • कु (कु शब्दे)।
  • ‘ता (आहुतीः) असुरा निष्कावमादन्’ (तै० सं० ६।२।१।५)। निष्कावमशब्दम्, तूष्णीम्।

कुष्

  • {निष्कुष्}
  • कुष् (कुष निष्कर्षे)।
  • ‘(तान्) गृध्रा रुषा मम कुषन्त्यधिदण्डनेतुः’ (भा० पु० ३।१६।१०)। कुषन्ति=कुष्णन्ति=निष्कर्षन्ति (आन्त्राणि)।
  • ‘उपान्तयोर्निष्कुषितं विहङ्गैः’ (रघु० ७।५०)। निष्कुषितम्=खण्डितम्।

कृ

  • {निष्कृ}
  • कृ (डुकृञ् करणे)।
  • ‘यन्मे अक्ष्योरादिद्योत पार्ष्ण्योः प्रपदोश्च यत् आपस्तत्सर्वं निष्करन्’ (अथर्व० ६।२४।२)। निष्कुर्वन्तु निर्गतं कुर्वन्त्वित्याह।
  • ‘यददो देवा असुरांस्त्वया निरकुर्वत’ (अथर्व० ४।१९।४)। निरकुर्वत=निराकुर्वत=प्रत्यादिशत्।
  • ‘यश्चकार स निष्करत्’ (अथर्व० २।९।५)। ग्रहविकारस्य निष्कृतिं शमनं करोत्वित्याह।
  • ‘अनार्त्तेनैव तदार्त्तं यज्ञस्य निष्करोति’ (श० ब्रा० १२।४।२।१)। निष्करोति=अपनयति। अपाकरोति। यद् दण्डेन यदिष्वा यद्वारुर्हरसा कृतम्।
  • ‘तस्य त्वमसि निष्कृतिः सेमं निष्कृधि पूरुषम्’ (अथर्व० ५।५।४)। निष्कृधि=अगदं निर्गतरोगं कुरु।
  • ‘यदामयति निष्कृथ’ (हे ओषधयः) (ऋ० १०।९७।९)। उक्तोऽर्थः।
  • ‘निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः’ (ऋ० १।१४१।३)। निरक्रन्त=निरकुर्वन्=निरकासयन्=निरगमयन्।
  • ‘निराहावान् कृणोतन’ (ऋ० १०।१०१।५)। निराकृणोतन=कल्पयत=सज्जान्कुरुत।
  • ‘ते मित्रावरुणावब्रुवन्युवभिदं निष्कुरुतम्’ (ऐ० ब्रा० ८।४)। निष्कुरुतम्=संस्कुरुतम्।
  • ‘निर्मिता (शक्तिः) निरकारि मे (भट्टि० १५।५४)। निरकारि=अभेदि=व्यशारि।
  • ‘निष्कृण्वाना आयुधानीव धृष्णवः’ (ऋ० १।९२।१)। संस्कुर्वाणाः=शोधयन्तः=सज्जीकुर्वन्तः।
  • ‘निष्कर्ता विह्रुतं पुनः’ (अथर्व० १४।२।४७)। निष्कर्ता=समाधाता।
  • ‘यूयमीशिध्वे वसवस्तस्य निष्कृतेः’ (अथर्व० ४।२७।६)। निष्कृतेः=निष्करणस्य=परिहारस्य।
  • ‘ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते शठे। निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः’ (पञ्चत० ३।१५७)॥ निष्कृतिः प्रायश्चित्तम्, तपसा कृच्छ्रचान्द्रायणादिभिर्व्रतैः पापापनोदनम्।
  • ‘यं मातापितरौ क्लेशं सहेते संभवे नृणाम्। न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि’ (मनु० २।२२७)॥ निष्कृतिः=आनृण्यम्।
  • ‘तस्मा अर्चाम कृणवाम निष्कृतिम्’ (ऋ० १०।१६५।१)।
  • ‘स्त्रियास्तथाप चारिण्या निष्कृतिः स्याददूषिका’ (भा० शां० ३४।३०)। निष्कृतिर्दासीवदन्नाच्छादनमात्रेण दूरे स्थापनम्, धिक्करणमिति यावत्।
  • ‘भीमसेन त्वया कार्या तस्य (बालभवने) वासस्य निष्कृतिः’ (भा० वि० ३३।१३)। निष्कृतिर्वेतनं भृतिर्निर्वेशः। उपकारप्रतिक्रियेत्यर्थः।
  • ‘गर्भनिष्कृतिः’ (हर्ष०)। परिनिष्ठितो विवृद्धो गर्भः।
  • ‘पुनरुत्स्यूतं वासो देयं पुनर्निष्कृतो रथः’ (का० सं० ८।१५)। निष्कृतः सम्यक् कल्पितः सज्जीकृतः।
  • ‘निन्द्यैर्हि लक्षणैर्युक्ता जायन्तेऽनिष्कृतैनसः’ (मनु० ११।५३)। अनिष्कृतैनसः=अकृतप्रायश्चित्ताः=प्रायश्चित्तेनापूतपाप्मानः।
  • ‘एमीदेषां निष्कृतं जारिणीव’ (ऋ० १०।३४।५)। निष्कृतं संकेतस्थानम्।
  • ‘सोमो देवानामुपयाति निष्कृतम्’ (ऋ० ९।८६।७)। निष्कृतं संस्कृतं स्थानमिति सायणः।
  • ‘आत्मन एवाधियज्ञं निष्करोति’ (तै० सं० ६।५।१०)।
  • ‘यद्वै संशीर्यतेऽपान्यन्निष्कुर्वन्ति’ (पञ्च० ब्रा० १७।८।४)। निष्कुर्वन्ति संस्कुर्वन्ति समादधति। यद् रथादिकम्।
  • ‘समृद्ध्यै पुनर्निष्कृतो रथो दक्षिणा’ (तै० १।५।२)। निष्कृतः संस्कृतः सुष्ठु तष्ट्वा निर्मितो वा।
  • ‘प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतम्’ (साम० उ० ४।२।७।१)।
  • ‘पविर्जनीनासुपयाति निष्कृतम्’ (ऋ० ९।८६।३२)। निष्कृतं संस्कृतं पात्रमिति सायणः। पवमानः सोमो जनीनां पतिः पालक इति कोऽर्थान्वयः। जनयो वध्वो भवन्तीति रूढोर्थः।
  • ‘वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम्’ (ऋ० १।२।६)।
  • ‘जीविनां निष्कृतिर्नास्ति स्थिते कर्मणि नारद’ (ब्रह्मवै० पु० २।२४।३४)। निष्कृतिर्मोक्षः।

कृत्

  • {निष्कृत्}
  • कृत् (कृती छेदने)।
  • ‘य उस्रिया अप्या अन्तरश्मनो निर्गा अकृन्तदोजसा’ (ऋ० ९।१०८।६)। निरकृन्तत्=निरमोक्षयत्।
  • ‘तस्य तं शल्यं निरकृन्तत्’ (श० ब्रा० १।७।४।४)। निरकृन्तत्=उदहरत्।
  • ‘…करं देवी खड्गेन निरकृन्तत्’ (दुर्गा० ३।३२)। निरकृन्तत् निरच्छिदत्।

कृष्

  • {निष्कृष्}
  • कृष् (कृष विलेखने)।
  • ‘कालचक्रं भ्रमिस्तीक्ष्णं सर्वं निष्कर्षयज्जगत्’ (भा० भीष्म० ५।१९)। निष्कर्षयत्=निष्कर्षयति=उद्धरति=संहरति।
  • ‘तममुत्र निरये वर्तमानं वज्रकण्टकशाल्मलीमारोप्य निष्कर्षन्ति’ (भा० पु० ५।२७।२१)। कर्षणेन विश्लेषयन्ति।
  • ‘ततः सत्यवतः कायात्…अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्’ (भा० वन० २९७।१७)। निश्चक्राम=उज्जहार।
  • ‘वह्निं यथा दारुणि निष्कर्षन्ति गूढम्’ (भा० भीष्म० ४।२७)। निष्कर्षन्ति=निर्मथ्नन्ति।
  • ‘निष्क्रष्टुमर्थं चकमे कुबेरात्’ (रघु० ५।२६)। निष्क्रष्टुम=आहर्तुमाच्छेत्तुम् आमर्ष्टुम्।
  • ‘इषीकां च यथा मुञ्जात्कश्चिन्निष्कृष्य दर्शयेत्।’ (भा० आश्व० १९।२२)। निष्कृष्य=उद्धृत्य। अयमत्र निष्कर्षः। सार इत्यर्थः।
  • ‘एतद्विदन्तो विद्वांसस्त्रयीनिष्कर्षमन्वहम्’ (मनु० ४।१२५)। त्रय्याः सारं प्रणवव्याहृत्यादिकम्।
  • ‘अनुकर्षं च निष्कर्षं व्याधिपावकमूर्छनम्’ (भा० सभा० १३।१३)। निष्कर्षं करार्थं प्रजापीडनम् इति नीलकण्ठः।
  • ‘स्त्रीणां बुद्ध्यर्थनिष्कर्षादर्थशास्त्राणि शत्रुहन्। बृहस्पतिप्रभृतिभिर्मन्ये सद्भिः कृतानि वा’ (भा० अनु० ३९।१०-११)। निष्कर्षः सारः। निष्कर्षान्निश्चयात् (भा०) निष्कर्षः संक्षेपः।

क्रम्

  • {निष्क्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘स चक्रमे महतो निरुरुक्रमः समानस्मात् सदसः’ (ऋ० ५।८७।४)। निश्चक्रमे=निर्जगाम।
  • ‘निरेवान्यतरः क्रामति प्रान्यतरः पद्यते’ (श० ब्रा० ४।३।१।९)। उभयोरेकतरो निर्याति, एकतरश्च प्राप्नोतीत्याह।

क्री

  • {निष्क्री}
  • क्री (डुक्रीञ् द्रव्यविनिमये)।
  • ‘पशुमालभते सर्वाभ्य एव तद् देवताभ्यो यजमान आत्मानं निष्क्रीणीते’ (ऐ० ब्रा० २।३)। निष्क्रीणीते=निर्वेशेन मूल्येन क्रीत्वाऽऽत्मानं निर्मुक्तबन्धं करोतीत्यर्थः।
  • ‘अग्नेरेवास्य शरीरं निष्क्रीणामि सोमाद्रसम्’ (तै० सं० २।१।२।७)।
  • ‘ऋषेऽहं ते शतं ददाम्यहमेषामेकेनात्मानं निष्क्रीणै’ (ऐ० ब्रा० ७।१५)। उदितचर एवात्र सर्वत्र पदार्थः।
  • ‘निष्क्रयो दीयतां मह्यं ब्राह्मणा हि धनार्थिनः’ (भा० आश्व० ८९।१०)। निष्क्रयो मूल्यम्।
  • ‘दक्षिणा चात्र देया वै निष्क्रयश्च सुवर्णकम्’ (भा० १८।३०६)।
  • ‘ददौ दत्तं समुद्रेण पीतेनेवात्मनिष्क्रयम्’ (रघु० १५।५५)। निष्क्रयमात्ममोचकमूल्यम्।
  • ‘सम्यक् सम्पादितो वत्स भवद्भ्यां गुरुनिष्क्रयः’ (भा० पु० १०।४५)। गुरुनिष्क्रयो गुरुदक्षिणा। इह भागवतकारस्य निष्क्रयशब्दस्योच्चारणं कण्ठे नास्खलदिति चित्रम्। अथवा विदितोऽस्य रूढिं प्रत्यनादर इति नातिचित्रम्।
  • ‘त्रसत्तुषाराद्रिसुताससम्भ्रमस्वयंग्रहाश्लेषसुखेन निष्क्रयम्’ (शिशु० १।५०)। निक्रयो मूल्यं वेतनम्।
  • ‘न निष्क्रयविसर्गाभ्यां भर्तुर्भार्या विमुच्यते’ (मनु० ९।४६)। निष्क्रयो विक्रयः। विसर्गस्त्यागः।

क्वथ्

  • {निष्क्वाथ्}
  • क्वथ् (क्वथे निष्पाके)।
  • ‘सलिलद्रोणे निःक्वाथ्य’ (सुश्रुत० २।८०।१६)। निःक्वाथ्य=निष्क्वाथ्य=निष्पच्य।

क्षिप्

  • {निःक्षिप्}
  • क्षिप् (क्षिप प्रेरणे)।
  • ‘मक्षिका व्रणजातस्य निः क्षिपन्ति यदा कृमीन्’ (सुश्रुत० २।१५।३)। निक्षिपन्तीत्यर्थः। अस्थाने नेः स्थाने निसः प्रयोगः। सोऽयं बहुलः, किंकृत इति न सुवेदम्।
  • ‘किं शेषे हा हतो भुवि। निःक्षिप्य दीर्घौ निश्चेष्टौ’ (रा० ६।९३।१२)।
  • ‘निःक्षिप्तशस्त्रः पृथिवीं निरीक्ष्य पृथिवीपतिः’ (हरि० १।३०।२१)। निःक्षिप्तशस्त्रः संन्यस्तायुधः।

गम्

  • {निर्गम्}
  • गम् (गम्लृ गतौ)।
  • ‘अधिविन्ना तु या नारी निर्गच्छेद्रुषिता गृहात्’ (मनु० ९।८३)। स्पष्टोऽर्थः।
  • ‘अर्शांसि निर्गतानि’ (सुश्रुत० २।४८।१)। निर्गतानि=विगतानि।
  • ‘स तु ब्रह्मऋषेरंसे गतासुमुरगं रुषा। विनिर्गच्छन्धनुष्कोट्या निधाय पुरमागतः’ (भा० पु० १।१८।३०)॥ विनिर्गच्छन् (आश्रमाद्) निष्पतन्, निश्चरन्, निष्क्रामन्। ततः प्रयानित्यर्थः।

गल्

  • {निर्गल्}
  • गल् (लौकिको धातुः स्यन्दनार्थकः)।
  • ‘निर्गलिताम्बुगर्भं शरद्घनं नार्दति चातकोपि’ (रघु० ५।१७)। निर्गलितो निःशेषेण स स्रुतोम्बुगर्भो यस्य तं तथाभूतम्।

गुप्

  • {निर्गुप्}
  • गुप् (गुपू रक्षणे)।
  • ‘निर्जुगोप निशाचरान्’ (प्रहस्तः) (भट्टि० १४।१०६)। कार्त्स्न्येन ररक्षेति भावः।

गॄ

  • {निर्गॄ}
  • गॄ (गॄ निगरणे)।
  • ‘दासेरकः सपदि संवलितं निषादैर्विप्रं पुरा पतगराडिव निर्जगार’ (शिशु० ५।६६)। निर्जगार उद्गीर्णवान् इत्यर्थः।
  • ‘तं निर्जगार बलवान्मीनः’ (भा० पु० १०।५५।४)। निगीर्णवान्, न्यगारीत्, न्यगालीत्। नेरर्थे निरः प्रयोगः। सोऽयं भागवतकारस्यैव शोभते।
  • ‘कण्ठनिर्गीर्णशोणित-’ (रा० ३।३५।६२)।

ग्रह्

  • {निर्ग्रह्}
  • ग्रह् (ग्रह उपादाने)।
  • ‘विदग्धैर्निग्राह्यो न पुनरविदग्धैरतिशयः’ (उत्तर०)। निः शेषं ग्राह्यो निर्ग्राह्यः। रूपाश्रयेयं संज्ञा।
  • ‘रूपनिर्ग्रहश्च प्रयोग उपदेशे वा’ (पा० १।१।२२ सूत्रभाष्ये)। निर्ग्रहः स्पष्टावभासः।
  • ‘स्वादेवैनं योने र्निर्गृह्णाति’ (तै० सं० ६।५।७।२४)। निर्गह्णाति निष्कृष्य गृह्णाति।
  • ‘रूपनिर्ग्रहश्च शब्दस्य नान्तरेण लौकिकं प्रयोगम्’ (पा० १।२।६४ सूत्रे भाष्ये)। निर्ग्रहः स्पष्टो निर्भासः।

चर्

  • {निश्चर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘परिजनाह्वानेष्वादिशेत्यशरीरा वाचो निश्चेरुः’ (हर्ष० ४)। निश्चेरुः=निर्जग्मुः।
  • ‘वातोपि निश्चरंस्तत्र प्रवेशे विनिवार्यते’ (भा० आदि० ४२।३२)। निश्चरन्=वान्। पवमानः।
  • ‘न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः’ (भा० आदि० ४२।३२)। निश्चरितुम्=निष्क्रमितुम्=निरेतुम्, बहिर्गन्तुम्।
  • ‘ततः सूर्यान्निश्चरितां कर्णः शुश्राव भारतीम्।’ (भा० उ० १४६।१)। निश्चरिताम्=उद्गताम्=उच्चरिताम्।
  • ‘निश्चरन्ति यथा लोहपिण्डात् तप्तात् स्फुलिङ्गाः’ (याज्ञ० ३।६७)। निश्चरन्ति व्युच्चरन्ति विनिष्क्रामन्ति।
  • ‘तत्रैतच्चिरनिश्चरिते मनसि नोपपद्यते’ (न्याभा० ३।२।३१)। निश्चरिते निष्क्रान्ते।

चल्

  • {निश्चल्}
  • चल् (चल कम्पने)।
  • ‘पादाग्रे दृशमवधाय निश्चलन्तीम्’ (मुद्रा० ५।१३)। अनपक्रामन्तीम् इत्यर्थः।

चि

  • {निश्चि}
  • चि (चिञ् चयने)।
  • ‘निष्पूर्वश्चिनोतिः स्तेये वर्तते’ (पा० ३।३।५८ सूत्रे भाष्ये)।

चृत्

  • {निश्चित्}
  • चृत् (चृती हिंसाग्रन्थनयोः)।
  • ‘…वैरोचनो हयान्। प्रष्टीन्निश्चृत्य’ (ऐ० ब्रा० ८।२२)। मन्दुराया निःसार्येत्यर्थः।

जि

  • {निर्जि}
  • जि (जि जये, जि अभिभवे)।
  • ‘श्रेयान्मृत्यर्न निर्जयः’ (भा० द्रोण० २००।२७)। निर्जयः पराजयः।
  • ‘स दत्त्वा निर्जितां वृद्धिं करणं परिवर्तयेत्’ (मनु० ८।१५४)। निर्जिताम्=स्वस्वत्वेनात्मसात्कृताम्।
  • ‘मया ह्यलब्धनिद्रेण धृतेन तव निर्जये’ (रा० ६।११३।११)। निर्जये जित्वा प्रतिलब्धौ।

ज्ञा

  • {निर्ज्ञा}
  • ज्ञा (ज्ञा अवबोधने)।
  • ‘यत्र यत्र वै देवा यज्ञस्य च्छिद्रं निरजानंस्तद् धाय्याभिरपिदधुस्तद्धाय्यानां धाय्यात्वम्’ (ऐ० ब्रा० ३।१८)। निरजानन्=अजानन्=अविदुः।
  • ‘यद्धैतौ (सूर्याचन्द्रमसौ) नोदियातां न हैवेह स्वचन पाणी निर्जानीयुः’ (श० ब्रा० ४।२।१।२)। निरिति न विशेषकृत्।
  • ‘यदा वै म्रियते ऽथान्तर्धीयते ऽथैनं न निर्जानन्ति’ (ऐ० ब्रा० ८।२८)। न निर्जानन्ति निः शेषेण न जानन्ति।

टङ्क्

  • {निष्टङ्क्}
  • टङ्क् (टकि बन्धने)।
  • ‘शमदमादिवाक्यविहिताच्छमदमादेरानन्तर्यमथशब्दार्थ इति शङ्कराचार्यै निरटङ्कि’ (सर्वद० सं० पात०)। निरटङ्किः=अभ्यधायि।

डी

  • {निर्डी}
  • डी (डीङ् विहायसा गतौ)।
  • ‘निर्डीनं निश्चलं यानम्’ (भा० कर्ण० ४१।२७)।

तक्ष्

  • {निस्तक्ष्}
  • तक्ष् (तक्ष त्वक्षू तनूकरणे)।
  • ‘निस्तक्ष्णुवन्त्येव शिताग्रशस्त्राः’ (अवदा० जा० २९।२५)। निस्तक्ष्णुवन्ति निःशेषं तक्ष्णुवन्ति।
  • ‘यतो द्यावापृथिवी निष्टतक्षुः’ (तै० ब्रा० २।८।९।६)। निष्टतक्षुः=निस्ततक्षुः। तक्षणेन निर्ममिरे।

तप्

  • {निस्तप्}
  • तप् (तप सन्तापे)।
  • ‘यथा हिरण्यं निष्टपेदेवमेनमग्निष्टुन्निष्टपति’ (पञ्च० ब्रा० १७।६।४)। निष्टपेत्=निःशेषं तपेत्।
  • ‘निष्टप्तं रक्षो निष्टप्ता अरातयः’ (वा० सं० १।७।५९)। निःशेषं तप्ता इत्यर्थः। निस्तपति स्वर्णं स्वर्णकारः। पुनः पुनस्तपतीत्यर्थः।
  • ‘निसस्तपतावनासेवने’ (पा० ८।३।१०२) सूत्रे वृत्तावुदाहरणप्रत्युदाहरणे।
  • ‘तं निष्टपन्तं तपसा धर्मम् ( )। निष्टपन्तम्=अग्निना पुनानम्।

तुद्

  • {निस्तुद्}
  • तुद् (तुद व्यथने)।
  • ‘सूचिभिरिव निस्तुद्यते’ (सुश्रुत० १।६१।१८)। निस्तुद्यते=तोतुद्यते।
  • ‘निस्तुद्यते यस्य शिरोऽतिमात्रम्’ (सुश्रुत० उत्तर० २५।९)। निस्तुद्यते बलवत् पीड्यते। अतिमात्रमित्युक्ते निर्निरर्थको भवति।

तॄ

  • {निस्तॄ}
  • तॄ (तॄ प्लवनतरणयोः)।
  • ‘स निस्तरति दुर्गाणि स्वर्गलोकं च गच्छति’ (भा० वन० २००।३२)। दुर्गाणि विषमाण्यतितरतीत्याह।
  • ‘कथं च निस्तरेमास्मात्कृच्छ्रात्’ (भा० वन० २६३।४०)। निर्गच्छेमेत्यर्थः।
  • ‘निस्तरेदेकभक्तेन वैशाखं यो जितेन्द्रियः’ (भा० वन० १०६।२४)। निस्तरेत्=यापयेत्=नयेत्क्षपयेत्।
  • ‘प्रतिज्ञां तामनिस्तीर्यं’ (भा० स्त्री० १५।१९)। अनिस्तीर्य=अपारयित्वा=अनपवृज्य=अनिरुह्य।
  • ‘अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत्’ (याज्ञ० २।९)। अनिस्तीर्य=अपरिहृत्य।
  • ‘साल्हणिः स तु निस्तीर्णः श्वभ्रात्’ (राज० ८।२६७०)। निस्तीर्णो निर्गतः।
  • ‘अनिस्तीर्णप्रतिज्ञोऽग्निं प्रवेक्ष्ये हतकल्मषः’ (भा० पु० १०।८९।३०)। अतीर्णप्रतिज्ञानः=अपारितसङ्गरः।
  • ‘नावं निस्तीर्णकान्ताराः’ (अवमन्यन्ते) (भा० उ० १०५४)।
  • ‘त्रयोविंशतिरात्रं यो योधयामास भार्गवम्। न रामेण निस्तीर्णः’ (भा० शां० ४६।१४)। निस्तीर्णः=निर्जितः।
  • ‘संसार तव निस्तारपदवी न दवीयसी। अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः’ (भर्तृ० १।६८)। निस्तारः पारगमनम्।
  • ‘गृहीतराजवर्तनस्य तावन्निस्तारः कृतः’ (हितोप०)। निस्तारो निर्मोक्षः।

त्यज्

  • {निस्त्यज्}
  • त्यज् (त्यज हानौ)।
  • ‘स मां निस्त्यक्तवान्’ (रा० ४।४६।८)। निरस्तवानित्यर्थः।

दंश्

  • {निर्दंश्}
  • दंश् (दंश दशने)।
  • ‘निर्दश्य दशनैश्चापि क्रोधात्स्वरदनच्छदम्’ (भा० भीष्म० ४६।४२)। निर्दश्य=अवखण्ड्य। अत्र निरिति साकल्यं नाह यथाऽन्यत्र। आदश्येति पाठान्तरम्।
  • ‘दन्तान्निर्दशमानः’ (हरि० २।२४।३०)। अन्योन्यं ताडयन् घर्षन्नित्यर्थः।
  • ‘ओष्ठविद्रुमदलान्यमोचयन्निर्दशन्युधि रुषा निजाधरम्’ (सा० द० ४।७ व्याख्यायामुदाहरणम्)। निर्दशन् संदशन्।

दह्

  • {निर्दह्}
  • दह् (दह भस्मीकरणे)।
  • ‘आपः पादावनेजनी र्द्विषन्तं निर्दहन्तु मे’ (ऐ० ब्रा० ८।२७)। निर्दहन्तु निः शेषेण दहन्तु।

दा

  • {निर्दा}
  • दा (डुदाञ् दाने)।
  • ‘निर्दत्तम्’ (पा० ७।४।४७) इत्यत्र वृत्तावुदाहरणम्। निःशेषेण दत्तमित्यर्थः।

दिश्

  • {निर्दिश्}
  • दिश् (दिश अतिसर्जने, दिशिरुच्चारणक्रिय इति भाष्यकारः)।
  • ‘इमे पञ्चैते चत्वारोऽसावेक इति निर्दिशेयुः’ (पञ्च० ब्रा० १०।३)। निर्दिशेयुः=प्रविवेकेण कथयेयुः कीर्तयेयुः।
  • ‘नक्षत्राणि न निर्दिशेत्’ (भा० १३।४९९२)। तत्तन्नाम्ना न कीर्तयेत् नोद्दिशेत्।
  • ‘धर्मस्थः कारणैरेतैर्हीनं तमपि निर्दिशेत् (मनु० ८।५७)। निर्दिशेत्=घोषयेत्।
  • ‘शाखाभङ्गेऽकस्माद् वृक्षाणां निर्दिशेद्रणोद्योगम्’ (बृ० सं० ४५।२५)। निर्दिशेत्=ज्ञापयेत्।
  • ‘संज्ञया शकारं निर्दिशति’ (मृच्छ०)। हस्तादिसंकेतेन शकारं बोधयतीत्यर्थः।
  • ‘आदावेष भूपतिं युद्धोद्योगं स्वभूत्यागं निर्दिशति’ (हितोप० ३।३९)। कर्तव्यत्वेनोपदिशति।
  • ‘परिगणनया निर्दिशन्तो बलाकाः’ (मेघ० २२)। गणनया कीर्तयन्तः।
  • ‘निर्दिष्टानि दशैतानि शरीराणि महर्षिणा’ (सुश्रुत० १।९।११)। निर्दिष्टानि वर्णितानि।
  • ‘मानुषान्मृत्युरेतेषां निर्दिष्टो ब्रह्मणा पुरा’ (भा० वन० १७३।१५)। निर्दिष्टः–निश्चित्य घोषितः।
  • ‘उल्का नक्षत्रग्रहघाते तद्भक्तीनां क्षयाय निर्दिष्टा’ (बृ० सं० ३२।१७)। उक्तोऽर्थः।
  • ‘इदं दशरथाय वै निर्दिष्टं पायसं मया’ (गोरेसियो सं० रा० १।१५।८)। दशरथमुद्दिश्य निर्मितमित्यर्थः।
  • ‘स्वकर्मफलनिर्दिष्टं ततो जात्यन्तरं गताः’ (मार्क० पु० १५।७९)। निर्दिष्टं निर्धारितम्।
  • ‘प्रथमानिर्दिष्टं समास उपसर्जनम्’ (पा० १।२।४३)। प्रथमया यन्निर्दिश्यत उच्चार्यते तत्।
  • ‘निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते’ (मनु० ७।१४४)। निर्दिष्टमुक्तलक्षणम्।
  • ‘निर्दिश्यापह्नुते च यः’ (मनु० ८।५३)। निर्दिश्य=विशिष्य निवेद्य। निर्दिष्टकारी=यथोक्तकारी।
  • ‘विस्तारवचनं निर्देशः’ (सुश्रुत० २।५५७।१७)।
  • ‘ओं तत्सद् इति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः’ (गीता १७।२३)। निर्देशो निरूपणं वर्णनम्।
  • ‘एतत्सर्वमनिर्देशेनैवमुक्तं यत्कर्तव्य पुरुषेणेह लोके’ (भा० शां० १०८।३३)। अनिर्देशेन सामान्येन सामस्त्येन अपृथक्त्वशः, न तु शृङ्गग्राहिकया। समुदितमिति यावत्।
  • ‘कृताशं कृतनिर्देशं कृतभक्तं कृतश्रमम्। भेदैर्ये व्यपकुर्वन्ति ते वै निरयगामिनः’ (भा० अनु० २३।७३)॥ निर्देशः प्रतिज्ञानम्, संवित्, समयः।
  • ‘सुरापानं ब्रह्महत्या गुरुतल्पमथापि वा। अनिर्देश्यानि मन्यन्ते प्राणान्तमिति धारणा’ (भा० शां० १६५।३४)॥ अशोध्यानि पातकानीत्यर्थः। येषां प्रायश्चित्तं न निर्दिश्यते विधीयते तानि तथोक्तानि।
  • ‘पितुर्वचननिर्देशात्’ (रा० १।१।२३)। निर्देश आज्ञेति भूषणम्। वचनमेव निर्देश इति वचननिर्देशः।

दिह्

  • {निर्दिह्}
  • दिह् (दिह उपचये)।
  • निर्दिग्धं मांसलं भवतीति कोषकारो हलायुधः।

दी

  • {निर्दी}
  • दी (दीञ् क्षये)।
  • ‘अध श्येनो जवसा निरदीयम्’ (ऋ० ४।२७।१)। निरदीयम् उदपतम्।

दुह्

  • {निर्दुह्}
  • दुह् (दुह प्रपूरणे)।
  • ‘निरस्य रसं गविषो दुहन्ति ते’ (ऋ० १०।७६।७)। निर्दुहन्ति=निष्कासयन्ति।
  • ‘वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च’ (मनु० २।७६)। निरदुहत्=उदहरत्।
  • ‘ततस्तथा ददौ तस्मै रत्नानि मगधाधिपः। निर्दुग्धरत्नरिक्तेव पृथिवी बुबुधे यथा’ (कथा० १६।८३)॥ निर्दुग्धानि उद्धृतानि।

दॄ

  • {निर्दॄ}
  • दॄ (दॄ विदारणे)।
  • ‘निर्दारितांसहृदयान्सरथाश्वनागान्’ (ऊरु० १।३२)। निर्दारितं विदीर्णमंसहृदयं येषां तान्।

दै

  • {निर्दै}
  • दै (दैपू शोधने)।
  • ‘यथैव क्षेत्रनिर्दाता निर्दातं क्षेत्रमेव च’ (भा० शा० ९७।६)। निर्दाता=तृणाद्यपनयेन शोधकः।
  • ‘यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति’ (मनु० ७।११०)। उक्तोऽर्थः।

द्युत्

  • {निर्द्युत्}
  • द्युत् (द्युत दीप्तौ)।
  • ‘राथन्तरमेव तद्रूपं निर्द्योतयति’ (पञ्च० ब्रा० ११।२।७)। स्पष्टयति, विशदयतीत्याह।

द्रु

  • {निर्द्रु}
  • द्रु (द्रु गतौ)।
  • ‘बहिर्बिलं निर्द्रवतु’ (अथर्व० ९।८।११)। निर्द्रवतु=निर्धावतु त्वरितं निष्क्रम्यापगच्छतु।
  • ‘ग्रीवास्ते कृत्ये पादौ चापि कर्त्स्यामि निर्द्रव’ (अथर्व० १०।१।२१)। उक्तोऽर्थः।
  • ‘यस्माद्वा प्रागुदीचीरापो निर्द्रवेयुः’ (लौ० गृ० ११।१)। अभिष्यन्देरन्, प्रवहेयुः।

धा

  • {निर्धा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘निररत्नौ मघवा तं दधाति’ (ऋ० १०।१६०।४)। निर्दधाति निष्कृष्य धारयतीत्यर्थः।

धाव्

  • {निर्धाव्}
  • धाव् (धावु गतिशुद्ध्योः)।
  • ‘सदानीरेत्युत्तराद् गिरेर्निर्धावति’ (श० ब्रा० १।६।३।१६)। निर्धावति=उद्भवति।

धू

  • {निर्धू}
  • धू (धू विधूनने)।
  • ‘निर्धूनुते’ (शां० ब्रा० ३१।८)। प्रेज्य बहिष्कुरुत इत्यर्थः।
  • ‘यथा निर्धूतसक्तुर्भस्त्रैवं संलीनः शिष्ये’ (श० ब्रा० १।६।३।१६)। निर्धूता विधूय निःसारिताः सक्तवो यस्याः सा तथोक्ता।
  • ‘निर्धूतान्वायुना पश्य सन्ततान् पुष्पसञ्चयान्’ (रा० २।९५।१०)। निर्धूतान् प्रकीर्णान् विक्षिप्तान्।
  • ‘बालमृगैश्च निर्धूतैः’ (रा० ५।३७।४२)। अनुसारेण प्रधावितैरित्याह।
  • ‘परुषाणि च संश्राव्य निर्धूतोस्मि बलीयसा’ (रा० ४।८।३२)। निर्धूतः=अवक्षिप्तः तिरस्कृतः।
  • ‘ज्ञाननिर्धूतकल्मषाः’ (गीता ५।१७)। ज्ञानापहतपाप्मान इत्याह।
  • ‘साहसी दृष्टदोषश्च निर्धूताद्यास्त्वसाक्षिणः’ (याज्ञ० २।७१)। निर्धूतो बन्धुभिस्त्यक्त्तः।
  • ‘दुःखं शोकं च निर्धूय’ (भा० वि० ६९५)। निर्धूय=अपनुद्य=कम्पनेनेवापाकृत्य।

धृ

  • {निर्धृ}
  • धृ (धृञ् धारणे)।
  • ‘किमलम्बताम्वरविलग्नमधः किमवर्धतोर्ध्वमवनीतलतः। विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन्न निरधारि तमः’ (शिशु० ९।२०)॥ निरधारि=निरणायि। व्यवासायि।
  • ‘वायुर्निगच्छति तं निर्धारयेत्’ (वा० प्रा० २।३।४१)। निर्धारयेत्=विधारयेत्=उपरमयेत्।
  • ‘यतश्च निर्धारणम्’ (पा० २।३।४१)। जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणम् इति वृत्तिः।
  • ‘निर्धारितेर्थे लेखेन खलूक्त्वा खलु वाचिकम्’ (शिशु० २।७०)। निर्धारिते निर्णीते व्यवस्थापिते।

धे

  • {निर्धे}
  • धे (धेट् पाने)।
  • ‘ते यज्ञस्य रसं धीत्वा यथा मधुकृतो निर्धयेयुः’ (श० ब्रा० ३।२।२।१)। संचूषेयुरित्यर्थः।
  • ‘अग्निर्विषमहेर्निरधात्’ (अथर्व० १०।४।२६)। निरधात्=निरपात्।
  • ‘निर्धयति (आदित्यः) यदिदं किं च शुष्यति’ (श० ब्रा० २।६।३।१४)। निःशेषेण रसमस्य पिबतीत्याह।
  • ‘तं निर्धीय निरस्यति’ (श० ब्रा० १।६।४।२०)। निर्धीय=निर्धाय=निष्पाय=निष्पीय। निःशेषेण संचूष्य। स एव धीतः पश्चाद् ददृशे इति च तत्रैव। निर्धीतो निष्पीतः।

ध्मा

  • {निर्ध्मा}
  • ध्मा (ध्मा शब्दाग्निसंयोगयोः)।
  • ‘निरव्रताँ अधमो रोदस्योः’ (ऋ० १।३३।५)। निरधमः=पराणुदः।
  • ‘निरन्तरिक्षादधमो महामहिम्’ (ऋ० ८।३।२०)। उदीरितोऽर्थः।

ध्यै

  • {निर्ध्यै}
  • ध्यै (ध्यै चिन्तायाम्)।
  • ‘निर्ध्यायतोऽनिशम्। सुधासूतिकलामौलिम्’ (राज० १।२७९)। निर्ध्यायतः=निरन्तरं ध्यायतश्चिन्तयतः।

नम्

  • {निर्णम्}
  • नम् (णम प्रह्वत्वे शब्दे च)।
  • ‘अब्रवीत्कुपिताकारा कराला निर्णतोदरी’ (रा० ५।२५।२०)। निर्णतोदरी लम्बोदरी, उदरिला, पिचण्डिलेत्यर्थः। अत्यन्तनिम्नोदरीस् इति तु तिलककारो रामः। तनुमध्यात्वं हि स्त्रीणां गुणः सुरूपतां विशेषयति। सा च विनतानाम्नी करालेति नेदं विशेषणं युज्यते।
  • ‘देवशत्रुर्महाकायस्ताम्रास्यो निर्णतोदरः’ (भा० ७।७८९४, हरि० १५९०४)। उक्तोऽर्थः। अन्यत्रापि रामायणे (३।१७।२६) शूर्पणखावाक्ये निर्णतोदरीति प्रयोगः। तत्राप्युक्त एवार्थः।
  • ‘नपादित्यनन्तरायाः प्रजाया नामधेयं निर्णततमा भवति’ (नि० ८।५)। निर्णततमा। पुत्रस्तावत् पितुर्नीचैर्नतो भवति, ततोपि नीचैर्नततमः पौत्र इति दुर्गः।
  • ‘वयसः पक्षयोर्निर्णामौ भवतः’ (श० ब्रा० १०।२।१।५)।
  • ‘अपरस्मिन्प्रस्तारे पक्षनिर्णामयोः’ (सत्या० श्रौ० २५।६।४३)। निर्णामो वक्रप्रदेशः।

नश्

  • {निर्नश्}
  • नश् (णश अदर्शने)।
  • ‘निर्नष्टनामकृत्य-’ (राज० १।८३)। नितरां नष्टानि नामकृत्यानि येषां ते।
  • ‘निष्क्रव्यादमनीनशत्’ (ऋ० १०।१६२।२)। निरनीनशत् समूलकाषमकषत्, समूलमुदच्छिनत्।

निज्

  • {निर्णिज्}
  • निज् (णिजिर् शौचपोषणयोः)।
  • ‘पात्राणि निर्णेनिजति’ (श० ब्रा० १।३।१।२)।
  • ‘गात्राणि ताभिर्निर्णेनिक्ते’ (काठक० ३४।११)। इहोपसर्गो धात्वर्थानुवादी, न विशेषकः। निर्णिगिति पापशोधने उल्बणे वासस्यलङ्करणे वा दृश्यते।
  • ‘वृद्धातिक्रमसंभृतस्य महतो निर्णिक्तये पाप्मनः। प्रायश्चित्तमथादिशन्तु गुरवो रामेण दान्तस्य मे’ (महावीर० ४।२५)॥ निर्णिक्तिः शुद्धिः।
  • ‘इदमहतं वासः, इदं निक्तम्, इदं च निर्णिक्तम्’ (इति वयम्)।

नी

  • {निर्णी}
  • नी (णीञ् प्रापणे)।
  • ‘निर्वै क्षत्रं नयति हन्ति वर्चः’ (अथर्व० ५।१८।४)। निणैयति (ब्रह्मगवी)=अपनयति।
  • ‘अग्निर्विषमहेर्निरधात् सोमो निरणयीत्’ (अथर्व० १०।४।२६)। निरणयीत्=निरणयत्=निरकासयत्।
  • ‘भगस्त्वेत इति हस्तेगृह्य निर्णयति’ (कौ० सू० ७६।१०)। निर्णयति निष्क्रमयति। कुमारीमिति शेषः।
  • ‘अभिपूर्वं निर्णयते नमो अस्त्वस्मै’ (अथर्व० ११।२।२२)।
  • ‘पुरावृत्तकथोद्गारैः कथं निर्णीयते परः’ (हितोप० ३।१०५)। निर्णीयते स्वरूपतोऽवधार्यते, परिच्छिद्यते। अलंकृत्य शिशुं सम्यगभ्यर्च्य धवलाक्षतैः। स्वस्ति वाच्य समारूढवाहनं निर्णयेद् गृहात् (वीरमित्रोदये २५४ तमे पृष्ठे समुद्धृतं बृहस्पतिवचनम्)॥ निर्णयेत् निष्क्रमयेत्।
  • ‘हस्तेगृह्य निर्णय’ (कौ० सू० ७६।१०)। निर्णय=निर्गमय=निःसारय। समौ निर्णयनिश्चयौ (अमरः)।
  • ‘अवितृप्तया तथापि मे हृदयं निर्णयमेव धावति’ (कि० २।२९)। निर्णयं सन्देहान्तगमनमेवानुसरति अपेक्षत इत्याह।
  • ‘सर्वज्ञस्याप्येकाकिनो निर्णयाभ्युपगमो दोषाय’ (माल० १)। निर्णयो व्यवसायात्मिका बुद्धिः। सत्यानृतयोः प्रकर्षापकर्षयोः साध्वसाधुनोरव्यभिचरितं विनिगमनम्।
  • ‘सन्देहनिर्णयो जातः’ (शा० १।२७)। सन्देहविगमः, निश्चय इति यावत्।
  • ‘चिन्तयामास रुदती तस्य दुःखस्य निर्णयम्’ (भा० वि० १७।३)। निर्णयमपनयम्, खण्डनम्, अपनोदम्।
  • ‘पातालदेवतेयं वा…। निरणायि मधुद्वेष्ट्रा स्रष्टुः सृष्टिविलक्षणा’ (स्कन्दपु० का० ४।८।२।६९-७०)। निरणायि निरमायि उदपादि।

नुद्

  • {निर्णुद्}
  • नुद् (णुद प्रेरणे)।
  • ‘क्षुधा निर्णुदति प्रज्ञाम्’ (भा० आश्व० ९०।९०)। अपहरति, अपाकरोतीत्यर्थः।
  • ‘निर्णुदति यत्पुराकृतम्’ (भा० शां० १९४।६१)।
  • ‘निरमुं नुद ओकसः सपत्नो यः पृतन्यति’ (अथर्व० )। निर्णुद=वहिर्गमय।
  • ‘निरेनमेभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद’ (ऐ० ब्रा० ५।११)। उक्तोऽर्थः।
  • ‘धाना मत्स्यान् पयो मांसं शाकं चैव न निर्णुदेत्’ (मनु० ४।२५०)। न निर्णुदेत्=न प्रत्याचक्षीत।

पच्

  • {निष्पच्}
  • पच् (डुपचष् पाके)।
  • ‘निष्पक्वं क्वथितम्’ (अमरः)।

पत्

  • {निष्पत्}
  • पत् (पत्लृ गतौ)।
  • ‘असङ्ख्या मूर्त्तयस्तस्य निष्पतन्ति शरीरतः’ (मनु० १२।१५)। निष्पतन्ति निष्क्रामन्ति।
  • ‘वधाय निष्पेतुरुदायुधास्ते युगक्षये केतवो यद्वदुग्राः’ (भा० भीष्म० ७७।४२)। शिबिरान्निर्ययुः।
  • ‘निष्पतेदात्मलाभे वा व्यसने वा रिपोः श्रितः’ (कथा० ११।३२)। निष्पतेत्=निर्गच्छेत्।
  • ‘सन्दिग्धार्थं स्वतन्त्रो यः साधयेद् यश्च निष्पतेत्’ (याज्ञ० २।१६)। निष्पतेत्=पलायेत।
  • ‘अक्ष्णः कृशानुः किल निष्पपात’ (कु० ४।७१)। निर्ययावित्यर्थः।
  • ‘निष्पतिष्यति वा बाह्यां कक्ष्याम्’ (हर्ष०)। निर्गत्य बाह्यां कक्ष्यां प्रवेक्ष्यतीत्यर्थः।
  • ‘नि स्तुवानस्य पातय परमक्ष्युतावरम्’ (अथर्व० १।८।३)। निष्पातय=निष्कासय।
  • ‘तांस्तु निष्पतितांस्त्रस्तान्’ (भा० सौ० ८।१०६)। निष्पतितान्, निष्क्रान्तान्, विद्रुतान्।
  • ‘इदं हि तव विस्तीर्णं धनधान्यसमाचितम्। हस्त्यश्वरथसम्पूर्णं राज्यं निष्पातितं मया’ (रा० २।७५।१५)। निष्पातितम् उत्सादितम्।
  • ‘निष्पतिष्यत्यसङ्गेन’ (रा० ४।१४।१७)। निष्पतिष्यति निष्क्रमिष्यति। असङ्गेन=अविलम्बेन।

पद्

  • {निष्पद्}
  • पद् (पद गतौ)।
  • ‘नेन्मेग्निर्वैश्वानरो मुखान्निष्पद्याता इति’ (श० ब्रा० १।४।१।१०)। निष्पद्यातै=निष्क्रामेत्।
  • ‘स मे मुखान्निरपादीति’ (श० ब्रा० १।४।१।९)। उक्तोऽर्थः। निरपादि–निष्पूर्वात्पद्यतेः कर्तरि लुङि।
  • ‘योनौ रेतो मुक्तं न निष्पद्यते’ (श० ब्रा० ६।४।३।७)। न निष्पद्यते=न जायते।
  • ‘निष्पद्यन्ते च सस्यानि यथोप्तानि विशां पृथक्’ (मनु० ९।२४७)। निष्पद्यन्ते जायन्ते रोहन्ति पच्यन्त इति वा।
  • ‘कथमप्यम्भसामन्तरा निष्पत्तेः प्रतीक्षते’ (कु० २।३७)। निष्पत्तिः परिपाकः।
  • ‘मोदकेनापि किं तेन निष्पत्तिर्यस्य सेवया’ (पञ्चत० १।२७१)। निष्पत्तिः सिद्धिः।
  • ‘अङ्गीकृत्य गुरोर्वाक्यं गुरुपत्न्याः गुरोः शिशोः। यो न निष्पादयेन्मूढः स भवेत् निरयी नरः’ (स्कन्दपु० का० ४।८६।२०)॥ न निष्पादयेत् न कुर्यात्।

पा

  • {निर्पा}
  • पा (पा रक्षणे)।
  • ‘येना निरंहसो यूयं पाथ नेथा च मर्त्यमति द्विषः’ (ऋ० १०।१२६।२)। निष्पाथ=सर्वतो रक्षथ।

पा

  • {निष्पा}
  • पा (पा पाने)।
  • ‘हिरण्याद् घृतं निष्पिबति’ (तै० सं० २।१३।११।८)। उद्धृत्य पिबतीत्यर्थः।
  • ‘सलिले क्षीरमासक्तं निष्पिबन्निव सारसः’ (रा० ३।१९।८)। निष्कृष्य पिबन्नित्यर्थः।
  • ‘मल्लात्मजन्मनोः शोकः कोपेन निरपीयत’ (राज० ७।१४९७)। स्पष्टोऽर्थः।
  • ‘स यथा दृतिर्निष्पीत एवं संलीनः शिश्ये’ (श० ब्रा० १।६।३।१६)। यस्मात् पानीयं पीतं तेन यो रिक्तोऽभूत् स उच्यते निष्पीत इति।
  • ‘घृतं निष्पिबति’ (तै० षं० २।३।११।५)। निष्पिबति निःशेषेण पिबति।

पिष्

  • {निष्पिष्}
  • पिष् (पिष्लृ संचूर्णने)।
  • ‘दन्तैर्दन्तांस्तदा रोषान्निष्पिपेष महामनाः’ (भा० वि० १६।१४)। संचूर्णयामासेत्यर्थः।
  • ‘निष्पिपेषोरसा कांश्चित् कांश्चित् पद्भ्याम्’ (रा० ६।८४।२३)। ताडं ताडं ध्वंसयामासेत्यर्थः।
  • ‘करं करेण निष्पिष्य निःश्वसन्दीनमानस’ (भा० आदि० १५१।४२)। निष्पिष्य=निपीड्य=मृदित्वा।

पीड्

  • {निष्पीड्}
  • पीड् (पीड अवगाहने)।
  • ‘दन्तनिष्पीडितो रसः’ (सुश्रुत० १।१८७।१०)। दन्तैः पीडयित्वा निःसारितः।
  • ‘तस्य निष्पीड्यमानस्य भुजान्तरगतस्य च’ (रा० ४।१०।२०)। निष्पीड्यमानस्य बलवद् बाध्यमानस्य, गाढं सङ्कोचमापाद्यमानस्येत्यर्थः।

पू

  • {निष्पू}
  • पू (पूञ् पवने)।
  • ‘अथापि निष्पुनाति’ (श० ब्रा० १।१।४।२१)। अवधूनोतीत्यर्थः।
  • ‘परापूतमिति निष्पुनाति’ (का० श्रौ० २।४।१८)। शूर्पचालनोत्थेन वायुना तुषान् पृथक् कृत्वाऽधः पातयतीत्यर्थः।
  • ‘प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम्। न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगाः’ (भा० पु० ६।१।१८)॥ इह पुनन्तीत्येतावताऽलम्। नार्थो निरा। आचारहीनं न पुनन्ति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः (वासिष्ठे धर्मसूत्रे)।
  • ‘पुनन्तु मां देवजनाः पुनन्तु वसवो धियः’ (ऋ० ९।६७।२७)। इत्यादौ वैदिके वाङ्मये शोधनेऽर्थे शुद्धः पुनातिः प्रयुक्तो दृश्यते।
  • ‘लोकेपि तथा–पुनाति पङ्क्तिं वंश्यांश्च’ (मनु० १।१०५)।
  • ‘हृद्गाभिः पूयते विप्रः’ (मनु० २।६२)।
  • ‘तज्जः पुनात्युभयतः पुरुषानेकविंशतिम्’ (याज्ञ० १।५८)।
  • ‘पाप्मभ्यश्च पुनातु वर्धयतु च श्रेयांसि सेयं कथा’ (उत्तर० ७।२०)। इत्यत्र यथा। निरुक्तयोर्ऋषिकृत्योः शतपथश्रौतसूत्रयोस्तु निरोऽर्थवत्ता न शक्याऽपह्नोतुम्।

पृच्

  • {निष्पृच्}
  • पृच् (पृची सम्पर्के)।
  • ‘फलार्थस्तात निष्पृक्तः प्रजालक्षणभावनः’ (भा० वन० १८१।१५)। निष्पृक्तोऽसम्बद्धोऽसङ्ग इत्यर्थः।

पॄ

  • {निष्पॄ}
  • पॄ (पॄ पालनपूरणयोः)।
  • ‘विश्वस्मान्नो अंहसो निष्पिपर्तन’ (ऋ० १।१०६।१)। पारयतेत्यर्थः।
  • ‘हव्यं कव्यं च विविधं निष्पूर्त्तं हुतमेव च’ (भा० द्रोण० ५९।१६)। निष्पूर्त्तं तटाकारामादि।

बन्ध्

  • {निर्बन्ध्}
  • बन्ध् (बन्ध बन्धने)।
  • ‘अथ निर्बध्नासि नाहं वक्ष्यामि’ (स्वप्न० )।
  • ‘निर्बध्नन्नपि हस्तेन सोथ कोपादताड्यत’ (राज० ७।६२२)। अभिनिविशमानः, हठं कुर्वन्नित्यर्थः।
  • ‘निर्बध्नतातिमात्रं च गालवेन’ (भा० उ० १२३।१९)। बलवत् प्रेरयमाणेनेत्यर्थः।
  • ‘गुरुणा चैव निर्बन्धो न कर्तव्यः कदाचन’ (भा० अनु० १०४।८०)। निर्बन्धो हठः, आग्रहः।
  • ‘स विदित्वाऽथ भार्यायास्तं निर्बन्धं विकर्मणि’ (भा० पु० ३।१४।३०)। निर्वन्धो हठेन प्रवृत्तिरासक्तिः। पदज्ञैर्नातिनिर्बन्धः कर्तव्यो मुनिभाषिते। अनुस्मरणतात्पर्यान्नाद्रियन्ते हि लक्षणम्॥ उक्तोऽर्थः।
  • ‘जातो वै वरनिर्बन्धः कृष्णेन सह तस्य वै’ (भा० सभा० १९।२२)। वैरनिर्बन्धः=सन्ततं वैरम्।
  • ‘निर्बन्धसंजातरुषा’ (गुरुणा)। (रघु० ५।२१)। निबन्धेन प्रार्थनातिशयेन, प्रार्थनायाः पुनः पुनः करणेन।
  • ‘निर्बन्धपृष्टः स जगाद सर्वम्’ (रघु० १४।३२)। निर्बन्धेन=आग्रहेण।
  • ‘वयमभ्युद्धृताः कृच्छ्रान्निर्बन्धादार्ययाऽनया’ (मालती० १०।१९)। निर्बन्धो महानभियोगो यत्नः।
  • ‘ततस्तत्तनयाश्वखुरगतिनिर्बन्धेन’ (वि० पु० ४।४।१८)। निर्बन्धेन=अश्वखुरचिह्नानुसरणेन।
  • ‘गुरोश्चालीकनिर्बन्धः’ (मनु० ११।५५)। गुरोश्चानृतेन योजनम्। अनृताभिशंसनमित्यर्थः।
  • ‘पुंसामित्यभिदां भिदां च न वयं निर्बध्य निश्चिन्महे’ (आप० ध० १।२२।२ उज्ज्वलायाम्)। निर्बध्य=अभिनिविश्य।
  • ‘मम रोगावस्थां प्रष्टुमागतः परिजनो मां निर्बध्य निवेदयति’ (अवि० ५)।
  • ‘निर्बन्धिनः किंचन नास्त्यसाध्यम्’ (बुद्ध० १३।६०)। निर्बन्धोऽस्त्यस्येति निर्बन्धी आग्रही, तस्य।
  • ‘न तु ब्रूहीति निर्बध्नामि’ (रा० १।१५) इत्यत्र भूषणे गोविन्दराजः। ममाभिनिवेशो न, त्वयाऽवश्यं वक्तव्यमित्यत्र मे हठो न।
  • ‘वारितायां च नाहमत्र निर्बन्धनीया’ (का० सू० ४।१।२६)। निर्बन्धनीया रोद्धव्या।
  • ‘प्रह्वेष्वनिर्बन्धरुषो हि सन्तः’ (रघु० १६।८०)। अस्थिरक्रोधा इत्यर्थः। निर्बन्धो हठो भवति, तेनात्र पदार्थानुवृत्तिर्लक्ष्यते।
  • ‘न निर्बद्धा उपसर्गा अर्थान्निराहुः।’ निः पृथगर्थे। बन्धिः प्रयोगेर्थे इति स्कन्दस्वामी।

ब्रू

  • {निर्ब्रू}
  • ब्रू (ब्रूञ् व्यक्तायां वाचि)।
  • ‘नेदविद्वान्निर्ब्रुवाणि’ (शां० ब्रा० २१।१)। व्यक्तं पृथक्त्वेन वा ब्रवाणि। नेदित्याशङ्कायां निषेधवचनः।
  • ‘क्रमेत सर्वाणि पदानि निर्ब्रुवन्’ (ऋ० प्राति० ११।३२)। विगृहीतानि पठन्नित्यर्थः।

भज्

  • {निर्भज्}
  • भज् (भज सेवायाम्)।
  • ‘मा नो निर्भाग् वसुनः सादनस्पृशः’ (ऋ० ९।७२।८)। माऽस्मान्निर्भाक्षीः, निर्भागान्मा स्म करोर् वसुनो राय इत्याह।
  • ‘नाभानेदिष्टं मानवं ब्रह्मचर्यं वसन्तं भ्रातरो निरभजन्त्सोऽब्रवीदेत्य किं मह्यमभाक्तेति’ (ऐ० ब्रा० ५।१४)। निरभजन्=दाये भागरहितमकुर्वन्।
  • ‘प्रजापतिर्वै रुद्रं यज्ञान्निरभजत्’ (गो० ब्रा० उ० १।२)। उक्तोऽर्थः।
  • ‘निर्द्विषन्तं दिवो निः पृथिव्या निरन्तरिक्षाद् भजाम’ (अथर्व० १६।७।६)। इह निरित्यावृत्तो भूयसेऽर्थाय। अर्थे त्वविशेषः।
  • ‘पृथिव्यास्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः’ (अथर्व० १०।५।२५)।
  • ‘तुषैर्वै फलीकरणैर्देवा हविर्यज्ञेभ्यो रक्षांसि निरभजन्’ (ऐ० ब्रा ६।७)। फलीकरणांस्तुषान्दत्त्वा रक्षांसि हविर्यज्ञभ्योऽवञ्चयन्तेत्याह।
  • ‘सर्वस्मात्सपत्नान्निर्भजति’ (श० ब्रा० १।५।४।१६)। उक्तोऽर्थः।
  • ‘निष्टं भज यो अमित्रो अस्य’ (अथर्व० ४।२२।२)। निष्टं निस्तम्। तं निर्भज=ग्रामादिभ्यो निर्भक्तं कुर्वित्यर्थः।
  • ‘यदैव तं स्वेन भागधेयेन निर्भजन्त्यथैव स निर्भक्तो भवति’ (श० ब्रा० ११।७।४।२)। अत्र तृतीयाश्रुतेरर्थान्तरप्रत्ययः। भागधेयेन निर्भजन्ति=भागवन्तं कुर्वन्ति।
  • ‘यज्ञपतिमृषय एनसाहुर्निर्भक्तम्’ (अथर्व० २।३५।२)। निर्भक्तं निर्भागं दौर्गत्ययुक्तम्। एनसेति इत्थम्भूतलक्षणे तृतीया।
  • ‘कूटाक्षदेविनः पापान्निर्भजेद् द्यूतमण्डलात्’ (नारदीयमनु०)। निर्भजेत्=निर्वासयेत्। निर्भक्तमौषधं बहूपकरोति। किञ्चिदन्यदशनमनशित्वा सेवितं निर्भक्तमुच्यते।
  • ‘स निर्भाज्यः स्वकादंशात् किंचिद् दत्त्वोपजीवनम्’ (मनु० ९।२०७)। निर्भाज्यः=निर्भागो भागरहितः सम्पाद्यः।
  • ‘रूपेणैवैनं पशुभ्यो निर्भजति’ (तै० सं० ६।३।११)। निर्भजति निरस्यति।
  • ‘अन्तरिक्षात्तं निर्भजामो यो स्मान् द्वेष्टि’ (अथर्व० १०।५।२६)। उक्तोऽर्थः।
  • ‘अस्यै पृथिव्या अस्मादन्नाद्यान्निर्भजामि निर्भक्तः स यं द्विष्मः’ (तै० सं० १।६।६।१)। निर्भजामि निर्वासयामि निःसारयामि।
  • ‘ततो निर्भक्तो यो स्मान्द्वेष्टि यं च वयं द्विष्मः’ (वा० सं० २।२५)। निर्भक्तो निर्गतभागः।

भञ्ज्

  • {निर्भञ्ज्}
  • भञ्ज् (भञ्जो आमर्दने)।
  • ‘एवा तान्त्सर्वान्निर्भङ्ग्धि’ (अथर्व० ३।६।३)। आमृदानेत्यर्थः।
  • ‘यंसग्रहणादभिप्रयतः सम्प्रदानसंज्ञा निर्भज्यते’ (पा० १।४।३२ सूत्रभाष्ये)। निर्भज्यते=निराक्रियते।
  • ‘असावत्यन्तनिर्भग्नस्तव पुत्रो भविष्यति। अनाथवत् सुखेभ्यश्च राजवंशाच्च वत्सले’ (रा० २।८।५५)॥ निर्भग्नः प्रच्यावितः, हीन इत्यर्थः।

भर्त्स्

  • {निर्भर्त्स्}
  • भर्त्स् (भर्त्स तर्ज भर्त्सने)।
  • ‘अशोकनिर्भर्त्सितकर्णिकारम्’ (कु० ३।५३)। औपचारिकः प्रयोगः। अशोकनिर्भत्सितः=अशोकनिर्जितः, अशोकेन पश्चात्कृतः। अतिशयित इत्यर्थः।
  • ‘उपवनं निरभर्त्सयत प्रियान् वियुवतीर्युवतीः शिशिरानिलः’ (शिशु० ६।६२)।

भा

  • {निर्भा}
  • भा (भा दीप्तौ)।
  • ‘ताभ्यां धर्मो हि निर्बभौ’ (मनु० २।१०)। निःशेषेण प्रकाशतां गत इत्यर्थः।

भिद्

  • {निर्भिद्}
  • भिद् (भिदिर् विदारणे)।
  • ‘अथैनं छिन्नधन्वानं… निर्बिभेद रणे राजा’ (भा० भीष्म० ८४।१५)। गर्हितं विव्याध।
  • ‘यथाऽश्वत्थ निरभिनोन्तर्महत्यर्णवे’ (अथर्व० ३।६।३)। निर्भिद्योत्पन्नोसीत्याह। अकर्मकोऽत्र भिदिरविवक्षितकर्मा।
  • ‘तस्याभितप्तस्य मुखं निरभिद्यत’ (ऐ० आ० २।४।१)। व्यदीर्यतेत्यर्थः। संवृतं विवृतमभूत्।
  • ‘पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः’ (रा० १।४०।४)। निर्भेदः संहारः।
  • ‘विष्णुर्मधुनिहन्ता च चकार मधुवाहिनीम्। नदीं प्रस्रवनिर्भेदाम्’ (हरि० १२०।१७)। निर्भेदो निर्दरः।
  • ‘निर्भेदादृतेपि मालविकायामयमुपन्यासः शङ्कयति’ (माल० ४)। निर्भेदो विस्पष्टं कीर्तनम्।

भुज्

  • {निर्भुज्}
  • भुज् (भुजो कौटिल्ये)।
  • ‘तथौष्ठौ निर्भुजत्यपि’ (याज्ञ० २।१४)। निर्भुजति=वक्रयति।
  • ‘एकी कृतस्त्वचि निषिक्त इवावपीड्य निर्भुग्नपीनकुचकुड्मलयाऽनया मे’ (मालती० ६।१२)। निर्भुग्ने वक्रीकृते कुचकुङ्मले यस्यास्तया।
  • ‘प्रायो निर्भुज्यते शार्ङ्गम्’ (सुश्रुत० १।२६।१२)। निर्भुज्यते वक्री क्रियते।
  • ‘भुजोऽनवने। अनवनकौटिल्ययोरिति वक्तव्यम्। इहापि यथा स्यात्–निर्भुजति जानुशिरसी।’ (पा० १।३।६६ सूत्रे भाष्ये)।

भू

  • {निर्भू}
  • भू (भू सत्तायाम्)।
  • ‘प्रेमन्धः ख्यन्निःश्रोणोभूत्’ (ऋ० ८।६८।२)। अन्धः पश्यति खञ्जश्च गच्छतीत्याह।
  • ‘व्यन्धो अख्यदहिमाददानो निर्भूदुखच्छित् समरन्त पर्व’ (ऋ० ४।१९।९)। उक्तोऽर्थः।

मन्त्र्

  • {निर्मन्त्र्}
  • मन्त्र् (मत्रि गुप्तपरिभाषणे)।
  • ‘सर्वं शीर्षण्यं ते रोगं बहिर्निर्मन्त्रयामहे’ (अथर्व० ९।१२।१)। मन्त्रैर्दूरी कुर्म इत्याह।

मन्थ्

  • {निर्मन्थ्}
  • मन्थ् (मन्थ विलोडने)।
  • ‘त्वामग्ने पुष्करादध्यथर्वा निरमन्थत’ (तै० सं० ३।५।११।३४)। मन्थनेन ततो निष्कृष्यालभत।

मस्ज्

  • {निर्मस्ज्}
  • मस्ज् (टुमस्जो शुद्धौ)।
  • ‘आनाभि निरमज्जंश्च रथचक्राणि शोणिते’ (भा० द्रोण० १४६।८९)। भृशं न्यमज्जन्।
  • ‘स पीडितो गिरिस्तेन निर्ममज्ज समन्ततः’ (हरि० २।४२।८२)। जलोद्गमोऽस्याभूदित्यर्थः प्रतिभाति।

मा

  • {निर्मा}
  • मा (मा माने, माङ् माने)।
  • ‘निरिमां मात्रां मिमीमहे’ (अथर्व० १८।२।४२)। निर्मिमीमहे=साधु मिमीमहे। निरित्युपसर्गो निर्गतदोषतां निर्दुष्टतां मानस्य द्योतयति। माऽन्तरिक्षम्।
  • ‘निर्मीयन्तेऽस्मिन्भूतानि’ (नि० २।८।१)। इयत्तया परिच्छिद्यन्ते इत्यर्थः।
  • ‘एतौ युद्धविदौ रङ्गे कालनिर्माणयोधिनौ’ (हरि० २।२२।८८)। कालनिर्माणेन कालं विमाय नियतकालमित्यर्थः। नित्ययोधिनाविति वा। यतश्चाध्वकालनिर्माणम् इति वार्त्तिकेप्ययमेवार्थः, अन्यत्र निर्पूर्वोऽयं धातुः प्रायेणोत्पादने रचनायां प्रकल्पनायां वा वर्तते तथा च प्रयोगाः प्रथन्ते–निर्ममे निर्ममोऽर्थेषु मधुरां मधुराकृतिः’ (रघु० १५।२८)। निर्ममे निर्मितवान् निवेशयामास।
  • ‘यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः’ (मनु० ७।५)। निर्मितः कृतः।
  • ‘निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः’ (विक्रम० १।९)। निर्मातुम्=रचयितुम्, कल्पयितुम्।
  • ‘त्रैलोक्यनिर्माणकरं जनित्रम्’ (भा० उ० ७१।७)। उक्तोऽर्थः।
  • ‘निर्माणमेव हि तदादरलालनीयम्’ (मालती० ९।४९)। निर्माणं संनिवेशः।

मुच्

  • {निर्मुच्}
  • मुच् (मुच्लृ मोक्षणे)।
  • ‘नि र्मा मुञ्चामि शपथात्’ (आप० श्रौ० ७।६।२१।६)। निर्मुञ्चामि=निर्मुक्तं करोमि।
  • ‘निर्मुच्यमान इव जीर्णतनुर्भुजङ्गः’ (मृच्छ० ३।९)। त्वचा मुच्यमान इत्यर्थः।
  • ‘विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी’ (रा० २।४३।२)। निर्मुक्ता त्यक्तकञ्चुका। निर्मुक्तो मुक्तकञ्चुक इत्यमरः।
  • ‘निर्मुच्यमानभुजगोदरनिर्मलस्य’ (स्वप्न० ४।२)। उक्तोऽर्थः।
  • ‘निर्मुक्ताशीविषाभानां सम्पातोऽभूत्सुदारुणः’ (भा० द्रोण० ९८।२२)।
  • ‘सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा’ (भा० द्रोण० ११४।७२)। भुजनिर्मुक्ता=बाहुविसृष्टा, दोष्प्रहिता (गदा)।
  • ‘आददानश्च नाराचान्निर्मुक्ताशीविषोपमान्’ (भा० भीष्म० ४४।१७)।
  • ‘स्तनोत्तरीयाणि भवन्ति सङ्गान्निर्मोकपट्टाः फणिभिर्विमुक्ताः’ (रघु० १६।१७)। निर्मोकः कञ्चुकोऽहित्वक्, निर्ल्वयनी।
  • ‘तृणनिर्मोकवसनाश्चीरवल्कलवाससः’ (भा० अनु० १४१।१००)। मृगनिर्मोको मृगचर्म। निर्मोको मोचने सन्नाहे सर्पकञ्चुके इति मेदिनी।
  • ‘निर्मुच्यमाननिर्मोकं भोगं भोगिवधूमिव’ (बृ० श्लो० सं० ३।४)। भोगः फणिकायः। अहेः फणकरणयोर्भोगः।

मृज्

  • {निर्मृज्}
  • मृज् (मृजू शुद्धौ)।
  • ‘य आगच्छेत्तं ब्रूयाच्छणशुल्वेन जिह्वां निर्मृजानः शालायाः प्रस्कन्देति’ (कौ० सू० २५।२२)। निर्मृजानः शुन्धन्नित्यर्थः।
  • ‘यस्तयोः प्रथमं जातः स कुशैर्मन्त्रसंस्कृतैः। निर्मार्जनीयो नाम्ना हि भविता कुश इत्यसौ’ (रा० ७।६६)।
  • ‘प्रोद्यच्चन्द्रसहस्रांशुनिर्मार्जितशुभाननाम्’ (स्कन्दपु० का० ४।७१।??३)। निर्मार्जितं शोधितम्।
  • ‘मालीमस्यं मानसं निर्मृजन्ति’ (विश्व० च० १४।१७३)। निर्मृजन्ति शोधयन्ति, शुन्धन्ति, अवदायन्ति। मालीमस्यं मालिन्यम्। मानसं मानसिकम्।
  • ‘गोष्ठं मा निर्मृक्षम्’ (तै० सं० १।१।१०)। मा विनीनशमिति भट्टभास्करः। शोधनं मालिन्यापनयनम्। अत्र लक्षणयाऽपनयनमात्रमाह। अपनयनाद् विनाशश्च नातिदूरे। निर्मृक्षमित्यनिट्पक्षे लुङि सिचि रूपम्। वृद्ध्यभावश्छान्दसः।

यत्

  • {निर्यत्}
  • यत् (यती प्रयत्ने, यत निकारोपस्कारयोः)।
  • ‘यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम्। हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति’ (भा० आदि० ७४।३१)॥ निर्यातयति परिहरति।
  • ‘ततस्तादृशो भवान्बन्धनाद्राजानमन्तः पुराद्राजदारिकामुभे निर्यातयतु’ (प्रतिज्ञा०)। निर्यातयतु=निष्क्रमयतु।
  • ‘असतीं वपुष्टमां चैव निर्यातयत मे गृहात्’ (हरि० ३।५।२१)। उक्तोऽर्थः।
  • ‘न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम्’ (रा० ४।१०।९)। प्रत्यर्पयामि।
  • ‘निर्यातय हस्तन्यासम्’ (विक्रम० ५)। उक्तोऽर्थः।
  • ‘परिचारकं चात्मानं बोधिसत्त्वस्य निर्यातयामास’ (अवदा० चुडू० जा०)। निर्यातयामास समर्पयाञ्चकार।
  • ‘निर्यातयत मे सेनां प्रभूतरथकुञ्जराम्। द्रक्ष्यामि वनसंस्थं च धृतराष्ट्रं महीपतिम्’ (भा० आश्रम० २२।१९)॥ निर्यातयत सज्जी कुरुत, उपस्कुरुध्वम्।
  • ‘रामलक्ष्मणयोर्वैरं स्वयं निर्यातयामि वै’ (रा० ६।६३।४)। निर्यातयामि=शोधयामि, विगणयामि, (वैरं परकृतमृणमिति गण्यते तद्विगणनीयं भवति समर्थेन)।
  • ‘संयुज्यमानानि निशम्य लोके निर्यात्यमानानि च सात्त्विकानि’ (भा० शां० ३५४।६)॥ निर्यात्यमानानि निपीड्यमानानि।
  • ‘पुत्रो निर्यातितः क्रोडात्’ (हरि० २।३२।१८)। निरस्त इत्यर्थः।
  • ‘चतुर्दश समा वीर वने निर्यातितास्त्वया’ (रा० ६।१०४।२६)। निर्यातिता नीताः क्षपिताः।
  • ‘चतुर्दश समाः सौम्य वने निर्यातितास्त्वया’ (रा० ६।११९।२१)। उक्तोऽर्थः।
  • ‘प्रेतनिर्यातकश्चैव वर्जनीयाः प्रयत्नतः’ (मनु० ३।१६६)। प्रेतनिर्हारक इत्यर्थः।
  • ‘प्रतिप्लवनमेवाथ मधुनिर्यातनं तथा’ (रा० १।३।३३)। मधुनिर्यातनं क्षौद्रहरणम्। मधूनां हरणं तथेति पाठान्तरम्।
  • ‘क्षत्रियवधे गोसहस्रमृषभैकादशं राज्ञ उत्सृजेद् वैरनिर्यातनार्थम्’ (बौ० ध० १।१०।१९।१)। वैरस्य पापस्यापयातनार्थम्।
  • ‘अपयातनं नाशः। विनिवृत्तेषु मेघेषु निर्यात्य जगतो जलम्’ ( )। समर्प्य, वितीर्य।
  • ‘निर्यात्य महिषं तस्य’ (कथा० ६२।२२४)। उक्तोऽर्थः।
  • ‘निर्यात्य वैरं सफलं सपुष्पं तस्मै नरेन्द्राधमपूरुषाय’ (भा० वन० १७६।१०)। स एवोदितपूर्वोऽर्थः। फलं राज्यप्राप्तिः। पुष्पं शत्रुवध इति नीलकण्ठः।
  • ‘निर्यात्य रथवरं ब्राह्मणाय’ (अवदा० जा० ९)।
  • ‘चरेत्सान्तपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये’ (मनु० ११।१६४)। तत्=स्तेयं चोरितं धनम्।
  • ‘मां चास्मै प्रयतो भूत्वा निर्यातयितुमर्हसि’ (रा० ५।२१।२१)। निर्यातयितुम् प्रत्यर्पयितुम्।
  • ‘निर्यातयतु मे कन्यां भवांस्तिष्ठन्तु वाजिनः’ (भा० उ० ११७।२०)। निर्यातयतु प्रत्यर्पयतु।
  • ‘न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च ह’ (रा० उत्तर० ३०।२७)। उक्तोऽर्थः।
  • ‘मम निर्यातनं प्रति। अनुनीतः प्रयत्नेन’ (रा० ५।३६।९)॥ निर्यातनं प्रतिदानम्।

या

  • {निर्या}
  • या (या प्रापणे)।
  • ‘अज्ञाता चैव निर्याति न चायाति पिपीलिका’ (शि० भा० २७।११)। प्रकाशं निर्गच्छति न प्रच्छन्नम्।
  • ‘अद्य निर्यास्यति हि रावणः’ (रा० ६।९१।१६)। प्रैष्यति, मरिष्यति।
  • ‘सेनां निर्यापयामास धृष्टद्युम्नः पुरोगमाम्’ (भा० उ० १६४।१)। निर्यापयामास=प्रेषयामास।
  • ‘तेजसा मणिना हीनं शिबिरान्निरयापयत्’ (भा० पु० १।७।५६)। निरयापयत्=बहिरकरोत्।
  • ‘यदि कालेन निर्याणं सुखं दुःखं भवाभवौ। भिषजो भैषजं (=भैषज्यम्) कर्तुं कस्मादिच्छन्ति रोगिणः’ (भा० शां० १३९।५५)॥ निर्याणं मृत्युः।
  • ‘अत्र निर्याणकालेऽपि तमः सम्प्राप्यते महत्’ (भा० उ० १०९।२०)। निर्याणकाले मृत्युकाले।
  • ‘निर्याणं धृतराष्ट्रस्य (श्रुत्वा) शोकः समभवन्महान्’ (भा० आश्रम० ३७।४०)। उक्तोऽर्थोऽसकृत्।
  • ‘आपदर्थं च निर्यातं धनं त्विह विवर्धयेत्’ (भा० शां० ८७।२३)। निर्यातं रक्षितमिति शार्मण्य सं० कोषः। दत्तमिति तु नील०।
  • ‘निर्यापितो महोत्सवः’ (भा० पु० ४।३।८)। निर्यापितः प्रारब्धः। अपाङ्गदेशो निर्याणम् इत्यमरः। गजस्यापाङ्गदेशो निर्याणमुच्यत इत्यर्थः।
  • ‘प्रत्यन्यदन्तिनिशिताङ्कुशदूरभिन्ननिर्याणनिर्यदसृजं चलितं (महेभं) निषादी’ (शिशु० ५।४१)। पशुपादबन्धनरज्जुरपि निर्याणमुच्यते।
  • ‘निर्याणहस्तस्य पुरो दुधुक्षतः’ (शिशु० १२।४०) इत्यत्र यथा।

याच्

  • {निर्याच्}
  • याच् (टुयाचृ याच्ञायाम्)।
  • ‘मृत्योरहं ब्रह्मचारी यदस्मि निर्याचन्’ (अथर्व० ६।१३३।३)। निर्याचन् निःशेषेण याचे।
  • ‘निर्याचन् भूतात् पुरुषं यमाय एष ते रुद्र भागो यं निरयाचथाः’ (तै० सं० ३।१।९।४, ५।१।२।४)। उक्तोऽर्थः।
  • ‘रुद्रादेव पशून्निर्याच्यात्मने कर्म कुरुते’ (तै० सं० ५।१।२।८) निर्याच्य याच्ञा प्राप्य।

यु

  • {निर्यु}
  • यु (यु मिश्रणामिश्रणयोः)।
  • ‘निर्युवाणो अशस्तीः’ (ऋ० ४।४८।२)। निर्युवाणः पृथक् कुर्वाणः=अपाकुर्वन्।
  • ‘निर्युवाणो अशस्तीर्निर्युत्वाँ इन्द्रसारथिः’ (ऋ० ४।४८।२)। अपनयन्नित्यर्थः।

युज्

  • {निर्युज्}
  • युज् (युजिर् योगे)।
  • ‘निर्योगाद् भूषणान्माल्यात् सर्वेभ्योऽर्धं प्रदाय मे’ (प्रतिमा० १।२६)।
  • ‘चिरमुपनतकार्यं चापि निर्युक्तमन्त्रम्’ (प्रतिज्ञा० ४।१३)। फुल्लं कुरबकं पश्य निर्युक्तालक्तकप्रभम्। यो नखप्रभया स्त्रीणां निर्भर्त्सित इवानतः॥
  • ‘हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत्’ (रा० ३।२४।१६)। निर्युक्तं निर्व्यूढम्। निश्चयेनोपायश्चिन्तित इत्याह।
  • ‘शिरसः स्थाननिर्युक्ता… (हरि० २।४१॥४५)। निर्युक्ता निश्चयेन योजितेत्यर्थः। निर्मुक्तेति पाठान्तरम्।
  • ‘त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तम’ (रा० ५।३९।४)। निर्योगो निर्वाहः।

राज्

  • {नीराज्}
  • राज् (राजृ दीप्तौ)।
  • ‘अस्पृष्टचरणं ह्यस्य चूडामणिमरीचिभिः। नीराजयन्ति भूपालाः पादपीठान्तभूतलम्’ (प्र० च० २।८)॥ नीराजयन्ति=भासयन्ति=दीपयन्ति।
  • ‘परलोकविजयाय नीराज्यमानमिव ज्वरज्वलनेन’ (हर्ष० ५)। उक्तोऽर्थः।
  • ‘…कनककिरीटरश्मयः। क्षमापतीन् इति निरराजयन्निव’ (शिशु० १७।१६)। नीराजयन्ति स्मेत्यर्थः।

री

  • {निर्री}
  • री (री गतिरेषणयोः)।
  • ‘निश्चर्मणो गामरिणीत धीतिभिः’ (ऋ० १।१६१।७)। चर्मणो निरिणीत=पृथक् कुर्यात्, विश्लेषयेदित्यर्थः। गां निस्त्वचं कुर्वीतेत्याह।

रुच्

  • {निर्रुच्}
  • रुच् (रुच दीप्तावभिप्रीतौ च)।
  • ‘निरग्नयो रुरुचुर्निरु सूर्यः’ (ऋ० ८।३।२०)। नीरुरुचुः सुतरां प्रदीप्य पराणुनुदुः (अहिम्)। सोपसर्गको रुचिरिह सकर्मकः।

लिख्

  • {निर्लिख्}
  • लिख् (लिख अक्षरविन्यासे)।
  • ‘निर्लिखितं दारुमयम्’ (आप० ध० १।५।१७।१२)। निर्लिखितं तष्टं सत् प्रयतम्।
  • ‘निर्लिखेदनुसुखं जिह्वां जिह्वानिर्लेखनेन च’ (वाग्भटः)।

लिह्

  • {निर्लिह्}
  • लिह् (लिह आस्वादने)।
  • ‘द्विः स्रुचं निर्लिह्य’ (आप० श्रौ० ६।३।१२।२)। निर्लिह्य=अभिलिह्य।

लुठ्

  • {निर्लुठ्}
  • लुठ् (लुठ स्तेये)।
  • ‘परकाव्येन कवयः परद्रव्येण चेश्वराः। निर्लोठितेन स्वकृतिं पुष्णन्त्यद्यतने क्षणे।’ निर्लोठितेन=चोरितेन=स्तेयलब्धेन, लोप्त्रेण।
  • ‘यथा गर्भो निर्लुठितः’ (पा० १।३।१ सूत्रे भाष्ये)। निर्लुठितो निर्गतः।

लुड्

  • {निर्लुड्}
  • लुड् (लुड विलोडने)।
  • ‘अनिर्लोडितकार्यः’ (शिशु० २।२७)। अनवगाढकृत्यः। अपरीक्षितकार्यः।

लू

  • {निर्लू}
  • लू (लूञ् छेदने)।
  • ‘कुलिशनिर्लूनपक्षभ्रष्ट इवाचलः’ (कथा० ६८।२२)।
  • ‘एकैकमल्लनिर्लूनकन्धराः’ (कथा० ४८।६०)।
  • ‘प्रहस्तश्चासिनिर्लूनचर्माणं करणक्रमात्।’ (कथा० ५०।२८)। सर्वत्र निरिति पार्थक्यमाह।

वच्

  • {निर्वच्}
  • वच् (वच परिभाषणे)।
  • ‘स्वर्ग्यो धर्मो ह्येषां निरुच्यते’ (भा० शां० ८।३२)। उत्कृष्टत्वेन कीर्त्यत इत्यर्थः।
  • ‘शल्यान्निरवोचमहं विषम्’ (अथर्व० ४।६।४)। निर्गतं ब्रवीमीति सायणः। वचसा निर्गमयामीत्यन्ये।
  • ‘निरुक्तमेनः कनीयो भवति’ (श० ब्रा० २।५।२२०)। निरुक्तं प्रतिपन्नमित्यर्थः।
  • ‘अनिरुक्तः प्रजापतिः’ (श० ब्रा० १४।२।२।२१)। अनिरुक्तो वचसाऽनिरूपितः, अकृतलक्षण इत्यर्थः। अत एव कः प्रजापतेरभिख्या भवति, सर्वस्य प्रष्टव्यत्वात्।
  • ‘अक्षौहिणी तु पर्यायैर्निरुक्ता च वरूथिनी’ (भा० उ० १५६।२५)। निरुक्ता=व्याख्याता=स्पष्टीकृता।
  • ‘एनं प्राप्य दुरात्मानं क्षयं क्षत्रं गमिष्यति तदिदं वचनं तेषां निरुक्तं वै जनार्दन। क्षयं याता हि राजानः…’ (भा० शल्य० २४।४४-४५)। निरुक्तं विस्पष्टम्। अवितथमित्यर्थः। तेषां सिद्धानाम्।
  • ‘पात्रं त्वत्र निरुक्तं वै कविभिः पात्रवित्तमैः’ (भा० पु० ७।१४।३४)। विस्पष्टमुक्तम् लक्षणेनोक्तम्।
  • ‘वेदांश्च वेद्यं तु विधिं च कृत्स्नमथो निरुक्तं परमार्थतां च’ (भा० शां० २४५।३०)।
  • ‘स एष आत्मा हृदि तस्यैतदेव निरुक्तं हृदयमिति’ (छां० उ० ८।३।३)।
  • ‘षडाश्रयणाच्छरीरम् इति शरीरनिर्वचनेन पूर्वोक्तोत्पत्तिक्रम एव दृढीकृतः’ (मनु० १।१७ इत्यत्र कुल्लूकः)। निर्वचनं निरुक्तिर्व्युत्पत्तिः।
  • ‘गुणतः शब्दनिष्पत्तिर्निर्वचनम्’ (कौ० अ० १५।१।१८०)।
  • ‘नामनिर्वचनं तस्य श्लोकमेनं सुरा जगुः’ (भा० पु० ९।२०।३७)।
  • ‘निर्वचनमाशिषाम्’ (शां० श्रौ० ६।१।३७)। निर्वचनमाशंसनप्रकारः।
  • ‘प्रनष्टं शान्तनोर्वंशं समीक्ष्य पुनरुद्धृतम्। ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत’ (भा० आदि० १०९।२३)॥ निर्वचनं प्रशस्तिः।
  • ‘ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत। वीरसूनां काशिसुते देशानां कुरुजाङ्गलम्’ (भा० १।४३५९)॥ निर्वचनं लोकवादः प्रवादः, आभाणकः।
  • ‘न निर्मन्युः क्षत्रियोस्ति लोके निर्वचनं स्मृतम्’ (भा० वन० २७।३७)। उक्तोऽर्थः।
  • ‘श्वदृतौ क्षीरमासक्त ब्रह्म वा वृषले यथा। इति लोके निर्वचनं पुरश्चरति भारत’ (भा० वन० ३३।८२)॥ उक्तपूर्व एवार्थः।
  • ‘येषां तटाकानि महोदकानि वाप्यश्च कूपाश्च प्रतिश्रयाश्च। अन्नस्य दानं मधुरा च वाणी यमस्य तेऽनिर्वचना भवन्ति॥’ यमवार्तामपि न शृण्वन्तीत्यर्थः।
  • ‘माल्येन तां निर्वचनं जघान’ (कु० ७।१९)॥ निर्वचनं शब्दोक्तिमन्तरेण, निश्शब्दम्, तूष्णीम्, निभृतम् इत्यर्थः।

वच्

  • {निर्वच्}
  • वच् (ब्रूञ् आदेशः)।
  • ‘निश्चितं वचनं निर्वचनम्’ (सुश्रुत० उत्तर० ६५।३२)। निगदव्याख्यातम्।

वद्

  • {निर्वद्}
  • वद् (वद व्यक्तायां वाचि)।
  • ‘वाचं विषस्य दूषणीं तामितो निरवादिषम्’ (अथर्व० ४।६।२)। निरवादिषम्=ताल्वोष्ठपुटव्यापारेरण निर्गमय्य उच्चारयामीति सायणः।
  • ‘आयुर्मा निर्वादिष्टम्’ (वा० सं० ५।१७)। निकृष्टं पशुधनादिरहितं मा उच्चारयतम् इति भाष्ये। वचसा मा हार्ष्टं मा निराकार्ष्टमित्यर्थस्तु शब्दशक्त्या सुलभतरो रोचते नः।
  • ‘निर्वादैर्निर्वदेदेनम्’ (भा० उ० १३५।३)। निन्दावचनैरपभाषेतावमन्येतेत्यर्थः।
  • ‘यो निर्वदेत्संमोहाद् ब्राह्मणं वेदपारगम्।’ (भा० शां० ३२७।५०)। निर्वदेत्=निन्देत्।
  • ‘न निर्वदति राजानं लभते सम्पदं पुनः’ (भा० वि० ४।४०)। उक्तोऽर्थः। अवर्णाक्षेपनिर्वादपरीवादापवादवत् इत्यमरः।
  • ‘किमात्मनिर्वादकथामुपेक्षे जायामदोषामुत सन्त्यजामि’ (रघु० १४।६४)। निर्वादकथा निन्दावचनम्।
  • ‘नात्यर्थं निर्वदेत्’ (का० सू० ४।१।१९)। निषेधवचनं साग्रहं न वदेत् इत्यर्थः।
  • ‘न च निर्वदति’ (का० सू० ५।४।२९)। निर्वदति निश्चयेन वदति।

वप्

  • {निर्वप्}
  • वप् (डुवप बीजसन्ताने)।
  • ‘निर्गा ऊपे यवमिव स्थिविभ्यः’ (ऋ० १०।६८।३)। निरूपे=निरुप्तवान्=निवेदितवान्=अर्पितवान्।
  • ‘आग्नावैष्णवं पुरोडाशं निर्वपन्ति’ (ऐ० ब्रा० १।१)। उक्तोऽर्थः।
  • ‘न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति’ (मनु० ३।७२)। न निर्वपति=न ददाति। श्रोत्रियायाभ्यागताय महोक्षं वा महाजं वा निर्वपेत् (अज्ञातमूलं सूत्रकारवचनम्)।
  • ‘यस्तु सूक्तं भजते यस्मै हविर्निरुप्यतेऽयमेव सोग्निः’ (नि० ७।१८)। निरुप्यत इति निः पूर्वस्य वपतेः कर्मणि लटि रूपम्।
  • ‘न च तत्स्वयमश्नीयाद् विधिवद्यन्न निर्वपेत्’ (भा० अनु० १११।८५)। इत्यत्रैतत्संवादि वचः श्रूयते। सर्वासूदाहृतिषु समानो धातोरर्थः।
  • ‘यमायाकम्पनं तेन निरुवाप महापशुम्’ (भट्टि० १४।८६)। तेन कालेनाकम्पनं नाम राक्षसं महापशुरूपं बलिं हृतवानित्यर्थः।
  • ‘नाहमभागो निर्वप्स्यामि’ (तै० ब्रा० ३।३।८।५)। यावदहमभागस्तिष्ठामि तावद् देवतादिभ्यो हविरादीनि न निवेदयिष्यामीत्यर्थः।
  • ‘अपसव्येन हस्तेन निर्वपेदुदकं भुवि’ (मनु० ३।२१४)। आसिञ्चेत्, निक्षिपेत्।
  • ‘पितुश्चकार तेजस्वी निर्वापम् भ्रातृभिः सह’ (रा० २।१०३।२८)। निर्वापं निवापम्। पितृदानं निवापः स्यादित्यमरः।
  • ‘नीलवैदूर्यवर्णांश्च मृदून्यवससंचयान् निर्वापार्थं पशूनां ते ददृशुस्तत्र सर्वशः’ (रा० १।९१।७९)॥ निर्वापाय जग्ध्यर्थं पुरतो विक्षेपाय।

वम्

  • {निर्वम्}
  • वम् (डुवम उद्गिरणे)।
  • ‘शोणितं निर्वमन्ति स्म’ (भा० द्रोण० ९३।३८)। निरतिशये। अतिशयितं रुधिरं वमन्ति स्मेत्यर्थः।
  • ‘सा तन्निरवमच्छुकं नासिकायां विवस्वतः’ (हरि० १।९।५४)।

वर्ण्

  • {निर्वर्ण्}
  • वर्ण् (वर्ण वर्णक्रियाविस्तारगुणवचनेषु)।
  • ‘निर्वर्णनं तु दर्शनालोकनेक्षणम् इत्यमरे निर्वर्णनं निध्यानादिभिरभिन्नार्थम्।’
  • ‘अनिर्वर्णनीयं परकलत्रम्’ (शा० ५)। न निध्यातव्यमित्याह।
  • ‘तस्माद् यदद्य स्तोत्रेण गुणनिर्वर्णन त्विमौ’ (वि० पु० १।११।४८)। इह निर्वर्णनं विस्तरशो वर्णनेऽर्थे प्रयुक्तम्।

वस्

  • {निर्वस्}
  • वस् (वस निवासे)।
  • ‘कृच्छ्रं वने वासमिमं निरुष्य’ (भा० वन० २५।१८)। निःशेषेणोषित्वा।
  • ‘तस्मिन्गुरौ गुरुवासं निरुष्य’ (भा० १४।७)। उक्तोऽर्थः।
  • ‘निर्वासिताप्यतस्त्वयाहं तपस्विसामान्यमवेक्षणीया’ (रघु० १४।६७)। निर्वासिता निष्कासिता।
  • ‘अनिर्वृत्ते तु निर्वासे’ (भा० वि० ४७।५)। असमाप्ते निर्वासकाले इत्यर्थः।

वह्

  • {निर्वह्}
  • वह् (वह प्रापणे)।
  • ‘निष्टौग्र्यमूहथुरद्भ्यस्परि’ (ऋ० १०।३९।४)। तौग्र्यमद्भ्यो निरूहथुरुज्जह्रथुः=उद्धृतवन्तौ।
  • ‘युवं भुज्युमर्णसो निः समुद्राद् विभिरूहथुः’ (ऋ० १।११७।१४)। उक्तोऽर्थः।
  • ‘ओध इमाः सर्वाः प्रजा निर्वोढा’ (श० ब्रा० १।८।१।२)। निर्वोढा=प्रवाहयिष्यति=आप्लावयिष्यति।
  • ‘आपो रिप्रं निर्वहत’ (आप० श्रौ० ७।४।५)।
  • ‘चर्यां विना योगोपि न निर्वहति’ (सर्व० सं०)। न निर्वहति न सिध्यति।
  • ‘तत्कर्म निर्वहेच्च नः’ (कथा० ३२।३२)। उक्तोऽर्थः।
  • ‘गृहस्थाश्रयेण सर्वाश्रमिणो निर्वहन्ति’ (मनु० ३।७७ इत्यत्र कुल्लूकवचनम्)। निर्वहन्ति योगक्षेमिणो भवन्तीत्यर्थः।
  • ‘स वो निर्वक्षद् दुरितादवद्यात्’ (अथर्व० १२।२।४८)। निर्वहेद् निर्गमयेदित्यर्थः। लेटि सिपि रूपम्।
  • ‘तं निर्वहत परि ग्रामादितः’ (अथर्व० १८।२।२७)। निष्क्रमयतेत्यर्थः।
  • ‘यदा तु निर्वाहयति स्म ते प्रियं तदा हि मूकस्तुरगाधमोऽभवत्’ (बुद्ध० ८।४०)। निरक्रमयदित्यर्थः।
  • ‘भीमः कृष्णभुजावलम्बितगतिर्निर्वाह्यते पाण्डवैः’ (ऊरु० १।२५)। निर्वाह्यते समराङ्गनाद् बहिर्नीयते।
  • ‘यथा प्रियसखी बन्धुजनशोच्या न भवति तथा निर्वाहय’ (शा० ३)। तथा संविधेहि, तथोपायान्कुरु।
  • ‘निर्वाहः प्रतिपन्नवस्तुषु सतामेतद्धि गोत्रव्रतम्’ (मुद्रा० २।१८)। निर्वाहः प्रतिपालनम् निर्वर्तनम्, निर्व्यूढिः।
  • ‘इत्यभ्रातृकाया अनिर्वाह औपमिकः’ (नि० ३।४)। अनिर्वाहः=अविवाहः।
  • ‘स्रुचः शराववत्खातं सनिर्वाहं षडङ्गुलम्’ (कर्मप्रदीपे)। सनिर्वाहम्=घृतनिर्गममार्गसंहितम्।
  • ‘गार्हपत्यादुष्णं भस्म निरुह्य’ (श० ब्रा० १२।४।२।२)। निरुह्य=अपोद्धृत्य=निष्कास्य।
  • ‘निगडितनयनं निलिम्पपङ्के निरवहतां निपुणं नियुद्धशिल्पम्’ (चम्पू भा० २।५१)। निरवहतां न्यरूपयतां कर्मणा समपादयताम्।
  • ‘अन्योऽन्यं सहसा दृप्ता निर्वहन्ति क्षिपन्ति च’ (रा० ६।४।२८)। अन्योन्यं निर्वहन्ति विनोदार्थमेकमेके वहन्ति।
  • ‘समुद्रादेव सर्वे मनोरथा निर्वहन्ति’ (समुद्रमथने १)। निर्वहन्ति सिध्यन्ति सम्पद्यन्ते।
  • ‘निष्टमूहथुः सुयुजा रथेन’ (ऋ० १।११७।१५)। निरूहथुः=उज्जह्रथुः=उद्धृतवन्तौ। निष्टम्=निस्तम्।
  • ‘अंहतिश्चांहश्चाहुंश्च हन्तेर्निरूढोपधाद् विपरीतात्’ (नि० ४।२५।४)। इह निर्वहतिर्निष्कर्षणे वर्तते।
  • ‘येनासि तत्र जतुवेश्मनि दीप्यमाने निर्वाहिता सह सुतैर्भुजयोर्बलेन’ (वेणी० ६।२३)॥ निर्वाहिता भुजाभ्यामुत्थाप्य बहिर्नीता।
  • ‘यान्ति निर्वहणमस्य संसृतिक्लेशनाटकविडम्बनाविधेः’ (शिशु० १४।६३)। निर्वहणं समाप्तिः।
  • ‘दुष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने’ (सा० द० ३।१९८ इत्यत्रोदाहरणम्)। निर्वहणं निर्वाहः, अवलम्बनं धारणं श्रयणम्।
  • ‘ओघ इमाः प्रजा निर्वोढा’ (श० ब्रा० १।८।१।२)। निर्वोढा=आप्लावयिता।

वा

  • {निर्वा}
  • वा (वा गतिगन्धनयोः)।
  • ‘निर्ववुः शतशश्चैव वृष्टिवाताः सविद्युतः’ (रा० ४।२९।११)। निर्ववुः=निरतिशयं ववुः, वान्ति स्म।
  • ‘त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम्’ (सुभाषितम्)। निर्वाति शाम्यति, शैत्यं भजते।
  • ‘वपुर्जलार्द्रापवनैर्न निर्ववौ’ (शिशु० १।६५)। उक्तोऽर्थः।
  • ‘गृहा न निर्वान्ति मया प्रदीपितातथैव तावद् हृदयानि मन्त्रिणाम्’ (प्रतिज्ञा० ४।२२)।** न शाम्यन्तीत्याह।**
  • ‘इति सर्वं समुन्नद्धं न निर्वाति कथं चन’ (भा० शल्य० ५।२१)।
  • ‘सखि अन्यादृश एव तेऽद्य निर्वापयति शरीरस्पर्शः’ (मालती० ६)। निर्वापयति सुखयति।
  • ‘अग्निं हृदय्यं शोक तं ते निर्वापयामसि’ (अथर्व० ६।१८।१)। निर्वापयामः शमयामः। निर्वाप्यते प्रतिभयं पृथिवीपतीनां सार्वत्रिकं तु रभसाद् भुवि बुद्धि वृद्धैः। निर्वाप्यते शमं नीयते।
  • ‘यं त्वमग्ने समदहस्तमु निर्वापया पुनः’ (अथर्व० १८।३।६)। निर्वृतं सुखितं कुर्वित्याह।
  • ‘धौतारकूटकोमलातपत्विषि निर्वाति वासरे’ (हर्ष० २)। निर्वाति=अवसानं गच्छति सति।
  • ‘अपि निर्वाणमायाति नानलो याति शीतताम्’ (हितोप० १।१३१)। निर्वाणमायाति=निर्वाति=शाम्यति।
  • ‘निर्वाण नाधिगच्छेयुर्जीवेयुः पशुजीविकाम्’ (भा० वन० ३१।२६)। निर्वाणमपवर्गम् मोक्षम्।
  • ‘निर्वाणं समुपगमेन यच्छते ते’ (नमः) (कि० १८।३९)। निर्वाणं सन्तापशान्तिम्।
  • ‘स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति’ (गीता ५।२४)। ब्रह्मनिर्वाणम्=ब्रह्मानन्दम्।
  • ‘अये लब्धं नेत्रनिर्वाणम्’ (शा० ३)। निर्वाणं परमं सुखम्, परा निर्वृतिः।
  • ‘स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः। निर्वाणमगमद् धीमान्सुसुखी चाभवत्तदा’ (भा० वन० १०४।३८)। उक्तोऽर्थः।
  • ‘प्राप्य संकल्पनिर्वाणं नातिप्रीतोऽभ्यगात्पुरम्’ (भा० पु० ४।९।२७)। संकल्पनिर्वाणं संकल्पितार्थसिद्धिम्।
  • ‘विहाय सर्वसंकल्पान्बुद्ध्या शारीरमानसान्। शनैर्निर्वाणमाप्नोति निरिन्धन इवानल’ (भा० आश्व० १९।१२)॥ निर्वाणं शममुपरतिं वा।
  • ‘पितुः शरीरनिर्वाणं निष्टनन् विषसाद ह’ (रा० २।७७।८)। शरीरनाशस्थानमित्यर्थः।
  • ‘त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु’ (रा० १।३६।१३)। निर्वाणमुपप्लवनाशजं सुखम्।
  • ‘त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम्’ (का० प्र० १०।४५५)। पुस्तके इदं सुभाषितमिति कृत्वा धृतम्। अर्थस्तु निर्दिष्टपूर्वो नार्हति पुननिर्देशम्।
  • ‘अनाहारो हि निर्वाति निरिन्धन इवानलः’ (सौन्दर० १४।८)। निर्वाति शाम्यति। शुष्यति क्षीयत इति तूपचरितम्।

विद्

  • {निर्विद्}
  • विद् (विद सत्तायाम्)
  • ‘कृच्छ्राल्लब्धमभिप्रेतं यदि कौसल्य नश्यति। तदा निर्विद्यते सोऽर्थात् परिभग्नक्रमो नरः’ (भा० शां० १०४।४०)। निर्विद्यते=निर्वेदमापद्यते, अर्थे विषये लब्धव्ये विरक्तो भवति, निरीहः संजायते।
  • ‘निरविद्यत धर्मात्मा जीवितेन वृकोदरः’ (भा० द्रोण० १३२।२०)। जीविते वीतस्पृहोऽभूदित्यर्थः। नातः परं जिजीविषाऽस्याभूदित्यभिप्रायः।
  • ‘निरविद्यत धर्मात्मा जीवितेन परन्तप’ (भा० भीष्म० ११५।१०)।
  • ‘पश्यन्तु दुःखितां कृष्णां सा च निर्विद्यतां पुनः’ (भा० वन० २३७।२१)। पुनर्निर्विद्यताम्=भूयो नैराश्यमापद्यताम्।
  • ‘साङ्ख्ययोगविभागज्ञो निर्विवित्सुः’ (भा० सभा० ५।७)। निर्वेदो युद्धोपरतिः, तं कर्तुमिच्छन्निति नीलकण्ठः।
  • ‘निर्वेदाच्च तमेवार्थमनुध्यायन्पुरं ययौ’ (हरि० १।२३।४)। निर्वेदः शोकः।
  • ‘अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम्। अनिर्वेदो हि सततं सर्वार्थेष्वनुवर्तते’ (रा० ५।१२।१०)॥ निर्वेदो नैराश्यम्। अनिर्वेदस्तदभावः। आशाभङ्गस्य विरहः।
  • ‘न चास्य जीविते राजन्निर्वेदः समजायत’ (भा० स्त्री० ५।१०)। जीविते निर्वेदः=जिजीविषाविरहः। नातः परं जीवितुमिच्छामीति बुद्धिर्नाजायतेत्यर्थः।
  • ‘तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च’ (गीता २।५२)। निर्वेदो विरक्तिरौदासीन्यम्।
  • ‘परिभवान्निर्वेदमापद्यते’ (मृच्छ० ८।१२)। भग्नाशो जायते।
  • ‘जन्मना यस्तु निर्विण्णो मरणेन तथैव च। आधिभिर्व्याधिभिश्चैव तं देवा ब्राह्मणं विदुः’ (शङ्ख० ७।१०)। निर्विण्णोऽखिन्न इत्यर्थः प्रतिभाति।
  • ‘निर्विण्णोऽभूत्स जीवितात्’ (भा० द्रोण० १३६।१)। जीवितान्निर्विण्णः=जीविते विकाङ्क्षः।
  • ‘निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा’ (पञ्चत० १।२४०)। निर्विण्णो विरक्तोऽपरक्तः। स्वामिन्यभक्त इत्यर्थः।
  • ‘हृष्टे जहर्ष निर्विवेदानुकूल्यतः’ (राज० ६।२६२)। अत्र निर्विविदे इति तु युक्तम्। विदेः सत्तायाम् इत्यस्य तिङ्ङन्तेषु निर्वेदार्थस्य दर्शनात्।
  • ‘निर्विद्यति नरः कामादनिर्विद्य सुखमेधते’ (भा० शां० १०४।७)। निर्विद्यति निर्विद्यते विरज्यते।

विद्

  • {निर्विद्}
  • विद् (विद्लृ लाभे, विद ज्ञाने)।
  • ‘तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्’ (बृ० उ० ३।५।१)। निर्विद्य निःशेषेण विदित्वेति शङ्करः। प्राप्येति गोपालानन्दस्वामी।
  • ‘सतो बन्धुमसति निरविन्दन्’ (ऋ० १०।१२९। ४)। अन्विष्याविन्दन् प्राप्नुवन्।
  • ‘अथ स्वप्नस्य निर्विदेऽभुञ्जतश्च रेवतः’ (ऋ० १।१२०।१२)। निर्विदे=निर्मोक्षाय, परिहृतये।

विश्

  • {निर्विश्}
  • विश् (विश प्रवेशने)।
  • ‘ज्योत्स्नावतो निर्विशति प्रदोषान्’ (रघु० ६।३४)। निर्विशति=ससुखमनुभवति।
  • ‘क्रीडारसं निर्विशतीव बाल्ये’ (कु० १।२९)। उक्तोऽर्थः।
  • ‘कर्मणि भृतौ’ (पा० ३।२।२२)। सूत्रे भृतिर्वेतनं कर्मनिर्वेश इति काशिका। निर्वेशो भृतिभोगयोरित्यमरः।
  • ‘तदस्मिन्दीयते… (५।१।४७) ** सूत्रे–रक्षानिर्वेशो राजभागः शुल्क इति वृत्तिः।**
  • ‘भर्तुः पिण्डस्य निवशं कर्तुमिच्छामि’ (रा० ३।३३।२५)। उक्तोऽर्थः।
  • ‘चरितनिर्वेशस्य भोक्तव्यम्’ (आप० ध० १।१८।१२)। निर्वेशः प्रायश्चित्तम्।
  • ‘चरितनिर्वेशं सवनीयं कुर्युः’ (बौ० ध० २।१।१।३७)। उक्तोऽर्थः।
  • ‘करिष्ये वधनिर्वेशम्’ (भा० पु० १०।७८।३३) उक्तपूर्व एवार्थः।
  • ‘अनिर्वेशः’ (भा० पु० ५।२६।१८)। अकृतप्रायश्चित्त इत्यर्थः।
  • ‘आत्मनिर्वेशमात्रेण तिर्यग्गतमुलूखलं’ (ययौ) (भा० पु० १०।१०।२६)। निर्वेशः प्रवेशः। अपूर्वोऽर्थः।
  • ‘अभ्यधावन्नभिक्रुद्धा भ्रातुर्निर्वेशकारिणः’ (भा० पु० १०।४४।३९)। निर्वेशो वैरनिर्यातनम्। अयं चाप्यन्यत्र न दृश्यतेऽर्थः।
  • ‘अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः’ (भा० वन० ३६।१६)। राजपिण्डस्य निष्क्रयो देय इत्यर्थः।
  • ‘निर्विष्टं वैश्यशूद्रयोः’ (गौ० ध० २।१।४२)। निर्विष्टं कर्मणोपात्तम्, भृत्या समुपलब्धम् अर्जितम्।
  • ‘सङ्ग्रामे निर्विष्टसहस्रबाहुः’ (रघु० ६।३८)। सङ्ग्रामे निर्विष्टा अनुभूताः प्रत्यक्षीकृताः सहस्रं बाहवो यस्य (स कार्तवीर्यः)।
  • ‘स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान्’ (भा० पु० १।२।३३)। निर्विष्टोऽनुप्रविष्ट इत्यर्थं विवक्षति। व्यक्तं निनिरावुपसर्गौ संकिरति कविः।
  • ‘भर्तृपिण्डस्य कालो यं निर्वेष्टुम्’ (रा० ६।९७।५)। निर्वेष्टुम्=निर्वेशं दातुम्, निष्क्रयमर्पयितुम्।
  • ‘निर्वेष्टुकामस्तु पुरा अष्टावक्रो महातपाः’ (भा० अनु० १९।११)। दारसङ्ग्रहार्थी, गृही बुभूषुः। अदेशे निरो योगः।
  • ‘निर्वेष्टव्यं मया तत्र प्राणानपरिरक्षता’ (भा० उ० १४६।१५)। भुक्तस्य तदन्नादेरानृण्यं मया सम्पाद्यमित्याह।
  • ‘निरूपितो बालक एव योगिनां शुश्रूषणे प्रावृषि निर्विविक्षिताम्’ (भा० पु० १।५।२३)। समं विवत्सताम् इति विवक्षति। शब्दमर्यादया तु नायमर्थो लभ्यः, परं शब्दमर्यादानुरोधे नायमादृतः कविः।
  • ‘अस्ति नूनं कर्मकृतं पुरस्तादनिर्विष्टं पापकं धार्तराष्ट्रैः’ (भा० उ० ४८।८)। अनिर्विष्टमभुक्तम्।
  • ‘ज्येष्ठेऽनिर्विष्टे कनीयान्परिवेत्ता भवति परिविन्नो ज्येष्ठः (कृत्यकल्पतरौ द्वितीये खण्डे १०६ पृष्ठे)। अनिर्विष्टः=अकृतपरिणयः। वस्तुतोऽपपाठ एषः। अनिविष्ट इत्येव पाठः।**
  • ‘पुत्रस्नेहस्तु निर्विष्टो येन सुव्यक्तकारिणा’ (पञ्चत० २।३८)। निरूढः, सम्यङ् निरूपितः।
  • ‘भो दर्शितः स्नेहः। निर्विष्टः पुरुषकारः’ (प्रतिज्ञा० ३)। उक्तोऽर्थः।
  • ‘निर्विष्टः सर्वभावेन धनञ्जयमवेक्ष्य च’ (भा० उ० १५७।३०)। निर्विष्टः=अभिनिविष्टः।
  • ‘अथ मधुवनितानां नेत्रनिर्वेशनीयं’ (यौवनम्) (रघु० १८।५२)। नेत्रनिर्वेशनीयं नयनभोग्यं नेत्रपेयं मधु (मधुरूपं यौवनम्)।
  • ‘निर्वेष्टव्यं शरीरं यैर्व्रतकैः पुण्यकैरपि’ (हरि० २।८०।१)। निर्वेष्टव्यमलङ्करणीयम्। निर्वेष्टव्यं भोक्तव्यं भोग्यमिति मुख्योऽर्थः। शरीरं च संस्कृतमेव भोगार्हं भवतीति प्रोक्तार्थलब्धिः।

वृ

  • {निर्वृ}
  • वृ (वृञ् वरणे, वृङ् संभक्तौ)।
  • ‘निर्ववार मधुनीन्द्रियवर्गः’ (शिशु० १०।३)। सुखं वेदयते स्म, सुखं निर्विवेश। निर्वरिता निर्वरीता (काशिकायां स्वरान्तसेट्धातुकारिकायामुदाहरणम्)। मार्क० पु० १००।१९ इत्यत्र निवृत इति निर्वाणार्चिरित्यर्थे प्रयुक्तम्। तदाऽयं सर्वभूतात्मा सुखं स्वपिति निर्वृतः (मनु० १।५४)। निर्वृतः=निवृत्तजाग्रत्स्वप्नव्यापार इति कुल्लूकः। निर्वार्यः कार्यकर्ता यः सम्पन्नः सत्त्वसम्पदा (अमरः)। निर्वार्यः=निश्चयेन व्रियसे।
  • ‘हृदयं निर्वृतं तेऽस्तु’ (रा० ३।४५।२५)। **निर्वृतं सुखितम्।
  • ‘निर्वृते स्वः’ (शा० २)। परितुष्टे इत्याह।**
  • ‘तीर्णे भीष्ममहोदधौ कथमपि द्रोणानले निर्वृते’ (वेणी० ६।१)। निर्वृते=शान्ते, निर्वाणतां गते।
  • ‘व्रजति निर्वृतिमेकपदे मनः’ (विक्रम० २।९)। निर्वृतिरानन्दः, प्रमोदः।
  • ‘न जातु बाला लभते स्म निर्वृतिं तुषारसङ्घातशिलातलेष्वपि’ (कु० ५।५५)। निर्वृतिं विश्रान्तिम्।
  • ‘द्वारं निर्वृतिसद्मनो विजयते कृष्णेति वर्णद्वयम्’ (भा० वि० ४।१४)। निर्वृतिः संसारमोक्षः।
  • ‘विचार्य खलु पश्यामि तत् सुखं यत्र निर्वृतिः’ (भा० १२।१४१४)। परितोषः, आनन्दः।
  • ‘भूम्यम्बुवायुजैः पित्तं क्षिप्रमाप्नोति निर्वृतिम्’ (सुश्रुत० १।१५२।१२)। निर्वृतिः शमः।
  • ‘स (बृहस्पतिः) नीवारान्निरवृणीत’ (तै० ब्रा० १।३।६।७)। अन्याभ्य ओषधिभ्यो निष्कृष्यावृणीतेत्यर्थः।
  • ‘कल्पे निःशेषभुक्ते तु ततो गच्छन्ति निर्वृतिम्’ (हरि० ३।३६।१७)। निर्वृतिं शान्तिं तिरोभावम्।

वृत्

  • {निर्वृत्}
  • वृत् (वृतु वर्तने)।
  • ‘हस्तपादशिरसां पञ्च पिण्डका निर्वर्तन्ते’ (सुश्रुत० १।३२२।८-९)। निर्वर्तन्ते। निष्पद्यन्ते।
  • ‘निर्वर्तेतास्य यावद्भिरितिकर्तव्यता नृभिः’ (मनु० ७।६१)। निर्वर्तेत=सिध्येत्।
  • ‘निरवर्त्स्यन्न चेद्वार्ता सीताया वितथैव नः। अकल्प्स्यदुद्यतिः सर्बा’ (भट्टि० ८।६९)। निरवर्त्स्यत्=असेत्स्यत्। अलभ्यतेति तात्पर्यार्थः। वार्ता प्रवृत्तिरुदन्तः।
  • ‘निर्वर्त्स्यत्यृतुसङ्घातः’ (भट्टि० १६।६)। सर्वदा न भविष्यतीति जयमङ्गला। कथमस्यार्थस्योपलब्धिरभूदिति भट्टिर्वा वेद जयमङ्गलाकारो वा।
  • ‘अङ्गारान् निर्वर्त्य’ (श० ब्रा० १२।८।१।६)। अत्र णिच्सहितस्य धातोरुद्धरणमर्थः।
  • ‘अद्य निर्वर्तयिष्यन्ति क्षत्रमांसानि दानवाः’ (हरि० ३।५९।५३)। अपनेष्यन्तीत्यर्थः। लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः।
  • ‘ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत्’ (मनु० १।३१)॥ निरवर्तयत्=निरपादयत्, अकल्पयत्। अजनयत्।
  • ‘निर्वर्त्यतां तावदयं कन्याभावरमणीयः कालः’ (स्वप्न० २)। अतिवाह्यताम्। निर्विश्यतामिति त्वार्थिकोऽर्थः।
  • ‘निर्वर्त्यमानमेव तपो हिनस्त्यशुद्ध्यावरणमलम्’ (यो० सू० २।४३ भाष्ये)। निर्वर्त्यमानमेव प्रक्रियमाणमेव, चर्यमाणमेव।
  • ‘ऋते वर्षान्न कौन्तेय न जातु निर्वर्तयेत् फलम्’ (क्षेत्रम्) (भा० उ० ६९।२)। न साध्येदित्यर्थः। न पाचयेदिति वा।
  • ‘मङ्गलोदग्रं तदहो निरवर्तयत्’ (राज० ३।२४७)। निरवर्तयत्=अयापयत्।
  • ‘निर्वृत्तम्’ (४।२।६८)। कुशाम्बेन निर्वृत्ता निर्मिता नगरी कौशाम्बी।
  • ‘मुद्गलाद् ब्रह्म निर्वृत्तं गोत्रं मौद्गलसंज्ञितम्’ (भा० पु० ९।५१।३३)। निर्वृत्तं जातमुद्भूतम्। संभूतम्।
  • ‘कारणेन निर्वृत्तं कृत्रिमं वैरम्’ (पञ्चत०)।
  • ‘निर्वृत्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे’ (कु० ७।११)। निर्वृत्तः सम्पादितः।
  • ‘सा तस्य कर्मनिर्वृत्तैर्दूरं पश्चात्कृता फलैः’ (रघु० १७।१८)। कर्मनिर्वृत्तैः=कर्मभिः पुराकृतैर्निष्पन्नैः।
  • ‘निर्वृत्ते तु क्रतौ तस्मिन्हय मेधे महात्मनः’ (रा० १।१८।१)। निर्वृत्ते=समाप्ते=अवसिते।
  • ‘स तान्तो निरवर्तत’ (जै० ब्रा० १।१५१)। निरपद्यत, अजायतेत्यर्थः।
  • ‘यदि पीतापीतौ सोमौ सङ्गच्छेयातामन्तःपरिध्यङ्गारान्निर्वर्त्य’ (पञ्च० ब्रा० ९।९।८)। निर्वर्त्य पृथक् कृत्वा।

वृष्

  • {निर्वृष्}
  • वृष् (वृषु सेचने)।
  • ‘निर्वृष्टलघुभिर्मेघैर्मुक्तवर्त्मा’ (रघु० ४।१५)। निःशेषं वृष्टा निर्वृष्टाः।

वेष्ट्

  • {निर्वेष्ट्}
  • वेष्ट् (वेष्ट वेष्टने)।
  • ‘शेप इव निर्वेष्टितः’ (नि० ५।८)। अनावृतोऽसंवृत इत्यर्थः। निःशब्दो धात्वर्थं विपरीतयति। वेष्टनमावरणं हि धातोरर्थस्तस्य विपर्यासोऽनावरणम्। एकैकस्मिन्मण्डले मुहूर्तस्य द्वौ द्वावेकषष्टिभागौ दिवसक्षेत्रस्य निर्वेष्टयन् (=हापयन्)।

व्यध्

  • {निर्व्यध्}
  • व्यध् (व्यध ताडने)।
  • ‘निरविध्यत् प्रतोदेन नासिकायां पुनः पुनः’ (भा० अनु० २६।१०)। निःशेषम् अविध्यत्।
  • ‘तेन मर्मणि निर्विद्धः शरेणानुपमेन हि’ (रा० ३।४४।२०)। निर्विद्धः क्षतः, विक्षतः।
  • ‘छिद्रं निर्व्यधनं रोकम्’ (अमरः)। स्पष्टम्।

शस्

  • {निःशस्}
  • शस् (शसु हिंसायाम्)।
  • ‘अवशसा निःशसा यत् पराशसोपारिम’ (अथर्व० ६।४५।२)। निःशसा=निःशेषेण हिंसनेन।

शो

  • {निःशो}
  • शो (शो तनूकरणे)।
  • ‘सोऽसिं निःशान एवाय’ (ऐ० ब्रा० ७।१६)। निःशानः=निःश्यन्, तेजयन्।

श्रु

  • {निःश्रु}
  • श्रु (श्रु श्रवणे)।
  • ‘तद् उद्देशः संवृतः कथानामनिःश्रावी पक्षिभिरप्यनालोक्यः स्यात्’ (कौ० अ० १।१५।३)। निः श्रवो बहिः श्रवणम्। अनिःश्रावी यत्रान्तः स्थानां कथाः कथयतां बहिः श्रवणं न स्यात्।

श्वस्

  • {निःश्वस्}
  • श्वस् (श्वस प्राणने)।
  • ‘स्तनकम्पक्रियालक्ष्यैर्निःश्वसितैरिव’ (हृदयम्) (विक्रम० २।१९)।

सञ्ज्

  • {निःसञ्ज्}
  • सञ्ज् (षञ्ज सङ्गे)।
  • ‘अनित्यभूतो निःसङ्गं वध्यतां वध्यतामपि’ (रा० २।२१।१२)। निःसङ्गम्=निःस्नेहम्=अनादरेण, तृणवत्।
  • ‘भर्तुर्ये प्रलयेऽपि पूर्वसुकृतासङ्गेन निःसङ्गमा भक्त्या कार्यधुरं वहन्ति’ (मुद्रा० १।१४)। निःसङ्गमाः=निःसङ्गाः=निष्प्रयोजनाः। स्वार्थपराङ्मुखा इत्यर्थः।
  • ‘निःसङ्गं प्रधिभिरुपाददे। विवृत्तिः’ (कि० ७।१२)। निःसङ्गं निष्प्रतिबन्धम्।
  • ‘निःसङ्गता मुक्तिपदं यतीनां सङ्गादशेषाः प्रभवन्ति दोषाः’ (वायु० पु० ४।२)। सङ्ग आसङ्गः आसक्तिः, ममत्वम्।

सह्

  • {निःसह्}
  • सह् (षह मर्षणे)।
  • ‘अये विरम निःसहासि जाता’ (मालती० ३)। निःसहा=श्रान्ता। ग्लाना।

सिच्

  • {निष्षिच्}
  • सिच् (षिच क्षरणे)।
  • शुचिः–निष्षिक्तमस्मात्पापकमिति नैरुक्ताः’ (नि० ६।६।१)। निष्षिक्तं निष्कृष्यान्यत्र सिक्तम् इति दुर्गः।

सिध्

  • {निःसिध्}
  • सिध् (षिध गत्याम्)।
  • ‘निष्क्रव्यादं सेध’ (तै० सं० १।१।७)। निःसेध निष्कृष्य बहिरपनय।

सू

  • {निःसू}
  • सू (षू प्रेरणे)।
  • ‘निर्लक्ष्म्यं ललाम्यं निररातिं सुवामसि’ (अथर्व० १।१८।२)। अस्माच्छरीरान्निरवशेषमुत्सारयाम इत्यर्थः।

सृ

  • {निःसृ}
  • सृ (सृ गतौ)।
  • ‘ग्रामादरण्यं निःसृत्य निवसेन्नियतेन्द्रियः’ (मनु० ६।४)। निःसृत्य=निर्याय।
  • ‘यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः’ (रघु० २।३६)। निःसृतानां निःस्रुतानाम्।

सृज्

  • {निःसृज्}
  • सृज् (सृज् विसर्गे)।
  • ‘वज्रेण हत्वा निरपः ससर्ज’ (ऋ० १।१०३।२)। निःससर्ज=विसृष्टवान्।
  • ‘इदमहं तप्तं वार्बहिर्धा यज्ञाग्निः सृजामि’ (वा० सं० ५।११)। निःसृजामि=निष्क्रमयामि।
  • ‘देवा मुञ्चन्तो असृजन्निरेणसः’ (अथर्व० २।१०।८)। निरसृजन् निरगमयन्।
  • ‘तस्यै त्रीन्भागान्पुरस्तादुपदधाति निःसृजति चतुरः’ (श० ब्रा०)। निःसृजति=हापयति।

स्तन्

  • {निष्टन्}
  • स्तन् (स्तनगदी देवशब्दे)।
  • ‘निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः’ (भा० उ० १४२।१२)। निष्टनन्ति=गर्जन्ति=बृंहन्ति।

स्था

  • {निःस्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘भद्राप्लक्षान्निस्तिष्ठन्ति’ (अथर्व० ५।५।५)। निस्तिष्ठन्ति=प्रभवन्ति=उद्भवन्ति।
  • ‘नळा इव सरसो निरतिष्ठन्’ (ऋ० ८।१।३३)। निरतिष्ठन्=आरोहन्।
  • ‘यदा वै निस्तिष्ठत्यथ श्रद्दधाति’ (छां० उ० ७।२०)। निस्तिष्ठति निष्ठामाप्नोति। निष्ठावानेव श्रद्धावान्भवतीत्यर्थः।
  • ‘यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति’ (छां० उ० ८।१।९)। निस्तिष्ठन्ति=निष्पादयन्ति, निर्मिमते।
  • ‘निष्ठितेषु पान्नेजनेषु’ (श० ब्रा० १३।५।२।२)। सम्भृतेषु=आहृतेषु। निष्ठा निष्पत्तिनाशान्ताः (अमरः)।
  • ‘मनो निष्ठाशून्यं भ्रमति च किमप्यालिखति च’ (मालती० १।८१)। निष्ठा स्थैर्यम्।
  • ‘तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे’ (मनु० ८।२२७)। निष्ठा निष्पत्तिः भार्यात्वेन।
  • ‘तं तदानीमेव विस्रस्याहा कुर्वन्तो हस्तान् ग्रन्थकौशलै र्निस्तिष्ठन्ति। एवमेवोत्तरं द्वार्बाहुमेवापरौ द्वार्बाहू निस्तिष्ठन्ति’ (बौ० श्रौ० ६।२७)।

स्रु

  • {निःस्रु}
  • स्रु (स्रु गतौ)।
  • ‘तदतिक्रमे विद्याकर्म निःस्रवति ब्रह्म सहापत्यादेतस्मात्’ (आप० ध० १।५।२)। निःसारयतीत्यर्थः।
  • ‘क्रेयो वा निःस्रवस्तस्माद् वणिजां लाभकृत्स्मृतः’ (याज्ञ० २।२५१)। निःस्रवोऽवशेषः।
  • ‘कदाचित्तं जलस्थायं (=क्षुद्रजलाशयम्) मत्स्यबन्धाः समन्ततः। निः स्रावयामासुः…’ (भा० शां० १३७।५)॥ परिवाहयाञ्चक्रुरित्यर्थः।

हद्

  • {निर्हद्}
  • हद् (हद पुरीषोत्सर्गे)।
  • ‘पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान्। सारसानां च निर्हादमत्रोदकमसंशयम्’ (भा० वन० ३१२।८)। निर्हादो विष्ठा, पुरीषम्।

हन्

  • {निर्हन्}
  • हन् (हन हिंसागत्योः)।
  • ‘प्राशित्रमस्याक्षिणी निर्जघानेति च ब्राह्मणम्’ (नि० १२।१४)। आहत्य निष्कासयामास।
  • ‘तत्पूषा प्राश, तस्य दतो निर्जघान’ (श० ब्रा० १।७।४।७)। निर्जघान=बभञ्ज। भग्नदन्तः पूषेति प्रसिद्धिः।
  • ‘कील आहन्यमानः प्रतिकीलं निर्हन्ति’ (नञ् २।२।६ सूत्रे भाष्ये)। निर्हन्ति=निर्गमयति, उत्खनति।
  • ‘स दोषो निर्घानिष्यते’ (शास्त्रपूर्वक इति वा० भा०)। निःशेषेणापहनिष्यते।
  • ‘निर्घातश्च महानभूत्’ (भा० सभा० ८।२२)। निर्घातो वज्रशब्दः।
  • ‘अहह दारुणो दैवनिर्घातः’ (उत्तर० २)। निर्घातः प्रहारः। वायुना निहतो वायुर्गगनाच्च पतत्यधः।
  • ‘प्रचण्डधोरनिर्घोषो निर्धात इति कथ्यते’ (व० बृ० सं०)।
  • ‘त (देवाः) एभ्यो लोकेभ्यो निरघ्नन्’ (असुरान्) (गो० ब्रा० उ० २।७)। निरघ्नन्=पराणुदन्।
  • ‘त (असुराः) एभ्यो लोकेभ्यो निर्हता ऋतून् प्राविशन्’ (गो० ब्रा० उ० २।७)। निर्हताः=प्रहृतप्रद्राविताः।
  • ‘मज्जानमस्य निर्जहि’ (अथर्व० १२।७।९)। निर्जहि ताडयित्वा निर्गमय।
  • ‘तस्याक्षिणी निर्जघान’ (शां० ब्रा० ६।१३)। आहत्य निश्चकर्षेत्यर्थः।
  • ‘यदत्रैकपदां व्यवदध्याद् वाचः कूटेन यजमानात् पशून् निर्हण्यात्’ (ऐ० ब्रा० ६।२४)। निर्हण्यात् निर्गमयेत्। हनिर्गत्यर्थो ऽन्तर्णीतण्यर्थ इति षड्गुरुशिष्यः। निःसार्य हन्यादिति तु सायणः।
  • ‘वरुणस्य वाऽभिषिच्यमानस्यापः। इन्द्रियं वीर्यं निरघ्नन्’ (तै० ब्रा० १।८।९)। निरघ्नन् निर्गमितवत्यः।
  • ‘यन्निधनवत् (साम) स्यात्, यजमानं स्वर्गाल्लोकान्निर्हण्यात्’ (पञ्च० ब्रा० ७।३।२४)। निर्हण्यात् निर्गमयेत्। निर्वासयेत्।
  • ‘तैरुपायैः शल्यं तु नैव निर्घात्यते यदि’ (सुश्रुत० १।२७।११)। निर्घात्यते निर्हण्यते कृत्यते निष्कास्यते।
  • ‘शं नो भूमि र्वेप्यमाना शमुल्का निर्हतं च यत्’ (अथर्व० १९।९।८)। निर्हतं निर्घातः तडित्पातः, अशनिपातः।
  • ‘ततो हैनां न शेकतुर्निर्हन्तुम्’ (श० ब्रा० १।१।४।१४)। निर्हन्तुं निर्गमयितुम्।

हृ

  • {निर्हृ}
  • हृ (हृञ् हरणे)।
  • ‘अन्तःपुरगतां वार्तां निर्हरेयुरलक्षिताः’ (का० नी० सा० १३।४५)। निर्हरेयुः=निष्कर्षेयुः। वार्तां प्रवृत्तिं विभावयेयुरिति तात्पर्यार्थः।
  • ‘यन्नर्तनो भवत्यभीक्ष्णशः प्रेतान्निर्हरन्ते’ (गो० ब्रा० पू० २।७)। निष्कालयन्तीत्यर्थः।
  • ‘समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम्’ (रा० ४।२५।१८)। निर्हरिष्यन्ति=श्मशानाय विनेष्यन्ति वक्ष्यन्तीत्यर्थः।
  • ‘त आत्मानं निर्हरन्तीह देहान्मुञ्जादिषीकामिव सत्त्वसंस्थाः’ (भा० उ० ४४।७)। निर्हरन्ति=प्रवृहन्ति=पृथक् कुर्वन्ति।
  • ‘न च वासांसि वासोभिर्निर्हरेत्’ (मनु० ८।३९६)। मिश्रयेत् परिवर्तयेद्वा।
  • ‘हत्वा नृपान्निरहरत् क्षितिभारमीशः’ (भा० पु० ११।१।२)। निरहरत्=पर्यहरत्।
  • ‘यत् किञ्चिद् दोषमास्राव्य न निर्हरति कायतः’ (चरक० सूत्र० २६।८७)। न निर्हरति नापनुदति, नापाकरोति।
  • ‘उद्धुनीयात सत्केतून् निर्हरेताग्र्यचन्दनम्’ (भट्टि० १९।८)। निहरेत=निर्गमयेत। वनादिति शेषः। आहरेतेत्यर्थः। नायं युक्तरूपः प्रयोगः। आङ् प्रयोक्तव्यः।
  • ‘तानि निर्हरतो लोभात्’ (मनु० ८।३९९)। निर्हरतः=देशान्तरं नयतः।
  • ‘गवां निर्हारनिर्मुक्ताद् यावकात् तद्विशिष्यते’ (भा० अनु० २६।३८)। निर्हारः=आहारनिर्गमनमार्गः।
  • ‘कुर्याद् विहारमाहारं निर्हारं विजने सदा’ (शुक्र० ३।११२)। निर्हारम् मलमूत्रविसर्गम्।
  • ‘आहारनिर्हारविहारयोगाः सुसंवृता धर्मविदा तु कार्याः’ (व० धर्म० ६।९)। उक्तोऽर्थः।
  • ‘न निर्हारं स्त्रियः कुर्युः कुटुम्बाद् बहुमध्यगात्’ (मनु० ९।१९९)। निर्हारं रत्नालङ्काराद्यर्थं धनसञ्चयम् इति कुल्लूकः। निर्हारोऽभ्यवकर्षणम् (अमरः)। निर्हारो युक्तया निःसाराकर्षणमिति स्वामी।
  • ‘कर्मणा कर्मनिर्हारो यथा स्यान्नस्तदुच्यताम्’ (भा० पु० १०।८४।२९)। निर्हारः परिहारः। अत्रार्थे स्वातन्त्र्यं कवेः।
  • ‘इष्टश्चानिष्टगन्धश्च मधुरः कटुरेव च। निर्हारी संहतः स्निग्धो रूक्षो विशद एव च’ (भा० शां० १८४।२८)॥ निर्हारी सर्वगन्धाभिभावी। हिङ्गवादी यथा।
  • ‘तांस्तान् विषविशेषांश्च तत्तन्निर्हरणानि च’ (शि० भा० ३०।२०)। निर्हरणानि परिहारोपायान्, भेषजानि। अयमप्यत्रार्थे भावतकारमनुगतः।
  • ‘यद्यर्थिता निर्हृतवाच्यशल्यान् प्राणान्मया धारयितुं चिरं वः’ (रघु० १४।४२)। निर्हृतमुद्धृतम्।
  • ‘निर्हृत्य तु व्रती प्रेतं न व्रतेन वियुज्यते’ (मनु० ५।९१)। निर्हृत्य=निर्याप्य=निरुह्य।
  • ‘शल्यं निर्हृत्य समायत्य संनह्यति’ (काठक० १२।१)। उद्धृत्येत्यर्थः।
  • ‘चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः’ (मनु० ७।४)। निर्हृत्य=आकृष्य।
  • ‘य ईमाहुः सुरभिर्निर्हरेति’ (ऋ० १।१६२।१२)। यतः सुरभिरतो निःशेषं देवेभ्यो हरेत्याह।
  • ‘तस्यासून् पावकस्पर्शैः सौमित्रिः पत्त्रिभिस्त्रिभिः। यथा निरहरत्…’ (भा० वन० २८९।२१)॥ निरहरत् उदहरत् अपाहरत्।
  • ‘द्वास्थपरम्परा मातापितृव्यञ्जनाः शिल्पकारिकाः कुशीलवा दास्यो वा…चारं निर्हरेयुः’ (कौ० अ० १।१२।१३)। चारं चरैर्गृहीतं विभावितं रहस्यमुद्धरेयुरित्याह।
  • ‘वाक्शल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः’ (भा० उ० ३४।७९)। निर्हर्तुं निःसारयितुम्।
  • ‘तस्मान्निर्हरणं कार्यं दोषाणां वमनादिभिः’ (सुश्रुत० उत्तर० ३९।५६)। निर्हरणमपाकरणम्।

ह्रस्

  • {निर्ह्रस्}
  • ह्रस् (ह्रस शब्दे)।
  • ‘अघं हन्तेर्निर्ह्रसितोपसर्ग आहन्तीति’ (नि० ६।११।१)। निर्ह्रसितो ह्रस्वीकृतः।