१०० वि

अञ्च्

  • {व्यञ्च्}
  • अञ्च् (अञ्चु गतिपूजनयोः)।
  • ‘मायाभिरश्विना युवं वृक्षं स च वि चाचथः’ (ऋ० ५।७८।६)। कृतनलोपोञ्चतिरेवात्र धातुर्न तु धात्वन्तरम्। व्यचथः=विभुज्य (भुग्नं कृत्वा) भङ्क्थः।
  • ‘अग्ने व्यचस्व रोदसी उरूची’ (अथर्व० ३।३।१)। व्यचस्व=प्रथय, विस्तृणीहि। सहस्रधारं शतधारमुत्समक्षितं व्यच्यमानं सलिलस्य पृष्ठे (अथर्व० १८।४।३६)। व्यच्यमानम्=विव्रिमाणमुद्घाट्यमानम्।

अज्

  • {व्यज्}
  • अज् (अज गतिक्षेपणयोः)।
  • ‘व्यजति वातोऽनेन विक्षिप्यते वा व्यजनम्’ (अमरोद्घाटने स्वामी)।
  • ‘वि यदज्राँ अजथ नाव ईं यथा’ (ऋ० ५।५४।४)। व्यजथ=कृषथ। पृथग्वा कर्षथ।

अञ्ज्

  • {व्यञ्ज्}
  • अञ्ज् (अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु)।
  • ‘अञ्जते व्यञ्जते क्रतुं रिहन्ति लघुनाऽभ्यञ्जते’ (अथर्व० १८।३।१८)। व्यञ्जते=व्यञ्जन्ति। लौकिकादञ्जनादन्येन प्रकारेगाञ्जन्तीत्यर्थः। तथा च तैत्तिरीयिण आमनन्ति–दक्षिणं पूर्वमाङ्क्ते। सव्यं हि पूर्वं मनुष्या आञ्जत’ (तै० सं० ६।१।१।६) इति।
  • ‘शुभ्रा (मरुतः) व्यञ्जत श्रिये’ (ऋ० ८।७।२५)। व्यञ्जत=प्राकाशन्त, अदीप्यन्त।
  • ‘जिह्वा कथं ते हृदयं व्यनक्ति’ (भा० सभा० ६४।२)। व्यनक्ति, व्यक्ती करोति, विवृणोति, प्रत्यक्षयति।
  • ‘दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति’ (रा० २।२३।१८)। व्यक्तिर्भेदः, प्रबलदुर्बलविवेक इत्यर्थः।
  • ‘लग्नोऽग्निश्चामरेषु प्रकामं व्यज्यते न स्म सैन्यैः’ (शिशु० १८।३४)। न व्यज्यते स्म न विविच्यते स्म, न विविच्य ज्ञायते स्म।
  • ‘विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये’ (रा० ४।१२।३१)। व्यक्तिर्भेदः।
  • ‘व्यक्तिं भजन्त्यापगाः’ (शा० ७।८)। व्यक्तिं भजन्ति दृश्यतां यान्ति, स्फुटदर्शनतां गच्छन्ति।
  • ‘व्यञ्जनमात्रं तत्तस्याभिधानस्य भवति’ (नि० ७।१३)। व्यञ्जनं विशेषणम्।

अद्

  • {व्यद्}
  • अद् (अद भक्षणे)।
  • ‘मूषो न शिश्ना व्यदन्ति माध्यः’ (ऋ० १।१०५।८)। व्यदन्ति=अवकृन्तन्ति अवलुम्पन्ति।

अश्

  • {व्यश्}
  • अश् (अशू व्याप्तौ)।
  • ‘इमां व्यष्टिं व्याश्नुत’ (श० ब्रा० १०।२।४।८)। व्यष्टिः=आप्तिः, समृद्धिः, साफल्यम्।
  • ‘प्रजापतिरकामयत सर्वा व्यष्टीर्व्यश्नुवीय’ (श० ब्रा० १३।४।१।१)। सर्वा व्यष्टीः=सर्वानर्थान्।
  • ‘यदेव हूयमानस्य व्यश्नुते’ (श० ब्रा० २।२।४।१७)। व्यश्नुते=शिष्यते=उर्वरितं भवति।
  • ‘प्रतापस्तस्य भानोश्च युगपद् व्यानशे दिशः’ (रघु० ४।१५)। व्यानशे=व्याप।
  • ‘ते तं व्याशिषत’ (भट्टि० १५।४३)। व्याप्तवन्तः=परिगतवन्तः, परिवेष्टितवन्त इत्यर्थः।
  • ‘स एतेनैकशतविधेनात्मनेमां जितिं जयतीमां व्यष्टिं व्यश्नुते’ (श० ब्रा० १०।१।९।८)। व्यष्टिः फलं साफल्यम्।

अश्

  • {विअश्}
  • अश् (अश भोजने)।
  • ‘अन्ना यदिन्द्रः प्रथमा व्याश’ (ऋ० ३।३६।८)। व्याश=आश=बुभुजे।
  • ‘पाटामिन्द्रो व्याश्नात्’ (अथर्व० २।२७।४)। व्याश्नात्=अभुङ्क्त। विशब्द उभयत्रार्थस्य विशेषको न।

अंस्

  • {व्यंस्}
  • अंस् (अंस विभाजने)
  • अयं नित्यं विपूर्वः।
  • ‘यदाश्रौषं देवराजेन दत्तां दिव्यां शक्तिं व्यंसितां माधवेन’ (भा० आदि० १।१९९)। व्यंसितां व्यर्थीकृताम् इति नील०।
  • ‘व्यंसयामास तं तस्य प्रहारं भीमविक्रमः’ (भा० वन० १६१।६७)। उक्तोऽर्थः।

अस्

  • {व्यस्}
  • अस् (असु क्षेपे)।
  • ‘व्यस्यै मित्रावरुणौ हृदश्चित्तान्यस्यतम्’ (अथर्व० ३।२५।६)। व्यस्यतम्=विक्षिपतम्। अस्यै इति षष्ठ्यर्थे चतुर्थी।
  • ‘संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे’ (भा० शां० २३८।१४)। व्यस्यन्ते=विभज्यन्ते शक्तिर्व्यसनम्।
  • ‘व्यस्यत्येनं श्रेयस इति’ (यो० सू० २।५४ भाष्ये), कौ० ८।१।१।२७)। व्यस्यति विभजति, पृथक् करोतीत्यर्थः।
  • ‘विव्यास वेदान् यस्मात्’ (भा० आदि० ६३।८८)। अत्र विशब्दस्य दुरुक्त्या नार्थः। पुच्छं व्यस्यति विपुच्छयते (काशिका)।
  • ‘व्यस्तरात्रिन्दिवस्य ते’ ( ) विभक्ताहोरात्रस्येत्यर्थः।
  • ‘तदस्ति किं व्यस्तमपि त्रिलोचने’ (कु० ५।७२)। व्यस्तमेषामन्यतममेकम् इत्यर्थः।
  • ‘…सामादिभिरुपक्रमैः…। व्यस्तैश्च समस्तैश्च…’ (मनु० ७।१५९)॥ एकैकशः सामस्त्येन वा।
  • ‘व्यस्यन् विश्वा अनिरा अमीवाः’ (वा० सं० ११।४७)। विक्षिपन्, परासुवन्नित्यर्थः।
  • ‘व्यस्यन्बाणसहस्राणि योधेषु च गजेषु च’ (भा० द्रोण० ५२।२८)। व्यस्यन्=निरस्यन्।
  • ‘आयुर्वेदं भरद्वाजात्प्राप्य स भिषजां क्रियाम्। तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत्’ (हरि० १।२९।२७)॥ व्यस्य=विभज्य।
  • ‘तामरसव्यासव्यसनिनि सहस्ररश्मौ’ (हर्ष० १)। तामरसव्यासः=पङ्कजविकासः सरसिजव्याकोचः। व्यसनं विपदि भ्रंश इत्यमरः।
  • ‘भाण्डं व्यसनमागच्छेद् यदि वाहकदोषतः।’ (याज्ञ० २।१९७ इत्यत्र मिताक्षरायामुद्धृतं नारदवचनम्)। व्यसनं भ्रंशम्।
  • ‘व्यस्यत्येनं श्रेयस इति व्यसनम्’ (कौ० अ० ८।१।४)।
  • ‘अथ सपत्नानिन्द्राग्नी मे विषूचीनान् व्यस्यताम्’ (तै० सं० १।१।१३)। व्यस्यताम् विक्षिपताम्, पराणुदताम्।
  • ‘व्यास इन्द्रः पृतनाः स्वोजाः’ (ऋ० ७।२०।३)। व्यास विचिक्षेप।
  • व्यस्यन् विश्वा अमतीररातीः’ (तै० सं० ५।१।५)। उक्तोऽर्थः।
  • ‘अश्मन्मयानि नहना व्यस्यन्’ (अथर्व० २०।९१।३)। व्यस्यन् विस्रंसयन्, शिथिलानि कुर्वन्।
  • ‘व्यस्ते त्वप्रगुणाकुलौ’ (इत्यमरः)। व्यस्यते विपर्यस्यते स्मेति स्वामी।
  • ‘व्यस्तमिव वा यज्ञस्य यद् इडा’ (तै० सं० १।७।१।४)। व्यस्तं विच्छेदः।
  • ‘व्यस्येवाक्ष्यौ भाषेत’ (तै० ब्रा० २।३।९।९)। विकास्येव चक्षुषी, हर्षविकसिते कृत्वा।
  • ‘आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम्’ (रा० ४।१८।३३)। व्यसनं दण्डनम्।
  • ‘आङो दो व्यसनक्रियस्य’ (पा० १।३।२० सूत्रे वार्तिकम्)। व्यसनं विभागः, विकासनमित्यर्थः।

आप्

  • {व्याप्}
  • आप् (आप्लृ व्याप्तौ)।
  • ‘तत्तु स्यादाप्रपदीनं व्याप्नोत्याप्रपदं हि यत्’ (अमरः)। व्याप्नोति प्राप्नोति।
  • ‘तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत्’ (श्वेता० उ० ४।१०)। व्याप्तमाक्रान्तम्।
  • ‘वृत्रेण पृथिवी व्याप्ता पुराकिल’ (भा० आश्व ११।७)। स्वाधिकारे कृता।
  • ‘अपरं मे प्रिया मृता, गृहं चान्येन व्याप्तम्’ (पञ्चत०)। परिगृहीतं स्वीकृतं स्वायत्तीकृतम् इत्याह।
  • ‘किं व्याप्यं किमपोहितम्’ (प्रबोध०)। व्याप्तमाक्रान्तम्। अपोहितं दूरीकृतम्।
  • ‘राद्धिः प्राप्तिः समाप्तिर्व्याप्तिः’ (अथर्व० ११।९।२२)। व्याप्तिर्विविधाऽऽप्तिः।

  • {वी}
  • इ (इण् गतौ)।
  • ‘तस्मिन्निदं सं च वि चौति सर्वम्’ (वा० सं० ३२।८)।
  • ‘व्येति सृष्टिकाले निर्गच्छति’ (महीधरः)।
  • ‘वि द्यामेषि रजस्पृथ्वहा’ (ऋ० १।५०।७)।
  • ‘उर्वन्तरिक्षं वीहि’ (वा० सं० ११।१५)।
  • ‘वज्रेण यजमानस्य प्राणान् वीयात्’ (ऐ० ब्रा० २।२१)। वीयात्=पृथक् कुर्यात्।
  • ‘वि श्लोक एति पथ्येव सूरिः’ (अथर्व० १८।३।३९)। स्तुतिस्तोमो विशेषेण गच्छति पथ्येन विद्वानिवेत्याह।
  • ‘इमौ वै लोकौ सहास्तां तौ व्यैताम्। नावर्षन्न समतपत्’ (ऐ० ब्रा० ४।२७)। व्यैताम्=पृथगभूताम्।
  • ‘द्यावापृथिवी व्यैताम्। वसवो रुद्रा आदित्या अनुव्यायन्’ (यजुः १४।३०)। उक्तोऽर्थः।
  • ‘इमौ वै लोकौ सह सन्तौ व्यैताम्’ (जै० ब्रा० १।११६।१४५)। उदितपूर्व एवार्थः।
  • ‘न वा एकेनाक्षरेण च्छन्दांसि वियन्ति न द्वाभ्याम्’ (ऐ० ब्रा० १।६)। वियन्ति विपरिवर्तन्ते, रूपान्तरं सङ्क्रामन्ति।
  • ‘ये पि ह्येते इत उत्तरं प्रत्ययाः शिष्यन्ते एतेप्येतौ कालविशेषौ न वियन्ति भूतवर्तमानौ’ (पा० ३।३।३ इति सूत्रे भाष्ये)। न वियन्ति न व्यभिचरन्ति।
  • ‘एतानर्थान् के चिद्वियन्ति केचिन्न वियन्ति’ (भाष्ये)।
  • ‘स्त्रीपुन्नपुंसकत्वानि सत्त्वगुणा एकत्वद्वित्वबहुत्वानि च, एतानर्थान्ये न वियन्ति तदव्ययम्’ (पा० १।१।३८ सूत्र भा०)। उक्तोऽर्थः।
  • ‘सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु। वचनेषु च सवेषु यन्न व्येति तदव्ययम्’ (गो० ब्रा० )। न व्येति न परिवर्तते।
  • ‘व्यन्ये यन्तु मृत्यवः’ (अथर्व० ३।११।५)। वियन्तु विमुखा यन्तु।
  • ‘येन देवा न वियन्ति’ (अथर्व० ३।३०।४०)। न वियन्ति विमतिं न प्राप्नुवन्ति।
  • ‘नित्या यत्र महागुणाः। …न वियन्ति स्म कर्हि चित्’ (भा० पु० १।१६।२९)। न वियन्ति=नापयन्ति।
  • ‘व्येतु ते मनसो ज्वरः’ (भा० स्वर्गा० ३।२१, वि० ४५।४१)। व्येतु=अपगच्छतु, विनश्यतु।
  • ‘दृष्ट्वा वनचरान् सर्वान् कच्चित् कुर्याः शरव्ययम्’ (रा० ३।९।१४)। शरव्ययः=इषुप्रयोगः।
  • ‘ये चत्वारः पथयो देवयाना अन्तरा द्यावापृथिवी वियन्ति’ (बौ० ध० २।६।११।१३)। वियन्ति=विविधं गच्छन्ति।
  • ‘पूर्णं मे मा विगात्’ (पा० गृ० २।१६)। मा नशत्, मा तिरोभूत्।
  • ‘सम्भवत्यव्ययाद् व्ययम्’ (मनु० १।१९)। अव्ययमनश्वरम्। व्ययं नश्वरम्।
  • ‘कवेश्चित्तन्तुं मनसा वियन्तः’ (ऋ० १०।५।३)। वियन्तः=विचृत्य गच्छन्तः।
  • ‘ते वियती अब्रूताम्’ (तै० सं० ५।२।३)। वियती वियुवती (द्यावापृथिव्यौ)।
  • ‘त्वद् विश्वा सुभग सौभगान्यग्ने वियन्ति वनिनो न वयाः’ (ऋ० ६।१३।१)। वियन्ति=निर्गच्छन्ति, उद्यन्ति, प्रभवन्ति।
  • ‘अस्यामहं त्वयि च सम्प्रति वीतचिन्तः’ (शा० ४।१३)। वीता नष्टा विगता चिन्ता यस्य सः।
  • ‘न मत्तस्य (प्रतिगृह्यम्)। यदा हि तस्य मदो व्येति, अथ तं तत् तपति’ (मै० सं० १।११।५)। व्येति विगच्छति, अपैति।
  • ‘श्रद्धा ते मा विगात्’ (जै० ब्रा० १।४१)। मा अपयासीत्।
  • ‘अपेत वीत वि च सर्वतातः’ (तै० सं० १।२।१।१६)। वीत परस्परं वियुक्ता गच्छत।
  • ‘अत्र ह न किं चन वीयाय’ (छां० उ० ४।९।३)। वीयाय विगतमभूत्, न्यूनमभूत्।
  • ‘विद्यतोपि न वियन्त्यम्बुदे’ (धर्मशर्मा० ५।२)। वियन्ति संचरन्ति।
  • ‘वृत्रं हतमापो व्यायन्’ (शां० ब्रा० १५। )। व्यायन् विभक्ताः सत्य उपर्यप्लवन्त।
  • ‘पुत्रदाराप्तबन्धूनां सङ्गमः पान्थसङ्गमः। अनुदेहं वियन्त्येते स्वप्नो निद्रानुगो यथा’ (भा० पु० ११।१७।५३)॥ वियन्ति पृथग्भवन्ति।

  • {वी}
  • ई (ईङ् गतौ)।
  • ‘अध्यैष्ट यः परं ब्रह्म न व्यैष्ट सततं धृतेः’ (सौन्दर० २।१२)। न व्यैष्ट न व्यचालीदित्यर्थः।

ईक्ष्

  • {वीक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘पृथुलोचना सहचरी यथैव ते सुभगं तथैव खलु सापि वीक्षते’ (विक्रम० ४।३)।** सापि सुभगदर्शना, भवति, भव्याकृतिरस्ति।**
  • ‘वीक्ष्य वेपथुमतीम्’ (कु० ५।८५)। वीक्ष्य दृष्ट्वा। विशब्दो नेह विशेषकृत्।
  • ‘आवव्राते वीक्षणे च क्षणेन’ (शिशु० ८।३०)। वीक्षणे नयने।

ईर्

  • {वीर्}
  • ईर् (ईर गतौ कम्पने च)।
  • ‘दिवोदासाय नवतिं च नवेन्द्रः पुरो व्यैरयच्छम्बरस्य’ (ऋ० २।१९।६)। व्यैरयत् व्यगमयत्। व्यध्वंसदित्यर्थः।
  • ‘वि गोभिरद्रिमैरयत्’ (तै० ब्रा० १।५।८।२)। व्यैरयत् विशेषेण प्रेरितवान्।
  • ‘त्रेधा सहस्रं वि तदैरयेथाम्’ (तै० सं० ७।१।६।२७)। तद् गवां सहस्रं विभक्तवन्तौ, विभज्य व्यवस्थापितवन्तौ प्राप्तवन्तौ।
  • ‘अहं पुरो मन्दसानो व्यैरम्’ (ऋ० ४।२६।३)। व्यैरं व्यक्षिपमध्वंसयम्।

उक्ष्

  • {व्युक्ष्}
  • उक्ष् (उक्ष सेचने)।
  • ‘तां व्यौक्षत्’ (श० ब्रा० २।२।४।५)। व्यौक्षत्=प्रौक्षत्।

उच्छ्

  • {व्युच्छ्}
  • उच्छ् (उच्छी विवासे)।
  • ‘इयमेव सा या प्रथमा व्यौच्छत्’ (अथर्व० ३।१०।४)। व्यौच्छत्=व्यभासीत्। तमोनिरसनं कृतवतीति तु सायणः। स चार्थिकोऽर्थः।
  • ‘उषा नो व्युच्छतु’ (अथर्व० ७।७२।१)। विवासिता प्रकाशिता भवत्विति सायणः।
  • ‘उषो अद्येह सुभगे व्युच्छ’ (ऋ० १।११३।७)। व्युच्छ=विभाहि।
  • ‘या व्यूषुर्याश्च नूनं व्युच्छान्’ (ऋ० १।१०।१३, ३।५५।१)। नूनमिदानीमायतौ वा। व्युच्छान् इति पञ्चमो लकारः।
  • ‘अहा यदिन्द्र सुदिना व्युच्छान्’ (ऋ० ७।३०।३)। सुदिना=सुदिनानि। अत्यन्तसंयोगे द्वितीया।
  • ‘व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परां गतिम्। गन्तुम्…’ (भा० आदि० १५८।२२)॥ व्युष्टिः फलम्। परा व्युष्टिर्महद् भाग्यम्। स्नातानां शुचिभिस्तोयैर्गाङ्गैश्च प्रयतात्मनाम्। व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि ( )॥ व्युष्टिः पुण्यवृद्धिः।
  • ‘सेयं दानकृता ब्युष्टिरनुप्राप्ता सुखं त्वया’ (भा० वन० २६१।२६)। व्युष्टिः समृद्धिः, भूतिः। ब्युष्टिः फले समृद्धौ चेति मेदिनी।
  • ‘जननाद् दशरात्रे व्युष्टे’ (गो० गृ० २।८।८)। व्युष्टे=अतिक्रान्ते। औपचारिकः प्रयोगः। यथा रजनी व्युष्टा इत्युक्ते प्रभातेति मुख्योऽर्थः, समाप्तेति च गोणः।
  • ‘उच्यमानं न गृह्णामि तस्येयं व्युष्टिरागता’ (रा० ६।१११।१९)। व्युष्टिः फलम्।
  • ‘तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयम्भुवः’ (रा० ६।९२।२७)। व्युष्टिनिर्वेशः फलप्राप्तिः।
  • ‘व्युष्टिं रूपेण’ (तै० सं० ५।७।१९)। व्युष्टिः प्रभातम्।
  • ‘एकया स्तुवतेति सप्तदश सृष्टीरुपधाय ऋतूनां पत्नीति पञ्चदश व्युष्टीरुपदधाति’ (वाराहश्रौ० २।२।१।१७)। व्युष्टय इष्टकाविशेषाः।

उन्द्

  • {व्युन्द्}
  • उन्द् (उन्दी क्लेदने)।
  • ‘आदिद् घृतेन पृथिवीं व्यूदुः’ (ऋ० अथर्व० ६।२२।१)। व्यूदुः=व्युञ्दाञ्चक्रुः=आर्द्री चक्रुः।

उब्ज्

  • {व्युब्ज्}
  • उब्ज् (उब्ज आर्जवे)।
  • ‘वरुणेन समुब्जितां मित्रः प्रातर्युब्जतु’ (अथर्व० ९।३।१८)। वरुणेन नामितां (संवृतां) मित्रो देवः प्रातर्विवृणोत्वित्यर्थः। शालामिति विशेष्यम्।

ऊर्णु

  • {व्यूर्णु}
  • ऊर्णु (ऊर्णुञ् आच्छादने)।
  • ‘आदिद् दामानं सवितर्व्यूर्णुषेऽनूचीना जीविता मानुषेभ्यः’ (ऋ० ४।५४।२)। व्यूर्णुषे=प्रकटी करोषि।
  • ‘तं व्यूर्णुवन्तु सूतवे’ (अथर्व १।११।२)। विगताच्छादनं कुर्वन्तु।
  • ‘वि द्यामौर्णोन्महिना विश्वचक्षाः’ (वा० सं० १७।१८)। व्यौर्णोत्=आच्छादितवानित्यर्थ इत्युवटमहीधरौ।
  • ‘व्यूर्ण्वती दाशुषे वार्याणि’ (ऋ० ५।८०।६)। व्यूर्ण्वती=व्यूर्णुवती=विवृण्वती।

ऊह्

  • {व्यूह्}
  • ऊह् (ऊह वितर्के)।
  • ‘स वै स्रचौ (जुहूमुपभृतं) च व्यूहति’ (श० ब्रा० १।८।३।१)। विश्लेषयति पृथक् करोति।
  • ‘स ऋचौ व्यौहत्’ (श० ब्रा० १०।४।२।२३)। व्यौहत्=व्यभजत्।
  • ‘तद्वद् योगबलं लब्ध्वा व्यूहते विषयान् बहून्’ (भा० शां० ३००।२३)। व्यूहते विक्षिपति तुच्छी करोति।
  • ‘व्यूहेदेकाक्षरीभावात्पदेषूनेषु सम्पदे’ (ऋ० प्राति० १७।१३)। व्यूहेत्=विगृह्णीयात्। विसंहितं कुर्यात्।
  • ‘व्यूढोरस्को वृषस्कन्धः’ (रघु० १।१३)। व्यूढोरस्कः=विपुलवक्षाः।
  • ‘शर्कराः सिकता व्यूहेत्’ (तै० सं० ५।२।६।१)। पार्थक्येन विकिरेत्, विस्तृणीयात्।
  • ‘व्यूह रश्मीन्’ (समूह) (वा० सं० ४०।१६)।
  • ‘व्यूहध्वं वाहिनीम्’ (भा० वि० ३९।८)। युद्धोचितविन्यासविशेषेण स्थापयतेत्यर्थः।
  • ‘सीमन्तं व्यूहति’ (आश्व० गृ० १।१२।४)। सीमन्तो यथा भवति तथा केशान्पृथक् करोति।
  • ‘भवन्ति वीरस्याक्षय्या व्यूहतः समरे रिपून्’ (भा० वि० ४३।१३)। व्यूहतः क्षिपतः, निरस्यतः।
  • ‘व्यूहन्निव जनौघं तं शनै राजकुलं ययौ’ (रा० २।५।२१)। व्यूहन् विभजन्, एकतः कुर्वन्नित्यर्थः।
  • ‘व्यूह्य स्थितः किञ्चिदिवोत्तरार्धम्’ (रघु० १८।५१)। व्युह्य=विस्तार्य।
  • ‘व्यूह्यात्मानं चतुर्धा वै वासुदेवादिमूर्तिभिः। सृष्ट्यादीन् प्रकरोत्येष विश्रुतात्मा जनार्दनः॥’ व्यूह्य=विभज्य। व्युह्येति तु युक्तम्।**
  • ‘तस्मादनुष्टुभं छन्दांसि नानुव्यूहन्ति’ (पञ्च० ब्रा० ६।१।११)। छन्दांसि गायत्र्यादीनि अनुष्टुभः स्थाने न प्रयुज्यन्ते न चानुष्टुप् तेषां स्थान इत्याह।
  • ‘संसर्पता प्रतिघातिना द्रव्येण न व्युह्यते’ (न्याभा० ४।२।२२)। व्युह्यते प्रतिहन्यते।
  • ‘वाजवतीभ्यां व्यूहति’ (तै० सं० १।७।४)। विश्लेषयति।
  • ‘तस्य त्रेधा महिमानं व्यौहत’ (तै० ब्रा० १।१।५।८)। व्यौहत व्यभजत। तादर्थ्यात्।
  • ‘कटार्थेषु वीरणेषु व्युह्यमानेषु कटं करोतीति भवति’ (न्याभा० २।२।६४)। व्युह्यमानेषु विन्यासविशेषेण ग्रथ्यमानेषु।

ऋध्

  • {व्यृध्}
  • ऋध् (ऋधु संराद्धौ)।
  • ‘यं कामयेताङ्गैरेनं व्यर्धयानीति’ (ऐ० ब्रा० ३।३)। व्यृद्धिर्वियोग इति गोविन्दस्वामी।

  • {व्यर्}
  • ॠ (ॠ गतौ)।
  • ‘अलातृणो वल इन्द्र व्रजो गोः पुरा हन्तोर्भयमानो व्यार’ (ऋ० ३।३०।१०)। व्यारेत्यर्तेर्विपूर्वाल्लिटि रूपम्। स्वयमेव विवृतौ बभूवेत्यर्थः।

ऋध्

  • {व्यृध्}
  • ऋध् (ऋधु वृद्धौ)।
  • ‘पशुभिर्व्यृध्येत्’ (श० ब्रा० १३।१।३।८)। व्यृद्धो वियुक्तः स्यात्।
  • ‘मिथनेन व्यृद्धः’ (श० ब्रा० २।१।२।४)।
  • ‘इन्द्रस्यानु व्यृद्धिं क्षत्रं सोमपीथेन व्यार्ध्यत’ (श० ब्रा० १२।४।६, ऐ० ब्रा० ७।२८)। व्यार्ध्यत=व्ययुज्यत।
  • ‘क्षत्रेणैनं व्यर्धयानि’ (श० ब्रा० १२।४।४।४।६)। विनाकरोमि, क्षत्रादेनं सोमपीथमाच्छिनद्मि।
  • ‘मा वनिं मा वाचं नो वीर्त्सीः’ (अथर्व० ५।७।६)। व्यृद्धां मा चिकीर्षीरित्याह।
  • ‘तदाहुः। व्यृद्धं वा एतद् यज्ञस्य’ ( )। ऋद्धिहीनमित्यर्थः। विशब्दोऽभावे।

ऋष्

  • {व्यृष्}
  • ऋष् (ऋषी गतौ)।
  • ‘(ओषधयः) व्यृषन्तु दुरितं तीक्ष्णशृङ्ग्याः’ (अथर्व० ८।७।९)। विगमयन्त्वित्यर्थः।

कच्

  • {विकच्}
  • कच् (कच बन्धने)।
  • ‘विकचकिंशुकसंहतिरुच्चकैः’ (शिशु० ६।२१)। विकचा=व्याकोशा। अत्र विर्धात्वर्थविपर्यासकृत्।

कत्थ्

  • {विकत्थ्}
  • कत्थ् (कत्थ श्लाघायाम्)।
  • ‘प्राकृता ह्यकृतात्मानो लोकेस्मिन् कुलपांसनाः निरर्थकं विकत्थन्ते यथा राम विकत्थसे’ (रा० ३।३५।२१)। विकत्थन्ते आत्मानं श्लाघन्ते, आत्मानमुच्चैर्वदन्ति।
  • ‘का खल्वनेन प्रार्थ्यमाना विकत्थते’ (विक्रम० २)। उक्तोऽर्थः।
  • ‘न चार्जुनः कलापूर्वो मम दुर्योधनस्य च। सदा भवान्फाल्गुनस्य गुणैरस्मान् विकत्थते’ (भा० वि० ३९।४०)। इयं कर्णोक्तिः। विकत्थते निन्दति, अपकृष्टान् कथयति।
  • ‘न पौरुषेणापि विकत्थतेऽन्यान्’ (भा० उ० ३३।११३)। विकत्थते=न्यक्करोति। खलीकरोति।
  • ‘विलपन्तं बहुविधं भीतं परविकत्थने’ (भा० उ० ५५।२७)। परविकत्थने=परगुणाख्याने।
  • ‘भवन्त्यनाप्ताः स्वे तन्त्रे प्रायः परविकत्थकाः’ (चरके)। स्वं शास्त्रमजानन्तः परदूषका भवन्तीत्याह।
  • ‘विकत्थयित्वा राजानं ततः प्राह’ (द्रौपदी० ९।१०)। विकथयित्वा=विकत्थ्य=अवमान्य।

कथ्

  • {विकथ्}
  • कथ् (कथ वाक्यप्रबन्धे)।
  • ‘देवमिवाचार्यमुपासीताऽविकथयन्’ (आप० ध० १।२।६।१३)। अविकथयन्=व्यर्थां कथामकुर्वन्। कथादिभ्यष्ठक (४।४।१०२) सूत्रे विकथेति पठ्यते। व्यर्था कथा विकथा। विकथायां साधुः प्रवीणो वैकथिकः।

कम्प्

  • {विकम्प्}
  • कम्प् (कपि चलने)।
  • ‘स्फुरति नयनं वामो बाहुश्च मुहुर्विकम्पते’ (मृच्छ० १।१३)। विकम्पते=वेपते।
  • ‘स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि’ (गीता २।३१)। विकम्पितुम्, विचलितुम्, व्यथितुम्, विह्वलितुम्।
  • ‘स्वस्थानान्न विकम्पेत’ (भा० वि० १०९)। न विकम्पेत=न निवर्तेत, न व्यावर्तेत। स्वं स्थानं न रहयेदित्यर्थः।
  • ‘वदनं तद् वदान्याया वैदेह्या न विकम्पते’ (रा० २।६०।१७)। नास्या वाक् सज्जति भाषभाणाया इत्यर्थः।
  • ‘किं यासि बालकदलीव विकम्पमाना’ (मृच्छ० १।२०)। विकम्पमाना=वेपथुमती।

कल्

  • {विकल्}
  • कल् (कल गतौ संख्याने च)।
  • ‘श्रयति सौख्यममुं जनता श्रिता विकलिता कलितापशतैरपि’ (पारिजात० १०।२५)। विकलिताऽभिभूता, असमर्थीकृता, व्याकुला, क्षुभिता।

काङ्क्ष्

  • {विकाङ्क्ष्}
  • काङ्क्ष् (काक्षि वाछि काङ्क्षायाम्)।
  • ‘स विकाङ्क्षन् भृशं रामम्’ (रा० ३।४६।१)। अनिच्छन्नित्यर्थ इति गोविन्दराजः।
  • ‘कैकेय्याः प्रियकामार्थं तदविकाङ्क्षया’ (रा० २।५२।२४)। अविशङ्कयेति टीकाकारो रामः पठति।
  • ‘दुःखोपायस्य मे वीर विकाङ्क्षा परिवर्तते’ (भा० द्रोण० ८०।१६)। विकाङ्क्षा विसंवादः, मिथ्यात्वं विरोधः। विकाङ्क्षा विचारणाऽनिश्चय इत्यन्ये।
  • ‘न मे विकाङ्क्षा जायेत त्यक्तुं त्वां पापनिश्चयाम्’ (रा० २।७३।१८)। विकाङ्क्षा=इच्छाऽभावः, विचारः।
  • ‘पृष्ठमारोह मे देवि न विकाङ्क्षस्व शोभने’ (रा० ५।३७।२६)। न विकाङ्क्षस्व=मा ते विचारणा भूत्। ताण्ड्यब्राह्मणे (६।९।२२)। विकाङ्क्षतिः प्रतीक्षणे प्रयुक्तः।
  • ‘व्युत्थानं विकाङ्क्षद्भिः कथाभिः प्रतिलोभ्यते’ (भा० शां० ११।४३)। विकाङ्क्षद्भिरभीच्छद्भिः।
  • ‘कैकेय्याः प्रियकामार्थं कार्यं तदविकाङ्क्षया’ (रा० २।५२।२४)। इदं पुस्तके धृतपूर्वमिहार्थान्तरन्यासाय पुनर्ध्रियते। विकाङ्क्षाऽनादर इति भूषणम्।

कस्

  • {विकस्}
  • कस् (कस गतौ)।
  • ‘विकसति हि पतङ्गस्योदये पुण्डरीकम्’ (मालती० १।२८)। भेदमुपैतीत्यर्थः।
  • ‘निजहृदि विकसन्तः सन्ति सन्तः कियन्तः’ (भर्तृ० २।७८)। हर्षवशाद् हृदयविकासं हृत्स्फातिं लभमाना इत्यर्थः।
  • ‘पुरारूढे स्नेहे परिचयविकासादुपचिते’ (उत्तर० ६।२८)। विकासो वृद्धिः।
  • ‘चन्द्रो विकासयति कैरवचक्रवालम्’ (भर्तृ० २।७३) ॥ ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्त– (पा० ७।२।३४) इत्यत्रच्छन्दसीडभावो निपातितः।
  • ‘त्रिधा ह श्यावमश्विना विकस्तमुज्जीवस ऐरयतम्’ (ऋ० १।११७।२४)। विकस्तं विदीर्णम्।
  • ‘उत्तानाया हृदयं यद्विकस्तम्’ (वा० सं० ११।३९)। उक्तोऽर्थः।
  • ‘तालव्यान्तोप्ययमिति केचिद्–बालेन्दुवक्राण्यविकाशभावात् बभुः पलाशान्यतिलोहितानि’ (कु० ३।२९)।
  • ‘विकाशमीयुर्जगतीशमार्गणाः’ (कि० १५।५२)।

काश्

  • {विकाश्}
  • काश् (काशृ दीप्तौ)।
  • ‘स तैः क्रीडन्धनुष्मद्भिर्व्योग्नि वीरो व्यकाशत’ (रा० ५।४०।१०)। व्यकाशत=अभासत।
  • ‘श्रेणीकृता व्यकाशन्त क्रौञ्चाः’ (भा० ५।४०।१०)।
  • ‘विचाकशच्चन्द्रमा नक्तमेति’ (ऋ० १।२४।१०)। भूयो भूयो भासमानः।
  • ‘आदित्य इव तं देशं कृत्स्नं सर्वं व्यकाशयत्’ (भा० आदि० २१६।१९)। प्राकाशयदित्यर्थः।

कित्

  • {विकित्}
  • कित् (कित निवासे रोगापनयने च)।
  • ‘सा हैनमभिराधयाञ्चकार। स व्यचिकित्सज्जुहवानि मा हौषम्’ (श० ब्रा० २।२।४।६)। व्यचिकित्सत्=व्यमृशत्=व्यचारयत्।
  • ‘अनन्तरं क्षत्रियस्य तत्र किं विचिकित्स्यते’ (भा० शां० १३०।१६)। प्रायश्चित्तादिकं किं विधीयत इत्याह।
  • ‘या राजन् विचिकित्सिथाः’ (भा० उ० ७३।२७) मा संशयिष्ठाः।
  • ‘नूनमिति विचित्सार्थीयो भाषायाम्’ (नि० १।५।१२)। विचिकित्सा विवेकपूर्वकोऽभिप्राय इति दुर्गः।
  • ‘येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके’ (कठोप० १।१।२०)। विचिकित्सा संशयः।
  • ‘द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभाशुभौ’ (भा० पु० ११।२१।३)। विचिकित्सा तत्त्वबुभत्सा। भागवतादन्यत्र दुर्लभोऽयमर्थः।
  • ‘न दक्षिणा वि चिकिते न सव्या’ (तै० सं० २।१।११।१७)। वि चिकिते विशेषेण जानामि। दक्षिणा=दक्षिणम्। सव्या सव्यम्।
  • ‘वि वां चिकित्सदृतचिद्ध नारी’ (ऋ० ४।१६।१०)। विचिकित्सत् संशयितवती सन्दिदिहे।

कुञ्च्

  • {विकुञ्च्}
  • कुञ्च् (कुञ्च क्रुञ्च कौटिल्याल्पाभावयोः)।
  • कर्णौ विकुञ्चयति। सङ्कोचयति।
  • ‘विकुञ्च्य कर्णौ हनुमानुत्पपात’ (रा० ५।५।१८)।

कुष्

  • {विकुष्}
  • कुष् (कुष निष्कर्षे)।
  • ‘कोशः कुष्णातेः। विकुषितो भवति।’ (नि० ५।२६) विविधं कुषितो विकुषितः। सुषिरत्वात्।
  • ‘कुलं कुष्णातेः, विकुषितं भवति’ (नि० ६।२२।४)। विकुषितं विस्तीर्णं ततं प्रथितम्।
  • ‘शश्वदिति विचिकित्सार्थीयो भाषायाम्’ (नि० १।५)। विचिकित्सा निश्चय इति महेश्वरः।

कूज्

  • {विकूज्}
  • कूज् (कूज अव्यक्ते शब्दे)।
  • ‘तत्र हंसाः प्लवाः क्रौञ्चाः सारसाश्चैव राघव। वल्गुस्वरा विकूजन्ति’ (रा० ३।७६।७)। नाना वाश्यन्त इत्यर्थः। विशब्दो नानार्थे।

कृ

  • {विकृ}
  • कृ (डुकृञ् करणे)।
  • ‘मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया’ (मनु० १।७५)। विकुरुते=करोति, उत्पादयति।
  • ‘एकं विचक्र चमसं चतुर्धा’ (ऋ० ४।३५।२)। विचक्र (यूयं)=विभेज=विभक्तं कुरुथ स्म।
  • ‘स त्रेधाऽऽत्मानं व्यकुरुत’ (बृ० उ० १।२।३)। व्यभजदित्यर्थः।
  • ‘वि भा अकः ससृजानः पृथिव्याम्’ (ऋ० ७।८।२)। व्यकः=व्यकरोत्=अप्रथयत्।
  • ‘त्वष्टा वै सिक्तं रेतो विकरोति’ (श० ब्रा० १।९।२।१०)। विकरोति परिणमयति। रूपान्तरमस्य करोतीत्यर्थः। पुष्णातीति त्वार्थिकोऽर्थः।
  • ‘देहत्वेन परिणामो विकार इति भट्टभास्करः’ (ऐ० ब्रा० २।३९)।
  • ‘उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ’ (भा० आदि २१०)।१६)। विविधानि सिंहव्याघ्रादिरूपाणि गृह्णाते तिरोभावायेत्याह।
  • ‘अष्टावक्रोऽन्वपृच्छत्तां रूपं विकुरुषे कथम्’ (भा० अनु० २१।२)। विकुरुषेऽन्यत्करोषि।
  • ‘सम्पूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु। अपास्ताश्च तथा राजन् विकुर्वन्ति तथा स्त्रियः’ (भा० अनु०)॥ मनो विकुर्वन्ति=मनोऽन्यथयन्ति, अपरक्तं कुर्वन्ति।
  • ‘यस्मादुद्विजते लोकः कथं तस्य भवो भवेत्। अन्तरं तस्य दृष्ट्वैव लोको विकुरुते ध्रुवम्’ (भा० वन० २८।२२)॥ अपरक्तो भवति, अपकुरुते, विरोधमाचरति, शत्रूयते, द्रुह्यतीति वाऽर्थः।
  • ‘रक्षिता यत्नतोपीह भर्तृष्वेता विकुर्वते’ (मनु० ९।१५)। व्यभिचाराश्रयणेन भर्तृषु विक्रियां गच्छन्तीत्याह।
  • ‘हीनान्यनुपकर्तॄणि प्रवृद्धानि विकुर्वते’ (रघु० १७।५८)। विरुद्धं चेष्टन्ते, अपकुर्वन्तीति यावत्।
  • ‘ब्रह्मदत्तो विकुर्वीत यदि’ (कथा० २०।२१९)।
  • ‘यस्यां पूर्वे पूर्वजना विचक्रिरे’ (अथर्व० १२।१।५)। विचक्रिरे=विक्रियामापुः। विविधां विरुद्धां वा चेष्टामकुर्वन्नित्यर्थः।
  • ‘यस्यां भूमौ। कालो हेतु विकुरुते स्वार्थस्तमनुवर्तते’ (भा० शां० १३९।१५७)। विकुरुते=उत्पादयति।
  • ‘क्रोष्टा विकुरुते स्वरान्’ (पा० १।३।१५७ सूत्रवृत्तौ)। विकरुते=उत्पादयति।
  • ‘यत्त्वादृशो विकुर्वीत यशस्वी लोकविश्रुतः’ (भा० उ० १३४।३३)। विकारमपसरणलक्षरणमाप्नुयाद् इत्यर्थः।
  • ‘अन्यथैव हि मन्यन्ते पुरुषास्तानि तानि च। अन्यथैव प्रभुस्तानि करोति विकरोति च’ (भा० वन० ३०।३०)॥
  • ‘ईशित्वं च वशित्वं च लघुत्वं मनसश्च ते। विकुर्वते महात्मानः…’ (भा० आश्व० ३९।१२)॥ विकुर्वते=कुर्वते।
  • ‘अश्वसधर्माणो हि मनुष्याः कर्मसु नियुक्ता विकुर्वते’ (कौ० अ० २।९।२७)। विकुर्वते=विचेष्टन्ते=विरुद्धं चेष्टन्ते।
  • ‘यस्याः पुरो देवकृतीः क्षेत्रे यस्या विकुर्वते’ (अथर्व० १२।१।४३)।
  • ‘ओदनस्य पूर्णाश्छात्रा विकुर्वते’ (पा० १।३।३५ सूत्रे वृत्तौ)। निष्फलं चेष्टन्त इत्यर्थः। विकुर्वते सैन्धवाः। साधुदान्ताः शोभनं वल्गन्तीत्यर्थ इति पूर्वत्र सूत्रे वृत्तिः।
  • ‘अनार्य इति मामार्याः पुत्रविक्रायकं ध्रुवम्। विकरिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा’ (रा० २।१२।७८)॥ विकरिष्यन्ति=निन्दिष्यन्ति, विगर्हिष्यन्ते।
  • ‘पादौ विकुरुते’ (सूश्रत० १।१५।१५)। विकुरुते–इतस्ततो विक्षिपति।
  • ‘भुजौ दीर्घौ विकुर्वाणम्’ (रा० ३।७४।१८)। प्रसारयन्तम्, वितन्वानम् इत्यर्थः।
  • ‘घोरौ भुजौ विकुर्वाणम्’ (रा० ३।६९।३१)। इति वा पाठः। समानोऽर्थः।
  • ‘विकुर्वाणो मुनीनां च व्यचरत्स महोमिमाम्’ (भा० वन० १३५।५०)। विकुर्वाणः=अपकुर्वाणः=बाधमानः=पीडयमानः।
  • ‘शत्रोर्मिथत्या कृणवन्वि नृम्णम्’ (ऋ० ७।४८।३)। विकृणवन्=विहिंसन्, उत्सादयन्, उज्जासयन्।
  • ‘भगदत्ते विकुर्वाणे कौन्तेयः कृष्णमब्रवीत्’ (भा० द्रोण० २७।२)। विकुर्वाणे=विविधाः क्रियाः कुर्वाणे।
  • ‘दिव्यवस्त्रं विकुर्वाणस्त्रिगर्तान्प्रित्यमर्षणः’ (भा० वि० ३३।३१)। विकुर्वाणः=प्रयुञ्जानः।
  • ‘ऐन्द्रमस्त्रं विकुर्वाणमुभे चाप्यग्निमारुते’ (भा० उ० १४२।६)। उक्तोऽर्थः। द्रोणपर्वण्यन्यत्रापि (५।४३, ८।४६, १९३।४०) विकुर्वाणशब्द एतदर्थकः प्रयुक्तः।
  • ‘विकुर्वाणौ कथाश्चित्राः’ (भा० आश्व० ५२।४)। इह नार्थो विना। वैविध्यं नानात्वं चित्रशब्देनैवोक्तम्।
  • ‘अजय्या जैत्रमूहुस्तं विकुर्वाणाः स्म सैन्धवाः’ (भा० द्रोण० ११२।६७)। विकुर्वाणाः=प्रहृष्यन्तः। अमरोप्याह–हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः।
  • ‘नेत्राभ्यां विकुर्वाणम्’ (सुश्रुत० १।१२१।१८)। अन्तःक्षोभं (दौःस्थ्यम्) नेत्राभ्यामाविर्भावयन्तम् इत्यर्थः।
  • ‘आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः। वायुरुत्पद्यते…’ (मनु० १।७६)॥ विकुर्वाणात्=विकारजनकात्।
  • ‘कवचानि महार्हाणि वैदूर्यविकृतानि च’ (भा० १।१४२९)॥ वैदूर्यैर्विद्रुमैरलङ्कृतानि। प्रत्युप्तविद्रुमाणीत्यर्थः।
  • ‘पादुके हेमविकृते’ (रा० २।११३।३३)। हेम्ना विचित्रतया कृते इत्यर्थः।
  • ‘विकृतः सोमशोणितः’ (हरि० १।४१।३२)। विकृतोऽभिषुतः। समासैकदेशस्यापि सोमस्य विशेषणमिदम्।
  • ‘बालाश्च न प्रमीयन्ते विकृतं न च जायते’ (मनु० ९।२४७)। व्यङ्गं न किं चिद्भूतमुत्पद्यत इत्याह।
  • ‘विकृतं प्राप्नुयाद् वधम्’ (मनु० ९।२९१)। नासाकरचरणकर्णादिभङ्गपूर्वं वधम्।
  • ‘त्वं हि कर्ता विकर्ता च भूतानामिह सर्वशः’ (भा० वन० २०१।२३)। विकर्ता=संहर्ता। अङ्गुलीयकं स्वर्णस्य विकृतिः (=विकारः रूपान्तरम्)।
  • ‘मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः’ (रघु० ८।८७)। प्रकृतिः स्वभावः। मरणं ध्रुवमित्यर्थः। जीवितं यादृच्छिकम्।
  • ‘सावलेपमुपलिप्सिते परैरभ्युपैति विकृतिं रजस्यपि’ (कि० १३।५६)। विकृतिं विकारं क्रोधलक्षणमुपैतीत्याह।
  • ‘सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः’ (शा० २।५)। विकृतिमत्=क्षुभितम् अस्वस्थम्।
  • ‘श्मश्रुप्रवृद्धिजनिताननविक्रियांश्च’ (रघु० १३।७१)। विक्रिया=विकारः, परिवृत्तिः।
  • ‘अथ तेन निगृह्य विक्रियामभिशप्तः फलमेतदन्वभूत्’ (क० ४।४१)। विक्रिया क्षोभः।
  • ‘साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम्’ (सुभाषितम्)।
  • ‘लिङ्गैर्मुदः संवृतविक्रियास्ते’ (रघु० ७।३०)। संवृतविक्रिया निगूढमत्सराः।
  • ‘विक्रियायै न कल्पन्ते सम्बन्धाः सदनुष्ठिताः’ (कु० ६।२९)। विक्रियायै न कल्पन्ते=हानये न जायन्ते।
  • ‘भ्रूविक्रियायां विरतप्रसङ्गैः’ (कु० ३।४७)। भ्रूविक्रिया=भ्रूविलासः। रोमविक्रिया=रोमाञ्चः, पुलकोद्गमः। लोमहर्षः।
  • ‘इत्याप्तवचनाद्रामो विनेष्यन् वर्णविक्रियाम्’ (रघु० १५।४८)। वर्णविक्रिया=वर्णधर्मव्यतिक्रमः, तं विनेष्यन् अपनेष्यन्।
  • ‘विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः’ (कु० १।५९)।
  • ‘नेत्रवक्त्रविकारैश्च लक्ष्यतेन्तर्गतं मनः’ (पञ्चत० १।४४)। विकारः परिवृत्तिः, आकारपरिवर्तनम्, रूपान्तरपरिग्रहः।
  • ‘प्रमथमुखविकारैर्हासयामास गूढम्’ (कु० ७।९५)। मुखविकारैर्मुखवैरूप्यैः।
  • ‘विकारं खलु परमार्थतोऽज्ञात्वानारम्भः प्रतीकारस्य’ (शा० ४)। विकारो रोगः। प्रतीकारश्चिकित्सा।
  • ‘मूर्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु’ (शा० ५।१८)। विकाराश्चेतोवृत्तिपरिवृत्तयः, कृतकर्मविस्मृतिलक्षणाः।
  • ‘कुतः परस्मिन् पुरुषे विकारः’ (कि० १७।२३)। निर्विकारे परमात्मनि कोपरूपो विकारः कुतः।
  • ‘भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनम्’ (मालती० १।१७)। विकारि कामादिविकारविधेयम्।
  • ‘उत्तान एव स्वपिति पादौ विकरोति च’ (अष्टाङ्ग० शारीर० ५।५८)। विकरोति नाना करोतीति हृदयबोधिकायाम्। विकरोति=व्याकरोति।

कृत्

  • {विकृत्}
  • कृत् (कृती छेदने)।
  • ‘तस्मादस्य यत्रैव क्व च कुशो वा यद्वा विकृन्तति तत एव लोहितमुत्पतति’ (श० ब्रा० ३।१।२।१६)। विकृन्तति ईषच् छिनत्ति। विशब्दोऽल्पीभावे।
  • ‘इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण’ (ऋ० १०।६७।६)। विचकर्त=खण्डशश्चकार शकलानि चकार।
  • ‘वि पर्वशश्चकर्त गामिवासिः’ (ऋ० १०।७९।६)। उक्तोऽर्थः।
  • ‘कुञ्जरान् कुञ्जरारोहान् पदातीन् रथिनो रथान्। आप्लुत्याप्लुत्य दशनैर्नखैश्च विचकर्तिरे’ (रा० ६।१९।१०)॥

कृष्

  • {विकृष्}
  • कृष् (कृष विलेखने)।
  • ‘शुनं न फाला विकृषन्तु भूमिम्’ (ऋ० ४।५७।८)। विकृषन्तु विशेषेण कृषन्तु।
  • ‘अग्निं विक्रक्ष्यत्सु सर्वौषधं च वप्स्यत्सु’ (लाट्या० श्रौ० ५।८)।
  • ‘ततः शरं तु नैषादिरङ्गुलीभिर्व्यकर्षत’ (भा० आदि० १३२।५९)। व्यकर्षत=आयंस्त।
  • ‘यजमानं वा एतद् विकर्षन्ते यदाहवनीयात्पशुश्रपणं हरन्ति’ (तै० सं० ३।१।३।२)। विकर्षन्ते प्रमुष्णन्ति, लुण्टन्ति।
  • ‘एष ह वाव क्षत्रियोऽविकृष्टो यमेवंविदो याजयन्ति। अथ ह तं व्येव कर्षन्ते यथा ह वा इदं निषादाः…। वित्तमादाय द्रवन्ति’ (ऐ० ब्रा० ८।११)। उक्तोऽर्थः।
  • ‘कच्चिद् बलस्य भक्तं च वेतनं च यथोचितम्। सम्प्राप्तकाले दातव्यं ददासि न विकर्षसि’ (भा० सभा० ५।४८)॥ न विकर्षसि=कालं नातिक्रामसि। प्राप्तकालं दानं न व्याक्षिपसि, न विलम्बयसीत्यर्थः।
  • ‘यज्ञं विकृष्टमनु विक्रक्ष्ये’ (श० ब्रा० ११।८।४।२)। विकृतमनु विकरिष्य इत्याह।
  • ‘विकृष्टं त्वेनं स भूयो विकर्षेत’ (श० ब्रा० ९।५।१।६३)। उक्तोऽर्थः।
  • ‘दुर्योधनवधे यानि रोमाणि हृषितानि नः। अद्यापि न विकृष्यन्ते तानि तद्विद्धि भारत’ (भा० शल्य० ६१।१६)॥ न विकृष्यन्ते=न न्यञ्चन्ति।
  • ‘आरुजन् विरुजन्पार्थो ज्यां विकर्षंश्च पाणिना’ (भा० द्रोण० १२७।३१)। विकर्षन्=अत्यर्थं कर्षन्।
  • ‘सम्प्रकर्षन् विकर्षंश्च सेनाग्रं समलोडयत्’ (भा० द्रोण० १२७।३१)। विकर्षन्=विक्षिपन्।
  • ‘नैव मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयम्। जलमग्निस्तथा वायुरथवापि विकर्षणम्’ (भा० आश्रम० ३७।२७)॥ विकर्षणम् अनशनम्, अनाशकः।
  • ‘प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः’ (भा० आदि० १९०।२५)। विकर्षणं तिर्यक्पातनम्।
  • ‘यः परमो विकर्षः सूर्याचन्द्रमसोः सा पौर्णमासी’ (गो० गृ० १।५।७)। विकर्षः=विप्रकर्षः। कृष्टय इति मनुष्यनाम।
  • ‘कर्मवन्तो भवन्ति। विकृष्टदेहा वा (नि०)।
  • ‘ते श्रान्तवाहना दूता विकृष्टेन सता पथा’ (रा० २।६८।२१)। विकृष्टेन=विप्रकृष्टेन।
  • ‘विकृष्य बलवद् धनुः’ (भा० वन० १६७।३३)। सज्यं शरमाकृष्येत्यर्थः।
  • ‘इच्छःपक्षपुच्छाप्ययेषु चतुरङ्गुलं चतुरङ्गुलं संकर्षति विकर्षत्यन्ते (का० श्रौ० १६।८।१५)। विकर्षति विस्तारयति।
  • ‘प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः। विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः’ (ना० शा० २।११ इत्यस्यानन्तरं प्रक्षिप्तम्)॥ विकृष्टो विभागेन कृष्टो दीर्घो न तु चतसृषु दिक्षु साम्येन।

कॄ

  • {विकॄ}
  • कॄ (कॄ विक्षेपे)।
  • ‘व्यकीर्यत त्र्यम्बकपादमूले पुष्पोच्चयः पल्लवभङ्गभिन्नः’ (कु० ३।६१)। व्यकीर्यत=व्यक्षिप्यत।
  • ‘असिर्गात्रं गात्रं सपदि लवशस्ते विकिरतु’ (मालती० ५।३४)। खण्डयत्वित्यर्थः।
  • ‘एतद् यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सौम्य’ (मुण्डोप० २।१।१०)। विकिरति=विस्रंसयति=भिनत्ति।
  • ‘विकिरति मुहुः श्वासान्’ (गी० गो० ५।१६)। विकिरति=विसृजति, मुञ्चति।
  • ‘तिलैश्च विकिरेन्महीम्’ (मनु० ३।२३४)। श्राद्धभूमौ तिलान् विकिरेत् विक्षिपेत्।
  • ‘वसूनि तोयं घनवद् व्यकारीत्’ (भट्टि० १।३)। व्यक्षैप्सीत्, अदादित्यर्थः।
  • ‘अवकरनिकरं विकिरति तत् किं कृकवाकुरिव हंसः’ (भर्तृ०)। विकिरति=अपस्किरते=आलिखति।
  • ‘उच्छिष्टं भागधेयं स्याद् दर्भेषु विकिरश्च यः’ (मनु० ३।२४५)। विकिरः=विकीर्णः।
  • ‘विकीर्णमूर्धजा’ (कु० ४।४)। पर्याकुलशिरोरुहा।
  • ‘बहुधा विकीर्णध्वजः’ (रा० ३।३४।२५)। विकीर्णः=विदीर्णः।
  • ‘विष्किरः शकुनिर्विकिरो वा’ (पा० ६।१।१५०)।
  • ‘सर्वे शकुनयो भक्ष्या विष्किराः कुक्कुटादृते’ (काशिका)।
  • ‘कुक्कुटो विकिराणाम्’ (आप० ध० १।१७।२२)। पादाभ्यां विकीर्य कीटधान्यादि ये भक्षयन्ति ते मयूरादयो विकिरा इत्युज्ज्वलायां हरदत्तः।
  • ‘मरुदवनिरुहां रजो वधूभ्यः समुपहरन् विचकार कोरकाणि’ (शिशु० ७।२६)। विचकार विकासयामास।
  • ‘पुप्लुवे कपिशार्दूलो विकिरन्निव रोदसी’ (रा० ५।१।६९)। विकिरन्=विक्षिपन्, वियुवन्।

क्लृप्

  • {विक्लृप्}
  • क्लृप् (कृपू सामर्थ्य )।
  • ‘मुखस्य वर्णो न विकल्पतेऽस्य’ (भा० वन ० १७।६)। न विकल्पते=नान्यथा भवति, न भिद्यते।
  • ‘काचो मणिर्मणिः काचो येषां बुद्धिर्विकल्पते’ (पञ्चत० १।८७)। विकल्पते=विपर्यस्यति, विपर्येति।
  • ‘अथेदमधराच्यं करम्भेण विकल्पते’ (अथर्व० ४।७।२)। विगतसामर्थ्यं भवतीति सायणः।
  • ‘नीवारा व्रीहिभिर्विकल्पेरन्नेकार्थत्वात्’ (का० श्रौ० १।४।२ सूत्रविवरणे)। नीवारा वा प्रयुज्यन्तां व्रीहयो वेति नैयत्यं नास्ति।
  • ‘कथंचिन्न विकल्पन्ते विद्वद्भिश्चिन्तिता नयाः’ (पञ्चत० १।३८५)। न विकल्पन्ते=न सन्देहविषयतां यान्ति।
  • ‘तेनोणादीनां परत्वं न विकल्पते’ (विकल्प्यते) (पा० ३।१।२ सूत्रवृत्तौ)।
  • ‘आदिष्टो न विकल्पेत’ (हितोप० २??।३)। न विकल्पेत=इदं कर्तव्यं न वेति न विचारयेत्।
  • ‘प्रेष्यमाणा विकल्पन्ते’ (भा० शां० ५६।५०)। विकल्पन्ते=कार्ये संशयं दर्शयन्ति।
  • ‘ब्रह्मणा व्यहं कल्पयामि’ (अथर्व० १२।२।३२)। विकल्पयामि भिनद्मि, विशिनष्मि।
  • ‘तत् सिषेवे नियोगेन स विकल्पपराङ्मुखः’ (रघु० १७।४९)। अनध्यवसायशून्यः।
  • ‘मायाविकल्परचितैः’ (रघु० १३।७५)। मायाविकल्पा मायाविशेषाः।
  • ‘तुल्यार्थयोर्हि तुल्यविषययोर्विकल्पो भवति न नानार्थयोः’ (मी० सू० १०।६।३३ शा० भा०)।
  • ‘तस्य दण्डविकल्पः स्याद्यथेष्टं नृपतेस्तथा’ (मनु० ९।२२८)। दण्डनानात्वमित्यर्थः। दण्डेऽनियमः।
  • ‘एवं सुरासुरगणाः समदेशकालहेत्वर्थकर्ममतयोऽपि फलेऽविकल्पाः’ (भा० पु० ८।९।२८)। अविकल्पाः=भेदशून्याः।
  • ‘विकारको विकल्पानाम्’ (भा० पु० १०।८५।११)।
  • ‘सृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना’ (वि० पु० १।२।६२)। कल्पस्य सृष्टेर्विकल्पना विघटना।
  • ‘पक्वान्नलेह्यपानानां मांसानां च विकल्पकाः’ (भा० वन० ९२।२०)। विकल्पका मृष्टामृष्टविभाजकाः।
  • ‘नास्योभयोः पक्षयोर्मोक्षाधिगमो विकल्पते’ (न्याभा० १।१।२२)। विकल्पते सन्दिग्धो भवति।
  • ‘उत्तरं दक्षिणं चापि अयनं न विकल्पयेत्। सर्वस्तेषां शुभः कालः…’ (मात्स्य पु० १८४।६१)। न विकल्पयेत् न विचारयेत्, न मीमांसेत।
  • ‘तया वा इदं सहस्रं विकल्पयामहा इति’ (पञ्च० ब्रा० २१।१।२)। विकल्पयामहै विभजामहै।
  • ‘येनास्योष्ट्रस्य भक्षणं न विकल्पयति स्वामी’ (सिंहः) (पञ्चत० १।४०१ इतो नातिदूरे)। न विकल्पयति न सन्दिग्धे, न सन्देहविषयी करोति।

क्रन्द्

  • {विक्रन्द्}
  • क्रन्द् (क्रदि आह्वाने रोदने च)।
  • ‘विक्रन्दितमहास्वनः शोकसागरः’ (रा० २।५९।२९)। विक्रन्दितमाक्रोशः।

क्रम्

  • {विक्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘साधु विक्रमते’ (वाजी) (पा० १।३।४१ सूत्रे वृत्तौ)। अश्वादीनां गतिविशेषो विक्रमणमुच्यते। विक्रामत्यजिनसन्धिः (इहैव वृत्तौ प्रत्युदाहरणम्)। द्विधा भवतीत्यर्थः।
  • ‘इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्’ (ऋ० १।२२।१७)। इदं (सर्वम्) पादक्रमैर्व्यापेत्यर्थः।
  • ‘सृती विचक्रमे विष्वङ् साशनानशने उभे’ (ऋ० १०।९०।४)। चरणन्यासैराक्रान्तवानित्यर्थः।
  • ‘विचक्रमे पृथिवीमेष एताम्’ (ऋ० ७।१००।४)। उक्तचर एवार्थः।
  • ‘पृथिवीमनु विक्रमेऽहम्’ (अथर्व० १०।५।२५)। पृथिवीमुद्दिश्य क्रामामीत्यर्थः।
  • ‘आतिष्ठस्व रथान्राजन् विक्रमस्व विहायसम्’ (भा० आदि० ९३।१४)। आरोह, उत्पतेत्यर्थः।
  • ‘सखे विष्णो वितरं विक्रमस्व’ (ऋ० ४।१८।११)।
  • ‘उरु विष्णो विक्रमस्व’ (वा० सं० ??।३८)। आयतान्क्रमानातिष्ठेत्याह। व्यध्वानः क्रामेयुः। विक्रामेयुः पृथग् गच्छेयुः।
  • ‘एकपाद् द्विपदो भूयो विचक्रमे’ (अथर्व० १३।२।२७)। दूरमतिचक्रामेत्याह।
  • ‘य एकमोजस्त्रेधा विचक्रमे’ (अथर्व० १।१२।१)। विचक्रमे विभक्तवानित्यर्थः प्रतिभाति।
  • ‘स स्मरन्वै परिक्लेशं स्वपितुर्विक्रमिष्यति’ (भा० उ० १७०।३)। योत्स्यते, आस्कन्त्स्यति।
  • ‘येषामुत्साहशक्तिर्भवति ते स्वल्पा अपि शत्रून् विक्रमन्ते’ (पञ्चत०)। विक्रमन्ते=विक्रामन्ति=अभिभवन्ति।
  • ‘तांश्चैव विक्रमते जेतुम्’ (भा० सभा० ५।६२)। विक्रमते=क्रमते=उत्सहते।
  • ‘तत्प्रहरणान्याच्छिद्य विक्रामतः’ (मालती० ८।९)। शूरवद् वर्तेते इत्यर्थः।
  • ‘आरण्योऽग्निरिव हि दुःखामर्षजं तेजो विक्रमयति’ (कौ० अ० ७।२।१०१)। विक्रमयति=शूरवृत्तं कारयति।
  • ‘अमुष्य त्वत्सेवासमधिगतसारं भुजवनं बलात् कैलासेपि त्वदधिवसतौ विक्रमयतः’ (महिम्नः स्तोत्रे १२)। भुजवनं बाहुसङ्घातमतिशौर्येण व्यापारयत इत्याह।
  • ‘मेदिनीं दानवपते देहि मे विक्रमत्रयम्’ (भा० वन० २७१।६७)। विक्रमः क्रमः।
  • ‘ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः’ (रा० १।८।??)। त्वरितविक्रमः त्वरितगमनः।
  • ‘सदार्यौ राजपुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ’ (रा० २।११२।३)। धर्मविक्रमौ धर्ममार्गवर्तिनौ।
  • ‘शैनेयः श्येनवत्सङ्ख्ये व्यचरल्लघुविक्रमः’ (भा० द्रोण० १२०।३५)। लघुविक्रमः क्षिप्रचरणन्यासः।
  • ‘अपाक्रामद्रथोपस्थाद् विक्रमांस्त्रीन्नरर्षभः’ (भा० द्रोण० ४९।५)। विक्रमः=क्रमः। लघुः शीघ्रः।
  • ‘सर्वमावृत्त्य विक्रमम्’ (मनु० ३।२१४)। विक्रमम्=विशिष्टं क्रमम्=आनुपूर्वीं=परिपाटीम्।
  • ‘गतेषु लोलाञ्चितविक्रमेषु’ (कु० १।३४)। विक्रमम्=गतिम्।
  • ‘अनुत्सेकः खलु विक्रमालङ्कारः’ (विक्रम० १)। विक्रमः शौर्यम्। विसर्जनीयस्योष्मत्वाभावेनाविकृता स्थितिरपि विक्रम उच्यते।
  • ‘यदस्मानपि विक्रान्तान्विक्रम्याक्रामति स्वयम्’ (शि० भा० १४।३७)। विक्रम्य सोत्साहं प्रवृत्त्य।
  • ‘विक्रम्य तु हृतं चोरैर्न पालो दातुमर्हति’ (मनु० ८।२३३)। विक्रम्य बलप्रयोगं कृत्वा, साहसं प्रयुज्येत्यर्थः। विघुष्येति पाठान्तरम्।
  • ‘जले विक्रममाणाया (राक्षस्याः) हनूमान् शतयोजनम्’ (भट्टि० ८।२४)। विचरन्त्या इत्यर्थः।
  • ‘द्रुतविक्रान्तचन्द्रार्कमार्गो गोपानुपाद्रवत्’ (वि० पु० ५।१६।२)। द्रुतं विक्रान्तोऽतिक्रान्तश्चन्द्रार्कमार्गो येन स तथोक्तः।
  • ‘सुकुमाराभिताम्रेण क्रान्तविक्रान्तगामिना’ (हरि० २।११।३)। पादेनेति विशेष्यम्।
  • ‘विष्णोः क्रमोऽसि, विष्णोः क्रान्तमसि, विष्णोर्विक्रान्तमसि’ (तै० सं० १।७।७)। विक्रान्तं विजयः। रथः स्तूयते। विजयउक्तः।
  • ‘ते ऽन्योन्यस्मै ज्यैष्ठ्यायातिष्ठमानाश्चतुर्धा व्यक्रामन्’ (तै० सं० २।२।११।५)। चतुर्धा व्यक्रामन् चतुर्धा व्युह्य स्थिताः। अतिष्ठमानाः कार्येऽ प्रकाशमानाः।
  • ‘नदीं गोदावरीं रम्यां जगाम लघुविक्रमः’ (रा० ३।६४।२)। लघुविक्रमः=त्वरितपदन्यासः।

क्री

  • {विक्री}
  • क्री (डुक्रीञ् द्रव्यविनिमये)।
  • ‘प्रजया स विक्रीणीते पशुभिश्चोपदस्यति’ (यो गां न दित्सति)। (अथर्व० १२।४।२)। प्रजाऽस्य विक्रीता द्रव्येण विनिमिता प्रणिदत्ता भवति, पशवश्चास्योपदस्ताः क्षीणा भवन्तीत्याह। प्रजयेति प्रकृत्यादित्वात्तृतीया।
  • ‘वस्नेन विक्रीणावहा इषमूर्जं च शतक्रतो’ (वा० सं० ३।४९)।
  • ‘गवा शतसहस्रेण विक्रीणीते सुतं यदि’ (रा० १।६१।१३)।
  • ‘काचमूल्येन विक्रीतो हन्त चिन्तामणिर्मया’ (शां० श० १।१२)। सर्वत्र समानोऽर्थः।

क्रीड्

  • {विक्रीड्}
  • क्रीड् (क्रीडृ विहारे)।
  • ‘यथात्मतन्त्रो भगवान्विक्रीडत्यात्ममायया’ (भा० पु० २।८।२३)। विक्रीडति विहरति। अनायस्तस्तास्ता लीलाः समाचरतीत्यर्थः।
  • ‘विक्रीडितो यथैवाहं क्रीडामृग इवाधमः’ (भा० पु० ६।२।३७)। विक्रीडितः क्रीडनकतां नीतः।
  • ‘विक्रीड्य सुचिरं भीमो राक्षसेन सहानघ। निजघान महावीर्यस्तं तदा…’ (भा० ३।५६)॥ विक्रीड्य=प्रहस्य, नर्मवचनमुदीर्य।

क्रुश्

  • {विक्रुश्}
  • क्रुश् (क्रुश आह्वाने रोदने च)।
  • ‘भ्रातृनन्ये पितृनन्ये पुत्रानन्ये विचुक्रुशुः’ (भा० सौ० ८।१२१)। विचुक्रुशुः=आचक्रन्दुः।
  • ‘कृष्णं च जिष्णुं च हरिं नरं च त्राणाय विक्रोशति’ (भा० सभा० ६७।३३)। भवति।
  • ‘कस्य वयं विक्रोशामः’ (मध्यम० १)। आक्रन्दाम इत्यर्थः।
  • ‘राघवस्तुतिसंयुक्ता गगने च विचुक्रुशुः। साधु साध्विति हृष्टानां देवानां शोभना गिरः’ (रा० ६।९२।६९)॥ विचुक्रुशुः=प्रतिदध्वनुः, प्रतिध्वनिताः प्रतिशब्दिताः प्रतिश्रुत्वत्यो बभूवुरित्यर्थः। क्रोशतिरिहाकर्मकः।

क्लिद्

  • {विक्लिद्}
  • क्लिद् (क्लिदू आर्द्रीभावे)।
  • ‘वर्षाम्बुविक्लिन्नं पद्ममागलितं यथा’ (भा० पु० १।५४।१२)। विक्लिन्नम्=विशेषेण क्लिन्नमुन्नम्।

क्षर्

  • {विक्षर्}
  • क्षर् (क्षर संचलने)।
  • ‘तस्य यो रसो व्यक्षरत्’ (श० ब्रा० १४।१।१।११)। व्यक्षरत्=निरस्यन्दत।
  • ‘विक्षरन्तं महामेघम्’ (भा० १४।२१८४)। विक्षरन्तं प्रस्यन्दमानम्।
  • ‘सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना’ (हरि० ३।१८।२४)। विक्षरन्ती=विस्रवन्ती=स्यन्दमाना।

क्षि

  • {विक्षि}
  • क्षि (क्षि हिंसायां स्वादिः)।
  • ‘एते वैतं विक्षिणन्ति यं विचिकीर्षन्ति’ (श० ब्रा० ९।१।१।२३)। क्षीणमपचितं कुर्वन्तीत्याहृ। ब्राह्मणे तु श्नाविकरणोऽयं प्रयुक्तः।

क्षिप्

  • {विक्षिप्}
  • क्षिप् (क्षिप प्रेरणे)।
  • ‘महार्णवं विक्षिपेत्संक्षिपेच्च’ (भा० आश्व० ४२।५९)। विक्षिपेत्=विस्तारयेत्।
  • ‘तत्र मेधाविनः केचिदर्थमन्यैरुदीरितम्। विचिक्षिपुर्यथा श्येनो नभोगतमिवामिषम्’ (भा० सभा० ३६।६)॥ विचिक्षिपुः=आददाना व्यकुर्वन्।
  • ‘सुहृदो विक्षिपन्त्याशु कथाभिर्व्रणवेदनाः’ (सुश्रुत० २।१।६९)। विक्षिपन्ति=हरन्ति=अपनुदन्ति।
  • ‘ये स्वामिनं दुष्टतमं वदन्ति वाञ्छन्ति वृद्धिं न च विक्षिपन्ति’ (भा० सभा० ७१।१)। न विक्षिपन्ति व्याकुला न भवन्ति। क्षिपतिरिहोपसर्गवशादकर्मकः।
  • ‘तस्य विक्षिपतश्चापं सन्दधानस्य चासकृत्’ (भा० वन० १७।५)। विक्षिपतः=कर्षतः।
  • ‘विक्षिपन्नादयंश्चापि धनुः श्रेष्ठम्’ (भा० वन० १७।३)। उक्तोऽर्थः।
  • ‘अभितश्चक्षुषी विक्षिपन्ती’ (सा० द०)। प्रेरयन्तीत्याह।
  • ‘ज्यां विक्षिपन्तश्च महाधनुर्भ्यः’ (भा० वन० २६९।२४)। विक्षिपन्तोऽवरोपयन्तः।
  • ‘स्फुरता विक्षिप्यमाणा धनुषा नरेन्द्राः’ (भा० आदि० १८७।१८)। प्रास्ताः, परास्ताः, मिथो विश्लेषिताः सन्तः, इतस्ततोऽवशं नुद्यमानाः।
  • ‘सर्वगात्राणि विक्षिप्य किं शेषे’ (रा० ६।९५।३५)। विक्षिप्य=वितत्य=प्रसार्य।
  • ‘भ्रूविक्षेपं कथयति’ (पा० ३।४।५४ सूत्रे वृत्तिः)। भ्रुवौ विक्षिप्य उदच्य, उन्नमय्य।
  • ‘गरुत्मानथ विक्षिप्य पक्षौ मारुतवेगवान्’ (भा० शां० ३३७।३६)। विक्षिप्य प्रसार्य।
  • ‘शत्रुघ्नविक्षेपविमूढसंज्ञां समीक्ष्य कुब्जाम्’ (रा० २।७८।२६)। विक्षेप इतस्ततः कर्षणम्। अङ्गहारोऽङ्गविक्षेपः (अमरः)। नृत्यविशेष इत्यर्थः।
  • ‘स उ ह तूष्णीमेव शिश्ये तत उ हैनं यष्ट्या विचिक्षेप’ (कौ० ब्रा० उ० ४।१८)। विचिक्षेप अधुनात्, अधूनयत्।
  • ‘उद्भिन्नमिव वेगेन विक्षिपन् रघुनन्दनः’ (रा० ३।६०।४)। विक्षिपन् हस्तादीनवयवान् इतस्ततः क्षिपन्।
  • ‘तेन विक्षपतात्यर्थं पवनेन समन्ततः’ (रा० ४।१।१६)। विक्षिपता विविधं प्रेरयता।
  • ‘विद्युद्भिरिव विक्षिप्तमाकाशमभूत्तदा’ (रा० १।४३।२२)। विक्षिप्तं व्याप्तम्।
  • ‘चतुष्पथगदायुद्धे’ (भा० आदि० ६८।१२)। प्रक्षेप-विक्षेप-परिक्षेपाभिक्षेपाख्याश्चत्वारः पन्थानो यस्य तत्, तस्मिन्। विक्षेपः समीपस्थे कोट्या प्रहारः।
  • ‘अविक्षिपः’ (अच्कावशक्तौ ६।२।१५७ सूत्रे वृत्तावुदाहरणम्)। अविक्षिपः=विक्षेप्तुं विभज्य दातुमसमर्थः।

क्षुभ्

  • {विक्षुभ्}
  • क्षुभ् (क्षुभ संचलने)।
  • ‘यदाशसा वदतो मे विचुक्षुभे’ (अथर्व ७।५७।१)। विचलितं विघटितं विकृतिमद्वाऽभूदित्याह।
  • ‘अम्भोधयः श्वासहता विचुक्षुभुः’ (भा० पु० ७।८।३२)। विचुक्षुभुः=क्षोभमुपजग्मुः, विचेलुः, विजह्वलुः।

खण्ड्

  • {विखण्ड्}
  • खण्ड् (खडि मडि भेदने)।
  • ‘ताडिता अपि दण्डेन शस्त्रैरपि विखण्डिताः। न वशं योषितो यान्ति न दानैर्न च संस्तवैः’ (पञ्चत० ४।६०)। विखण्डिता विशकलिताः।

खन्

  • {विखन्}
  • खन् (खनु अवदारणे)।
  • ‘यत्ते भूमे विखनामि क्षिप्रं तदपि रोहतु’ (अथर्व० १२।१।३५)। विखनामि=उत्खनामि।

ख्या

  • {विख्या}
  • ख्या (ख्या प्रकथने)।
  • ‘व्यन्धो अख्यदहिमाददानः’ (ऋ० ४।१९।९)। व्यख्यत् अपश्यत्।
  • ‘रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः’ (ऋ० १०।१२७।१)। व्यख्यत् प्राकाशयत् अदीपयत् प्रभामकरोत्।
  • ‘वि नाकमख्यत्सविता’ (ऋ० ५।८१।२)।
  • ‘जातो यदग्ने भुवना व्यख्यः’ (ऋ० ७।१३।३)। उक्तपूर्व एवार्थ एतयोरुदाहृत्योः। त्रिषु लोकेषु विख्यातः प्रख्यातः, प्रसिद्धः, प्रतीतः।

गण्

  • {विगण्}
  • गण् (गण संख्याने)।
  • ‘वायवीयैर्विगण्यन्ते विभक्ताः परमाणवः’ (याज्ञ० ३।१०४)। विगण्यन्ते=गण्यन्ते=संख्यायन्ते। विशब्दोऽविशेषकृत्।
  • ‘ततो भूयो व्यगणयत् स्वबुद्ध्या मुनिसत्तमः’ (भा० शल्य० ५०।६१)। व्यचारयदित्यर्थः।
  • ‘किमपि विगणयन्तो बुद्धिमन्तः सहन्ते’ (पञ्चत० ३।४०)। किमपि चिन्तयन्त इत्यर्थ इति वयम्। अवजानन्त इति संस्कृतशार्मण्यकोषः। अस्मदुक्त एवार्थः साधुरितीमा उदाहृतयो भूयस्समर्थयन्ते–अदूरवर्तिनीं सिद्धिं राजन् विगणयात्मनः (रघु० १।८७)।
  • ‘तांस्तान् विगणयन्नर्थान्’ (भा० वन० २९८।२०)।
  • ‘एवं यथावद् विगणय्य बुद्ध्या’ (रा० ३।४४।३१)।

गद्

  • {विगद्}
  • गद् (गद व्यक्तायां वाचि)।
  • ‘न हि निम्बात्स्रवेत्क्षौद्रं लोके विगदितं वचः’ (रा०)। विशेषेण गदितमु, बहुलमुच्चारितम्।

गम्

  • {विगम्}
  • गम् (गम्लृ गतौ)।
  • ‘न विगच्छति वैदेह्याश्चन्द्रांशुसदृशी प्रभा’ (रा० २।६०।१६)। विगच्छति=अपगच्छति=अपैति।
  • ‘वासवृक्षे समागम्य विगच्छन्ति यथाण्डजाः। नियतं विप्रयोगान्तस्तथा भूतसमागमः’ (बुद्ध० ६।४६)॥ विगच्छन्ति=वियुज्य वियुत्य गच्छन्ति, विप्रयुक्ता गच्छन्ति। व्यपयान्ति।
  • ‘त्रेधा विष्वग् विगच्छति’ (अथर्व० ११।८।३३)। उक्तोऽर्थः।
  • ‘ततो निशा व्यगमन्महात्मनां संशृण्वतां विप्रसमीरिता गिरः’ (भा० १४।१९।१२)। व्यगमत्=व्यत्यगात्। इदानीं दूरं व्यगमल्लज्जा लज्जावतीनाम्। अत्यन्तं व्यनशदित्यर्थः।
  • ‘शय्याप्रान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः’ (शा० ६।५)। यापयति क्षपयति।
  • ‘आशास्यमीतिविगमप्रभृति प्रजानाम्’ (माल० ५।२०)। ईतिविगमः=दैवीनामापदां विनाशः।
  • ‘यथा क्रीडोपस्कराणां संयोगविगमाविह’ (भा० पु० १।१३।४३)। विगमो वियोगः। केवलो विगमशब्दस्तु वियोगं नाह। संयोगसमभिव्याहृतस्तु तत्रार्थे शक्त इति सुधीभिरवधेयम्। निष्प्रभे विगतारोकौ (अमरः)। विगतो निष्प्रभः। प्रयोगस्त्वत्रार्थे नोपलभ्यते।
  • ‘अवनितलविगतैश्च भूतसङ्घैः’ (भा० द्रोण० ३७।३४)। विगतैः=विकीर्णैः।
  • ‘विगते बाहुवीर्ये’ (अथर्व० ५।२१।१०)। विगते विनष्टे।
  • ‘विगतं तु विदेशस्थं शृणुयाद्यो ह्यनिर्दशम्’ (मनु० ५।७५)। विगतमुपरतं मृतम्।
  • ‘वेः शालच्छङ्कटौ’ (पा० ५।२।२८)। इत्यत्र वृत्तौ विगते विशाले शृङ्गे। तद्योगाद् गौरपि विशाल उच्यत इत्युक्तम्। अन्यानुरक्ता विगता (वैजयन्ती)।

गर्ह्

  • {विगर्ह्}
  • गर्ह् (गर्ह गल्ह कुत्सायाम्)।
  • ‘प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे’ (भा० आदि० ११७।१७)। विगर्हसे=गर्हसे=निन्दसि=कुत्सयसि।
  • ‘अयं द्विजैर्विद्वद्भिः पशुधर्मो विगर्हितः’ (मनु० ९।६६)। विगर्हितो विनिन्दितः।
  • ‘यदि भीष्मः स्त्रियं हन्यात्सन्तः कुर्युर्विगर्हणम्’ (भा० उ० १९२।६९)।
  • ‘प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि’ (वेणी० १।१२)। स्पष्टोऽर्थः।

गल्

  • {विगल्}
  • गल् (गल इति लौकिको धातुः स्रवणेऽवस्रंसने वा वर्तते)।
  • प्रायेण निष्ठायां दृश्यन्ते प्रयोगाः।
  • ‘महावनमिव च्छिन्नं शिश्ये विगलितद्रुमम्’ (भा० वि० २३।३२)। विगलिताः पतिता द्रुमा यत्र तत्।
  • ‘रतिविगलितबन्धे केशपाशे सुकेश्याः’ (विक्रम०, रघु० ९।६७, तत्र प्रियाया इति पाठः)।
  • ‘रतौ निधुवने विगलिता विघटिता विस्रस्ता बन्धाः कबर्यो यत्र। जलात्पुनर्विगलितो (मत्स्यो) गलितो वकेन’ (पञ्चत० २।८७)। विगलितो भ्रष्ठः, निष्क्रान्त इति यावत्। गलितो निगिलितः, अवगीर्णः।
  • ‘वियोगाग्निविगलज्जीवितोऽभवत्’ (कथा० ७।७५)। विगलत्=द्रवत्, भ्रश्यत्।
  • ‘कामाग्निनेव सन्तप्तः स्विन्नो विगलितः स च’ (कथा० १८।७८)। उक्तोऽर्थः।
  • ‘विगलितमेधवर्चसः’ (भा० आदि० १९।२५)। क्षरिताम्रज्योतिष इत्यर्थः।
  • ‘दाक्षिण्योदकवाहिनी विगलिता’ (मृच्छ०)। विगलिता निःशेषेण स्रुता स्यन्ना स्कन्ना शोषं गतेत्यर्थः।
  • ‘मयि विगलितप्रत्याशत्वाद् विवाहविधेः पुरा’ (मालती० ९।११)। विगलितप्रत्याशः=नष्टाशंसः।

गाह्

  • {विगाह्}
  • गाह् (गाहू विलोडने)।
  • ‘एष विप्रैरभिष्टुतोऽपो देवो विगाहते’ (ऋ० ९।३।६)। अपः समुद्रं प्रविशति, अप्सु निमज्जति।
  • ‘स व्यगाहत विगाढमन्मथः’ (दीर्घिकाः) (रघु० १९।९)। उक्तोऽर्थः। विगाढमन्मथः=प्रौढमदनः।
  • ‘विषमोपि विगाह्यते नयः कृततीर्थः पयसामिवाशयः’ (कि० २।३)। विगाह्यते=प्रविश्यते।
  • ‘निशा व्यगाहत सुखशीतमारुता’ (भा० उ० १८२।२९)। व्यगाहत=अवातरत्।
  • ‘(वनस्पतिः) अन्तर्भूमिं विगाहते मूलैः’ (सुश्रुत० १।२७०।५)। अन्तः प्रविशतीत्यर्थः।
  • ‘दुःखेन हि विगाह्यते प्रचकितै राज्ञां गृहं वार्धिवत्’ (पञ्चत० १।४२०)। उक्तोऽर्थः।
  • ‘तथा मुनीनां चरितं व्यगाह्यत’ (कु० ५।१९)। अन्वस्रियत, अन्वचर्यतेत्यर्थः।
  • ‘यदिन्द्रादो दाशराज्ञे मानुषं विगाहथाः’ (अथर्व २०।१२८।१२)। विगाहथाः=व्यगाहथाः, व्यविध्यः।
  • ‘अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः’ (रघु० १३।१)। विगाहमानः=अतिक्रामन्।
  • ‘ईषद् विगाहमानायां रजन्यां दिवसे गते’ (हरि० २।२५।९)। अल्पमतिक्रान्तायामित्यर्थः।
  • ‘विगाह्यमानां सरयूं च नौभिः’ (पश्यन् रेमे) (रघु० १४।३०)। विगाह्यमाना=विलोड्यमाना, क्षोभमापाद्यमाना।
  • ‘अन्तर्जले विगाढः’ (पर्वतः) (रा० ५।७।३९)। विगाढः=निमग्नः।
  • ‘विगाढायां रजन्यां च राजा दैन्यं परं गतः’ (भा० द्रोण० १८३।२०)। विगाढा=अवतीर्णा।
  • ‘मकरैर्नागभोगैश्च विगाढाः’ (जलराशयः) (रा० ५।७४।३१)। विगाढाः कृतावगाहाः।
  • ‘विगाढे रजनीमुखे’ (भा० वन० ४६।५)। विगाढेऽतिक्रान्ते। रजनोमुखं प्रदोषः।
  • ‘जनस्य तस्मिन्समये विगाढे’ (रघु० १६।५३)। विगाढे=कठिने।
  • ‘विगाढमन्मथः’ (रघु० १९।९)। प्रौढमदनः=विवृद्धमनसिजः।
  • ‘विगाढे युधि सम्बाधे वत्स्यसे माम्’ (भा० ३।१६।१४)। विगाढे वृद्धिमुपेयुषि।
  • ‘विगाह्यागाधगम्भीराम्’ (उशतीम्) (भा० उ० ७६।१४)।
  • ‘इह विहारसुखं दयितासखः सरसि को रसिको न विगाहते’ (पारिजात० १०।४०)। विगाहते ऽनुभवति, अश्नुते, निर्विशति।

गुप्

  • {विगुप्}
  • गुप् (गुपू रक्षणे)।
  • ‘यदैतमनुपश्यत्यात्मानं देवमञ्जसा। ईशानं भूतभव्यस्य न ततो विजुगुप्सते’ (श० ब्रा० १४।७।२।१८)। न विजुगुप्सते=नोद्विजते।

गै

  • {विगै}
  • गै (कै गै शब्दे)।
  • ‘विगायति च यो लोके यवनानां विलोकनम्’ (शि० भा०)। निन्दति विरुणद्धि वा।
  • ‘विगीयसे मन्मथदेहदाहिना’ (नै० १।७९)। विगीयसे=निन्द्यसे, अवक्षिप्यसे। विगानं वचनीयत्वम् इति सङ्कीर्णवर्गान्ते स्वामिनोद्धृतं वचः।
  • ‘अभिचारं चकारास्येत्यविगाना जनश्रुतिः’ (रा० ७।१३३)। अविगाना=अविसंवादा=अविप्रतिपन्ना।
  • ‘यश्चाधरोत्तरानर्थान् विगीतान्नावबुध्यते’ (मनु० ८।५३)। विगीतान्=विरुद्धान्। संकुलान् परस्परव्याहतान्।
  • ‘यस्त्वा एना विजिगासन् न शक्नोति विगातुमार्तिमार्छति’ (जै० ब्रा० १।१०३)। विशिष्य गानमिह विगानमुक्तं न तु विरोधोक्तिर्विगानं यथाऽन्यत्र।
  • ‘सत्यपि प्रतिवेदान्तं सृज्यमानेष्वाकाशादिषु क्रमादिद्वारके विगाने न कर्तरि किञ्चिद् विगानमस्ति’ (ब्र० सू० शां० भा० १।६।१४)। विगानं विरोधोक्तिः।

ग्रन्थ्

  • {विग्रन्थ्}
  • ग्रन्थ् (ग्रथि कौटिल्ये, ग्रन्थ सन्दर्भे)।
  • ‘अन्तानुष्णीषेण विग्रथ्नाति’ (श० ब्रा० ३।३।२।१८)। बध्नातीत्यर्थः।

ग्रह्

  • {विग्रह्}
  • ग्रह् (ग्रह उपादाने)।
  • ‘आज्यं जुह्वां चतुष्कृत्वो विगृह्णाति’ (श० ब्रा० ३।२।४।८)। विगृह्णाति=विभज्य गृह्णाति।
  • ‘तदेनानि द्वधा विगृह्णीयात्’ (ऐ० ब्रा० ७।३२)।
  • ‘तं विगृह्णाति देवेभ्यस्त्वा…य एवं कुर्याद्यथादेवतं त्वेव विगृह्णीयात्’ (श० ब्रा० ४।२।३।११)। विभजेदित्यर्थः।
  • ‘अचेतसो वि जगृभ्रे परुष्णीम्’ (ऋ० ७।१८।८)। विजगृभ्रे=विजगृहिरे=विस्रावितजलां निःशेषितापां चक्रुरित्यर्थः। विग्रहः कूलभेद इति सायणः।
  • ‘अथ निग्राभ्याभ्यो ग्रहान् विगृह्णते’ (श० ब्रा० ३।९।४।२५)। निग्राभ्याभ्यस्तन्नामिकाभ्योद्भ्य उद्धृत्य भरन्तीत्यर्थः।
  • ‘अपशब्दांश्चास्य विगृह्णीयात्’ (का० सं० त्रि० शिष्योप०)।
  • ‘यदास्य चित्तमर्थेषु समेष्विन्द्रियवृत्तिभिः। न विगृह्णाति वैषम्यम्…’ (भा० पु० ३।३२।२४)। विगृह्णाति=विविच्य गृह्णाति, विबुध्यते।
  • ‘अन्तर्भूमिगताश्चान्ये हयानां चरणान्यथ। व्यगृह्णन् दानवा घोरा रथचक्रे च भारत’ (भा० वन० १७२।८)॥ अभञ्जन् अमृद्नन्नित्यर्थः प्रतिभाति। धृतवन्तो गृहीतवन्त इति कश्चित्।
  • ‘सन्दधीत न चानार्यं विगृह्णीयान्न बन्धुभिः’ (भा० शां० ७०।५)। विग्रहमाचरेत्, सम्प्रहरेत्, युध्येत।
  • ‘विगृह्यते राहुणा दिनाधीशः’ (पञ्चत० १।२३१)। उक्तोऽर्थः।
  • ‘यत्कृतेऽरीन् व्यगृह्णीम’ (भट्टि० १७।२३)।
  • ‘विजगृहे तिसृणां जयिनं पुराम्’ (कि० १८।१२)। गृहीतवानित्यर्थः। विशब्दो नार्थे विशेषं करोति।
  • ‘राजानं बोधिसत्त्वं प्रति विग्राहयामासुः’ (अवदा० जा० २३)। बुद्धिभेदं जनयामासुः, बिभिदुः।
  • ‘सर्वमिदं पूर्वकर्मकृतं सुखासुखम्, न प्रयत्नसामर्थ्यमस्तीत्येव मन्य एनं विग्राहयामास’ (अवदा० जा० २३)। विपरीतं ग्राहयामास बोधयामासेत्युक्तं भवति।
  • ‘अनुयुगविगृहीतदेहाः’ (ब्रह्मविष्णुगिरीशाः) (भा० पु० ४।१।२७)। परिगृहीतविविधतनवः, धृतनानाशरीरा इत्यर्थः।
  • ‘विगृहीतादपीष्यते’ (पा० ४।२।९३ सूत्रे वार्त्तिकम्। अवयवशो गृहीतादित्यर्थः।
  • ‘बन्धुना विगृहीतोऽहम्’ (भट्टि० ६।८६)। विगृहीतो विरोधितः।
  • ‘स जायमानो विगृहीतमात्रः’ (भा० आदि० ९०।१५)। विग्रहेण सर्वाङ्गकलापेन सम्पन्नमात्र इति नीलकण्ठः। विभक्तावयव इति तु मूलानुवाद्यर्थः।
  • ‘बलवता विगृहीतस्य तदनुप्रवेशो विदेशगमनं वा’ (तन्त्रा० ३, उपक्रमे)। विगृहीतस्यायोध्यमानस्य।
  • ‘षोडशाक्षरेण विगृह्य’ (शां० श्रौ० १०।८।१८)। विगृह्य=प्रगृह्य।
  • ‘मध्ये ह्रदस्य प्लवस्व विगृह्य चतुरः पदः’ (अथर्व० ४।१५।१४)। प्रसार्येति दुर्गः। विश्लेष्येति तु परे।
  • ‘तस्मादिमानि वयांसि विगृह्य पक्षावनायुवानानि पतन्ति’ (श० ब्रा० ४।१।२।२६)। विगृह्य=वितत्य, विस्तार्य।
  • ‘विगृह्य शत्रून्कौन्तेय ज्ञेयः क्षितिपतिस्तदा’ (भा० आश्रम० ६।७)। विगृह्य=युद्ध्वा।
  • ‘विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः’ (शिशु० १।५१)। उक्तोऽर्थः।
  • ‘देवराजो विगृह्येदं काले वचनमब्रवीत्’ (भा० वन० १७४।१)। विगृह्य विशेषेण गृहीत्वा, स्वीयत्वेनाङ्गीकृत्य।
  • ‘धनुर्विगृह्य’ (भा० ४।२०८६)। गृहीत्वेत्यर्थः। नार्थो विना।
  • ‘एतद्वा एनं देवा एषु लोकेषु विग्राहमैच्छन्’ (श० ब्रा० ६।३।३।५)। एकैकशोऽन्वैच्छन्नित्यर्थः। विग्राहमिति विपूर्वाद् गृह्णातेर्णमुल्। आश्व० श्रौ० ८।३ इत्यत्रापि विग्राहमिति प्रयोगः। तत्र पृथक् कृत्वेत्यर्थः।
  • ‘यथा लोहस्य निःस्यन्दो निषिक्तो बिम्बविग्रहम्। उपैति’ (भा० आश्व० १८।९)। विग्रह आकारो रूपम्।
  • ‘त्रयी विग्रहवत्येव सममध्यात्मविद्यया’ (माल० १।१४)। विग्रहः शरीरम्।
  • ‘विग्रहाच्च शयने पराङ्मुखीर्नानुनेतुमबलाः स तत्वरे’ (रघु० १९।३८)। विग्रहः कलहः।
  • ‘उग्राय विग्रहायास्मै त्वया प्रेषयता ह्यमुम्’ (शि० भा० १७।३५)। विग्रहो युद्धम्। वृत्त्यर्थबोधकं वाक्यं विग्रह इति वैयाकरणाः।
  • ‘अनुग्रहं विग्रहं वा मन्यसे तद्विधेहि नः’ (भा० पु० १०।१६।५९)। विग्रहो निग्रहोऽनुग्रहविपर्ययो वा। अत्रार्थेऽन्यत्र मृग्योऽस्य प्रयोगो बहुश्रुतैः। परिमाण च कालस्य कल्पलक्षणविग्रहम्। विग्रहो विभागः।
  • ‘त्रिर्विगृह्णाति’ (तै० सं० २।५।७।२)। विच्छिनत्तीत्यर्थः।
  • ‘वि ह्येनं (सोम) तैः (ग्रावादिभिः) गृह्णते’ (तै० सं० ६।३।२।८)। विगृह्णते विभज्य विश्लिष्य गृह्णन्ति।
  • ‘तां देवासुरा व्यगृह्णत’ (तै० ब्रा० १।१।१०।१)। तामुद्दिश्य व्यवदन्तेत्यर्थः।
  • ‘तस्य (सोमस्य) यशः (धनरूपं) व्यगृह्णत’ (तै० ब्रा० २।२।८।६)। व्यगृह्णत विभज्य गृहीतवन्तः। देवाः कर्तारः।
  • ‘पवित्रं विगृह्णन्ति’ (पञ्च० ब्रा० ६।६।१२)। विगृह्णन्ति विस्तारयन्ति।
  • ‘धनुर्विगृह्य जानुभ्यां जघान च महाक्रतुम्’ (हरि० ३।३२।२३)। विगृह्य विनम्य। जानुभ्यां स्थित इति शेषः।
  • ‘न विगृह्य कथां कुर्यात्’ (मनु० ४।७२)। अभिनिवेशेन पणबन्धादिना लौकिकेषु शास्त्रीयेषु वाऽर्थेष्वितरेतरं जल्पनयाहोपुरुषिका या सा विगृह्यकथेति मेधातिथिः।
  • ‘न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः’ (रा० ६।८९।३०)। विग्रहः प्रविभागः।
  • ‘पवित्रं विगृह्णन्ति’ (पञ्च० ब्रा० ६।६।१२)। दशापवित्रं विस्तारयन्तीत्यर्थः।

ग्लै

  • {विग्लै}
  • ग्लै (ग्लै हर्षक्षये)।
  • ‘नानुध्यायाद् बहूञ्छब्दान्वाचो विग्लापनं हि तत्’ (छां० उ०)। विग्लापनं व्ययः, अपक्षयः।
  • ‘तन्नो विग्लापयति’ (भा० पु० ३।२।२२)। विग्लापयति खेदयति, विमनाययति, विमनस्कान्करोतीत्यर्थः।

घट्

  • {विघट्}
  • घट् (घट चेष्टायाम्)।
  • ‘एते द्रागेव विघटिष्यन्ते।’ भेदं प्राप्स्यन्ति पलायिष्यन्त इति वा।
  • ‘ततो विजघटे शैलैः’ (भट्टि० १४।६६)। विघटितम्। शैला भेदमापुः, संहतिं जहुरित्यर्थः।
  • ‘कार्यमुद्घाटितं क्वापि मध्ये विघटते यतः’ (हितोप० ४।२)। विघटते=प्रतिहन्यते विराममेति।
  • ‘वयस्य विघाट्यतां द्वारम्’ (अवि० ५)। उद्घाट्यतां विव्रियतामित्यर्थः।
  • ‘विघटयन्त्यग्रे नभोऽम्भोमुचः’ (मालती० ५।२)। विघटयन्ति द्विधा विभजन्ति।
  • ‘उपरि विघटमानः प्रौढतापिच्छनीलः’ (मालती० ९।२४)। विघटमानः=रूपनानात्वं परिगृह्णानः।
  • ‘अहो विघटितं तिमिरपटलम्’ (प्र० च०)। संहतभावमहासीदित्यर्थः।
  • ‘मन्त्रिणा पृथिवीपालचित्तं विघटितं यदि। वलयं स्फटिकस्येव को नु सन्धातुमर्हति’ (हितोप० २।१५७)॥ विघटितं द्विधा भिन्नम्।

घट्ट्

  • {विघट्ट्}
  • घट्ट् (घट्ट चलने)।
  • ‘द्वारै विघट्टयन्कराभ्याम्’ (भा० सभा० ५७।११)। उद्घाटयन्नित्यर्थः।
  • ‘कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम्’ (कु० १।९)। विघट्टितानां बलवत्कम्पितानाम्।
  • ‘दर्व्या विघट्टय’ (सुश्रुत० १।३२।१९)।
  • ‘आयुर्वायुविघट्टिताभ्रपटलीलीनाम्बुवद्भङ्गुरम्’ (भतृ० ३।५४)। विघट्टिता=विक्षिप्ता।
  • ‘तदीयमातङ्गघटाविघट्टितैः… दिग्गजैः’ (शिशु० १।६४)। विघट्टितैः=विकीर्णैः।
  • ‘सूर्यस्य विविधवर्णाः पवनेन विघट्टिताः कराः साभ्रे वियति धनुःसंस्थाना ये दृश्यन्ते तद् इन्द्रधनुः’ (व० बृ० सं० ३४।१)। उक्तोऽर्थः।
  • ‘हेषितं ह्युपशृण्वाने द्रोणे सर्वं विघट्टितम्’ (भा० ४।१४९४)। सर्वं रहस्यमुद्भिन्नमित्याह।

घस्

  • {विघस्}
  • घस् (घस्लृ अदने)।
  • ‘विघसो भुक्तशेषं तु’ (मनु० ३।२८५)। तथा चोत्तरे रामचरिते प्रयोगः–तृप्यत्कालकरालवक्त्रविघसव्याकीर्यमाणा इव (भुवः) (५।६)।
  • ‘वकविघसपङ्कसारा नचिरात् कावेरि भवितासि’ (आर्या०)।
  • ‘किमद्याश्वत्थामा तदरिरुधिरासारविघसम्’ (वेणी० ३।२५)। विघसो भोजनम्।

घुष्

  • {विघुष्}
  • घुष् (घुषिर् अविशब्दने, विशब्दनं प्रतिज्ञानं ततोन्यस्मिन्नर्थे, शब्द इत्यन्ये पेठुः)।
  • ‘तूर्यगीतविघुष्टानि विमानानि’ (रा० ३।३९।१९)। विघुष्टानि=शब्दपूर्णानि।
  • ‘अहो दानं विघुष्टं ते सुमहत् स्वर्गवासिभिः’ (भा० ३।१५४३३)। विघुष्टमुच्चैर्घोषितम्।

घूर्ण्

  • {विघूर्ण्}
  • घूर्ण् (घुण घूर्ण भ्रमणे)।
  • ‘विनिपेतुः पृथक् केचित्तथाऽन्ये विजुघूर्णिरे’ (हरि० १२५४७)। विजुघूर्णिरे=इतस्ततो भ्रेमुः।

चक्ष्

  • {विचक्ष्}
  • चक्ष् (चक्षिङ् व्यक्तायां वाचि)।
  • ‘उपस्थे मातुर्विचष्टे’ (ऋ० ५।१९।१)। विचष्टे प्रकाशते भासते, भाति।
  • ‘त्रयः केशिन ऋतुथा विचक्षते’ (ऋ० १।१६४।४४)। उक्तोऽर्थः।
  • ‘शतं नो रास्व शरदो विचक्षे’ (ऋ० २।२७।१०)। विचक्षे=दर्शनाय।
  • ‘तदयं केतो हृद आ वि चष्टे’ (ऋ० १।२४।१२)। विचष्टे विपश्यति।
  • ‘परि चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम्।’ (ऋ० ७।१०४।२५)। उक्तचर एवार्थः।
  • ‘तया पवस्व धारया यया पीतो विचक्षसे’ (ऋ० ९।४५।६)। विचक्षसे=आत्मानं प्रादुर्भावयसि।
  • ‘गृह्या गृह्णानो बहुधा विचक्ष्व’ (अथर्व० ५।२०।४)। ** (हे दुन्दुभे) बहुधा घोषणां कुर्वित्याह।**
  • ‘इति शुश्रुम धीराणां ये नस्तद विचचक्षिरे’ (ईश० उ० १२)। उपदिदिशुः, व्याजह्रुः।

चर्

  • {विचर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘अधिज्यधन्वा विचचार दावम्’ (रघु० २।८)। वभ्राम, पर्याट।
  • ‘इष्टान् देशान् विचर जलद विद्युता संभृतश्रीः’ (मेघ० ११७)। उक्तोऽर्थः।
  • ‘बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी। योगसिद्धा जगत्कृत्स्नमसक्ता विचचार ह’ (हरि० १।३।४५)। अनन्तरोदीरित एवार्थः।
  • ‘यन्मे माता प्रलुलुभे विचरन्त्यपतिव्रता’ (मनु० ९।२०)। कामचारतः स्वैरं परिभ्रमन्तीत्यर्थः।
  • ‘हविषि व्यचरत्तेन वषट्कारं गृणन् द्विजः’ (भा० पु० ९।१।१५)। व्यचरत्=अपाचरत्, प्रामाद्यत्। अन्यत्रान्वेष्योऽयमर्थः सुधीभिः।
  • ‘तांस्तु सर्वान्नरव्याघ्रः सैन्धवान् व्यचरद्वली’ (भा० आश्व० ७७।३०)। व्यचरत्=आक्रामत्, आस्कन्दत्, अभ्ययात्।
  • ‘असिमार्गान् बहुविधान् विचेरुः सैनिका रणे’ (भा० द्रोण० ९७।१७)। विचेरुः=आचेरुः। विशब्दो नानात्वे।
  • ‘आत्मनः परिमर्शेन बुद्धिं बुद्ध्या विचारयेत्’ (भा० शां० १२०।१९)। साधकबाधकभूमौ संचारयेदिति नीलकण्ठः।
  • ‘पुत्रो मातरा विचरन्नुपावसि’ (वा० सं० १२।१०७)। उपावसि तस्याः साह्यमाचरसि।
  • ‘विषसलिलतुलाग्निप्रार्थिते मे विचारे’ (मृच्छ० ९।४३)। विचारो व्यवहारपरीक्षा।
  • ‘कस्येयं मृगशावाक्षी वनान्तरविचारिणी’ (हरि० २।२८।७८)। वनान्तरविचारिणी वनमध्ये भ्रमन्ती।
  • ‘आज्ञा गुरूणां ह्यविचारणीया’ (रघु० १४।४६)। अविचारणीया, अचिन्तनीया, अनाशङ्कनीया।
  • ‘को विचारः स्वेषूपकरणेषु’ (उत्तर०)। विचारो विचारणा=अनध्यवसायः, विमर्शः।
  • ‘नास्त्यर्थो विज्ञानविसहचरेण, अस्ति तु ज्ञानमर्थविसहचरं स्वप्नादौ कल्पितम्’ (यो० सू० ४।१४ भाष्ये)। विज्ञानविसहचरेण=विज्ञाननान्तरीयकत्वेन। विर्विरोधे।
  • ‘प्रत्यक्षमपि कर्मेदं करोतीव विचारणाम्’ (अवदा० जा० २।३१)। विचारणां सन्देहम्।
  • ‘विचरितप्राया मया लङ्का’ (अभि० २)। प्रायेण भ्रान्तेत्यर्थः।
  • ‘अपूर्वमकृतं नित्यं य एनमविचारिणम्’ (भा० आश्व० ५१।३४)। अविचारिणम्=अविचालिनम्=कूटस्थम्।
  • ‘मा ते मनो विष्वद्रियग् विचारीत्’ (तै० सं० १।७।१३)।
  • ‘सोऽश्वान् विचारयित्वा तु रथे युक्तान् मनोजवान्’ (रा० ७।४६।२१)। विचारयित्वा विचार्य परिभ्रमणं परिवर्तनं कारयित्वा।
  • ‘वसन्तलक्ष्म्यामविचार्य चक्षुः’ (सौन्दर० ७।२१)। अविचार्य अचारयित्वा अव्यापार्य।
  • ‘विचार्य सर्वतो दृष्टिम्’ (रा० ४।१४।२) उक्तोर्थः।

चर्च्

  • {विचर्च्}
  • चर्च् (चर्च अध्ययने)।
  • ‘पामपामे विचर्चिका’ (अमरः)। प्रत्ययोपसर्गाभ्यां रोगप्रतीतिरिति तत्त्वबोधिनी।

चल्

  • {विचल्}
  • चल् (चल कम्पने, चल विलसने)।
  • ‘व्यचालीदम्भसां पतिः’ (भट्टि० १५।७०)। अक्षुभदित्यर्थः।
  • ‘विचलति पत्रे शङ्कितं भवदुपयानम्’ (गीत० ५)।
  • ‘नादण्ड्यो नाम राज्ञोस्ति धर्माद् विचलितः स्वकात्’ (याज्ञ० १।३५८)। विचलितो भ्रष्टः।
  • ‘अधिकरणविचाले च’ (पा० ५।१।४३)। विचालोऽन्यथाकरणम्, सङ्ख्यान्तरापादनम्। एकस्यानेकीकरणम्, अनेकस्य चैकीकरणम् इति वृत्तिः।
  • ‘विचाली हि संवत्सरशब्दः, सावनोपि गणितदिवसकः, शीतोष्णवर्षलक्षणोऽपि चान्द्रमसोपि’ (मी० ६।७।३८ सूत्रे शा० भा०)। विचाली=अनियतः।

चि

  • {विचि}
  • चि (चिञ् चयने)।
  • ‘कृतं न श्वघ्नी विचिनोति देवने’ (ऋ० १०।४३।५)।
  • ‘एते हीदं सर्वं विचिन्वन्ति’ (श० ब्रा० ९।१।१।२३)। परिचिन्वन्ति प्रत्यभिजानन्तीति वेत्याह।
  • ‘न यजमानः सोमं विचिनुयात्’ (आप० श्रौ० १०।७।२०।१६)।
  • ‘तृणाद्यपनयेन शोधनं विचयनम्’ (रुद्र०)।
  • ‘ततस्त्रैलोक्यमृषयो व्यचिन्वन्त सुरैः सह’ (भा० अनु० ८५।२०)। व्यचिन्वन्त=व्यचिन्वत=अमृगयन्त=अन्वैच्छन्।
  • ‘विचिनोति मां तातः सहैवाश्रमवासिभिः’ (भा० वन० २९७।८४)। विचिनोति=अन्विष्यति।
  • ‘कृष्णाजिने सोमांशून् विचिनोति’ (कौ० सू० २४, ३-७)।
  • ‘नार्यस्ते पत्न्यो लोम विचिन्वन्तु मनीषया’ (वा० सं० २३।३६)। लोमानि पृथक् कुर्वन्त्वित्यर्थः।
  • ‘ज्योतिर्मयं विचिन्वन्ति योगिनस्त्वां विमुक्तये’ (भा० पु० १०।२३)। जिज्ञासन्त इत्यर्थः।
  • ‘गदामि वेदान् विचिनोमि छन्दः’ (भा० वन० १९७।८)।
  • ‘क्रव्यात्क्रविष्णुर्वि चिनोत्वेनम्’ (अथर्व० ८।३।४)। एनं यातुधानम्। विचिनोतु इतस्ततो भक्षणायाकृष्य विप्रकीर्णं करोतु।
  • ‘त्वया वयं पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत्’ (ऋ० ९।९८।५८)। विचिनुयाम सम्पादयेम।
  • ‘चन्द्रमा अस्मै पूर्वपक्षापरपक्षान् विचिनोति पुण्याय कर्मणे’ (ऐ० आ० २।१।७)। विशेषेण सम्पादयति, निर्मिमीत इत्यर्थः।
  • ‘घनानि व्यवसायेन विचीयन्ते महावने’ (रा० ३।४३।३१)। विचीयन्ते संगृह्यन्ते।
  • ‘फलानि वृक्षमारुह्य विचिन्वन्ति च ये तदा’ (भा० आदि० १२८।२१)। विचिन्वन्ति=अवचिन्वन्ति।
  • ‘अयमेमि विचकाशद् विचिन्वन्दासमार्यम्’ (ऋ० १०।८६१९)।
  • ‘विचिन्वतीमाकिरन्तीमप्सराम्’ (अथर्व० ४।३८।२)। समुच्चिन्वतीं कोष्ठे त्रिचतुरानक्षान्सङ्घीकुर्वतीमिति सायणः।
  • ‘आचख्युस्तत्र रामाय’ महीं सागरमेखलाम्। विचिताम्…’ (भा० वन० २८२।२४)॥ विचिताम् अन्विष्टामनुसंहितां परीक्षिताम्।
  • ‘विचितश्चैष समन्तात् श्मशानवाटः’ (मालती० ५)। उक्तोऽर्थः।
  • ‘धर्म्यां तु वृत्तिमन्विच्छन् विचिताशीह दुःखितः’ (अवदा० जा० १)।
  • ‘स्नातवस्यं वाऽमौत्रधौतं विचितकेशं प्रसारितदशं दीक्षातपसोरिति’ (का० श्रौ० ७।२।१६)। विचितकेशं विचिताः निष्कासिताः केशाः सूत्राणि यस्मात् तत् तथोक्तम्।
  • ‘चोदयामास तानश्वान् विचितान् भीष्मसायकैः’ (भा० भीष्म० ५९।५३)। विचितान्, आचितान् आच्छन्नानित्याह। विर्विशेषणे।
  • ‘ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवे। विचित्य शरजालेन प्रजहास धनञ्जयः’ (भा० आश्व० ७४।९)। विचित्य=आचित्य=आच्छाद्य।
  • ‘वनदिङ्मार्गविचयो वीवधासाररक्षणम्’ (का० नी० सा० २०।५)। विचयः परीक्षणम्।
  • ‘तुरगविचयव्यग्रान्’ (उत्तर० १।२३)। विचयोऽन्वेषणम्।
  • ‘छन्दोविचितिः’ (आप० ध० २।८।११)। छन्दांसि विचीयन्ते विविच्य ज्ञायन्ते यया सा छन्दोविचितिर्वेदाङ्गम्।
  • ‘विचेतव्या मही वीर संग्रामनगराकरा’ (भा० वन० २८२।१९)। अन्वेष्येत्यर्थः।
  • ‘गदामि वेदान् विचिनोमि छन्दः’ (भा० वन० १९७।८)। विचिनोमि परिचिनोमि, अभ्यस्यामि।
  • ‘व्रीहीनाहरेच्छुक्लांश्च कृष्णांश्च विचिनुयात्’ (तै० सं० १।८।९)। विचिनुयात् विविञ्च्यात्।
  • ‘कर्णांश्चाकर्णांश्च तण्डुलान् विचिनुयात्’ (तै० सं० १।८।९)। पृथक् कुर्यादित्यर्थः।
  • ‘एतद्विचार्य मनसा भवानेतद्विनिश्चयम्। विचिनोतु…’ (भा० उ० १७७।६)॥ विचिनोतु=अन्विष्य विन्दतु।
  • ‘छन्दोविचित्यां सकलस्तत्प्रपञ्चो निदर्शितः’ (काव्यादर्शे १।१२)। छन्दांसि विचीयन्ते संगृह्यन्तेऽत्रेति, विज्ञायन्ते वाऽनयेति छन्दोविचितिः।
  • ‘यथाङ्गमेवेतराण्यङ्गानि विचिन्वन्ति’ (जै० ब्रा० १।४९)। विचिन्वन्ति विशेषेण चिन्वन्ति, उपचिन्वन्ति।
  • सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वा ऽभिवदन्यदास्ते’ (तै० आ० ३।१२।७)। विचित्य निर्माय।

चृत्

  • {विचृत्}
  • चृत् (चृती हिंसाग्रन्थनयोः)।
  • ‘शालाया नद्धानि वि चृतामसि’ ( )। श्रथ्नीमः, विष्यामः, भिन्द्मः। नद्धानि ग्रन्थयः।
  • ‘वेदः स्वस्तिः’ इति वेदं विचृतति’ (वै० श्रौ० ८।१२)। विचृतति विमुञ्चति।
  • ‘अयस्मयं विचृता बन्धमेतम्’ (वा० सं० १२।६३)। विच्छिन्धीत्याह।
  • ‘वि ते पाशांश्चृतामसि’ (अथर्व० ९।३।१४)। उक्तोऽर्थः।
  • ‘पाशं ग्रीवास्वविचृत्यम्’ (वा० सं० १२।६५)। चर्तितुं छेत्तुमनर्हम्।
  • ‘कृण्वन्त्संचृतं विचृतमभिष्टये’ (ऋ० ९।८४।२)। विचृतं विग्रन्थि विश्लथम्।

चेष्ट्

  • {विचेष्ट्}
  • चेष्ट् (चेष्ट चेष्टायाम्)।
  • ‘महाभुजगसंकाशा बाहवः परिघोपमाः। उद्वेष्टन्ति विचेष्टन्ति संचेष्टन्ति च सर्वशः’ (भा० द्रोण० ८९।१९)। विचेष्टन्ति=विविधं चेष्टन्ते।
  • ‘सम्पत्तौ च विपत्तौ च दैवमेव हि कारणम्। इति दैवपरो ध्यायन्नात्मना न विचेष्टते’ (का० नी० सा० ९।१४।३७)। न विचेष्टते न व्यवस्यति=नोद्युङ्क्ते, नोद्यच्छते, नोत्तिष्ठते। अत्र विर्विरोधे न, चेष्टामेव विशिनष्टि।
  • ‘धरायां स्म व्यचेष्टेताम्’ (रा० २।७७।८०)। व्यलुठतामित्यर्थः।
  • ‘विदर्भनगरे चैषां राजेन्द्रत्वं विचेष्टय’ (हरि० २।५०२१)। विचेष्टय विचालय। भ्रंशयेत्यर्थः।
  • ‘मैथुनाय विचेष्टन्ती परपुंसोपशङ्कया’ (हरि० १।९।५४)। विचेष्टन्ती मैथुनप्रतिकूलां चेष्टां कुर्वाणेति नीलकण्ठः।
  • ‘यथार्हमस्य लोकस्य मया सर्वं विचेष्टितम्’ (वि० पु० ६।६।३८)। विचेष्टितम्=चेष्टितम्=कृतम्।
  • ‘न हि मे शृण्वतस्तृप्तिररित तेषां विचेष्टितम्’ (भा० वन० १६०।६)। विचेष्टितम्=अवदानानि=चरितानि।
  • ‘किमपि चेदमनङ्गविचेष्टितम्’ (विक्रम० २।९)। अनङ्गविचेष्टितम्=मनसिजविलसितम्।

छद्

  • {विच्छद्}
  • छद् (छद अपवारणे)।
  • ‘घ्नन्ति त्वेवैनं विच्छादयन्तीव’ (छां० उ० ८।१०।२)।
  • ‘घ्नन्ति त्वेवैनं बिच्छादयन्तीव’ (छां० उ० ८।१०।२)। इदं धृतपूर्वं पुस्तके। अर्थस्तु न निरदेशीति स निर्दिश्यते। विच्छादयन्तीव विद्रावयन्तीव।

छन्द्

  • {विच्छन्द्}
  • छन्द् (छदि संवरणे)।
  • ‘दानाद् विच्छन्दयंस्तं महासत्त्वमुवाच’ (अवदा० जा० ५)। वारयन्नित्यर्थः। विर्विरोधे। उपच्छन्दनविरोधिनमर्थमाह।

छिद्

  • {विच्छिद्}
  • छिद् (छिदिर् द्वैधीकरणे)।
  • ‘न ध्यातं पदमीश्वरस्य विधिवत् संसारविच्छित्तये’ (भर्तृ० ३।११)। संसरणच्छेदाय, जननमरणप्रवाहविरामायेत्याह।
  • ‘वृत्त्यविच्छित्तिकामः’ (गो० गृ० ४।८।१६)। जीविकाविलोपाभावमिच्छन्नित्यर्थः।
  • ‘विच्छिद्यमानेपि विच्छित्तिर्नवचन्दनेन वपुषः’ (शिशु० १६।८४)। विच्छित्तिरलङ्क्रिया।
  • ‘विच्छित्तिविशेषैः सुरसुन्दरीणाम्’ (शा० ७।५)। विच्छित्तयो वर्णका रागाः।
  • ‘स्तोकाप्याकल्परचना विच्छित्तिः कान्तिपोषकृत्’ (सा० द० १३८)। मण्डनानादरन्यासो विच्छित्ती रूपदर्पत: (१।६।२३ अमरोद्घाटने स्वामी)।
  • ‘विच्छिद्यमानेपि कुले परस्य पुंसः कथं स्यादिह पुत्रकाम्या’ (भट्टि० ३।५२)। वंशेऽवसानमुपयति सतीत्यर्थः।
  • ‘यशश्चन्दनविच्छिन्नैरत्वं च दोर्भिः प्रसाधितः’ (राम ० २४।१००)। चन्दनविच्छिन्नैश्चन्दनानुलिप्तैः।
  • ‘विच्छिन्नेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति’ (अमरु० ७६)। विच्छिन्नेषु भग्नेषु।
  • ‘यदर्थे विच्छिन्नं भवति कृतसन्धानमिव तत्’ (शा० १।९)। विच्छिन्नं विसंहितम्।
  • ‘स ऐक्ष्वाकोऽधावयत् (रथवाहानश्वान्) ब्राह्मणकुमारं रथेन (रथावयवेन चक्रेण) व्यच्छिनत्।’ (पञ्च० ब्रा० १३।३।१२)। व्यच्छिनद् विच्छिन्नावयवमकरोत्।
  • ‘अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता। नादृष्टेन न दृष्टेन भवता लभ्यते सुखम्॥’ विच्छेदो वियोगः।

जन्

  • {विजन्}
  • जन् (जनी प्रादुर्भावे)।
  • ‘विजज्ञे च ततः काले राजनराजीवलोचना। कुमारं देवगर्भाभम्…’ (भा० आदि० ८२।२७)। विजज्ञे=सुषुवे। प्रजज्ञ इति पाठान्तरम्।
  • ‘समां समां विजायते’ (पा० ५।२।१२)। इह विपूर्वो जनिरकमकः।
  • ‘ततः स्मरसखे काले पुष्ययुक्ते निशाकरे। दिवाकरे मृदुकरे देवी पुत्रं व्यजायत’ (बृ० श्लो० सं०)॥ उक्तोर्थः। इह धातुः, सकर्मको यथा निरुक्ते भारतप्रयोगे।
  • ‘वैराजात्पुरुषाद्वीरं शतरूपा व्यजायत। प्रियव्रतोत्तानपादौ वीरात्काम्या व्यजायत’ (हरि० १।२।५)॥
  • ‘अद्यश्वीन इति निपात्यतेऽवष्टब्धे विजने’ (पा० ५।२।१३ सूत्रे वृत्तिः)। विजनः प्रसवः। अवष्टब्ध आसन्नः।
  • ‘यस्ते पुत्रो गर्भितोऽयं विजातः स्वर्णष्ठीवी यमदात् पर्वतस्ते’ (भा० शां० २९।१४९)। विजातः=विशिष्टगुणोपेतः।
  • ‘विजावति प्रजावति वि ते पाशांश्चृतामसि’ (अथर्व० ९।३।१४)। विजा=विजनः=प्रसवः।

जल्प्

  • {विजल्प्}
  • जल्प् (जप जल्प व्यक्तायां वाचि)।
  • ‘विजल्पः प्रलापः, मात्सर्यगर्भा गीः। असौ त्वा विजल्पति’ (कौ० अ० ११।१।१६०)।
  • ‘परिहासविजल्पितं सखे परमार्थेन न गृह्यता वचः’ (शा० २।१८)।

जि

  • {विजि}
  • जि (जि जये, जि अभिभवे)।
  • ‘प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः’ (गीत०)। अभिभवतीत्यर्थः।
  • ‘रहस्यं साधूनामनुपधि विशुद्धं विजयते’ (उत्तर० २।२)। सर्वोत्कर्षेण वर्तत इत्यर्थः।
  • ‘यौ वै सर्वं जयति विजयते’ (जै० १।९५)।
  • ‘चक्षुर्मेचकमम्बुजं विजयते’ (वा० भा० १।३३)। विजयतेऽतिशेते अतिक्रामति।
  • ‘इतो जयेतो विजय संजय जय स्वाहा’ (अथर्व० ८।८।२४)।
  • ‘यस्मात्तमेव होतारं वृणीष्वेत्येतस्य लोकस्य विजितये’ (गो० ब्रा० पूर्व० २।२४)। अत्र विशब्दो वैशिष्ट्यवचनः प्रतिभाति। अन्यत्र प्रायेण जयतिना सम्प्रयुक्तो नायं विशेषकृत्। जयो विजय इत्येकोर्थः, लोचनविलोचनवत्।
  • ‘अस्याधिज्ये धनुषि विजयम्’ (आशंसन्ते) (शा० २१।६)। स्पष्टोऽर्थः।
  • ‘प्रभवति न तदा परो विजेतुं भवति जितेन्द्रियता यदात्मरक्षा’ (कि० १०।३५)। क्षितिविजितिस्मृतिविहितिव्रतरतयः परमतयः। विजितिर्विजयो जयः।
  • ‘सं च जयति वि च जयते’ (ऐ० ब्रा० ३।१९)। विजयते वियुज्य शत्रून् जयति।

जृम्भ्

  • {विजृम्भ्}
  • जृम्भ् (जृभि गात्रविनामे)।
  • ‘तमोऽन्ये हासिषुर्योधा व्यजृम्भिषत चापरे’ (भट्टि० १५।१०८)। मुखव्यादानमकुर्वतेत्यर्थः।
  • ‘सुखश्रवा मङ्गलतूर्यनिस्वनाः …न केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसामपि’ (रघु० ३।१९)। व्यजृम्भन्त=अमूर्च्छन्। व्याप्नुवन्।
  • ‘तत्खल्विदं विजृम्भते’ (मालती० १।७)। विजृम्भते व्याप्तिं याति।
  • ‘वनेषु सायन्तनमल्लिकानां विजृम्भणोद्गन्धिषु कुड्मलेषु (रघु० १६।४७)। विजृम्भणं विकासः।
  • ‘रोपितभ्रूविजृम्भत्रस्ताब्धिः’ (भा० पु० ९।१०।४)। भ्रूविजृम्भः=भ्र कुटिबन्धः। अत्रार्थेन्यत्र दुर्लभः प्रयोगोऽन्वेष्यः शास्त्रदृश्वभिः।
  • ‘तदादिराजस्य यशो विजृम्भितम्’ (भा० ४।२१।८)। प्रसृतम्, प्रथितमित्यर्थः।

ज्ञा

  • {विज्ञा}
  • ज्ञा (ज्ञा अवबोधने)।
  • ‘वि जानीह्यार्यान्ये च दस्यवः’ (ऋ० १।५१।८)। विविक्तं जानीहीत्याह।
  • ‘य एवं वेद गृहवान्भवतीति विज्ञायते’ (आप० श्रौ० १।१।२।११)। यत्राविकृतं ब्राह्मणमुच्चारयति तत्र विज्ञायत इत्याह (धूर्तस्वामी)।
  • ‘ते मे वाचं विजानन्तु’ (भा० वि० २३।१२)। प्रत्यभिजानन्त्वित्याह।
  • ‘वाच को वा विजानाति पुनः संश्रुत्य संश्रताम्’ (याज्ञ० ३।१५०)। अनन्तरोदीरित एवार्थः।
  • ‘भूय एव भगवान् विज्ञापयतु’ (छां० उ० ८।८।७)। विशेषेण ज्ञापयतु वेदयत्वित्यर्थः।
  • ‘यद्वै त्वं वेत्थाहं तद् विज्ञापयामि’ (श० ब्रा० १।४।५।१०)। ** (इतरान्) बोधयामीत्यर्थः।**
  • ‘विजानन्तोप्येते वयमिह विपज्जालजटिलान्न मुञ्चामः कामान्’ (भर्तृ० ३।२१)।
  • ‘यथा यथा हि पुरुषः शास्त्रं समधिगच्छति। तथा तथा विजानाति’ (मनु० ४।२०) विजानाति=ज्ञानवान्भवति।
  • ‘देशकालनयैर्युक्तो विज्ञः कार्यविनिश्चये’ (रा० ४।४०।१८)। विज्ञः कुशलः प्रवीणः।
  • ‘यज् जीव्यते क्षणमपि प्रथितं मनुष्यैर्विज्ञानशौर्यविभवार्यगुणैः समेतम्। तन्नाम जीवितमिह प्रवदन्ति तज्ज्ञा…’ (पञ्चत० १।२४)॥ विज्ञानं बोधः, प्रबोधः, बुद्धिः।
  • ‘ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः’ (गीता ७।२)। विज्ञानं लौकिकं ज्ञानम्, लोकानुभवः।
  • ‘विज्ञानं हि महद् भ्रष्टम्’ (रा० ३।७१।३०)। विज्ञानमतीन्द्रियज्ञानम्।
  • ‘लब्धविज्ञानम्’ (भा० शां० ४४।५)। विज्ञानं प्रवृत्तिर्वृत्तान्तः।
  • ‘कालप्रयुक्ता खलु कार्यविद्भिर्विज्ञापना भर्तृषु सिद्धिमेति’ (कु० ७।९३)। विज्ञापना प्रार्थना।
  • ‘अहो नु खलु विज्ञापनाव्यग्रे मयि शब्द इव श्रूयते’ (स्वप्न० १)। विज्ञापना घोषणा।
  • ‘अस्ति मे किमपि विज्ञाप्यम्’ (उत्तर० १)। विज्ञाप्यं विज्ञप्तिः।
  • ‘शरीरज्ञानविज्ञानैः’ (सुश्रुत० १।३५।४)। ज्ञानं तत्त्वावबोधः। विज्ञानं चित्रादिकर्मकौशलम्।
  • ‘शूरस्य ज्ञानिनो वाऽहं देया विज्ञानिनो पि वा’ (कथा० ७९।९)। शिल्पादिज्ञानं विज्ञानम्।

ज्या

  • {विज्या}
  • ज्या (ज्या वयोहानौ)।
  • ‘कृतं यजमानो विजिनाति’ (आप० श्रौ० ५। २०।१)। विजिनाति जयति। (रामाग्निचिद्वृत्तिः)। विर्विरोधे।

टङ्क्

  • {विटङ्क्}
  • टङ्क् (टकि बन्धने)।
  • ‘गुम्फितैरुशनसा सुभाषितैर्यस्य हाटकविटङ्कमङ्कितम्’ (नै० १८।२४)। विटङ्कः कपोतपालिका। कपोतपालिकायां तु विटङ्कं पुन्नपुंसकम् इत्यमरः। टङ्कः पाषाणदारणो भवति। विपूर्वस्तु स एव कपोतपालिकां ब्रूत इत्यहो उपसर्गमाहात्म्यम्।
  • ‘सभारण्यविटङ्कवान्’ (भा० आदि० १।८८)। भारतद्रुम इति विशिष्यते। विटङ्काः पक्ष्युपवेशनस्थानानि।
  • ‘अयमेव महीधरविटङ्कः’ (मालती० १०)। विटङ्कः शिखिरम्। औपचारिकः प्रयोगः।
  • ‘रोमोत्सवो मम यदङ्घ्रिविटङ्कितायाः’ (भा० पु० १।१६।३५)। विटङ्किता=बद्धा, संस्पृष्टा, अलङ्कृता।

डी

  • {विडी}
  • डी (डीङ् विहायसा गतौ)।
  • ‘विडम्बितं विडीनं स्यात्’ (भा० ४१।२७)। विडीनं मल्लवदृड्डीयोड्डीय गमनम्।

तंस्

  • {वितंस्}
  • तंस् (तसि भूष अलङ्करणे)।
  • वीतंसस्तूपकरणं बन्धने मृगपक्षिणाम् इत्यमरः।

तन्

  • {वितन्}
  • तन् (तनु विस्तारे)।
  • ‘त्वम् अग्ने सप्रथा असि जुष्टो होता वरेण्यः। त्वया यज्ञं वितन्वते’ (ऋ० ५।१३।४)। वितन्वते=अनुतिष्ठन्ति।
  • ‘विराटपर्वप्रद्योती भावदीपो वितन्यते’ (नीलकण्ठः)। वितन्यते विरच्यते प्रणीयते।
  • ‘ध्यातश्चेतसि कौतुकं वितनुते कोपोपि वामभ्रुवः’ (सा० द०)। वितनुते=करोति=जनयति।
  • ‘स्मरसि रुदितैः स्नेहाकूतं तथा व्यतनोदसौ’ (मालती० ९।११)। व्यतनोत् व्याञ्जयत्। आविरभावयत्।
  • ‘तेन वीर्यं वितन्वता’ (रा० ४।९।८९)। वितन्वता=प्रकटयता।
  • ‘ब्रह्मन् सन्तनुशिष्यस्य कर्मच्छिद्रं वितन्वतः’ (भा० पु० ८।२३।१४)। वितन्वतो यज्ञं तन्वानस्य। अत एव वितानो यज्ञो भवति। तथा चामरः पठति–क्रतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके।
  • ‘अत एव च वैतानास्त्वां वह्नयः पावयन्तु’ (शा० ४।८)। इत्यत्र वैताना यज्ञियाः। वितानमुल्लोचोपि, यच्चन्द्रोदय इत्याचक्षते।
  • ‘श्रेणीबन्धाद् वितन्वद्भिरस्तम्भां तोरणस्रजम्’ (रघु० १।४१)। वितन्वद्भिः=विरचयद्भिः।
  • ‘अमुं यज्ञं विततमेयाय’ (छां० उ० १।१०।७)। विततं चिराय तायमानम्।
  • ‘विततयज्ञः’ (शा० ७।३४)। अनुष्ठिताध्वरः।
  • ‘यज्वभिः संभृतं हव्यं विततेष्वध्वरेषु सः’ (कु० २।४६)। उक्तोऽर्थः।
  • ‘विततवपुषा महाहिना’ (कि० १२।२२)। महाकायेनेत्यर्थः।
  • ‘भवति विततश्वासोन्नाहप्रणुन्नपयोधरम्’ (मालती० १०।१५)। विततोऽविश्रान्तः=अविरतः।
  • ‘शब्दवेध्यं च विततं लघुहस्ता विशारदाः’ (रा० १।५।२०)। विततं विप्रकृष्टम्।
  • ‘स्फुरितविततजिह्वः’ (मृच्छ० ९।१२)। वितता निरायता।
  • ‘प्रस्वेदबिन्दुविततं वदनं प्रियायाः’ (चौर० ९)। विततं व्याप्तम्।
  • ‘यथार्द्रं वस्त्रं वितानितं लघीयसा कालेन शुष्येत्’ (यो० सू० ३।२२ भाष्ये)। वितानितं विस्तारितम्।
  • ‘व्रततिविततिभिस्तिरोहितायाम्’ (शिशु० ७।४५)। विततिः प्रतानः।
  • ‘वंशविततिषु विषक्तपृथुप्रियवालधिभिः’ (कि० १२।४७)। वंशविततयः=वेणुषण्डाः।
  • ‘यदकालमेघविततिर्व्ययूयुजत्’ (मालती० ९।४७)। विततिः पङ्क्तिः।
  • ‘शृङ्गोच्छ्रायैर्यो वितत्य स्थितः खम्’ (मेघ० ६०)। व्याप्येत्यर्थः।
  • ‘वितत्य किरतोः शरान्’ (उत्तर० ६।१)। धनुराकृष्येत्याह।
  • ‘तत्र हत्वा पशून्मध्यान् वितत्यायतने शुभे’ (हरि० २।१६।११)। वितत्य हवीरूपेण निरुप्य।
  • ‘बहूनां वितता यज्ञा द्विजानां य इहागताः। तेषां समाप्तिरायत्ता तव वत्स निवर्तने’ (रा० २।४५।२८)॥ वितताः प्रवर्तिता अनुष्ठीयमाना वितायमानाः।
  • ‘प्रस्तारस्थगिता इवोन्मुखमणिज्योतिर्वितानैर्दिशः’ (मालती ६।५)। वितानः समूहः।
  • ‘प्रमुदितवरपक्षमेकतस्तत् क्षितिपतिमण्डलमन्यतो वितानम्’ (रघु० ६।८६)। वितानं सावसादं ग्लानम्।
  • ‘वितानेष्वप्येवं तव मम च सोमे विधिरभूत्’ (वेणी० ६।३०)। वितानो यज्ञः क्रतुः।

तर्क्

  • {वितर्क्}
  • तर्क् (तर्क भाषार्थः)।
  • ‘तन्नूनं मृत्युमाप्स्यतीति वितर्कयामि’ (पञ्चत०)। अभ्यूहामीत्यर्थः।
  • ‘किं नु स्विदेतत् पततीति सर्वे वितर्कयन्तः परिमोहिताः स्मः’ (भा० )।

तुद्

  • {वितुद्}
  • तुद् (तुद व्यथने)।
  • ‘विराटं वितुदन्त्येते गृध्रगोमायुवायसाः’ (भा० स्त्री० २०।२३)। वितुदन्ति विलुञ्चन्ति, अवलुम्पन्ति।
  • ‘वि पूषन्नारया तुद पणेरिच्छ हृदि प्रियम्’ (ऋ० ६।५३।६)। वितुद=विध्य।
  • ‘शुनं सुफाला वि तुदन्तु भूमिम्’ (अथर्व० ३।१७।५)। वितुदन्तु=विलिखन्तु, विकृषन्तु।
  • ‘यः कण्टकैर्वितुदति चन्दनैर्यश्च लिम्पति’ (याज्ञ० ३।५३)।
  • ‘नखाग्रैः केन ते भीरु वितुन्नं हि स्तनान्तरम्’ (रा० ५।६८।७)। वितुन्नम्=विक्षतम्।

तृद्

  • {वितृद्}
  • तृद् (उतृदिर् हिंसानादरयोः)।
  • ‘पराञ्चि खानि व्यतृणत् स्वयम्भूः’ (कठ० उ० ४।१)। व्यतृणत् कर्तित्वा निरमात्।
  • ‘यदा त्वष्टा व्यतृणत् पिता त्वष्टुर्य उत्तरः। गृहं कृत्वा मर्त्यं देवाः पुरुषमाविशन्’ (अथर्व० ११।८।१८)॥ व्यतृणत्=कर्तित्वा सुषिरमकरोत्।
  • ‘कः सप्त खानि वि ततर्द शीर्षणि’ (अथर्व० १०।२।६)। विततर्द=चिच्छेद, छेदपूर्वकं निर्ममौ। उत्कीर्य रचयामासेत्यर्थः।

तृप्

  • {वितृप्}
  • तृप् (तृप प्रीणने)।
  • ‘वितर्पयन्ति ये पुण्यास्तृषिताञ्शीतलै र्जलैः’ (स्कन्दपु० का० ४।१२।६०)। वितर्पयन्ति विगततृष्णान् सुहितान्कुर्वन्ति।

तृष

  • {वितृष}
  • तृष (ञितृषा पिपासायाम्)।
  • ‘गणा मे मा वितृषन्’ (वा० सं ६।३१)। तृषा माऽवसदन् इत्याह।
  • ‘आदित्या वा अस्माल्लोकादमुं लोकमायन् तेऽमुष्मिंल्लोके व्यतृष्यन्’ (तै० सं० १।५।४।४)। व्यतृष्यन्=पिपासाकुला अभूवन्।

तॄ

  • {वितॄ}
  • तॄ (प्लवनतरणयोः)।
  • ‘कथं त्वद्गमनार्थं मे वाणी वितरतेऽनघ’ (भा० सभा० ४५।५५)। अवतरतीत्यर्थः। वक्तुं प्रक्रमत इति विवक्षति। याहीति कथं ब्रूयामित्यर्थः। अवस्यार्थे विशब्दः।
  • ‘वितर गिरमुदारां येन मूकाः पिकाः स्युः’ (अमरोद्घाटने स्वामी)। वितर=देहि, उद्गिर, उच्चारय।
  • ‘तस्माद् द्वारं वितराम्येष वन्दी’ (भा० वन० १३३।३०)। उद्घाटयामि विवृणोमीत्यर्थः। प्रवेशमनुजानामीति भावः। अन्यत्र दीयन्तां द्वाराणीत्यत्र पिधीयन्तामित्यर्थो गम्यते।
  • ‘भगवान् मारीचस्ते दर्शनं वितरति’ (शा० ७)। ददातीत्यर्थः, साक्षादुपतिष्ठत इत्युक्तं भवति।
  • ‘वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे’ (उत्तर० २।४)। वितरति प्रदिशति।
  • ‘वितराम्यर्बुदं गवाम्’ (भा० आदि० १६७।३१)। उक्तोऽर्थः।
  • ‘ज्योत्स्नाशङ्कामिह वितरति हंसश्रेणी’ (कि० ५।३१)। वितरति=जनयति।
  • ‘वितरेच्च यथादोषमभिष्यन्दक्रियाविधिम्’ (सुश्रुत० २।३३७।९)। वितरेत्=आचरेत्।
  • ‘अक्षासो अस्य वितिरन्ति कामम्’ (ऋ० १०।३४।६)। वितिरन्ति वर्धयन्ति, उपचिन्वन्ति। हिंसन्तीति वा।
  • ‘काममिन्मे मघवन्मा वि तारीः’ (ऋ १०।५४।५)। मा हिंसीरित्यर्थ इति सायणः।
  • ‘मनो हि मे वितरति नैकं त्वं वरमर्हसि’ (भा० सभा० ७१।३१)।
  • ‘तडिल्लेखालक्ष्मीं वितरति पताकाबलिरियम्’ (प्र० च०)। वितरति वर्धयति, इतो वाभिवर्तयति।
  • ‘व्यन्तरिक्षमतिरन्मदे सोमस्य रोचना’ (इन्द्रः) (ऋ० ८।१४।७)। व्यतिरत्=व्याश्नुत=अत्यक्रामत्।
  • ‘होतेव सद्म विधतो व्यतारीत्’ (ऋ० १।७३।१)। होतेवाग्निः परिचरतो यजमानस्य गृहं प्रविशतीत्याह।
  • ‘वाजी न प्रीतो विशो व्यतारीत्’ (ऋ० १।६९।५)। दूरे नयति, देशाद् देशान्तरं नयतीत्याह। विशेषेण तरति प्रतिक्रामति इति तु सायणः।
  • ‘गतो नाध्वा वि तिराति जन्तुं प्रणः स्पार्हाभिरूतिस्तिरेत’ (ऋ० ७।५८।३)। इहर्चि मरुतः प्रार्थ्यन्ते। वितिरतिर्हननार्थो वर्धनार्थो वा।
  • ‘स दक्षिणमेवाग्रे गोदानं वितारयति’ (श० ब्रा० ३।१।२।५)। कङ्कतेन विविच्य गोदानस्थान् केशान् विजटान्करोतीत्यर्थः। गोदानं श्मश्रु, काकपक्षो वा।
  • ‘यथासवनं वितारयति’ (प्रैषम्) (शां० श्रौ० ७।१।४)। वितारयति=अनुतिष्ठति=आचरति।
  • ‘दक्षिणं गोदानं वितार्योनत्तीमा आप इति’ (का० श्रौ० ७।२।९)। पूर्वतर एवार्थः।
  • ‘राज्ञां वितीर्णस्कन्धानां मरुल्लोलाः शिरोरुहाः’ (राज० ७।४४६)। वितीर्णस्कन्धाः=दत्तांसाः।
  • ‘समरवर्माद्यैर्वितीर्णसमरोऽसकृत्’ (राज० ५।१३५)। दत्तयुद्ध इत्याह।
  • ‘वि मित्र एवैररातिमतारीत्’ (तै० सं० १।८।१०)। अरातिमदानशीलं शत्रुं व्यतारीत् वितारयतु (वितरणशीलं) दानशीलं करोतु। यदा विपूर्वस्तरतिर्विप्लवे वर्तते, विप्लवो विनाशः, तदा विनाशयत्वित्यर्थ इति भट्टभास्करः।
  • ‘इतीमावेव तं लोकौ वितारयति’ (शां० ब्रा० २।१)। विग्रथितौ विश्लिष्टौ करोतीत्यर्थः।
  • ‘आरूढमद्रीनुदधीन् वितीर्णं… यशः’ (रघु० ६।७७)। वितीर्णमवतीर्णम्।

त्रस्

  • {वित्रस्}
  • त्रस् (त्रसी उद्वेगे)।
  • ‘सहसा न प्रतिबोधयेद् वित्रासभयात्’ (सुश्रुत० ३।१।३८)। वित्रास उद्वेगः। बालमिति शेषः।

दंश्

  • {विदंश्}
  • दंश् (दंश दशने)।
  • ‘आशीविषविदष्टानां शराणां रूपमाबभौ’ (भा० द्रो० ९८।१९)। (भुजगः) विदश्यास्येन वल्मीकं विवेश। विदश्य दष्ट्वा। विशब्दो नेह विशेषकृत्।
  • ‘दन्तान् विदशतस्तस्य श्रूयते दशनस्वनः’ (रा० ६।९२।२३)। विदशतः=पिंषतः।
  • ‘अस्थिविवरप्रविष्टमस्थिविदष्टं वाऽवगृह्य’ (सुश्रुत० १।२८।६)। विदष्टमत्यासक्तम्।

दय्

  • {विदय्}
  • दय् (दय दानगतिरक्षणहिंसादानेषु)।
  • ‘स्थिरा चिदन्ना दयते वि जम्भैः’ (ऋ० ४।७।१०)। विदयते=अपच्छिनत्ति।
  • ‘य एक इव विदयसे वसु मर्ताय दाशुषे’ (ऋ० १।८४।७)। वितरसीत्याह।
  • ‘विदद् वसुर्दयमानो वि शत्रून्’ (ऋ० ३।३४।१)। विदयमानः=निघ्नन्=हिंसन्, निबर्हयन्।
  • ‘वि सेनाभिर्दयमानो वि राधसा’ (ऋ० १०।२३।१)। विदयमानः=वितरन्, अतिसृजन्, विसृजन्। अमित्रेभ्य इषूः, मित्रेभ्यश्च राधांसि दक्षिणा रातीर्विभजस इत्युक्तं भवति।

दल्

  • {विदल्}
  • दल् (दल विशरणे)।
  • ‘त्वदिषुभिर्व्यदलिष्यवसावपि’ (नै० ४।८८)। विशीर्णतां विभेदं यायादित्यर्थः।
  • ‘विदलन्ति स्म कुद्दालैः स्थलानि च समन्तत’ (गोरेसियो सं० रा० २।८७।१०)। विदलन्ति उत्खनन्ति, अवदारयन्ति।
  • ‘कायः कठिनदृषदन्तर्विदलितः’ (भर्तृ० २।७७)। विदलितः=विशीर्णः।
  • ‘शिफाविदलरज्ज्वाद्यैर्विदध्यान्नृपतिर्दमम्’ (मनु० ९।२३०)। विदलः शाखा, विटपः।

दस्

  • {विदस्}
  • दस् (दसु उपक्षये)।
  • ‘पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः’ (ऋ० १।११।३)। न विदस्यन्ति नोपक्षीयन्ते। सानुबन्धा भवन्तीत्यभिप्रायः।
  • ‘तस्मिन्पचमाने व्यदस्यत्’ (अग्निः) (काठक० १०।६)। व्यदस्यत्=अशाम्यत्।
  • ‘मा सा ते अस्मत् सुमतिर्विदसत्’ (ऋ० १।१२१।१५)। मा विदसत् मा विनशत्, माऽपगात्।
  • ‘यथाऽविदासिनः कुल्याः सरसः स्युः सहस्रशः’ (भा० पु० १।३।२६)। अविदासिनोऽक्षय्यात्सरसः।

दह्

  • {विदह्}
  • दह् (दह भस्मीकरणे)।
  • ‘तस्यै ह विदग्धायै सृगालः संभवति’ (श० ब्रा० १२।५।२।५)
  • ‘मैनमग्ने वि दहो माभि शोचः’ (ऋ० १०।१६।१)। एनं प्रेतं विशेषेण दग्धं मषीभूतं मा कुर्वित्यर्थः।
  • ‘तस्यै ह विदग्धायै सृगालः संभवति’ (श० ब्रा० १२।५।२।५)। विदग्धा दग्धा। विर्नार्थेऽन्तरं कुरुते।
  • ‘यो विदग्धः स नैर्ऋतो योऽशृतः स रौद्रो यः शृतः स दैवतः। तस्मादविदहता श्रपयितव्यः सदैवतत्त्वाय’ (तै० सं० २।६।३।४)। यः पुरोडाशः। विरूपो दग्धो विदग्धोऽतिदग्धो वा।
  • ‘अविदग्धा विदग्धाश्च ते (रसाः) भिद्यन्ते त्रिषष्टिधा’ (सुश्रुत० उत्तर० ६३।३)। विदग्धशब्दः संयुक्ते वर्तते धातूनामनेकार्थत्वादिति डल्लनः।
  • ‘अविदग्ध इव क्षीरे क्षीरमन्यद् विमिश्रितम्’ (चरक० चि० १५।२३७)। अविदग्धे नातिसन्तप्ते।

दा

  • {विदा}
  • दा (डुदाञ् दाने दाण् दाने)।
  • ‘दक्षिणां व्यददात्तेषां कर्मिणां तदनन्तरम्। प्राचीं होत्रे ददौ’ (गोरेसियो सं० रा० १।१३।३९)। व्यददात्=विभज्याददात्।
  • ‘वि महच्छर्म यच्छ’ (अथर्व० १।२०।३)। वियच्छ=विशेषेण प्रयच्छ।
  • ‘वि मन्यो शर्म यच्छ’ (ऋ० १०।१५२।५)। उक्तोऽर्थः।
  • ‘तेषां यथागुणमावसथाः शष्पान्नपानं च विदेयम्’ (आप० ध० २।२५।९)। विदेयं विशेषेण देयम्।
  • ‘अनुग्रहं कुरु विभो विदायं देहि साम्प्रतम्’ (ब्रह्मवै० १।२३।३९)। विशिष्टो दायो विदायः।

दाश्

  • {विदाश्}
  • दाश् (दाशृ दाने)।
  • ‘ये ते हवेभि र्वि पणीरदाशन्’ (ऋ० ७।१९।९)।
  • ‘ये ते हवेभिर्वि पणीँ रदाशन्’ (ऋ० ७।१९।९)। पुस्तके पठितमप्यर्थनिर्देशायेहानूद्यते। धनानि विशेषेणादापयन् इत्यर्थः। दाशतिरिहान्तर्णीतण्यर्थकः।

दिव्

  • {विदिव्}
  • दिव् (दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु)।
  • ‘इमां सभामध्ये यो व्यदेवीद् ग्लहेषु’ (भा० सभा० ७१।५)। अहारयत्, पराजयत।
  • ‘वि देवं दीव्यमाना जात्या आसते’ (श० ब्रा० १।८।३।६)। विदीव्यमानाः शृङ्गारक्रीडां कुर्वाणाः।

दीधी

  • {विदीधी}
  • दीधी (दीधीङ् दीप्तिदेवनयोः)।
  • ‘अर्वाङेहि मा विदीध्यः’ (अथर्व० ८।१।९)। मा विचीचरः, मा विमृक्षः।
  • ‘किं मुहुश्चिद्वि दीधयः’ (ऋ० ८।२१।६)। उक्तोऽर्थः।

दु

  • {विदु}
  • दु (टुदु उपतापे)।
  • ‘आदुन्वस्व विदुन्वस्व द्रुह्य कुप्यस्व याचकि’ (भा० आदि० ७८।११)। विदुन्वस्व पांशुषु लुठनादिना सन्तप्ता भव।

दुष्

  • {विदुष्}
  • दुष् (दुष वैकृत्ये)।
  • ‘प्रिया तष्टानि मे कपिर्व्यक्ता व्यदूदुषत्’ (ऋ० १०।८६।५)। व्यदूदुषत्=व्यकरोत्, वैकृतमनैषीत्।
  • ‘कथं वयं निवत्स्यामः कैकेय्या च विदूषिताः’ (रा० २।६६।२१)। विदूषिता राज्यगर्वात् तिरस्कृता इति तिलककारः।
  • ‘न शेषो अन्यजातमस्त्यचेतानस्य मा पथो वि दुक्षः’ (ऋ० ७।४।७)। मा विदुक्षः=मा विदूदुषः।

दुह्

  • {विदुह्}
  • दुह् (दुह प्रपूरणे)।
  • ‘विदुहन्ति वा एते यज्ञं निर्धयन्ति’ (श० ब्रा० ४।६।९।२१)। विशब्दो दोहस्य विशेषमाह। दोहः प्रपूरणं (पूरणारम्भः) भवति विदोहस्त्वापूरणम्, लक्षणया रेचनम्।
  • ‘मा मामिमे पतत्रिणी विदुग्धाम्’ (ऋ० १।१५८।४)। मा विदुग्धां विशेषेण दोहगतसारं मा कार्ष्टाम् इति सायणः।
  • ‘सगोत्राय ब्रह्मणे देयः सोमपीथस्याविदोहाय’ (पञ्च० ब्रा० १८।२।१२)। अविदोहो ऽविनाशः। विपरीतफलप्रशमनम्।

दू

  • {विदू}
  • दू (दूङ् परितापे)।
  • ‘विदूयमाने (गोष्ठे) चीवरम्’ (गो० गृ० ४।९५)। विद्यमाने आर्द्रे। दूङ् परितापे पठितस्तस्याग्न्यादिस्पर्शेन सन्तप्तीभवनं मुख्योऽर्थः, मानसः संज्वरस्तूपचारात्। इह विर्मुख्यमर्थं विपर्यासयति।

दृभ्

  • {विदृभ्}
  • दृभ् (दृभी ग्रन्थे)।
  • ‘विरोधिदुर्वातविदर्भितां विपन्नदीं न दीनाः परिलङ्घयन्ति ते’ (धर्मशर्मा० १८।२३)। विदर्भिता धूयमाना विप्लाव्यमाना।

दृश्

  • {विदृश्}
  • दृश् (दृशिर् प्रेक्षणे)।
  • ‘मया सो अन्नमत्ति यो विपश्यति’ (ऋ० १०।१२५।४)। अनेकत्र दर्शनमेकैकश्येन वा दर्शनं विदर्शनम्।
  • ‘प्रदीप्तानि व्यदृश्यन्त सहदेवबले तदा’ (भा० सभा० ३१।२४)। विविक्ततयाऽदृश्यन्तेत्याह।
  • ‘यो विश्वाभि विपश्यति भुवनानि सं च पश्यति’ (ऋ० ३।६२।६)। विपश्यति अभितो नानारूपेण पश्यति।
  • ‘यस्य वीरस्य यो वेषो यो ध्वजो यच्च वाहनम्। तेन तेन व्यदृश्यन्त समुपेता नराधिपाः’ (भा० आश्रम० ३२।१४) ॥ व्यदृश्यन्त=विविक्ततयाऽदृश्यन्त। विशब्दो वैविध्यवाचकः स्थाने।
  • ‘तमसा संवृतेनाथ न स्म किञ्चिद् व्यदृश्यत’ (भा० कर्ण ० ६३।४४)। न व्यदृश्यत विवेकेन पार्थक्येन नादृश्यत। न प्राज्ञायतेत्यर्थः।
  • ‘व्यदृश्यन्त महाराज परस्परजिघांसवः’ (भा० भीष्म० ४६।१५)। उक्तोऽर्थः।
  • ‘अदशि वि स्रुतिदिवः’ (ऋ० ११४६।११)। व्यदशि=विस्पष्टं दृश्याऽभूत्। प्रादुर्भूता।
  • ‘इति तस्य विपश्यतो यथावत्’ (बुद्ध ० ५।१४)। विपश्यतः विशिष्य पश्यतः, विजानतः।
  • ‘विदर्शिता यदा देवी (के केयी) कुब्जया पापया भृशम्’ (रा० १।१०।१)। विदर्शिता विपरीतं बोधिता, अन्यथा ग्राहिता।
  • ‘सर्वथा तु लघुत्वं ते कत्थनेन विदर्शितम्’ (रा० ३। २६।२०)। अत्र वेवैविध्यं नार्थः, सर्वथेत्यनेन तदुक्तः। शब्दोपजनो नार्थोपजनः।
  • ‘तत्र तत्र व्यदृश्यन्त मृता दैत्येश्वरा भुवि’ (मात्स्य० १५०।१७५)। विर्नानात्वे व्याप्तौ वा।

दॄ

  • {विदॄ}
  • दॄ (दॄ विदारणे)।
  • ‘अयोधनेनाय इवाभितप्तं वैदेहिबन्धोर्हृदयं विदद्रे’ (रघु० १४।३३)। विदद्रे विदीर्णतां ययौ।
  • ‘विददार नखैस्तस्य पृष्ठं स पतगेश्वरः’ (रा० ३।५७।२४)। विददार=बिभेद=चक्षाण।
  • ‘श्रुतं सखे श्रवणविदारणं वचः’ (मुद्रा० ५।६)।
  • ‘युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले’ (गीत० १)।
  • ‘तेन विद्याधरांस्तांस्तान्वरानुद्दिशतो बहून्। पितुर्विदारणं कृत्वा कन्यैवाद्याप्यहं स्थिता’ (कथा० २६।६३)॥ विदरः स्फुटनं भिदेत्यमरः।
  • ‘अदूरजाग्रद्विदरप्रणालीरेखा’ (नै० ८।३८)॥ विदरो रन्ध्रम्।
  • ‘स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत’ (ऐ० उ० १।३।१२)। विदार्य विषीव्य, विसित्य, उद्घाट्य। इह सीमन्शब्दः पुंसि प्रयुक्तः, लोके तु स्त्रियां नियतः।
  • ‘घ्नन् वृत्राणि वि पुरो दर्दरीति’ (अथर्व० २०।९०।२)। विदर्दरीति विशेषेण पुनः पुन र्दृणाति।

दो

  • {विदो}
  • दो (दो अवखण्डने)।
  • ‘विदानाद् विद्युद् विद्यत्येनं सर्वस्मात्पाप्मनः (श० ब्रा० १४।८।७।१)। विद्यति भिनत्ति, वियुङ्क्ते, वियौति, विपृणक्ति इत्यनर्थान्तरम्।
  • ‘सोमं विद्यद्भिर्ग्राविभिः सुतम्’ (वा० स० २६।४)। विद्यद्भिः पिंषद्भिः।
  • ‘अतिप्रसङ्गे विदित्य कृष्णस्तान् वारयामास’ (हरि० ८४३५)। विदायेति तु पाणिनीयाः। विवादास्पदस्य वस्तुनोन्तं कृत्वेत्यर्थः।
  • ‘वि च हैवास्य पाप्मानं द्यतः’ (तै० ब्रा० ३।१०।९।१)। विद्यतः=विच्छिन्तः।

द्युत्

  • {विद्युत्}
  • द्युत् (द्युत दीप्तौ)।
  • ‘स स्तनयति स वि द्योतते स उ अश्मानमस्यति’ (अथर्व० १३।४।४१)। विद्योतते विभाति।
  • ‘स हि द्युता विद्युता वेति साम’ (ऋ० १०।९९।२)। ** द्युता भासा, गभस्तिना।**

द्रा

  • {विद्रा}
  • द्रा (द्रा कुत्सायां गतौ)। ‘विदद्रौ वदनेनासृक् स्वप्रतापमिवोद्वमन्’ (राज० ७।१५७) विदद्रौ=विदुद्राव।
  • ‘निद्राविद्राणद्रोणकुलकलिलकुलायेषु’ (हर्ष० २)। विद्राणं विक्लवमलसं द्रोणकुलं वायसव्रातः।

द्रु

  • {विद्रु}
  • द्रु (द्रु गतौ)।
  • ‘यत्रा नरः सं च वि च द्रवन्ति’ (वा० सं० २९।४८)। विद्रवन्ति विगच्छन्ति=पलायन्ते।
  • ‘ते शूरा हतभूयिष्ठा हताश्वरथवारणाः। उत्सृज्य भीमकर्णौ च सर्वतो व्यद्रवन्दिशः’ (भा०)॥ उक्तोऽर्थः।
  • ‘विद्रवन्ति भयाद् भीता नानादिग्भ्यः सहस्रशः’ (रा० १।५५।२६)।
  • ‘आपश्चुक्षुभिरे चैव चकम्पे च वसुन्धरा। व्यद्रवन् गिरयः’ (भा० अनु० १६०।१५)॥ व्यद्रवन् विदीर्णतामगच्छन्।
  • ‘अराजके हि लोकेऽस्मिन्सर्वतो विद्रुते भयात्’ (मनु० ७।३)। विद्रुते प्रचलिते।

द्रुह्

  • {विद्रुह्}
  • द्रुह् (द्रुह जिघांसायाम्)।
  • ‘भ्रात्रे परेताय विदुद्रुहे यः’ (भा० पु० ३।१।४१)। द्रोहोऽपकारबुद्धिः। भ्रातरमकदर्थयद् इत्यर्थः प्रतिभाति। चतुर्थ्यात्मनेपदं चेत्युभयमस्थाने।

धम्

  • {विधम्}
  • धम् (धम इति च्छान्दसः)।
  • ‘वि वो धमत्वोकसः प्र वो धमतु सर्वतः’ (अथर्व० ३।२।२)। अग्निः प्रार्थ्यते। विधमतु=विशेषेण निःसारयतु, स्थानभ्रष्टान्करोतु।

धा

  • {विधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘सहसा विदधीत न क्रियाम्’ (कि० २।३०)। विदधीत=कुर्यात्।
  • ‘त्यज्यतां मानुषे भावो मयि भावो विधीयताम्’ (रा० ३।५५।१७)। सीतां प्रति रावणोक्तिः। अर्थस्तु पूर्वोदित एव।
  • ‘तन्नो देवा विधेयासुर्येन …सपत्नांश्चाधिजीयास्म संग्रामे च मृषीमहि’ (भट्टि० १९।२)॥ पूर्वेण समोऽर्थः।
  • ‘योगे चैव समाधिधैर्यसुलभे बुद्धिं विधद्ध्वं बुधाः’ (भर्तृ० ३।३६)।
  • ‘यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त’ (रघु० ३।१०)।
  • ‘यो ब्रह्माणं विदधाति पूर्वम्’ (श्वेत० उ० ६।१८)। विदधाति=सृजति, उत्पादयति।
  • ‘तं वेधा विदधे नूनं महाभूतसमाधिना’ (रघु० १।२९)। विदधे निर्ममे।
  • ‘व्यवसायात्मिका बुद्धिः समाधौ न विधीयते’ (गीता २।४४)। नोत्पद्यत इत्यर्थः।
  • ‘घृतपूर्णषु कुम्भेषु तान्भागान् विदधे’ (भा० वन० १०७।२)। विदधे=निदधे।
  • ‘कारावेश्मनि तं व्यधात्।’ (राज० २।७३)। व्यधात्=न्यधात्=न्यक्षिपत्।
  • ‘स्वचेष्टितमथो तस्मिन् विदधाति मणाविव’ (प्र० च०) विदधाति=अर्पयति।
  • ‘शशिपुत्रः सप्रमदं शयनं विधत्ते’ (व० बृ० सं० १०४।२३)। शयने स्वापे कारणतां यातीत्यर्थः।
  • ‘अर्जुनो विदधे मृत्युम्’ (रा० १।७५।२३)। विनाशं व्यापादं जनयामासेत्यर्थः।
  • ‘नूनं देवेभ्यो वि हि धाति रत्नम्’ (ऋ० २।३८।१)। विधाति=विदधाति=ददाति, विभजति, वितरति, विश्राणयति।
  • ‘वि होत्रा दधे वयुनाविदेकः’ (ऋ० ५।८१।१)। उक्तोऽर्थः।
  • ‘श्रीश्च प्रज्ञां च विधेहि नः’ (प्रश्न० उ० २।१३)। पूर्व एवार्थः।
  • ‘तद्विधत्स्व मे’ (भोजनम्) (रा० १।५२।२२)।
  • ‘एको बहूनां यो विदधाति कामान्’ (कठ० उ० ५।१३)।
  • ‘प्रजापतिं वै भूतान्युपासीदन्। प्रजा वै भूतानि। वि नो धेहि यथा जीवामेति’ (श० ब्रा० २।४।२।१)। वृत्तिं नः प्रकल्पय। साधनान्युपकरणानि नो देहीत्याह।
  • ‘अन्नमशितं त्रेधा विधीयते’ (छा० उ० ६।५।१) त्रिधा विभज्यत इत्याह।
  • ‘यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन्’ (ऋ० १०।९०।१२)। व्यदधुः=व्यभजन्।
  • ‘देशो विधीयतां ब्रह्मन्यत्र वत्स्यामहे वयम्’ (रा० १।५०४)। विधीयतां चिन्त्यताम्। विचार्यताम्। अनुसन्धीयताम्।
  • ‘बुद्धिरात्मानुगातीव उत्पातेन विधीयते’ (भा० वन० १८१।२५)। विधीयते=वशी क्रियते।
  • ‘यत्र चाम्नायो विदध्यात्’ (गौ० ध० १।१।४८)। विदध्यात्=शिष्यात्=आदिशेत्।
  • ‘अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते’ (मनु० २।१३)। विधीयते=उपदिश्यते।
  • ‘शूद्रस्य तु सवर्णैव नान्या भार्या विधीयते’ (मनु० ९।१५७)।
  • ‘यज्ञशिष्टाशनं ह्येतत् सतामन्नं विधीयते’ (मनु० ३।११८)। कर्तृकर्मणोः कृति (पा० २।३।६५) इति कृद्योगे कर्तृकर्मणोः षष्ठी विधीयते (शिष्यते)। उक्तोऽर्थः।
  • ‘एष इदं सर्वं विदधाति साधौ त्वदसाधौ त्वत्’ (श० ब्रा० २।६।३।८)।
  • ‘तां नो विधेहि यतिधा सखिभ्यः’ (अथर्व० ८।९।७)। तां विराजम्। विधेहि शाधि, उपदिश, प्रब्रूहि।
  • ‘तत्तस्य वैद्यो विदधीत नित्यं काले च हृद्यं लघु मात्रया च’ (का० स० कल्प० भोजन० श्लो ५५)। विदधीत=उपदिशेत्।
  • ‘यो वा इमां वाचं पदशः स्वरशोऽक्षरशो विदधाति स आर्त्विजीनः’ (भाष्ये)। विदधाति व्याकरोति, व्याचष्टे। यथावस्थितानां हि शब्दानामन्वाख्यानमात्रं शास्त्रेण क्रियते नोत्पाद्यन्ते शब्दाः।
  • ‘नाप्यर्थेषु विधीयन्ते’ (नि० १।१।११ इत्यत्र दुर्गः)। न विधीयन्ते न सङ्केत्यन्ते, अयं शब्द इममर्थं ब्रवीत्विति न शिष्यन्ते।
  • ‘अनामरूपात्मनि रूपनामनी विधित्समानः’ (भा० पु० १।१०।२२)। विधित्समानः=आरोपयितुकामः।
  • ‘क्रोधश्चात्मविधित्सा च मित्रद्रोहश्च तानि षट्’ (भा० उ० ३७।१०)। आत्मविधित्सा=आत्मपोषणेच्छा, शिश्नोदरपरायणतेति यावदिति नीलकण्ठः।
  • ‘प्रतिकारविधानमायुषः सति शेषे हि फलाय कल्पते’ (रघु० ८।४०)। विधानमनुष्ठानम्। प्रतिकारविधानं चिकित्सा।
  • ‘एतद्विधानं विज्ञेयं विभागस्यकयोनिषु’ (मनु० ९।१४८)। विधानं विधिः शास्त्रशिष्टिः।
  • ‘अर्थानर्थौ सुखं दुःखं विधानमनुवर्तते’ (भा० शां० २८।१८)। विधानं दैवम्।
  • ‘वस्त्रैश्च सर्वैः सहितैः विधानैः’ (रा० २।३७।३६)। विधानैरुपकरणैः।
  • ‘अनागतविधानं तु कर्तव्यं शुभमिच्छता’ (रा० ३।२४।११)। अनागतस्यानिष्टस्य आजिगमिषतो विधानं प्रतिविधानमिति कतकः।
  • ‘ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य’ (भर्तृ० ३।४१)। विधिना=करणेन क्रियया। विधिरत्यन्तमप्राप्ते। अज्ञातज्ञापनं विधिः। प्रवृत्तिपरं वाक्यं विधिः, अग्निष्टोमेन यजेतेत्यादि।
  • ‘श्रद्धा वित्तं विधिश्चेति त्रितयं तत् समागतम्’ ’ (शा० ७।२९)। उक्तोऽर्थः।
  • ‘विधौ वामारम्भे मम समुचितैषा परिणतिः’ (मालती० ४।४)। विधिर्दैवम्।
  • ‘स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः’ (रघु० ३।४५)। विधिः शास्त्रदृष्टस्य कर्म्मणोऽनुष्ठानम्।
  • ‘अक्षरं गन्तुमनसो विधिं वक्ष्यामि शीघ्रगम्’ (भा० शां० २३७।१३)। विधिं साधनम्।
  • ‘एकस्त्रेधा विहितो जातवेदाः’ (अथर्व० १८।४।११)। त्रेधा विहितो गार्हपत्यादिरूपेण त्रिप्रकारं स्थापितः।
  • ‘त्रेधा विहिता हि वागृचो यजूंषि सामानि’ (श० ब्रा० ६।५।३।४)। विहिता=विभक्ता।
  • ‘पाङ्क्तोऽयं पुरुषः पञ्चधा विहितो लोमानि त्वङ् मांसमस्थि मज्जा’ (ऐ० ब्रा० २।१४)।
  • ‘स वा अयं प्राणस्त्रेधा विहितः प्राणोऽपानो व्यान इति’ (ऐ० ब्रा० २।२९)। निरुक्तपूर्व एवार्थः।
  • ‘विहिता व्यङ्गता तेषाम्’ (पञ्चत० १।२०)। विहिता व्यवस्थापिता विधात्रा, नियतेत्यर्थः।
  • ‘तेन नोऽविहिता प्रज्ञा मनश्च बहुलीकृतम्’ (भा० अश्व० ४९।१५)। अविहिताऽशिक्षिता।
  • ‘सर्वकामैः सुविहिताः’ (भा० वन० ६९।१८)। सुविहिताः समृद्धाः।
  • ‘अन्नपानैः सुविहिताः’ (रा० १।१३।१६)। सुविहिताः सम्यग्योजिताः साधु संगमिताः।
  • ‘अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम्। व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विताः’ (रा० १।६९।२)॥ सुविहिताः=सम्यग्गृहीतसंभाराः।
  • ‘होता हि विधिज्ञ एव भवति न ह्यविद्वान्विहितोस्ति’ (नि० १।१५।८ इत्यत्र दुर्गः)। विहितोधिकृतः।
  • ‘तथा विधातुं जननीं ममार्हसि। यथा वनस्थे मयि …न जीवितं न्यस्य यमक्षयं व्रजेत्’ (रा० २।३८।१५)॥ विधातुमाचरितुमुपचरितुम्। जनन्यां व्यवहर्तुम्।
  • ‘चारान् सम्यग् विधाय च’ (मनु० ७।१८४)। प्रस्थाप्येति कुल्लूकः।
  • ‘तामग्रतस्तामरसान्तराभामनूपराजस्य… विधाय…’ (रघु० ६।३७)॥ विधाय=व्यवस्थाप्य।
  • ‘ततस्तेषां विधातव्यं सर्वमेवाप्रमादतः’ (भा० शां० ८६।२२)। विधातव्यं प्रतिविधातव्यम्, प्रतिकर्तव्यम्।
  • ‘मांसार्थं जाङ्गलाश्चान्ये विधेयाः मृगपक्षिणः’ (का० सं० कल्प० लशुन० श्लो० ६२)। विधेया वशे करणीयाः।
  • ‘अथ विधिविधेयः परिचयः’ (मालती० २।१३)। विधातर्यायत्त इत्याह।
  • ‘निद्राविधेयं नरदेव सैन्यम्’ (रघु० ७।६२)। निद्रापरवशमित्यर्थः।
  • ‘भ्रातुः सौहार्देन विधेयीकृतोस्मि’ (महावीर० ७)। अभिभूतोऽस्मि।
  • ‘अविधयेन्द्रियः पुंसां गौरिवैति विधेयताम्’ (कि० ११।३३)। विधेयोऽधीनो निघ्नः। विधेयो विनयग्राही वचने स्थित आश्रव इति पर्यायान्पठत्यमरः। विधेयो विधातव्यो यथेष्टं विनियोज्यः। अनुवाद्यमनुक्त्वैव न विधेयमुदीरयेत्। यत्किञ्चिद् द्दिश्य विधीयते निर्दिश्यतेऽभिधीयते तद् विधेयम्।
  • ‘विधाता शासिता वक्ता मैत्रो ब्राह्मण उच्यते’ (मनु० ११।३५)। विधाता विहितकर्मणामनुष्ठाता (कुल्लूकः)।
  • ‘आपो वै विधा अद्भिर्हीदं सर्वं विहितम्’ (श० ब्रा० ८।२।२।८)। विधा विधात्र्यः। भृतिरपि विधा भवति। तथा चामरः पठति–कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम् इति। तत्र क्षीरस्वाम्याह–लक्ष्ये (तु) भोजनपिण्डेऽस्य रूढिरिति।
  • ‘देवानां वै विधामनु मनुष्याः’ (श० ब्रा० ६।७।४।९)। विधा प्रकारः।
  • ‘यया कया च विधया’ (तै० उ० ३।१०।१)। उक्तोऽर्थः।
  • ‘रूपं विधत्ते ऽरूपश्च भक्तानुग्रहहेतवे’ (ब्रह्मवै० २।३४।२९)। विधत्ते धत्ते आधत्ते।
  • ‘स एकशतधात्मानं व्यधत्त’ (श० ब्रा० १०।१।९।१)। व्यधत्त व्यभजत।
  • ‘पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते’ (रा० २।१९।२४)। विधीयते शिष्यते उपदिश्यते, स्मर्यते।
  • ‘यत् प्रसिद्धं तदनूद्यते यदप्रसिद्धं तदाख्यायते विधीयते ज्ञाप्यते। यथा यः कुण्डली स देवदत्तः’ (पा० १।४।९७ सूत्रे न्यासे)। अभिव्यक्तोऽर्थः।
  • ‘विधापञ्चकसूत्रग्राहक-चिकित्सकाः’ (कौ० अ० २।३०।२६)। विधा भक्ष्यमन्नम्।
  • ‘उत्क्षिप्तहस्ततलदत्तविधानपिण्ड-’ (शिशु० ५।५१)। विधानं हस्तिकवल इति वैजयन्ती।
  • ‘न ह्यविद्वान् विहितो ऽस्ति’ (मी० सू० २।८।८)। न विहितो नाधिक्रियते।
  • ‘अर्को वा एष यदग्निस्तस्यैतदेव स्तोत्रमेतच्छस्त्रं यदेषा विधा विधीयते’ (तै० सं० ५।३।४।२१-२२)। विधा प्रकारः।

धाव्

  • {विधाव्}
  • धाव् (धावु गतिशुद्ध्योः)।
  • ‘एष (पवमानः) दिवं वि धावति तिरो रजांसि धारया’ (ऋ० ९।३।७)। विधावति=व्याप्य धावति स्रवति।
  • ‘वि पवित्रं धाव धारया’ (ऋ० ९।४९।४)। उक्तोऽर्थः।
  • ‘यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति’ (कठ० उ० २।१।१४)। स्रुत्या क्षीयत इत्यर्थः।
  • ‘यदन्तरापश्च देवयजनं च पन्था विधावति।’ (काठक० २५।२)। गच्छतीत्यर्थः।
  • ‘आवासमादीपयतां तीर्थानि च विधावताम्’ (गोरेसियो सं० रा० २।९७।१)। विधावताम्=पर्यटताम्।

धी

  • {विधी}
  • धी (धीङ् आधारे)।
  • ‘तं लोकोऽनुविधीयते’ (भा० शां० ९३।२८)। अनुकरोति, अनुवर्तत इत्यर्थः।

धु

  • {विधु}
  • धु (धुञ् कम्पने)।
  • ‘वैनायक्यश्चिरं वो वदनविधुतयः पान्तु चीत्कारवत्यः’ (मालती १।१)। विधुतिः=विकम्पनम्।
  • ‘मायाविवेकविधुतिः स्रजि वाहिबुद्धिः’ (भा० पु० ४।२२।३८)। विधुतिरपनयः, विगमः, विनाशः।
  • ‘दीर्घवेणीं विधुन्वानः साधु रक्ते च वाससी’ (भा० वि० ३८।३०)। विकम्पयन्नित्यर्थः।
  • ‘सहर्षं नृत्यन् रविकिरणसन्तप्तं पक्षोत्क्षेपै र्विधुवति प्रासादं गृहमयूरः’ (मृच्छ० ४)। विधुवति वीजयति।

धू

  • {विधू}
  • धू (धूञ् कम्पने)।
  • ‘आनह्यते यस्य विधूप्यते च पापच्यते क्लिद्यति चापि नासा’ (सुश्रुत० २।३६९।१०)। विधूप्यते बाष्पायते।

धृ

  • {विधृ}
  • धृ (धृञ् धारणे)।
  • ‘वि धारय योनिं गर्भाय धातवे’ (अथर्व० ६।८१।२)। विधृतं विवृतमवस्थापयेत्यर्थः।
  • ‘अधिदाने व्यवनीरधारयः’ (ऋ० २।१३।७)। अवनीर्नदीर्विधारयः, व्यधारयः=नाना चकर्थ।
  • ‘त्वं समुद्रं प्रथमो विधारयो देवेभ्यः सोम मत्सरः’ (ऋ० ९।१०७।२३)। विधारयः=व्यधारयः=व्यभजः, द्विधाऽकरोः।
  • ‘न च वेगान् विधारयेत्’ (सुश्रुत० २।१४६।१८)। विधारयेत्=रुन्ध्यात्।
  • ‘विधारयास्मदघा द्वेषांसि’ (तै० आ० ६।९।११)। आरात्स्थापयेत्यर्थः।
  • ‘तस्मात्सर्वाणि कार्याणि दण्डेनैव विधारयेत्’ (भा० आदि० १४०।७)। विधारयेत्=प्रणयेत्, निर्वहेत् निर्वर्तयेत्, साधयेत्।
  • ‘आदिमध्यावसानज्ञः प्रच्छन्नं च विधारयेत्’ (भा० शां० १०३।१६)। हृदि विषमं धारयेदिति नीलकण्ठः। कार्यं विदधीतेत्यन्ये।
  • ‘पीडितस्य किमु द्वारमुत्पथो विधृतस्य च’ (भा० शां० १३०।२२)। विधृतस्य=निरुद्धस्य=गृहीतस्य=बद्धस्य। उत्पथः=अपन्थाः=अपथम्।
  • ‘अंशुकपल्लवेन विधुतः’ (अमरु० ८५)। विधृत उपरुद्धः।
  • ‘पर्णशालामथ क्षिप्रं विधृतासिः प्रविश्य सः’ (रघु० १२।४०)। विधृतासिः=गृहीतखड्गः। विकृष्टासिरिति पाठान्तरम्।
  • ‘शिरसा विधृता नित्यम्’ (पञ्चत० १।८२)। विधृता ऊढा अवलम्बिता अवष्टब्धाः।
  • ‘विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा’ (भर्तृ० ३।२३)। विधृतं पालितम् अवलम्बितम्।
  • ‘विधृतं स्वोदरेणापि घ्नन्ति पुत्रं स्वकं रुषा’ (योषितः) (पञ्चत० ४।६१)। विधृतं धृतम्।
  • ‘द्यावापृथिवी विधृते तिष्ठतः’ (श० ब्रा० १४।६।८।९)। विधृते व्यवहिते, पृथग्भूते, विभक्ते।
  • ‘नासिकया चक्षुषी विधृते’ (तै० सं० २।३।८।२)। व्यवहिते इत्यर्थः।
  • ‘एतस्य वा अक्षरस्य गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ (बृह० उ० ३।८।९)। पृथक् पृथग्धृतावित्यर्थः।
  • ‘त्वं चापि विधृतस्ताभ्यां जातवैरेण चेतसा’ (हरि० २।२३।२१)।
  • ‘हलविधृता यमुना’ (हरि० ६७८७)। दृढमुपरुद्धा। केन विधृतोऽसि (१।६)। रुद्ध इत्यर्थः।
  • ‘विधार्य सर्वे गृह्यन्तां ममैते गृहधर्षकाः’ (हरि० २।९६।२५)। विधार्य=विनिवार्य, प्रतिनिवर्त्य, प्रतिरुध्य।
  • ‘मम चेदं वरं कस्माद् विधारयितुमिच्छसि’ (रा० २।१३।३)। ऋणत्वेनेति शेष इति तिलककारः। परे तु विधारणं दानोपरोध इत्याहुः। अत्र पूर्वत्र पद्ये पुनराकारयामास तमेव वरमङ्गनेति वरशब्दस्य पुंसि प्रयोगादुत्तरस्मिन्नपि इमं वरम् इति पाठेन भवितव्यम्। वरशब्दश्च देवाद् वृतेऽर्थे सर्वत्र पुंसि प्रसिद्धः।
  • ‘सम्यग्विधार्यतां बालो गुरुगेहे द्विजातिभिः। विष्णुपक्षैः प्रतिच्छन्नै र्न भिद्येतास्य धीर्यथा’ (भा० पु० ७।५।७)॥ विधार्यतां रक्ष्यताम्।
  • ‘मूत्रं तु विधृतं चिरम्’ (अष्टाङ्ग० नि० ९।२३)। विधृतं निरुद्धम्।
  • ‘प्रजापतिः प्रजा असृजत ता अविधृता असञ्जानाना अन्योन्यमादन्’ (पञ्च० ब्रा० २४।११।२)। अविधृता असंयताः, निरर्गलाः।
  • ‘छेदानुरूपं च वैधरणं दद्युः’ (कौ० अ० २।१६।९)। वैधरणं यावत्क्षतादि-प्रतिसमाधाने समुत्सर्जनीयं स्यात् तावद् द्रव्यं दण्ड इति देयम्। विधरणस्य प्रतिसमाधानस्येदं वैधरणम्।
  • ‘यथोदकसन्तानस्य विधारयिता लोके सेतुः क्षेत्रसम्पदामसम्भेदाय’ (ब्र० सू० शां० भा० १।३।१६)। विधारयिता विरमयिता।

धृष्

  • {विधृष्}
  • धृष् (धृष प्रसहने)।
  • ‘उग्रसेनस्य रूपेण मातरं ते व्यधर्षयत्’ (हरि० २।२८।९२)। व्याकुलयत्, विप्राकरोत्।
  • ‘कृतान्तवश्यानि यदा सुखानि दुःखानि वा। यन्न विधर्षयन्ति…’ (भा० शां० २८६।१०)। न विधर्षयन्ति न प्रसहन्ते, न कदर्थयन्ति।
  • ‘रजांसि मुकूटान्येषामुत्थितानि व्यधर्षयन्’ (भा० आदि० ३०।३८)। मन्दप्रकाशानि मलिनान्यकुर्वन्नित्यर्थः।

धे

  • {विधे}
  • धे (धेट् पाने)।
  • ‘प्रकाशबहुलो धीरो निर्विधित्सोऽनसूयकः’ (भा० वन० २१२।७)। विधित्सा विशेषतृष्णा।

ध्मा

  • {विध्मा}
  • ध्मा (शब्दाग्निसंयोगयोः)।
  • ‘वि सप्तरश्मिरधमत् तमांसि’ (ऋ० ४।५०।४)। व्यधमत्=वात इव व्यकिरत्। अपानुददित्यर्थः।
  • ‘व्यधमत्पाण्डवीं सेनां तूलराशिमिवानलः’ (भीष्म० ७५।३२)। व्यधमत् व्यध्वंसयत्।
  • ‘(तस्य शराः) विधमिष्यन्ति गङ्गाकूलमिवोर्मयः’ (रा० ३।६२।७)। कषिष्यन्तीत्याह।

ध्वंस्

  • {विध्वंस्}
  • ध्वंस् (ध्वंसु अवस्रंसने गतौ च)।
  • ‘यथा श्मशानमृत्वा लोष्टो विध्वंसेतैवं हैव विध्वंसमाना विष्वञ्चो विनेशुः’ (श० ब्रा० १४।४।१।८)। रजःकणा इवोत्पतन्त इत्याह।
  • ‘एतच्छ्रुत्वा तु भीष्मस्य राज्ञां विध्वंसिरे तदा। काञ्चनाङ्गदिनः पीना भुजाश्चन्दनरूषिताः’ (भा० उ० १६९।२७)॥ विदध्वंसिरे इति तूचितम्। तथा दध्वंसिर इति क्वचित्पाठः।
  • ‘विदध्वंसिरे सहसा पस्पन्दिरे। तुरगखुरविध्वस्तं’– (रज:) (रा० ६।१९।१२)। विध्वस्तमुद्धतमुत्थापितम्।**
  • ‘विध्वस्तपर्णकमला’ (पद्मिनी) (भा० वन० ६८।१५)। विध्वस्तानि मथितानि विनष्टानि।
  • ‘हतप्रहतविध्वस्ताः’ (भा० कर्ण० ३१।६)। विध्वस्ता वाहनेभ्योऽधः पातिताः।
  • ‘प्रसुप्ताश्चैव विध्वस्ताः समेत्य परिधाविताः’ (भा० सौ० ८।१२)।

नद्

  • {विनद्}
  • नद् (णद अव्यक्ते शब्दे)।
  • ‘अनाहता दुन्दुभयो विनेदुर्मेघनिःस्वनाः’ (भा० आश्व० ८०।५५)। दध्वनुः।
  • ‘सोऽभिहतो व्यनदत्’ (ऐ० ब्रा० ४।२)।
  • ‘व्यनदद्भैरवं रवम्’ (भा० आदि० १५३।४१)। अत्र नदतिःक्रियासामान्ये
  • ‘सुप्रहृष्टा विनेदुस्ते नराः’ (रा० २।९१।५९)। विनेदुः=जुघुषुः।
  • ‘विराट विनदन्त्येते गृध्रगोमायुवायसाः’ (भा० ११।५९९)। विराटमभितो वाश्यन्त इत्याह।
  • ‘विनद्य च गुहां वीरो घोरां मायामयीं नृप’ (हरि० २।८४।४८)। विनद्य नादवतीं कृत्वा।

नन्द्

  • {विनन्द्}
  • नन्द् (टुनदि समृद्धौ)।
  • ‘सा तत्र पूज्यमाना वै दमयन्ती व्यनन्दत’ (भा० वन० ६५।७६)। व्यनन्दत=प्रासीदत्, प्राहृष्यत्।

नम्

  • {विनम्}
  • नम् (णम प्रह्वत्वे शब्दे च)।
  • ‘विनमन्ति चास्य तरवः प्रचये’ (कि० ६।३४)। नम्रा भवन्ति, विलम्बन्ते।
  • ‘विनम्य पूर्वं सिंहोऽपि हन्ति हस्तिनमोजसा’ (पञ्चत०)। स्पष्टोऽर्थः।
  • ‘प्रकामविनतावंसौ’ (शा० ३।८)। विनता गरुत्मतोऽम्बा।
  • ‘को विनतेऽनुरोधः’ (पा० ८।३।६१ सूत्रे वृत्तिः)। विनतं विनामः षत्वम्। जभी जृभि गात्रविनामे। गात्रविनामोङ्गविजृम्भणम्।

नश्

  • {विनश्}
  • नश् (णश अदर्शने)।
  • ‘निशम्य तल्लक्ष्मणमातृवाक्यं …शनैः शरीरे विननाश शोकः शरद्गतो मेघ इवाल्पतोयः’ (रा० २।४४।३१)॥
  • ‘वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः’ (ऋ० १०।१३३।३)।
  • ‘क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा’ (हितोप०)।
  • ‘अशस्ती र्वि हि नीनशः’ (ऋ० ६।४८।१७)। विनीनशः=व्यनीनशः=व्यनाशयः। अशस्तीः=अभिशस्तीः, दोषारोपकाणि कथनानि, अनिष्टानि वचांसि।

नश्

  • {विनश्}
  • नश् (णश व्याप्तौ छान्दसः)।
  • ‘आपश्चिदस्य विनशन्त्यर्थम्’ (ऋ० १०।२७।२०)। विनशन्ति=व्यश्नुवते=व्याप्नुवन्ति।
  • ‘आमासु पूर्षु परो अप्रमृष्यं नारातयो वि नशन्नानृतानि’ (ऋ० २।३५।६)। न विनशन्=मा आसीषदन्।

नह्

  • {विनह्}
  • नह् (णह बन्धने)।
  • ‘कूपवीनाहवेलायामपश्यत महागजम्’ (भा० स्त्री० ५।१४)। वीनाहो मुखबन्धनम्।
  • ‘अप क्राम नानदती विनद्धा गर्दभीव’ (अथर्व० १०।१।१४)। विनद्धा=विषिता=बन्धनान्मुक्ता। विर्विरोधे। यथा प्रः प्रतिष्ठत इत्यत्र।

निज्

  • {विनिज्}
  • निज् (णिजिर् शौचपोषणयोः)।
  • ‘सिन्धोर्मध्यं परेत्य व्यनिजमहेर्विषम्’ (अथर्व० १०।४।१९)। व्यनिजम्=अशूशुधम् अशोधयम्। विपूर्वान्निजेर्लुङि अङि रूपम्।

नी

  • {विनी}
  • नी (णीञ् प्रापणे)।
  • ‘हरस्ते मा विनैषम्’ (आप० श्रौ० ६।६।७)। पानं ते मास्माऽपनयमित्याह।
  • ‘वि ते हेतिं नयामसि’ (अथर्व० ५।७।७)। विनयामसि=विनयामः=दूरं गमयामः।
  • ‘अध स्या योषणा मही प्रतीची वशमश्व्यम्। अधिरुक्मा वि नीयते’ (ऋ० ८।४६।३३)।
  • ‘वि त्वदापो न पर्वतस्य पृष्ठादुक्थेमिरनयन्त यज्ञैः’ (ऋ० ६।२४।६)। व्यनयन्त=इत आकर्षन्।
  • ‘भ्रातृव्यान् यद् व्यनैषीः समस्तान्’ (हरि० ७५९१)। व्यनैषीः=उदसीसरः=अयीयवः, पलाययः, कान्दिशीकानकार्षीः।
  • ‘भारमेनं विनेष्यामि पाण्डवानाम्’ (भा० भीष्म० ५९।८२)। विनेष्यामि=अपनेष्यामि, हरिष्यामि।
  • ‘संरम्भं विनयाम्यहम्’ (भा० द्रोण० १९८।६१)। उक्तोऽर्थः।
  • ‘अहं च ते विनेष्यामि युद्धश्रद्धामितः परम्’ (भा० उ० ९६।२६)। उक्तचर एवार्थः।
  • ‘कोपं विनयते’ (पा० १।३।३७) इत्यत्र वृत्तौ)। अन्तःस्थं मन्युं दूरी करोति, शमयतीत्यर्थः। ह्रीनिषेवा वधूर्मर्यादामनतियती श्वशुरं वीक्ष्य गण्डं विनयति। पराङ्मुखी भवतीत्यर्थः।
  • ‘कुरुष्व कृत्यानि विनीयतां ज्वरः’ (बा० रा० ६।५७)। विनीयतामपनीयताम्। ज्वरः सन्तापः।
  • ‘विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम्’ (रघु० ४।६५)।
  • ‘क्षिप्रं विनीयतां वाली’ (रा० ४।२५।२७)। विनीयतामपोह्यताम्। दहनदेशमिति शेषः।
  • ‘सुत इन्दो पवित्र आ नृभिर्यतो वि नीयसे’ (ऋ० ९।९९।८)। विनीयसे=घट्ट्यसे=संचाल्यसे।
  • ‘अत्यं न मिहे विनयन्ति वाजिनमुत्सं दुहन्ति स्तनयन्तमक्षितम्’ (ऋ० १।६४।६)। विनयन्ति=प्रेरयन्ति=प्रचोदयन्ति।
  • ‘विनेष्ये वा प्रियान् प्राणान् उदानेष्येऽथवा यशः’ (भट्टि० ८।२१)। विगमयिष्यामीत्याह। मरिष्यामीत्यर्थः।
  • ‘क्रिया हि द्रव्यं विनयति नाद्रव्यम्’ (कौ० अ० १।५।२)। विनयति विनीतं करोति। करं विनयते निर्यातयति। ऋणं विनयते। विगणयति। शतं विनयते=धर्माद्यर्थं विनियुङ्क्ते (पा० १।३।६१ सूत्रवृत्तौ)।
  • ‘तदेतदेवं विनियेन्नरेश्वरः संवीक्ष्य कार्यं गुरु चेतरद् द्विधा’ (का० नी० सा० ९।७९)। विनयेद् विधिना प्रयुञ्जीत।
  • ‘विनिन्युरेनं गुरवो गुरुप्रियम्’ (रघु० ३।३९)। विनिन्युः शिक्षितवन्तः।
  • ‘गदासिचर्मग्रहणेषु शूरानस्त्रेषु शिक्षासु रथाश्वयाने …विनयेत्’ (भा० ३।१२५८५)। विनयेत्=शिक्षयेत्।
  • ‘मुखार्पितकाङ्गुलिसंज्ञयैव मा चापलायेति गणान् व्यनैषीत्’ (कु० ३।४१)। व्यनैषीत्=शिक्षितवान्, उपदिष्टवान्।
  • ‘सा राजहंसैरिव सन्नताङ्गी गतेषु लीलाञ्चितविक्रमेषु। व्यनीयत…’ (कु० १।३४)॥ व्यनीयत अशिक्ष्यत।
  • ‘तानेतैरेव त्रिभिरक्षरैर्व्यनयन् वीतय इति’ (श० ब्रा० १।४।१।२२-२३)। व्यनयन् पृथगकुर्वन्=व्याकुर्वन्। अत्र विनयतिः सन्नयतेः प्रतिकञ्चुकमर्थमाह।
  • ‘विनयन्तं जवेनाश्वान्’ (भा० वि० ५९९)। विनयन्तं प्राजन्तम्।
  • ‘सारं विनेष्यन्सगणस्य शत्रोः’ (कि० १६।२५)। विनेष्यन्=अपनेष्यन्। शत्रुमात्तगन्धं करिष्यन्नित्यर्थः।
  • ‘वन्यान्विनेष्यन्निव दुष्टसत्त्वान्’ (रघु० २।८)। विनेष्यन् दमयिष्यन्।
  • ‘इत्याप्तवचनाद्रामो विनेष्यन् वर्णविक्रियाम्’ (रघु० १५।४८)। वर्णविक्रियां वर्णापचारं विनेष्यन् अपनेष्यन् इत्यर्थः।
  • ‘छायाविनीताध्वपरिश्रमेषु’ (पादातेषु) (रघु० १३।४६)। छायाभिरपनीतोऽध्वखेदो यैस्तेषु।
  • ‘विनीतमोहो व्यपनीतकल्मषः’ (भा० शां० २४५।३५)। विनीतमोहो दूरीकृताज्ञानः।
  • ‘विनीततर्षक्लमास्तु ते यक्षाः’ (अवदा० मैत्री० जा०)। उक्तोऽर्थः।
  • ‘विनीतैस्तु व्रजेन्नित्यमाशुगैर्लक्षणान्वितैः’ (धुर्यैः) (मनु० ४।६८)। विनीतैः=दमितैः।
  • ‘…आन्वीक्षिक्यां दण्डनीत्यां तथैव च। विनीतः…’ (याज्ञ० १।३०९)॥ विनीतः शिक्षितः।
  • ‘त्वं च सूतकुले जातो विनीतः सूतकर्मणि’ (भा० वन० १८।१५)। अनन्तरोदीरित एवार्थः।
  • ‘विनीतः सत्त्वसम्पन्नः कुलीनः सत्यवाक् शुचिः’ (याज्ञ० १।३०९)। विनीतः=विनयेन प्रश्रयेण युक्तः, निभृत इत्यर्थः।
  • ‘प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना’ (मनु० ९।४१)। विनीतः पित्रादिभिरनुशिष्टः, प्रश्रितो निभृतो नम्र इत्यर्थः।
  • ‘विनीतवेषाभरणः पश्येत्कार्याणि कार्यिणाम्’ (मनु० ८।२)। विनीतवेषाभरणः=अनुद्धतवेषालङ्कारः।
  • ‘विनीत-वेषेण प्रवेष्टव्यानि तपोवनानि नाम’ (शा० १)। विनीतवेषः=निभृताकल्पः, अनुल्बणनेपथ्यः।
  • ‘विनीतः प्रविशेत् सभाम्’ (मनु० ८।१)। उक्तोऽर्थः।
  • ‘सुविनीतेन कर्मणा’ (भा० अनु० ३७।१८)। सुविनीतेन सम्यङ् निर्व्यूढेन।
  • ‘निहतस्यास्य सत्त्वस्य जाम्बूनदसमत्वचि। शष्पवृस्यां विनीतायामिच्छाम्यहमुपासितुम्।’ (रा० ३।४३।२०)॥ विनीतायाम् प्रसारितायाम्।
  • ‘आशिरं विनीयं सौम्यस्य वित्तात्’ (श० ब्रा० ४।३।३।१९)। विनीय सङ्घट्ट्य। क्षणं च विनीय श्रमम्। विनीय=अपनीय=विगमय्य।
  • ‘कथमपि यामिनीं विनीय’ (गीत० ८।१)। विनीय=क्षपयित्वा।
  • ‘ग्रन्थिं विनीय हृदयस्य सर्वम्’ (भा० उ० ३६।४)। विनीय=विस्रंस्य, शिथिलीकृत्य।
  • ‘केशान् विनीय’ (का० श्रौ० ५।२।१५, पा० गृ० १।१५)। सीमन्तयित्वेत्यर्थः।
  • ‘त्रेण्या शलल्या विनीय’ (केशान्) (भा० पु० १।२८)। विभज्येत्यर्थः।
  • ‘अयस्तप्तं विनीय’ (शां० ब्रा० २२।६)। विनयतिरत्रातनने वर्तते।
  • ‘स्वधर्माच्चलितान्राजा विनीय स्थापयेत्पथि’ (याज्ञ० १।३६१)। विनीय दण्डयित्वा।
  • ‘सा विनीय तमायासमुपस्पृश्य जलं शुचि’ (रा० २।२५।१)। अपनीयेत्यर्थः।
  • ‘शक्योऽस्य मन्युर्भवता विनेतुम्’ (रघु० २।४९)। विनेतुं हर्तुं शमयितुम्।
  • ‘आरोहे विनये चैव युक्तो वारणवाजिनाम्’ (रा० २।१।२८)। विनये शिक्षायाम्।
  • ‘पूर्वमाक्षारयेद्यस्तु नियतं स्यात्स दोषभाक्। पश्चाद्यः सोप्यसत्कारी पूर्वे तु विनयो गुरुः’ (याज्ञ० २।९ इत्यत्र मिताक्षरायामुद्धृतं नारदवचनम्)॥ विनयो दण्डः।
  • ‘जघन्यास्तेपि प्रत्येकं विनेयाः पूर्वसाहसम्’ (नारदस्मृतिः)। विनेया दण्ड्याः। दण्डनार्थो नयतिरपि द्विकर्मकः।
  • ‘स विनेयो भृशतरं कूटसाक्ष्यधिको हि सः’ (नारदीय मनु० १।१९६)। उक्तोऽर्थः। विनेया वाग्व्यवहारे साध्वभिविनेयाः। विनेयाः शिष्याः, छात्राः। विनीयः कल्कः। पिष्टौषधविशेषः साध्य इत्यर्थ इति (पा० ३।१।११७ इत्यत्र) न्यासः।
  • ‘तृष्णाविनयनं भुञ्जे गान्धारी वेद तन्मम’ (भा० आश्रम० ३।२६)। विनयनमपनयनम्। तृषामात्रापहं मण्डाद्यश्नामीत्यर्थः।
  • ‘स तथेति विनेतुरुदारमतेः प्रतिगृह्य वचो विससर्ज मुनिम्’ (रघु० ८।९१)। विनेतुर्गुरोर्वसिष्ठस्य।
  • ‘अयं विनेता दृप्तानाम्’ (मुद्रा० ३।४६)। निग्रहीतेत्यर्थः।
  • ‘समस्तभूभृतां नेता विनेता प्रतिभूभृताम्’ (शि० भा० ५।२४)। विनेता शासिता। विनायकं प्रकुर्वाणो रचयामास वानरम्। विनायको गणेशः। विघ्नविनायक इत्यथ संक्षिप्तं वचः। विनीतकं शकटं भवति।
  • ‘एष हितो वि नीयते ऽन्तः शुभ्रावता पथा’ (ऋ० ९।१५।३)। एष सोमो हविर्धाने हितो निहितो विनीयते प्रणीयते (आहवनीयं प्रति) इति श्रुतेरर्थः।
  • ‘विनयति सुदृशो दृशोः परागं प्रणयिनि कौसुममाननानिलेन’ (सा० द० ३।१९९ इत्यत्रोदाहरणश्लोकः)। विनयति प्रक्षिपति।
  • ‘तत्र ते ऽहं विनेष्यामि ब्रह्मत्वं यत्र वैष्यसि’ (भा० अनु० ११८।७)। ब्रह्मविद्यां शिक्षयिष्यामि, प्रापयिष्यामीति वार्थः।
  • ‘प्रणयिनीमिह मानविनोदिनीं सविनयं विनयन्ति विलासिनः’ (पारिजात० १०।२१)। विनयन्ति अनुनयन्ति। अत्रार्थेऽन्यत्र दुर्लभः प्रयोगः।
  • ‘तेजो मा विनैत्’ (तै० सं० १।१।१०)। मा विनीनशदित्यर्थः। लोके तु विनैषीदिति स्यात्।
  • ‘विनीयमानो विद्यासु’ (कथा० २८।६)। विनीयमानः शिक्ष्यमाणः।
  • ‘विनीतधर्मार्थमपेतमोहं लब्ध्वा द्विजम्…’ (भा० वन० २६।११)। विनीतौ सम्यक् शिक्षितौ धर्मार्थौ येन स तथोक्तः, तम्।
  • ‘पटुपटहध्वनिभिर्विनीतनिद्रः’ (रघु० ९।७५)। विनीतनिद्रो विगमितस्वापः।
  • ‘प्रीतो राजन्पुत्रगुणैर्विनीतः’ (भा० सभा० ५८।६)। विनीतो विरुद्धमार्गं नीत इति देवबोधः।
  • ‘उत्तरीयविनयात् त्रपमाणा’ (शिशु० १०।४२)। विनय आकर्षणम्।
  • ‘स संनयः स विनयः पुरोहितः’ (ऋ० २।२४।९)। विनयः संगतानां विविधं नेता पृथक् कर्ता।

नु

  • {विनु}
  • नु (णु स्तुतौ)।
  • ‘पुरुत्रा ते वि पूर्तयो नवन्त क्षोणयो यथा’ (ऋ० १०।२२।९)। विनवन्त=आवर्तन्ते।

नुद्

  • {विनुद्}
  • नुद् (णुद प्रेरणे)।
  • ‘ब्रह्मणैव द्विषन्तं भ्रातृव्यं विनुदते य एवं वेद’ (जै० २।१०४)। विनुदते पराणुदति, आराद् वियौति, दवयति। विनुदति वीणाम्। तन्त्रीः सारयतीत्यर्थः।
  • ‘क्व नु खल्वात्मानं विनोदयामि’ (शा० ६)। क्व नु चेतः समासजामीत्याह।
  • ‘लक्ष्मीर्विनोदयति येन दिगन्तलम्बी सोपि त्वदाननरुचिं विजहाति चन्द्रः’ (रघु० ५।६७)। पर्युत्सुकत्वं निरासयति, विनोदं मनोविलोभनं वा करोतीत्यर्थः।
  • ‘तापं विनोदय वृष्टिभिः’ (गीत० १०)। दरी कुर्वित्याह। श्रमविनोदः=श्रमापनयः।
  • ‘प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः’ (मेघ० ८९)। विनोदाः पर्युत्सुकत्वविगमार्थका व्यापाराः।
  • ‘मिथ्यैव व्यसनं वदन्ति मृगयामीदृग् विनोदः कुतः’ (शा० २।५)। उक्तोऽर्थः।
  • ‘विलपनविनोदोप्यसुलभ’ (उत्तर० ३।३०)। विनोदः सुखं शर्म।

नृत्

  • {विनृत्}
  • नृत् (नृती गात्रविक्षेपे)।
  • ‘तस्मादेवं विद्वान् वीव नृत्येत्’ (तै० ब्रा० २।३।९।९)। विनृत्येत्=नर्तितुमारभेत।

पच्

  • {विपच्}
  • पच् (डुपचष् पाके)।
  • ‘तस्मिन्सर्पिर्विपचेयुः’ (का० श्रौ० २४।३।१२)। विपचेयुः श्रपयेयुः, संशीनं द्रावयेयुः।
  • ‘गर्भशालिसधर्माणस्तस्य गूढं विपेचिरे’ (समारम्भाः) (रघु० १७।५३) फलिता इत्यर्थः।
  • ‘दह्यमाना विपच्यन्ते न तत्रास्ति पलायनम्’ (भा० अनु० १३०।२२)। विपच्यन्ते भृज्ज्यन्ते।
  • ‘भुक्तं भुक्तमिदं कोष्ठे कथमन्नं विपच्यते’ (भा० अनु० १९।३९)। विपच्यते जीर्यति।
  • ‘नक्षत्रपीडा बहुधा यथाकालाद् विपच्यते’ (सुश्रुत० १।१०३।२)। विपच्यते विपाकवती भवति फलं प्रसूते।
  • ‘भार्यया हि कृतं कर्म पत्यावपि विपच्यते’ (बृ० श्लो० सं० २७।३७)। विपच्यते फलति।
  • ‘लोहयुक्तं यथा हेम विपक्वं न विराजते’ (भा० शां० २१२।६)। विपक्वं पाकहीनम्। विर्विरोधे।
  • ‘अमी पृथुस्तम्बभृतः पिशङ्गतां गता विपाकेन फलस्य शालयः’ (कि० ४।२६)। विपाकः पाकः परिणामः।
  • ‘वाचां विपाको मम’ (भामिनी० ४।४२)। उक्तोऽर्थः।
  • ‘सति मूले तद्विपाको जात्यायुर्भोगाः’ (यो० सू० २।१३)। विषाकः फलम्।
  • ‘सर्वाणि पूर्वकर्माणि ह्यन्ते जन्मनि विपच्यन्ते’ (न्याभा० ४।१।६४)। विपच्यन्ते परिणमन्ते, फलन्ति, फलानि प्रसुवते।

पण्

  • {विपण्}
  • पण् (पण व्यवहारे स्तुतौ च)।
  • ‘आभीरदेशे किल चन्द्रकान्तं त्रिभिर्वराटैर्विपणन्ति गोपाः।’ विपणन्ति=(विपणायन्ति)=विक्रीणते।
  • ‘विपणेन च जीवन्तो वर्ज्याः स्युर्हव्यकव्ययोः’ (मनु० ३।१५२)। विपणेन वणिज्यया।
  • ‘नैकद्रव्योच्चयवतीं समृद्धविपणापणाम्’ (भा० अनु० ३०।१७)। विपणः क्रयविक्रयादिव्यवहारः। आपणस्तु निषद्या भवति। उपसर्गकृतोऽर्थभेदः।
  • ‘हाहाभूता भयार्ता च निवृत्तविपणापणा’ (भा० आदि० २१०।२३)। उक्तोऽर्थः।

पत्

  • {विपत्}
  • पत् (पत्लृ गतौ)।
  • ‘व्यद्रिणा पतथ त्वेषमर्णवम्’ (ऋ० १।१६८।६)। विपतथ=विपाटयथ।
  • ‘मूर्धा हास्य विपतेत्’ (श० ब्रा० ३।६।१।२३)। विपतेत्=व्यपवृक्तो भूत्वाऽधः पतेत्।
  • ‘मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्य इति’ (छा० उ० ५।१२।२)। उक्तचर एवार्थः।
  • ‘वि ते मदं मदावति शरमिव पातयामसि’ (अथर्व० ४।७।४)। विपातयामसि=विपातयामः=दूरं प्रास्यामः।
  • ‘लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने’ (पा० ७।३।३९)। विपातनं विगच्छतः काठिन्यं त्यजतः प्रयोजकव्यापार इति पदमञ्जरी।

पद्

  • {विपद्}
  • पद् (पद गतौ)।
  • ‘स तेन दुःखमाप्नोति परत्र च विपद्यते’ (भा० वन० २१०।१०)। विपद्यते=आपन्नो भवति, आपद्यते, आपदमाप्नोति।
  • ‘विपन्नराज्यो नचिराद् विपत्स्यसे’ (रा० ३।३३।२३)। विपत्स्यसे व्यापदं प्राप्स्यसि।
  • ‘नारी गर्भयुता विपद्यते’ (बृ० सं० ४।७)। विपद्यतेऽवतोका भवति।
  • ‘ज्वरश्चाभिद्रवत्येनां तस्या गर्भो विपद्यते’ (का० सं० खिल० अन्तर्० श्लो० १६०)। विपद्यते च्यवते।
  • ‘यौवनस्थोऽथ मध्यस्था वृद्धो वापि विपद्यते’ (भा० स्त्री० ३।१८)। विपद्यते=म्रियते।
  • ‘दैवेन किल यस्यार्थः सुनीतोपि विपद्यते’ (कथा० ४।१२९)। विपद्यते=नश्यति।
  • ‘एवं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारत। भवन्ति भवकालेषु विपद्यन्ते विपर्यये’ (भा० मौ० ८।३३)॥ उक्तोऽर्थः।
  • ‘चित्तनाशाद् विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे। क्षीणस्नेहस्य दीपस्य संसक्ता रश्मयो यथा’ (रा० २।६४।६८)॥ उक्तोऽर्थः।
  • ‘आरम्भा विपद्यन्ते’ (षड्विंशब्रा० ५।६)। विपद्यन्ते विफला भवन्ति।
  • ‘वर्षं विद्युत्स्तनयित्नुर्वा विपद्यते’ (कौ० सू० १४१)। विपद्यते=अन्तरैति, अन्तरायो भवति।
  • ‘श्लक्ष्णया वाचा पूर्वशोकविपन्नया’ (रा० ६।१०।५)। विपन्नया=अवसन्नया, क्षीणया, उपदस्तया।
  • ‘न तद् दानं प्रशंसन्ति वृत्तिर्येन विपद्यते’ (भा० पु० ८।१९।३६)। विपद्यते नश्यति अवसीदति।
  • ‘यथा च मृन्मयं भाण्डं चक्रारूढं विपद्यते’ (भा० स्त्री० ३।१२)। विपद्यते ध्वंसते।
  • ‘अहो मम सुतानां हि विपन्नं सूत जीवितम्’ (भा० द्रोण० १३५।२२)। विपन्नं समाप्तम्।
  • ‘विपन्नानामापदुद्धरणक्षमः’ (हित० १।२७)। विपन्नानामापन्नानाम्।
  • ‘विपन्ने च समारम्भे सन्तापं मा स्म वै कृथाः’ (भा० शां० ५६।१६)। विपन्ने नष्टे विफले जाते।
  • ‘शस्त्रे विपन्ने शिरसाऽस्य भूमौ’ (भा० सभा० (६६।८)। विपन्ने विशेषेण प्राप्ते इति नीलकण्ठः।
  • ‘इष्टानिष्टविपत्तिश्च’ (भा० शां० २५५।१०)। विपत्तिर्विनाशः।
  • ‘भवन्ति परितापिन्यो व्यक्तं कर्मविपत्तयः’ (का० नी० सा० १२।१४)। उक्तोऽर्थः। गर्भविपत्तिः=गर्भप्रच्युतिः।
  • ‘हिमसेकविपत्तिरत्र मे नलिनी पूर्वनिदर्शनं गता’ (रघु० ८।४५)। हिमस्य सेकेन विपत्तिर्नाशो यस्याः सा हिमसेकविपत्तिः।
  • ‘पुत्रोत्पत्तिविपत्तिभ्यां न परं सुखदुःखयोः’ ( )। विपत्तिर्मृत्युः।
  • ‘विपद् विपदमनुबध्नाति सम्पत्सम्पदम्’ (काद०)। विपद् विपत्तिरापद् इत्यनर्थान्तरम्। पादस्फोटो विपादिका। विपद्यते क्लिश्यतेऽनयेति।
  • ‘भूताश्चार्था विपद्यन्ते देशकालविरोधिताः’ (रा० ५।२।३९)। विपद्यन्ते नश्यन्ति। भूता निष्पन्नप्रायाः।
  • ‘तच्चास्य प्रार्थितं न सम्पद्यते सम्पद्य वा विपद्यते’ (न्या० भा० ४।१।५७)। उक्तोऽर्थः।
  • ‘सर्वं वस्तु द्रव्यात्मना नोत्पद्यते विपद्यते वा परिस्फुटमन्वयदर्शनात्’ (स्याद्वाद० २१ हैमः)।
  • ‘स दैत्यभुजमासाद्य पाशः सद्यो व्यपद्यत’ (स्कन्द० मा० कौ० २।२१।२०७)। व्यपद्यत विच्छिन्नो विशीर्णोऽभवत्।
  • ‘समाधातुं कार्यमेतद् विपन्नम्’ (भा० उ० २९।४७)। विपन्नं विकृतम्। समाधातुं साधूकर्तुम्।

पा

  • {विपा}
  • पा (पा पाने)।
  • ‘उभे वा एष एते सवने विपिबति’ (ऐ० ब्रा० ३।२९)। विपिबति विशेषेण पिबति।
  • ‘वि पिबध्वं कुशिकाः सोम्यं मधु’ (ऋ० ३।५३।१०)। हे कुशिकाः, यूयमेके तासु तासु वेलासु सोम्यं मधु पिबतेत्याह।
  • ‘अद्भ्यः क्षीरं व्यपिबत्’ (वा० सं० १९।७३)। व्यपिबत् विशेषेण कणेहत्यापिबत्।

पाशय्

  • {विपाशय्}
  • पाशय् (पाश प्रातिपदिकाद् धात्वर्थे णिच)।
  • ‘विपाड् विपाशनाद्वा पाशा अस्यां व्यपाश्यन्त वसिष्ठस्य मुमूर्षतः’ (नि० ९।२६।१)। व्यपाश्यन्त विस्रस्ता अभवन्।

पिश्

  • {विपिश्}
  • पिश् (पिश अवयवे)।
  • ‘पिशुनः पिंशते विपिंशतीति’ (नि० ६।११।१)। स हि स्वल्पमपि पापं विपिंशति विपुष्यतीत्यर्थ इति दुर्गः।

पू

  • {विपू}
  • पू (पूञ् पवने)।
  • ‘देवानां मुखमग्ने त्वं सत्येन विपुनीहि माम्’ (भा० सभा० ३१।४६)। विपुनीहि विशेषेण पुनीहि।
  • ‘अनृतं हि मत्तो वदति। पाप्मा एनं विपुनाति’ (पा० ८।१।३५ सूत्रभाष्ये)।
  • ‘पविः शल्यो भवति यद्विपुनाति कायम्’ (नि० १२।३०।१)। विपुनाति विदारयतीति दुर्गः।
  • ‘पवौ रथनेमिर्भवति यत् विपुनाति भूमिम्’ (नि० ५।५।१)। विपुनाति घर्षति, अवदारयति, खनति।

पृच्

  • {विपृच्}
  • पृच् (पृची सम्पर्के)।
  • ‘सम्पृच स्थ सं मा भद्रेण पृङ्क्त। विपृच स्थ वि मा पाप्मना पृङ्क्त’ (वा० सं० १९।११)। विपृङ्क्त=पृथक्कुरुत।
  • ‘यं (सूर्यम्) सीमकृण्वन् तमसे विपृचे’ (ऋ० ४।१३।३)। तमसे विपृचे तमसोऽपघाताय, ध्वान्तस्यापहननाय, तिमिरनिरासाय।
  • ‘आदित्सोमो वि पपृच्यादसुष्वीन्’ (ऋ० ४।२४।५)। विपपृच्यात् पृथक् कुर्यात्।

प्रच्छ्

  • {विप्रच्छ्}
  • प्रच्छ् (प्रच्छ ज्ञीप्सायाम्)।
  • ‘अथ ह स्म ततः पुरो विपृच्छमानाश्चरन्ति’ (जै० ब्रा० २।५५)। विशब्दो नानात्वे। यथा विप्रश्न इत्यत्र।
  • ‘उपो एमि चिकितुषो विप्रच्छम्’ (ऋ० ७।८६।३)। विप्रच्छं विप्रष्टुम्। नाना प्रश्नान्कर्तुम्।

प्रा

  • {विप्रा}
  • प्रा (प्रा पूरणे)।
  • ‘पप्राथ क्षां महि दंसो व्युर्वीम्’ (ऋ० ६।१७।७)। वि पप्राथ विशेषेण पूरितवानसि।

प्रु

  • {विप्रु}
  • प्रु (प्रुङ् गतौ)।
  • ‘स एता विप्रुषोऽजनयत या इमाः स्कूयमानस्य विप्रवन्ते’ (मै० सं०)। विप्रवन्ते, विप्रतिष्ठन्ते, व्युच्चरन्ति इत्यर्थः। विप्रुषः विस्फुलिङ्गाः।

प्रु

  • {विप्रु}
  • प्रु (प्रुङ् आप्रवणे)।
  • ‘तस्य धनुर्विप्रवमाणं शिर उदवर्तयत्’ (तै० आ० ५।१।५)। विप्रवमाणं वियुताटनीकं भवत्।

प्रुष्

  • {विप्रुष्}
  • प्रुष् (प्रुष प्लुष स्नेहनसेवनपूरणेषु)।
  • ‘अवप्रुषो विप्रुषः संयजामि’ (तै ० ब्रा० ३।७।६।२१)।

प्लु

  • {विप्लु}
  • प्लु (प्लुङ् गतौ)।
  • ‘यदि न स्यान्नरपतिः सम्यङ् नेता ततः प्रजा। अकर्णधारा जलधौ विप्लवेतेह नौरिव’ (पञ्चत० ३।७३)। विप्लवेत विसंस्थुला चलाचला निर्मर्यादाऽऽन्दोलिता कल्लोललोला स्यादिति कवेराशयः।
  • ‘तस्य विप्लवते वृद्धिरेवं चेदिपतेर्यथा’ (भा० सभा० ४०।१३)। विप्लवते=विपर्ययं याति।
  • ‘विप्लवते हि खल्वपि कश्चित्पुरुषकृताद्वचनात् प्रत्ययः।’ (मी० शा० भा० १।१।२)। विपर्येति मिथ्या भवति।
  • ‘नैते वाचं विप्लुतार्थां वदन्ति’ (उत्तर० ४।१८)। विप्लुतार्थां विपरीतार्थां मिथ्याभुताम्।
  • ‘गुणानामायथातथ्यादर्थं विप्लावयन्ति ये’ (शिशु० २।५६)। दूषयन्ति व्यभिचारयन्तीत्यर्थः।
  • ‘अविप्लुत-ब्रह्मचर्यो गृहस्थाश्रममावसेत्’ (मनु० ३।२)। अखण्डितब्रह्मचर्य इत्याह। बाष्पविप्लुतभाषिणी=बाष्पैः सगद्गदं भाषत इत्येवंशीला। अश्रुणः पूर्वावस्था बाष्पम्।
  • ‘दग्धैकदेशा बहवो निष्टप्ताश्च तथापरे। स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च तथापरे’ (भा० आदि० २२६।५)॥ विप्लुता भयाद् विद्रुताः।
  • ‘तत: सूतव्यसनिनं विप्लुतं मां स भार्गवः। शरेणाभ्यहनत्…’ (भा० उ० १८२।७)॥ विप्लुतं विद्रुतम्। ततः शरदि युक्तायां मौनकामेषु बर्हिषु। याचमाने खगे तोयं विप्लुतेषु प्लवेषु च॥ विप्लुतेषु विविधगतिमत्सु। प्लवा उडुपाः।
  • ‘बहु चाल्पं च संक्षिप्तं विप्लुतं च मतं मम’ (भा० आश्व० ३४।१)। विप्लुतं कीर्णम्।
  • उभावपि तु तावेव (क्षत्रियवैश्यौ) ब्राह्मण्या गुप्तया सह। विप्लुतौ शूद्रवद् दण्ड्यौ…’ (मनु० ८।३७७)॥ विप्लुतौ कृतमैथुनौ।
  • ‘विप्लवते हि खल्वपि कश्चित्पुरुषकृताद्वचनात्प्रत्ययः’ (मी० शा० भा० १।१।२।२)। विप्लवते मिथ्या भवति। वितथो भवति।

फल्

  • {विफल्}
  • फल् (ञ्फिला विशरणे)।
  • ‘गर्भोऽयं सप्तधा विफलीकृतः’ (रा० १।४७।२)। विफलीकृतः शकलीकृतः।

बन्ध्

  • {विबन्ध्}
  • बन्ध् (बन्ध बन्धने)।
  • ‘सिद्धेर्विबन्धो विधिना विधुरेण व्यबध्यत’ (राज० ८।१५९३)। विबन्धः प्रतिबन्धः।
  • ‘आनाहस्तु विबन्धः स्यात्’ (अमरः)। आनाहो विण्मूत्रनिरोधः।
  • ‘सिंह इवास्तानीद् द्रुवयो विबद्धः’ (अथर्व० ५।२०।२)। विबद्ध आनद्धः।
  • ‘…मूत्रं तु विधृतं चिरम्। न निरेति विबद्धं वा’ (अष्टाङ्ग० नि० ९।२६-२७)। विबद्धं सक्तम्।

बाध्

  • {विबाध्}
  • बाध् (बाधृ लोडने, लोडनं प्रतिघातः।)
  • ‘वि बाधिष्ट स्य रोदसी महित्वा’ (ऋ० ७।२३।३)। विबाधिष्ट=व्यबाधिष्ट=प्रत्यवधीत्।

बुध्

  • {विबुध्}
  • बुध् (बुध अवगमने)।
  • ‘कच्चित्काले विबुध्यसे’ (भा० सभा० ५।२८)। विबुध्यसे जागर्षि।

बृंह्

  • {विबृंह्}
  • बृंह् (बृहि करिगर्जिते)।
  • ‘शक्तो हन्तुं किमात्मानं जातिदोषाद् विबृंहसि’ (मात्स्य० १४०।२२)। विबृंहसि गर्जसि वल्गसि।

ब्रू

  • {विब्रू}
  • ब्रू (ब्रञ् व्यक्तायां वाचि)।
  • ‘विब्रुवन्तु यथा सत्यमेतत्’ (भा० वन० ७६।३३)। विब्रुवन्तु व्यक्तं कथयन्तु।
  • ‘व्यब्रवीद् वयुना मर्त्येभ्योऽग्निर्विद्वान्’ (ऋ० १।१४५।५)। व्यब्रवीत्=प्राब्रवीत् प्रोक्तवान्। व्याचष्टेत्यर्थः।
  • ‘यानेव मां प्रश्नानप्राक्षीस्तानेव मे विब्रूहि’ (श० ब्रा० ११।४।१।९)। प्रतिब्रूहि, आख्याहीत्याह।
  • ‘विब्रूत मे प्रश्नमिमं यथावत्’ (भा० सभा० ६७।५२)। विब्रूत स्पष्टं ब्रूत।
  • ‘प्रश्नं च न विब्रूयात्’ (आप० ध० १।३२।१२)। विविच्य वचनं विवचनं निर्णय इति हरदत्तः।
  • ‘तोके वा गोषु तनये यदप्सु वि क्रन्दसी उर्वरासुब्रवैते’ (ऋ०६।२५।४)। विब्रवैते विवदेते।
  • ‘तस्माद्धाप्येतर्हि वित्त्यां व्याहर्यथा वित्तमेव न इति’ (ऐ० ब्रा० ३।२८)। व्याहुः=व्याचक्षते।
  • ‘अब्रुवन् विब्रुवन्वापि नरो भवति किल्बिषी’ (मनु० ८।१३)। विब्रुवन् विरुद्धं ब्रुवन्। मिथ्या वदन्नित्यर्थः।
  • ‘येनाविब्रवता प्रश्न तथा कृष्णा सभां गता। उपेक्षिता…’ (भा० द्रोण० १९९।३२)॥ अविब्रुवता=अप्रतिब्रुवता।
  • ‘प्रश्नान् कांश्चिद् विब्रुवाणं च सम्यक्’ (भा० आदि० १।१६८)। ब्रूञ् इति क्रियासामान्ये वर्तते। विब्रुवाणं कुर्वाणम्। पृच्छन्तमित्यर्थः

भज्

  • {विभज्}
  • भज् (भज सेवायाम्)।
  • ‘तं क्षुरप्रशकलीकृतं कृती पत्रिणां व्यभजदाश्रमाद् बहिः’ (रघु० ११।२९)। व्यभजत्=विभज्य दत्तवान्।
  • ‘सन्ध्यामङ्गलदीपिका विभजते शुद्धान्तवृद्धो जनः’ (विक्रम० ३।२)। विभजते=विभागेन स्थापयति।
  • ‘विभक्ताः सह जीवन्तो विभजेरन्पुनर्यदि’ (मनु० ९।२१०)। विभजेरन्=रिक्थविभागं कुर्वीरन्।
  • ‘कुडवं कुडवं सर्वे व्यभजन्त तपस्विनः’ (भा० आश्व० ९०।३४)।
  • ‘वायवीयैर्विगण्यन्ते विभक्ताः परमाणवः’ (याज्ञ० ३।१०४)। विभक्ताः पृथक्कृताः। विभक्ता भ्रातरः विभक्तधना इत्यर्थः।
  • ‘विभक्तरक्षःसम्बाधमाससादानिलात्मजः’ (रा० ५।५३।३७)। विभक्तरक्षःसम्बाधम् परिहृतराक्षसौघम्।
  • ‘वपुर्विभक्तावयवं पुमानिति’ (शिशु० १।३)। विभक्ता विविक्ततया दृश्यमानाः (अवयवाः)।
  • ‘कालं कालविभक्तीश्च’ (मनु० १।२४)। विभक्तयो विभागाः।
  • ‘कथं सृष्टानि भूतानि कथं वर्णविभक्तयः’ (भा० शां० १८२।३)। वर्णविभक्तयः=द्विजादिवर्णविभागाः।
  • ‘कशापातेन दृश्यन्ते नानावर्णविभक्तयः।’ (पञ्चत० २।४)। वर्णविभक्तयः=लोहितादिवर्णवैचित्र्याणि।
  • ‘समस्तत्र विभागः स्यात्’ (मनु० ९।१२०)। विभागोंऽशनिपातः।
  • ‘तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः’ (गीता० ३।२८)। विभागो भेदो विशेषः।
  • ‘विभज्य मेरुर्न यदर्थिसात्कृतः’ (नै० १।१६)। विभज्य विभागं कृत्वा, शफलानि कृत्वेत्यर्थः।

भञ्ज्

  • {विभञ्ज्}
  • भञ्ज् (भञ्जो आमर्दने)।
  • ‘तृष्णास्रोतोविभङ्गः’ (भर्तृ० २।२६)। स्त्रोतोविभङ्गः=उत्सविरामः। प्रवाहप्रतिबन्धः।
  • ‘भ्रूविभङ्गकुटिलं च वीक्षितम्’ (रघु० १९।१७)। भ्रूविभङ्गः=भ्रूवोराकुञ्चनम्।
  • ‘वलीविभङ्गचतुरं स्तनभारविनामितम्’ (भा० वि० १४।२२)। वलीरूपो विभङ्गो वलीविभङ्गः।
  • ‘शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्गमिवारुरोह’ (रघु० ६।३०)। शिलाविभङ्गाः शिलामया विभङ्गाः सोपानपर्वाणि।
  • ‘विविधविकारविभङ्गम्’ (गीत० ११)। विभङ्गो विजृम्भणम्, आविर्भावः।

भा

  • {विभा}
  • भा (भा दीप्तौ)।
  • ‘सुखमिव सा विबभौ विभावरी’ (रा० १।२२।२४)। विबभौ व्युवास, व्युष्टा।
  • ‘तस्य भासा सर्वमिदं विभाति’ (कठ० उ० २।२।१५)। दीप्यत इत्यर्थः।
  • ‘एकः सूर्यः सर्वमिदं विभाति’ (भा० वन० १३४।८)। विभाति=भापयति=भासयति।
  • ‘एकैवोषाः सर्वमिदं विभाति’ (ऋ० ८।५८।२)। उक्तोऽर्थः।
  • ‘विभावरी सर्वभूतप्रतिष्ठां गङ्गां गता ये’ (भा० अनु० २६।८६)। विभावरीं प्रकाशिकाम्।
  • ‘सर्वान्गुणानेष गुणो विभाति’ (भा० उ० ३५।५३)। विभाति भासयति।

भाष्

  • {विभाष्}
  • भाष् (भाष व्यक्तायां वाचि)।
  • ‘तमेवान्येन कल्पेन धर्ममस्मै व्यभाषत’ (बुद्ध० १२।४५)। व्यभाषत व्याख्यातवान्।
  • ‘मामेव हि विशेषेण विभाष्य परिगर्हसे’ (भा० उ० १२७।२)। विभाष्य परुषमुक्त्वा।

भिद्

  • {विभिद्}
  • भिद् (भिदिर विदारणे)।
  • ‘विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फूरन्त्या’ (शिशु० ४।१४)। विभिन्नवर्णा विचित्रवर्णाः सम्भिन्नरागाः।

भी

  • {विभी}
  • भी (ञिभी भये)।
  • ‘विभीर्जप्यपरो मौनी वैराग्यं समुपाश्रितः’ (भा० शां० २७८।१५)। विभीः=विगतभीः, निर्भीकः।

भू

  • {विभू}
  • भू (भू सत्तायाम्)।
  • ‘ब्रह्म वा इदमग्र आसीदेकमेव। तदेकं सन्न व्यभवत्’ (श० ब्रा० १४।४।२।२३)। न व्यभवत्=न समर्थमभूत्, नालङ्कर्मीणमासीत्।
  • ‘सन्नयतस्तु ते विभवतः’ (आप० श्रौ० १।५।१६।१)। संनयतस्तु ये पवित्रे सायन्दोहार्थे ते एवाद्यापि कर्मणे प्रभवतः (रुद्रदत्तः)।
  • ‘न चत्वारि षड्भ्यो विभवन्ति’ (पञ्च० ब्रा० १६।५।२०)। विभवन्ति पर्याप्ता भवन्ति, अलंभवन्ति, तत्समा भवन्ति।
  • ‘इन्द्रो वृत्राय वज्रं प्राहरत्। स त्रेधा व्यभवत्’ (तै० सं० ६।१।३।४)। त्रिधा विभक्तोऽभूदित्याह। विभवनं नाना भवनं भवति।
  • ‘इष्टगन्धानि देवानां पुष्पाणीति विभावय’ (भा० अनु० ९८।२७)। विभावय जानीहि।
  • ‘उत्पन्ने बीजसद्भावं त्वङ्कुरेण विभावयेत्’ (तन्त्रा० १।१।३४)। विभावयेत्, जानीयात्, अनुमिमीत।
  • ‘आर्यरूपमिवानार्यं कर्मभिः स्वैर्विभावयेत्’ (मनु० १०।५७)। निश्चिनुयादित्यर्थः।
  • ‘मनुः प्रजापतिर्ज्ञेयः कामः सोमो विभाव्यते’ (हरि० १।४०।५४)। विभाव्यते ज्ञायते।
  • ‘उक्तं च न विभावयेत्’ (मनु० ८।५६)। न विभावयेत् प्रमाणैर्न प्रतिपादयेत्।
  • ‘विभावयेन्न चेल्लिङ्गैस्तत्समं दण्डमर्हति’ (याज्ञ० २।३३)। उक्तोऽर्थः।
  • ‘तेनैव विभावयामि’ (तन्त्रा० १।१५)। तेनैव साक्षिणा साधयामीत्यर्थः।
  • ‘लोकान्विभावयसि हंसि जगत्प्रतीपान्’ (भा० पु० ७।९।३८)। विभावयसि पालयसि परित्रायसे।
  • ‘विभावयामो भुवनानि सप्त’ (भा० पु० १०।६३।३७)। उक्तोर्थः।
  • ‘यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते’ (भा० आदि ७।२३)। विभाव्यते दृश्यते ज्ञायतेऽभ्युपेयते।
  • ‘तव सुचरितं…नूनं प्रतनु ममेव विभाव्यते फलेन’ (शा० ६।११)। उक्तोऽर्थः।
  • ‘प्रकृतीनां च राजेन्द्र राजा दीनान् विभावयेत्’ (भा० आश्रम० ६।१३)। विभावयेत् अनुसन्दधीतेति संस्कृतशार्मण्यकोषः। पूजयेदिति तु नीलकण्ठः।
  • ‘पादचारमपि न व्यभावयत्।’ (रघु० ११।१०) नालक्षयदित्यर्थः।
  • ‘यदन्यदन्यत्र विभाव्यते भ्रमात्’ (रा० ७।५।३७)। विभाव्यते उत्प्रेक्ष्यते।
  • ‘यत्तदुक्तं महद् वाक्यं कर्मणा तद् विभाव्यताम्’ (भा० उ० १६०८६)। विभाव्यतां दर्श्यताम्।
  • ‘न विभाव्यन्ते लघवो वित्तहीनाः पुरोऽपि निवसन्तः’ (पञ्चत० ५।७)। न दृश्यन्त इत्यर्थः। उपेक्ष्यन्त इति यावत्।
  • ‘तपसो जातं तपसो विभूतम्’ (ऋ० १०।१८३।१)। विभूतम् आविर्भूतम्।
  • ‘आत्मन्यदृच्छया प्राप्तं विबुभूषुरुपाददे’ (भा० पु० २।५।२१)। विबुभूषुः=व्याप्तुमिच्छुः।
  • ‘दापयेद् धनिकस्यार्थमधमर्णाद् विभावितम्’ (मनु० ८।४७)। विभावितं लेख्यादिप्रमाणप्रतिपादितम्।
  • ‘निह्नुते लिखितं नैकमेकदेशे विभावितः’ (प्रत्यर्थी) (याज्ञ० २।२०)। विभावितोऽङ्गीकारितः।
  • ‘विभावितैकदेशेन देयं यदभियुज्यते’ (विक्रम० ४।१७)। विभावितो दृष्ट एकदेशो यत्र, तेन।
  • ‘अरण्ये निःशलाके वा मन्त्रयेदविभावितः’ (मनु० ७।१४७)। अविभावितोऽनुपलक्षितः।
  • ‘प्रासादाग्रे ह्यरण्ये वा मन्त्रयेदविभावितः’ (का० नी० सा० १२।४७)। उक्तोऽर्थः।
  • ‘अहं त्वाचरितापुण्या दुःखैरेव विभाविता’ (बृ० श्लो० सं० ४।१०७)। विभाविता प्रकटिता।
  • ‘इयं वा इदं सर्वं विभवन्त्येष्यति’ (पञ्च० ब्रा० २०।१४।२)। विभवन्ती व्यश्नुवाना, व्याप्नुवती।
  • ‘कथं पर्येति (सूर्यः) वसुधां भुवनानि विभावयन्’ (सूर्य० १२।३)। विभावयन्=भासयन्, प्रकाशयन्।
  • ‘तामिन्दुसुन्दरमुखीं सुचिरं विभाव्य’ (मालती० १।१८)। विभाव्य दृष्ट्वा, निभाल्य।
  • ‘यशः परं जगति विभाव्य वर्तिता’ (भा० द्रोण० २।१५)। विभाव्य प्रकाश्य।
  • ‘यस्याङ्घ्रिपद्मं परिचर्य विश्वविभावनायत्तगुणाभिपत्तेः’ (भा० पु० ४।८।२०)। विभावना परिपालनम्।
  • ‘पश्चिमां तु समासीनः सम्यगृक्षविभावनात्’ (मनु० २।१०१)। विभावनं दर्शनम्।
  • ‘सा विभूतिरनुभावसम्पदां भूयसी तव’ (शिशु० १४।५)। विभूतिर्महिमा।
  • ‘अघोपघातं मघवा विभूत्यै भवोद्भवाराधनमादिदेश’ (कि० ११।८०)। विभूत्यै समृद्ध्यै, योगक्षेमाय।
  • ‘अहो राजाधिराजमन्त्रिणो विभूतिः’ (मुद्रा० ३)। विभूतिरैश्वर्यम्।
  • ‘विभूतयस्तदीयानां पर्यस्ता यशसामिव’ (रघु० ४।१९)। विभूतयः सम्पदः।
  • ‘यद् यद् विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा’ (गीता १०।४१)। विभूतिस्तेजः। अणिमादयोऽष्टौ विभूतयः। विभूतिर्दिव्यप्रभावः।
  • ‘एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः’ (गीता १०।७)। विभूतिर्विस्तारः। व्याप्तिः।
  • ‘क्षेत्रज्ञ एता मनसो विभूती जीवस्य मायारचितस्य नित्याः’ (भा० पु० ५।११।१२)। विभूती=विभूतयः=प्रवृत्तयः। अपूर्वोऽन्यत्र दुर्लभोऽर्थः।
  • ‘नाविभाव्यां गिरं सृजेद्’ (भा० शां० ९३।१०)। अविभाव्यामचिन्त्यार्थाम्।
  • ‘त्वरमाणोऽभिनिर्यातु विप्रेभ्योर्थविभावकः’ (भा० वन० ३३।८४)। विप्रेभ्योऽर्थं विभावयिष्यामि प्रदास्यामीति अर्थविभावकः। अर्थ विभावक इति तु पाणिनीयाः।
  • ‘चित्रः प्रकेतो अजनिष्ट विभ्वा’ (ऋ० १।११३।१)। ‘विभ्वा विभूततमम्’ (नि० २।१९।१)। विस्तीर्णतमम् इति दुर्गः।
  • ‘यत्र क्वचिदुत्पन्नाः शब्दा विभवन्त्याकाशे’ (न्या० भा० ४।२।२१)। विभवन्ति व्याप्नुवन्ति, तत्र समवेता भवन्ति।
  • ‘विभूर्मात्रा प्रभूः पित्रा’ (वा० सं० २२।१९)। विभूः=वैभवयुक्तः। वैभवं विविधभक्षसम्पत्तिः।

भ्रम्

  • {विभ्रम्}
  • भ्रम् (भ्रमु चलने, भ्रमु अनवस्थाने)।
  • ‘क्वचिदुद्भ्रमते योगात् क्वचिद्विभ्रमते बलात्’ (रा० ३।६०।३६)।
  • ‘विबभ्राम मतिस्तात विनयादनयाऽऽहता’ (हरि० १।२५।२९)। मतिरनयाऽऽहताऽनीत्या ताडिता विनयाद् विबम्राम चचालेत्याह।
  • ‘स चेद्राजन्यनेकाग्रो राज्यविभ्रमशङ्कया’ (रा० २।२३।२७)। राज्यचलनशङ्कया, राज्यभ्रंशभयेन। दण्डस्य विभ्रमात्। अन्यथा प्रवर्तनात्।
  • ‘निवृत्तसर्वेन्द्रियवृत्तिविभ्रमः’ (भा० पु० १।९।३१)। विभ्रमोऽनवस्थानम्, चाञ्चल्यम्। चित्तवृत्त्यनवस्थानं शृङ्गाराद् विभ्रमो भवेत्। विभ्रमस्त्वरयाऽकाले भूषास्थानविपर्ययः। तथा च कुमारे (१।४) प्रयोगः–यश्चाप्सरोविभ्रममण्डनानां सम्पादयित्रीं (धातुमतां) शिखरैर्बिभर्ति।
  • ‘नवप्रणयविभ्रमाकुलितमालतीदृष्टयः’ (मालती० ९।३८)। विभ्रमो विलासः।
  • ‘तरङ्गस्य बिभर्ति विभ्रमम्’ (नै० १५।२५)। विभ्रमः शोभा।
  • ‘योऽधर्मे धर्मविभ्रमः’ (भा० पु० ४।१९।१२)। विभ्रमो भ्रान्तिरन्यथा ग्रहः।
  • ‘ऊर्मिव्यतिकरविभ्रमप्रचण्डः’ (महावीर० ६।२६)। विभ्रमः क्षोभः।
  • ‘दीर्घमायुः स मे प्रादात्ततो मां विभ्रमोऽस्पृशत्’ (रा० ३।७१।९)। विभ्रमो दर्पः।
  • ‘यथा न विभ्रमेत्सेना तथा नीतिर्विधीयताम्’ (भा० वि० ४७।२३)। न विभ्रमेत् न विघटेत, न भज्येत।
  • ‘रोदने व्याधिमभ्येति हसने देशविभ्रमम्’ (मात्स्य० २३२।५)। विभ्रमम् विप्लवम्।

मद्

  • {विमद्}
  • मद् (मदी हर्षे)।
  • ‘तद् व्यमाद्यत्’ (ऐ० ब्रा० २।२२)। विर्नानार्थे। विविधं व्याकुलमभूत्।
  • ‘विमत्तमिव हि तौ तया निरकुरुताम्’ (ऐ० ब्रा० २।२२)। उक्तोऽर्थः।
  • ‘निषेव्य पानं मदनीयमुत्तमं निशाविवासेषु चिराद् विमाद्यति’ (सौन्दर० ९।२९)। विमाद्यति विगतमदो भवति।

मन्

  • {विमन्}
  • मन् (मन ज्ञाने मनु अवबोधने)।
  • ‘दिष्ट्या न विमतिं काञ्चिद् भजित्वा तु पराजितः’ (भा० शल्य० ६४।२७)। विमतिर्विपरीता मतिः।
  • ‘त्वया नाम मुनिर्विमान्यः’ (शा० ५।२०)। विमानयितुमवधीरयितुं योग्यः।
  • ‘स्त्रीभिर्विमानितानां कापुरुषाणां विवर्धते मदनः’ (मृच्छ० ८।९)। विमानितानामवहेलितानाम्।
  • ‘आक्रोशनविमानाभ्यां नाबुधान्बोधयेद् बुधः’ (भा० शां० २९९।२५)। विमानस्तिरस्कारः।
  • ‘विमानना सुभ्रु कुतः पितुर्गृहे’ (कु० ५।४३)।

मा

  • {विमा}
  • मा (माङ् माने)।
  • ‘बीमां मात्रां मिमीमहे’ (अथर्व० १८।२।४१)। विमिमीमहे विशेषेण मानं कुर्मः। विशिष्टगुणयोगः श्मशानमानस्योच्यत इति सायणः।
  • ‘शक्रो विमिमीते अध्वनः’ (अथर्व० ४।११।२)। उक्तोऽर्थः।
  • ‘सद्यो जातो व्यमिमीत यज्ञम्’ (ऋ० १०।११०।११)। व्यमिमीत=निरमिमीत।
  • ‘स सर्वासां विमानानि देवतानां चकार ह’ (हरि० १।३।४८)। विमानोऽस्त्री देवयाने सप्तभूमौ च सद्मनि।
  • ‘इमां विमानेन सभां विशन्तीं ययावनङ्गैरथ राजराजिः’ (नै० १०।१०७)। विमानः कर्णीरथः।
  • ‘वि यो रजांस्यमिमीत सुक्रतुः’ (ऋ० ६।७।७)।

मि

  • {विमि}
  • मि (डुमिञ् प्रक्षेपणे)।
  • ‘तस्मान्मन्थिनः पुरोरुचा विमितं विमिनुतः’ (श० ब्रा० ५।४।४।२१)। विमिनुतः=उत्तभ्नीतः। विमितं छन्नम्।

मुच्

  • {विमुच्}
  • मुच् (मुच्लृ मोक्षणे)।
  • ‘समाविशति संसृष्टस्तदा मूर्त्तिं विमुञ्चति’ (मनु० १।५६)। विमुञ्चति परिगृह्णाति। प्रतिमुञ्चत्यर्थे विमुञ्चतेः प्रयोगः।
  • ‘विमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत’ (भा० वन० ८।३)। विषं शस्त्रं विमोक्ष्यन्ति प्रहरिष्यन्तीत्याह।
  • ‘वाजिनः स्यन्दने भानोर्विमुक्तप्रग्रहा इव’ (भट्टि० ७।५०)। विमुक्तप्रग्रहाः शिथिलीकृताभीषवः।
  • ‘ततो विमुक्त्वा सशरं शरासनम्’ (रा० ६।१११।१२४)। विमुक्त्वा=विमुच्य=विज्यं कृत्वा।
  • ‘विमुच्य वासांसि गुरूणि साम्प्रतम्’ (ऋतु० १।७)। विमुच्य=संन्यस्य, परित्यज्य, अवतार्य।
  • ‘ननु मां कामवधे विमुञ्चता’ (कु० ४।३१)। विमुञ्चता परिहरता, मां कामवद्घ्नता।

मृज्

  • {विमृज्}
  • मृज् (मृजू शुद्धौ)।
  • ‘हलश्च’ (पा० ३।३।१२१) इत्यत्र वीमार्ग इत्युदाहरणं वृत्तौ स्थितम्। वीमार्गः समूहनीति पदमञ्जरी।

मृद्

  • {विमृद्}
  • मृद् (मृद क्षोदे)।
  • ‘विमर्दसुरभिर्बकुलावलिका खल्वहम्’ (माल० ३)। विमर्दः सङ्घर्षः।
  • ‘कस्तूरिका मृगविमर्दसुगन्धिरेति’ (शिशु० ४।६१)।
  • ‘कुतुहलविमर्दकारिणा परिश्रमेण’ (मृच्छ० १)। विमर्दः प्रध्वंसः।
  • ‘विमर्दक्षमां भूमिमवतरामः’ (उत्तर० ५)। विमर्दः सम्परायो युद्धम्। पुरा जनस्थानविमर्दशङकी सन्धाय लङ्काधिपतिः प्रतस्थे। जनस्थानविमर्दो जनस्थानोत्सादः।
  • ‘अन्या मध्यस्थचिन्ता हि विमर्दाभ्यधिकोदया’ (रा० २।२।१६)। विमर्दः पूर्वपक्षापरपक्षसङ्घर्षः।

मृश्

  • {विमृश्}
  • मृश् (मृश आमर्शने, आमर्शनं स्पर्शः)।
  • ‘विषदोषभयादन्नं विमृशेत् कपिकुक्कुटैः’ (शुक्र० १।३२६)। विमृशेत् परीक्षेत।
  • ‘तदत्रभवानिमं मां च शास्त्रे प्रयोगे च विमृशतु’ (माल० १)। उक्तोऽर्थः।
  • ‘वि रोहितो अमृशद् विश्वरूपम्’ (अथर्व० १३।१।८)। व्यमृशत्=समस्पृशत्।
  • ‘वयं सोम व्रते तव मनस्तनूषु बिभ्रतः प्रजावन्तो अशीमहीति मुखं विमृष्टे’ (आप० श्रौ० ६।१६।१२)। **विमृष्टे विमृशति=स्पृशति।
  • ‘रामप्रवासे व्यमृशन्न दोषं जनापवादं सनरेन्द्रमृत्युम्’ (भट्टि० ३।७)। न व्यमृशत् नालोचितवती (कैकेयी)।
  • ‘कार्यस्य न विमर्शं च गन्तुमर्हसि कौशिक’ (रा० १।१८।५६)। विमर्शः संशयः (कतकः)।
  • ‘कुर्वन्बुद्ध्या विमर्शम्’ (मुद्रा० ४।३)। विमर्शो विचारश्चिन्तनं विवेचनम्।
  • ‘अविद्वदधिकारित्वात्प्रायश्चित्तं विमर्शनम्’ (भा० पु० ६।१।११)।
  • ‘वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः’ (कि० २।३०)। विमृश्यकारी समीक्ष्यकारी।
  • ‘इति ते ज्ञानमाख्यातं गुह्याद् गुह्यतरं मया। ‘विमृश्यैतदशेषेण’ (गीता० १८।६३)॥ विमृश्य=सुविचिन्त्य=सम्प्रधार्य।
  • ‘पांसुगुण्ठितसर्वाङ्गीं विममर्श च पाणिना’ (रा० २।२०।३४)। विममर्श पस्पर्श।
  • ‘राम षड् युक्तो लोके याभिः सर्वं विमृश्यते’ (रा० ३।७२।८)। विमृश्यते विचार्यते चिन्त्यते परीक्ष्यते।

मे

  • {विमे}
  • मे (मेङ् प्रणिदाने प्रणिदानं विनिमयः प्रत्यर्पणं च)।
  • ‘रसा रसैर्महतो हीनतो वा विमातव्याः’ (व० ध० शा० २।३७)। विनिमेयाः परिवर्तनीया इत्यर्थः।

मोक्ष्

  • {विमोक्ष्}
  • मोक्ष् (मोक्ष असने चुरादिः)।
  • ‘सा त्वं सर्वविमोक्षाय तत्त्वमाख्याहि पृच्छतः’ (भा० उ० १९०।१९)। विमोक्षोऽपवर्गः, कैवल्यम्, संसारमोक्ष इति वा।
  • ‘वसूनां च विमोक्षस्य’ (रा० २।२३।३८)। विमोक्ष उत्सर्गः। वसूनां वित्तानाम्।

म्रुच्

  • {विम्रुच्}
  • म्रुच् (म्रुचु गतौ)।
  • ‘असो वा आदित्योऽस्तं यन् षोढा विम्रोचति। व्यम्रुचदिति इति ह स्म वा एतं पूर्वे प्राणिन आचक्षते। अर्थतर्हि न्यम्रुचदिति’ (जै० ब्रा० १।७)। विम्रोचति विभज्य व्यस्यास्तं याति।

यत्

  • {वियत्}
  • यत् (यती प्रयत्ने)।
  • ‘त्रीणिच्छन्दांसि कवयो वियेतिरे’ (अथर्व० १८।१।१७)। वियेतिरे यत्नेन कृतवन्तः। कवयः पूर्वे ज्ञानिनो महर्षयो देवा वा।
  • ‘त्रिवृतमेव यज्ञमुखे वियातयति’ (तै० सं० ५।१।१।३)। आनुपूर्व्या न्यस्यतीत्याह।
  • ‘तदात्मना प्रज्ञया पिशाचा वियातयन्ताम्’ (अथर्व० ५।२??।६)। वियातयन्ताम् निष्कुर्वताम्, प्रायश्चित्तेन शुन्धन्तु।
  • ‘तं यमः पापकर्माणं वियातयति दुष्कृतम्’ (भा० आदि० ७४।३२)। वियातयति विशेषेण पीडयति।
  • ‘आपन्नसत्त्वायां कौमारभृत्यो गर्भभर्मणि प्रसवे च वियतेत’ (कौ० अ० १।१७।२५)। वियतेत विशेषेण यतेत।
  • ‘त्रिवृतमेव यज्ञमुखे वियातयति’ (तै० सं० ५।१।१।३)। वियातयति व्यापारयति।

यम्

  • {वियम्}
  • यम् (यम उपरमे)।
  • ‘यथायथा पतयन्तो वियेभिर् एवैव तस्थुः सवितः सवाय ते’ (ऋ० ४।५४।५)।
  • ‘मा त्वा केचिद् वियमन्’ (अथर्व० ७।१२१।१)। मा वियमन् मा विशेषेण यंसिषुः।
  • ‘वि सक्थानि नरो यमुः’ (ऋ० ५।६१।३)। वियमुः=वियुवन्ति विप्रकृष्टानि कुर्वते।
  • ‘वि रोहिता पुरुमीळ्हाय येमतुः’ (ऋ० ५।६१।९)। वियेमतुस्त्वरितं विक्रमेते।
  • ‘अस्मभ्यं शर्म बहुलं वि यन्त’ (ऋ० ६।५१।५)। वियन्त=वितरत=विश्राणयत।
  • ‘अस्मभ्यं तानि मरुतो वि यन्त’ (ऋ० १।८५।१२)। उक्तोऽर्थः।
  • ‘यत्संयमो न वियमो वियमो यन्न संयमः’ (अथर्व० ४।३।७)। वियमो विरुद्धयमनम्, अन्यथाभावः।
  • ‘वियच्छन्दः’ (वा० सं० १५।५)। विशेषेण यच्छन्ति गच्छन्ति व्यापारायेतस्ततो जना यत्रेति वियद् दिनमिति महीधरः।
  • ‘वि मध्यं यामयौषधे’ (अथर्व० ६।१३७।३)। केशानां मध्यं विविधं यमय स्थिरं कुरु। यामयेत्यत्र सांहितिको दीर्घः।

या

  • {विया}
  • या (या प्रापणे, प्रापणमिह गतिः)।
  • ‘इदं विश्वं भुवनं वि याति’ (अथर्व० ३।३१।५)। इदं विश्वं भुवनं पृथिव्यन्तरिक्षादिरूपं विगतं विश्लिष्टं भवतीत्याह।
  • ‘वीन्द्र यासि दिव्यानि रोचना’ (ऋ० १०।३२।२)। वियासि व्याप्नोषि।
  • ‘वि याथन वनिनः पृथिव्या व्याशाः पर्वतानाम्’ (ऋ० १।३९।३)। वियाथन=वियाथ=मध्येन याथ।
  • ‘वि भिन्दुना नासत्या रथेन वि पर्वताँ अजरयू अयातम्’ (ऋ० १।११६।२०)। उक्तचर एवार्थः।
  • ‘तुविग्रेभिः सत्त्वभिर्याति वि ज्रयः’ (ऋ० १।१४०।९)। वियाति द्विधा विभजते।
  • ‘आस्फोटयाञ्चक्रुरभिप्रणेदू रेजुर्ननन्दुर्विययुः समीयुः’ (भट्टि० १३।२८)। विययुर्वियुक्ता अभूवन्, व्यपेयुः।
  • ‘यस्मिन्मनो दृगपि नो न वियाति लग्नम्’ (भा० पु० ५।२।१६)। न वियाति न व्यपवर्तते।
  • ‘धृषिशसी वैयात्ये’ (पा० ७।२।१९)। वियातो धृष्टः। विशस्त इत्यनर्थान्तरम्।
  • ‘वज्रो वा एतस्याग्नीनन्वेति यस्यान्तरेण युक्तं वा वियाति सं वा चरन्ति’ (जै० ब्रा० १।५१)। अग्नीनन्तरेणेत्यन्वयः। अन्तरेण मध्ये। युक्तं पक्षियुगम्। वियाति याति। विशब्दो नार्थे विशेषं करोति। उत्तरत्र यदि मेऽपि ग्राम एवाग्नीनन्तरेणायासीदिति श्रवणात्।
  • ‘वि जयुषा ययथुः सान्वद्रेः’ (ऋ० १।११७।१६)। विययथुः=विविधं गतवन्तौ।
  • ‘सामात्याः सपरिषदो वियातशोकाः’ (रा० २।७९।१७)। वियातशोकाः विशेषेण यातो गतः शोको येषां ते। विधूतशोका इति पाठान्तरम्।

यु

  • {वियु}
  • यु (यु मिश्रणामिश्रणयोः)।
  • ‘वि कोशं मध्यमं युव’ (ऋ० ९।१०८।९)। वियुव=वियुहि=विसिनु=उद्घाटय।
  • ‘न म इन्द्रेण सख्यं वि योषत्’ (ऋ० २।१८।८)।
  • ‘इहैव स्तं मा वि यौष्टम्’ (ऋ० १०।८५।४२)। मा वियौष्टं वियुक्तौ मा स्म भूतम्।
  • ‘न स राया शशमानो वि योषत्’ (ऋ० ४।२।९)। उक्तोऽर्थः।
  • ‘अधा स वीरैर्दशभिर्वि यूयाः’ (ऋ० ७।१०४।१५)। वियूयाः=वियूयात्। पुरुषव्यत्ययः। वियुतो विपृक्तो वियुक्तो भूयादित्यर्थः।
  • ‘इहेह वत्सैर्वियुता यदासन्’ (ऋ० ५।३०।१०)। वियुता विप्रयुक्ताः।
  • ‘न वयं रायस्पोषेण वियौष्म’ (वा० सं० ४।२२)। असकृदुक्तचरोऽर्थः। लोके यौतिरुदात्तः, तेन मा वियाविष्मेति स्यात्।
  • ‘अशेषैर्वियुतं दोषैरशेषैः संयुतं गुणैः’ (बृ० श्लो० सं० ५।१२८)। वियुतं वियुक्तम्।

युज्

  • {वियुज्}
  • युज् (युजिर् योगे)।
  • ‘येषां चतुर्थं वियुनक्ति वाचम्’ (अथर्व० ८।९।३)। वियुनक्ति=पृथक्करोति विसंहितां करोति।
  • ‘सोहमेनं तव प्रीत्या तपःसिद्धमपि ध्रुवम्। वियुनज्मि देहाद् देवेन्द्र’ (भा० वन० १४२।२६)। वियोजयामीत्यर्थः।
  • ‘नूनं भूतानि भगवान् युनक्ति च’ (भा० पु० १०।८२।४२)। उक्तोऽर्थः।
  • ‘मदमानसमुद्धतं नृपं न वियुङ्क्ते नियमेन मूढता’ (कि० २।४९)। वियुङ्क्ते रहयति।
  • ‘कोऽद्यैव मया वियुज्यतां तवासुहृत्प्राणयशःसुहृज्जनैः’ (रा० २।२३।४१)। वियुज्यतां वियुक्तः क्रियताम्।
  • ‘येन येन वियुज्यन्ते प्रजा स्निग्धेन बन्धुना। स स पापादृते तासां दुष्यन्त इति घुष्यताम्’ (शा० ६।२३)।
  • ‘प्राणैर्न वियोजयति’ (पञ्चत० १)। प्राणैर्जीवितेन वियुक्तं न करोति।
  • ‘पुरो वियुक्ते मिथुने कृपावती’ (कु० ५।२६)।
  • ‘संयुक्तांश्च वियुक्तांश्च सर्वोपायान् सृजेद् बुधः’ (मनु० ७।२१४)। वियुक्तान् व्यस्तान्। संयुक्तान् समस्तान्। समं प्रयुक्तान्।
  • ‘अजानता मया सैव पत्रैः शाखा वियोजिता’ (मृच्छ० ४।१३)।

रक्ष्

  • {विरक्ष्}
  • रक्ष् (रक्ष पालने)।
  • ‘राजा राष्ट्रं वि रक्षति’ (अथर्व० ११।५।१७)। विशेषेण रक्षतीत्यर्थः।
  • ‘अन्योन्यं समुपाश्रित्य विरक्षन्ति रणाजिरे’ (भा० ७।४४१०)। उक्तोऽर्थः।
  • ‘राजा राष्ट्रं वि रक्षति’ (अथर्व० ११।५।१७)।

रच्

  • {विरच्}
  • रच् (रच प्रतियत्ने)।
  • ‘नावं विरचयेरन्यां तरणाय गुणैर्युताम्।’ विरचयेः=निर्माहि।
  • ‘मालाकार व्यरचि भवता या तरोरस्य पुष्टिः’ (भामिनी० १।३०)। व्यरचि अकारि।
  • ‘क्षितिविरचितशय्यं कौतुकागारमागात् विरचिता संविहिताऽऽस्तीर्णा (शय्या)।’ (कु० ७।९४)।
  • ‘इति विरचित-वाग्भिर्वन्दि-पुत्रैः’ (रघु० ५।७४)। विरचितवाग्भिः सङ्ग्रथितवचनैः।
  • ‘मदगोत्राङ्कं विरचितपदं गेयमुद्गातुकामा’ (मेघ० ८८)। उक्तोऽर्थः।
  • ‘तारावलीविरचनैर्व्यरुचन्निवाशाः’ (शिशु० ५।२१)। विरचनं क्रमेण न्यासः। ताराः शुद्धमुक्ताः।

रञ्ज्

  • {विरञ्ज्}
  • रञ्ज् (रञ्ज रागे)।
  • ‘चकोरस्य विरज्येते नयने विषदर्शनात्’ (का० नी० सा० ७।१२)। विरज्येते निसर्गजं स्ववर्णं हारयत इत्याह।
  • ‘कोकिलस्याक्षिणी विरज्येते’ (कौ० अ० १।२०।१७)।
  • ‘केशा अपि विरज्यन्ते निःस्नेहाः किं न सेवकाः’ (पञ्चत० १।८२)। विरज्यन्ते विगतरागा भवन्ति, स्वं वर्णं जहति, सितिमानमापद्यन्ते। पक्षान्तरे त्यक्तानुरागा जायन्ते रूक्षा भवन्तीत्यर्थः।
  • ‘चिरानुरक्तोपि विरज्यते जनः’ (मृच्छ० १।५)। विरज्यते विरक्तो भवति।
  • ‘श्रीर्निष्कुष्यति लङ्कायां विरज्यन्ति समृद्धयः’ (भट्टि० १८।२२)। विरज्यन्ति=अपयान्ति। औपचारिकः प्रयोगः।
  • ‘तदार्तवं प्रशंसन्ति यद्वासो न विरञ्जयेत्’ (सुश्रुते १।३१५।१०)। न विरञ्जयेत्=नाङ्कितं कुर्यात्। न कलङ्कितं विदध्यात्।
  • ‘रक्ताद् वृत्तिं समीहेत विरक्तस्य विवर्जयेत्’ (का० नी० सा० ५।४६)। विरक्त उदासीनः।
  • ‘सैवामृतलता रक्ता विरवता विषवल्लरी’ (कथा० ३३।१८५)। विरक्ता निष्प्रणया।
  • ‘विरक्तसन्ध्याकपिशं पुरस्तात्’ (रघु० १३।६४)। विरक्ता विशेषेण रक्ता लोहिता।
  • ‘विरक्तः प्रव्रजेद् धीमान् संरक्तस्तु गृहे वसेत्’ (नारद०)। विरक्तोऽनासक्तः।
  • ‘यां चिन्तयामि सततं मयि सा विरक्ता’ (भर्तृ०)।
  • ‘विरागकारणेषु परिहृतेषु’ (मुद्रा० १)। विरागोऽनुरागाभावः, निष्प्रणयता।

रद्

  • {विरद्}
  • रद् (रद विलेखने)।
  • ‘तं गृहीत्वा नखैस्तीक्ष्णैर्विरराद समन्ततः’ (रा० ३।५१।३३)। विरराद विलिलेख।

रम्

  • {विरम्}
  • रम् (रमु क्रीडायाम्)।
  • ‘पावकश्च तदा दावं दग्ध्वा समृगपक्षिणम्। अहानि पञ्च चैकं च विरराम सुतर्पितः’ (भा० आदि० २३४।१५)॥ विरराम उपारराम। दहनकर्मणो निववृते।
  • ‘विरमेत् पक्षिणीं रात्रिम्’ (मनु० ४।९७)। अध्ययनादिति शेषः। अध्ययनविरामं कुर्यादित्यर्थः।
  • ‘प्रारभ्य विघ्नविहता विरमन्ति मध्याः’ (भर्तृ० नीति० )। विरमन्ति कार्यविच्छेदं कुर्वन्तीत्याह।
  • ‘न स्थिरकर्मा विरराम कर्मणः’ (रघु० ८।२२) कर्मप्रबन्धोऽस्याप्रतिबद्धो बभूवेत्यर्थः।
  • ‘अविदितगतयामा रात्रिरेव व्यरंसीत्’ (उत्तर० १।२७)। रात्रिरवसानमयासीत्।
  • ‘हा हन्त रजनीं तदानीं कथाप्रकारैर्बहुभिर्महात्मा विरामयामास नरेन्द्रसूनुः’ (रा० ७।६६।१७)। अवसानं निनाय। गमयामासेत्यर्थः।
  • ‘किमिति चित्तं विरमति नाद्यापि विषयेभ्यः’ (भामिनी० ४।२५)। न विरमति=न व्यपवर्तते।
  • ‘एतावदुक्त्वा विरते मृगेन्द्रे’ (रघु० २।५१)। उक्त्वा विरते=उपसंहृतवचसि।
  • ‘उपारमत पाण्डूनां विरता हि वरूथिनी’ (भा० द्रोण० १८४।३०)। विरता श्रान्ता।
  • ‘प्रवृत्तस्याविरामे भवन्ती शासितव्या’ (भाष्ये)। अविरामोऽविच्छेदः।
  • ‘सुधां विना न प्रययुर्विरामम्’ (भर्तृ० २।८०)। विरामो व्यापृतिविच्छेदः, प्रवृत्तिभङ्गः।
  • ‘आरामः कल्पवृक्षाणां विरामः सकलापदाम्’ (रामरक्षा श्लो० १६)। विरामो विरामस्थानम्।
  • ‘वर्णानामपि मूर्छनान्तर्गतं तारं विरामे मृदुम्’ (मृच्छ० ३।१)। विरामेऽवसाने। आरत्यवरतिविरतय उपराम इत्यमरे पर्यायपरिपाठः।
  • ‘इदममरवरात्मजस्य घोरं शुचिचरितं विनिशम्य फाल्गुनस्य। …त्रिदिवगता विरमन्ति मानवेन्द्राः’ (भा० वन० ४६।६३)। विरमन्ति विशेषेण रमन्ते।
  • ‘रत्यर्थिनो वै दनुजा गृहेषु सहाङ्गनाभिः सुचिरं विरेमुः’ (मात्स्य० १३९।२२)। विरेमुः=विशेषेण रेमिरे।
  • ‘अर्धं चेतसि जानकी विरमयति अर्धं च लङ्केश्वरः’ (हनुमन्नाटके १०।१४)। विरमयति विगतरतिकं करोति। दुःखयतीत्यर्थः।

रह्

  • {विरह्}
  • रह् (रह त्यागे)।
  • ‘ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य च’ (भा० आदि० १४१।३१)। विरहितमेकाकिनम्।

राज्

  • {विराज्}
  • राज् (राजृ दीप्तौ)।
  • ‘यथाहमेषां वीराणां विराजानि धनस्य च’ (अथर्व० १।२९।६)। वेदे राजतिरैश्वर्यकर्मा। नियन्ता भवानीत्यर्थः।
  • ‘एषा भागीरथी…वातेरिता पताकेव विराजति नभस्थले’ (रा० २।९७।१९)। विराजति शोभते।
  • ‘शाखिनोऽन्ये विराजन्ते खण्ड्यन्ते चन्दनद्रुमाः’ (भामिनी० १।८८)। मृदुकुञ्चितदीर्घेण कुसुमोत्करधारिणा।
  • ‘केशहस्तेन ललना जगामाथ विराजती’ (भा० वन० ४६।६)। विराजती=विराजन्ती=शुम्भमाना=दीप्यमाना।
  • ‘व्यराजयत वैदेही वेश्म तत् सुविभूषिता। उद्यतोंशुमतः काले खं प्रभेव विवस्वतः’ (रा० २।३९।१८)॥ व्यराजयत=अशोभयत्।

राध्

  • {विराध्}
  • राध् (राध साध संसिद्धौ)।
  • ‘सं श्रुतेन गमेमहि मा श्रुतेन वि राधिषि’ (अथर्व० १।१।४)। श्रुतेन वियुक्तो मा भूवम्।
  • ‘मा प्रजया प्रतिगृह्य वि राधिषि’ (अथर्व० ३।२९।८)।
  • ‘तेनाहं सत्येन मा विराधिषि ब्रह्मणा’ (छां० उप० ३।११।२)। उक्तोऽर्थः।
  • ‘क्रियासमभिहारेण विराध्यन्तं क्षमेत कः’ (शिशु० २।४३)। विराध्यन्तं द्रुह्यन्तम्, अपकुर्वन्तम्।
  • ‘न हि तद्विधानां जनप्रवादसम्पादनाभिराध्या गुणविभूतिः’ (अवदा० श्रेष्ठि० जा०)। अभिराध्या साध्या।
  • ‘तर्हि कीटिकादिभिः किं तव विराद्धम्’ (स्याद्वाद०)। विराद्धमपराद्धम्।

रिच्

  • {विरिच्}
  • रिच् (रिचिर् विरेचने)।
  • ‘अतश्चिदस्य महिमा वि रेचि’ (ऋ० ४।१६।५)। विरेचि व्यतिरिक्तोऽभूत्। ज्यायानभूदित्यर्थः।
  • ‘यः सोमं पीत्वा छर्दयेत विरिच्येत वा’ (लाट्या० श्रौ० ८।१०।९)। विरिच्येत संजातविरेकः स्यात्।
  • ‘वान्तो विरिक्तः’ (मनु० ५।१४४)। उक्तोऽर्थः।

रु

  • {विरु}
  • रु (रु शब्दे)।
  • ‘ननु सहचरीं दूरे मत्वा विरौषि समुत्सुकः’ (विक्रम० ४।२०)। विरौषि वाश्यसे। कूजसि। क्रन्दसि।
  • ‘न स विरौति न चापि स शोभते’ (पञ्चत० १।७५)। विरौति, शिङ्क्ते, क्वणति, रणति।
  • ‘जीर्णत्वाद् गृहस्य विरौति कपाटम्’ (मृच्छ० ३)। विरौति सङ्क्रीडति।
  • ‘एते त एव गिरयो विरुवन्मयूराः’ (उत्तर० २।२३)। विरुवन्तो विरावं कुर्वन्तः कूजन्तो मयूरा यत्र ते।
  • ‘गायनैश्च विराविण्यो वादनैश्च तथा परैः’ (रा० १।१८।१९)। विराविण्यः (रथ्याः) प्रतिश्रुत्वत्यः, प्रतिध्वनिताः।
  • ‘परभृतविरुतं कलं यथा प्रतिवचनीकृतमेभिरीदृशम्’ (शा० ४।९)। परभृतविरुतं कोकिलकूजितम्।

रुच्

  • {विरुच्}
  • रुच् (रुच दीप्तावभिप्रीतौ च)।
  • ‘अग्ने बृहद् वि रोचसे त्वं घृतेभिराहुतः’ (ऋ० २।७।४)। विरोचसे दीप्यसे, समिद्धो भवसि।
  • ‘संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत’ (भा० वन० २६।४)। उक्तोऽर्थः।
  • ‘तत्रस्थैरथ तैर्बाणर्माद्रिपुत्रो व्यरोचत’ (भा० कर्ण० २४।१७)।
  • ‘अलातचक्रवच्चैव व्यरोचत महीं गतः’ (भा० द्रोण० ११५।४८)। प्रत्यभादित्यर्थः।
  • ‘यो ब्राह्मणो विद्यामनूच्य न विरोचते’ (तै० सं० २।१।२।८)। न विरोचते लोकस्यार्चितो न भवति, यशस्वी न सञ्जायते।
  • ‘यया विद्यया न विरोचेत’ (आप० ध० २।२।५।१५)। अनन्तरोदीरित एवार्थः।
  • ‘दीप्तिनिर्जितविरोचनादयं गां विरोचनसुतादभीप्सतः…स्वर्पतेः’ (शिशु० १४।७४)। विरोचनः सूर्यः। स्वर्पतिरिन्द्रः।
  • ‘द्वे कर्मणी नरः कुर्वन्नस्मिँल्लोके विरोचते’ (भा० उ० ३३।५४)। विरोचते विशेषेण दीप्यते।
  • ‘सं दूतो अद्यौदुषसो विरोके’ (ऋ० ३।५।२)। विरोको व्युष्टिः, विभानम्।

रुज्

  • {विरुज्}
  • रुज् (रुजो भङ्गे)।
  • ‘इदं हिरण्यमाण्डं व्यरुजन्’ (श० ब्रा० ११।१।६।२)। व्यरुजन् अभञ्जन्। विरिह विशेषकृन्न।
  • ‘आरुजन् विरुजन् पार्थो ज्यां विकर्षश्च पाणिना’ (भा० द्रोण० १२७।३१)। विरिह विशेषकृन्न। विरुजन् विध्यन्।
  • ‘विरुग्णोदग्रधाराग्रः कुलिशो मम वक्षसि’ (भट्टि० ५।२५)। विरुग्णानि अवसन्नानि कुण्ठितानि उदग्राणि महान्ति धाराग्राणि यस्य सः।

रुद्

  • {विरुद्}
  • रुद् (रुदिर् अश्रुविमोचने)।
  • ‘अकालज्ञासि सैरन्ध्रि शैलूषीव विरोदिषि’ (भा० वि० १६।४३)।
  • ‘गद्यपद्यमयी राजस्तुतिर्विरुदमुच्यते’ (सा० द० ५७०)। तस्येदमुदाहरणम्–नदन्ति मददन्तिनः परिलसन्ति वाजिव्रजाः। पठन्ति विरुदावलीमहितमन्दिरे वन्दिनः (रसगं०)।

रुध्

  • {विरुध्}
  • रुध् (रुधिर् आवरणे)।
  • ‘घ्राणं करेण विरुणद्धि’ (ऋतु० ६।२६)। नासां पिनद्धीत्याह।
  • ‘न च तेऽहं विरुध्यामि कस्मान्मां हतवानसि’ (गोरेसियोसं० रा० ४।१६।१९)। विरुध्यामि विरोधमाचरामि, शत्रूये, अरातीये।
  • ‘एको दोषो विदेशस्य स्वजातिर्यद् विरुध्यते’ (पञ्चत० ४।११६)। विरुध्यते कलहायते।
  • ‘मृत्युर्ध्रुवस्ते मया’ (रा० ३।४४।३१)। मया विरुध्य मयि प्रतीपमाचर्य। जानीयादागमान्सर्वान् ग्राह्यं च न विरोधयेत्। न विरोधयेत्, न प्रतिब्रूयात् नापवदेत्, न खण्डयेत्।
  • ‘निहन्ताहं विरुद्धानां रक्षिता नमतां पुनः’ (कथा० ४६।१५८)। विरुद्धानां प्रतिपक्षाणां प्रतिपन्थिनाम्, पर्यवस्थातृणाम्।
  • ‘परविरुद्धेषु नोत्सहन्ते महाशयाः’ (कथा० १७।१४९)। परै रुद्धेष्वाक्रान्तेषु अभियातेषु न पराक्रमन्ते उदाराशया इत्याह।
  • ‘स्वर्गे निवासे राजेन्द्र विरुद्धं चापि नश्यति’ (भा० स्वर्गा० १।११)। विरुद्धं विरोधो वैरम्।
  • ‘विधेर्विधानाद् विरुणद्धि कस्य वा न मानसं मोहमहातम स्थितिः’ (परिजात० १६।१६)। विरवरय स्थाने। अवरुणद्धीति साधु स्यात्। संवरणमाच्छादनं हि विवक्षितम्।

रुह्

  • {विरुह्}
  • रुह् (रुह बीजजन्मनि)।
  • ‘वि चारुहन्वीरुधः’ (ऋ० १०।४०।९)। व्यरुहन्=व्यरोहन्=अङ्कुरिता अभवन्, उदभवन्।
  • ‘व्यस्यामोषधयो रोहन्ति’ (तै० सं० ३।४।३।३)। उक्तोऽर्थः।
  • ‘ब्रह्मलोकं व्यरोहत’ (रा० ३।५।४१)। व्यरोहत=आरोहत्।
  • ‘शशाप पुत्रं गान्धारे राज्याच्चापि व्यरोपयत्’ (भा० उ० १४९।१०)। व्यरोपयत्=निरवासयत्।
  • ‘विरोप्यन्तां गुल्मिनः’ (रा० ७।५४।११)। निमीयन्तामित्यर्थः।
  • ‘व्रणविरोपणं तैलम्’ (शा० ४।१३)। क्षतसंरोहणकरमित्यर्थः।
  • ‘सहस्रवल्शा वि वयं रुहेम’ (तै० सं० १।१।२)। विरुहेम विरोहेम विविधं रोहेम।
  • ‘वृक्षस्य नु ते पुरुहूत वया व्यूतयो रुरुहुरिन्द्र पूर्वीः’ (ऋ० ६।२४।३)। पूर्वीः पूर्व्यः पूर्वा (खिलीभूताः) व्यूतयो यज्ञमार्गाः। विरुरुहुः पुना रूढाः प्रसिद्धा अशून्या भवन्तु।
  • ‘यस्य यूपो विरोहति’ (तै० ब्रा० १।४।७।१) विरोहति अङ्कुरवान् जायते।

रेभ्

  • {विरेभ्}
  • रेभ् (रेभृ शब्दे)।
  • ‘विधिविहितविरिब्धैः सामिधेनीरधीत्य।’ विरिब्धैः स्वरैः। क्षुब्धस्वान्तध्वान्तेत्यादिना रेभेर्निष्ठायां निपातितम।

लक्ष्

  • {विलक्ष्}
  • लक्ष् (लक्ष दर्शनाङ्कनयोः, शम लक्ष आलोचने)।
  • ‘गोत्रेषु स्खलित स्तदा भवति च व्रीडाविलक्षश्चिरम्’ (शा० ६।४)। व्रीडाविलक्षो ह्रीमूढः। विलक्षो विस्मयान्वित इत्यमरः। निष्प्रतिपत्तिरित्यर्थ इति स्वामी।
  • ‘विलक्षितास्ततश्चक्रुर्हाहाकारांश्च सर्वशः’ (भा० आदि० १८८।२२)। विषमं लक्षितं दृष्टिर्येषां ते, लक्ष्येण विनाकृता वेति नीलकण्ठः। हेतुशून्या त्वास्या विलक्षणम् (अमरः)। अत्र महेश्वरो भागुरिमुद्धरति–विलक्षणं मतं स्थानं यद् भवेन्निष्प्रयोजनम्।
  • ‘तां दृष्ट्वा युक्त्युपालब्धां राजा देवीं विलक्षिताम्’ (कथा० १७।३२)। विलक्षितां ह्रीमूढाम्। विलक्षो विस्मयान्वित इत्यमरः।

लग्

  • {विलग्}
  • लग् (लगे सङ्गे)
  • ‘विलग्नमध्या सुश्रोणिः सुभ्रूः सर्वगुणान्विता’ (भा० आदि० १६९।६)। विलग्नमध्या शातोदरी, कृशमध्या, संलीनकुक्षिः।
  • ‘वेदिविलग्नमध्या’ (कु० १।३९)।
  • ‘सुदक्षिणा वेदिविलग्नमध्या’ (भा० वि० ३७।१)। उक्तोऽर्थः।
  • ‘अन्तरेणापि विमुपसर्गं केवलो लग्नशब्दः कृशार्थको दृष्टः–तं (महावीरं) प्रादेशमात्र पृथुबुघ्नं मध्ये लग्नं करोति’ (बौ० श्रौ० ९।३)। इत्यत्र यथा रथकारशरीरे पादो विलग्नः (पञ्चत०)। संलग्नः, समासक्तः।
  • ‘तया सह त्वदर्थे कलहायतो ममेयती वेला विलग्ना’ (पञ्चत०)। विलग्ना=व्यतीता। अत्रार्थेऽन्यत्र विरलः प्रयोगः।
  • ‘इति ध्रुवं व्यलगिषुरात्तभीतयः खमुच्चकरैनलसखस्य केतवः’ (शिशु० १७।५५)। खं व्यलगिषु र्वियदारूढाः। केतवो रेणवः।

लङ्घ्

  • {विलङ्घ्}
  • लङ्घ् (लघि गतौ)।
  • ‘इति कर्णोत्पलं प्रायस्तव दृष्ट्या विलङ्घ्यते’ (का० आ० २।२२४)। ** विलङ्घ्यते=अतिशय्यते।**
  • ‘विलङ्घिताधोरणतीव्रयत्ना सेनागजेद्राः’ (रघु० ५।४८)। व्यर्थीकृतहस्तिप्रयासाः।
  • ‘गन्तुं प्रवृत्ते समयं विलङ्घ्य’ (कु० ३।४)। विङ्घ्य=अतिहाय, उपेक्ष्य।

लस्ज्

  • {विलस्ज्}
  • लस्ज् (ओलस्जी व्रीडायाम्)।
  • ‘यत्रांशुकाक्षेपविलज्जितानाम्’ (कु० १।१४)। विरिह विशेषकृन्न।

लप्

  • {विलप्}
  • लप् (लप व्यक्तायां वाचि)।
  • ‘विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम्’ (रघु० ८।४३)। विललाप पर्यदेवयत।
  • ‘विललाप विकीर्णमूर्धजा’ (कु० ४।४)। उक्तोऽर्थः।
  • ‘तामिह वृथा किं विलपामि’ (गीत० ३)। सक्रन्दनमभिव्याहरामि। अत्रार्थेऽन्यत्र मुधा मृग्यः प्रयोगः। परिदेवनमात्रे विलपिः प्रसिध्यत्यकर्मकः। अयं तु कविरिति निरङ्कुशः।
  • ‘यातुधानान् विलापय’ (अथर्व० १।७।२)। विलापं परिदेवनं कारयेत्याह।
  • ‘उतेव मत्तो विलपन्नपायति’ (अथर्व० ६।२०।१)। विलपन्=विविधं लपन्। प्रलपन्नित्यर्थः।
  • ‘एवं तेषां विलपतां विप्राणां विविधा गिरः’ (भा० आदि० १८८।१६)। विलपतां व्याहरताम्। विना नार्थः। तदर्थस्य विविधा इत्यनेनैवोक्तत्वात्।
  • ‘विलेपुः कोकिलाः …मधुराणि विचित्राणि’ (हरि० ८३६९)।
  • ‘विलपनविनोदोप्यसुलभः’ (उत्तर० ३।३०)। विलपनं विलापः परिदेवना।

लभ्

  • {विलभ्}
  • लभ् (डुलभष् प्राप्तौ)।
  • ‘उत्तरवेदौ वा निधाय विलाभम्…’ (का० श्रौ० १०।८।५)। विलाभं विलभ्य पृथग् गृहीत्वा। विलभतेर्णमुल्।
  • ‘पौरपुरन्ध्रीणां विलब्धनयनोत्सवः…प्राविशद्राजमन्दिरम्’ (कथा० ५५।१००)। विलब्धो दत्तो नेत्रानन्दो येन सः।
  • ‘विलब्ध इव चक्राह्वैस्तस्य तीर्णानिशैस्तदा। भेजे शतगुणीभावं करुणाक्रन्दितध्वनिः’ (कथा० ८७।१९)॥
  • ‘अहमत्र प्रभुर्यूंयं करदाश्च कुटुम्बिनः। विक्रमादित्यदेवेन विलब्धाः शासनेन मे’ (कथा० १२४।७७)॥ विलब्धाः समर्पिताः। मन्निघ्नाः कृता इत्यभिसन्धिः।
  • ‘विलम्भस्त्वतिसर्जनम्’ (अमरः)। अतिसर्जनम्=दानम्, त्यागः। विरत्र विपर्यये।
  • ‘विलब्धिस्तेन दीन्नारकोटिषण्णवतेः क्रमात्’ (राज० ७।१६३)। विलब्धिर्विशिष्टो लाभः।
  • ‘विलब्ध इव चक्राह्वैस्तस्य तीर्णनिशैः सदा। भेजे शतगुणीभावं करुणाक्रन्दितध्वनिः’ (कथा० ८७।१९)। पूर्वमुपात्तो ऽ प्येष ग्रन्थोऽर्थनिर्देशाय पुनरुपादीयते। विलब्धो मिश्रितः।

लम्ब्

  • {विलम्ब्}
  • लम्ब् (अबि रबि लबि शब्दे, लबि अवस्रंसने च)।
  • ‘सकृत्कृतापराधस्य तत्रैव विलम्बतः’ (भा० शां० १३९।२५)। विलम्बतः=विलम्बमानस्य=अवतिष्ठमानस्य।
  • ‘तां प्राङ्मुखीं तत्र निवेश्य तन्वीं क्षणं व्यलम्बन्त पुरो निषण्णाः’ (कु० ७।१३)। अवातिष्ठन्त, प्रसरं व्यरमयन्।
  • ‘इति यावत्स नृपतिर्विचिकित्सन् विलम्बते’ (कथा० ४५।१०३)। नाध्यवस्यतीत्याह।
  • ‘किं विलब्यते त्वरितं तं प्रवेशय’ (उत्तर० १)। किं चिरायस इत्यर्थः।
  • ‘वीव वा अन्तरात्मा पक्षौ लम्बते’ (पञ्च० ब्रा० १४।९।२०)। विलम्बते संश्रयते आधृतो भवति।
  • ‘क्व रामः शयितो रात्रौ क्व स्थितः क्व विलम्बितः’ (गोरेसियो० सं० रा० २।९३।१३)। विलम्बित उषितः।
  • ‘चिरं तु भवता कालो व्याक्षेपेण विलम्बितः’ (हरि० २।५६।६७)। विलम्बितो मुधा यापितः।
  • ‘विलम्बितफलैः कालं निनाय स मनोरथैः’ (रघु० १।३३)। विलम्बितं व्याक्षिप्तं फलं येषां तैः।

लस्

  • {विलस्}
  • लस् (लस श्लेषणक्रीडनयोः)।
  • ‘वियति च विललास तद्वदिन्दुर्विलसति चन्द्रमसो न यद्वदन्यः’ (भट्टि० १०।६९)। विललास शुशुभे, प्रचकाशे, बभासे।
  • ‘कापि चपला मधुरिपुणा विलसति युवतिरधिकगुणा’ (गीत० ७)। विलसति सविभ्रमं चेष्टते, शृङ्गारचेष्टाः करोति।
  • ‘(खेद:) त्वयि विलसति तुल्यं वल्लभालोकनेन’ (मालती० ३।८)। विलसति उद्भवति विजृम्भते।
  • ‘यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव’ (शा० २।२)। विलासो विभ्रमः शृङ्गारचेष्टा।

लिख्

  • {विलिख्}
  • लिख् (लिख अक्षरविन्यासे)।
  • रद विलेखने इति धातुपाठः। विलेखनं भेदनं भवति। क्षुर विलेखने इति च। विलेखनं छेदनमिह विवक्षितम्।
  • ‘विलिखति रहसि कुरङ्गमदेन भवन्तं समशरभूतम्’ (गीत० ४)। विलिखति चित्रमाकरोति।
  • ‘पादेन हैमं विलिलेख पीठम्’ (रघु० ६।१५)। विलिलेख=जघर्ष।
  • ‘व्यलिखच्चञ्चुपुटेन पक्षती’ (नै० २।२)।
  • ‘निघ्नन् प्रोथेन पृथिवीं विलिखंश्चरणैरपि’ (भा० वन० १६७।१९)। विलिखन् रदन् उत्किरन्।
  • ‘वेदिप्रान्तात्खुरविलिखितात्’ (शा०)। खुरविलिखितात्खुरोत्कीर्णात्।
  • ‘निर्भिन्दन्तौ च गात्राणि विलिखन्तौ च सायकैः’ (हरि०)। विलिखन्तौ क्षिण्वन्तौ।
  • ‘छायातपविलेखं च’ (भा० आश्व० ४५।४)। विलेखश्छिद्रम्। छायातपौ मेघसन्तापौ विलेखावुत्खातारौ यत्रेति तु नीलकण्ठः। उत्खातारावित्यपपाठः, उत्खनिताराविति तु पाठः।

लिप्

  • {विलिप्}
  • लिप् (लिप उपदेहे)।
  • ‘उपदेह उपचयः। क्तादल्पाख्यायाम्’ (४।१।५??) इत्यत्र अभ्रविलिप्ती द्यौरित्युदाहरणं वृत्तौ। अभ्रविलिप्ती=अल्पाभ्रा। विशब्दोऽल्पत्वस्य द्योतकः। अत एव चन्दनानुलिप्ता ब्राह्मणीति प्रत्युदाहरणेऽनुशब्दो व्याप्तेर्द्योतकः प्रयुक्तः।
  • ‘चिताभस्मरजः विलिप्यते मौलिभिरम्बरौकसाम्’ (कु० ५।७९)।

ली

  • {विली}
  • ली (लीङ् श्लेषणे)।
  • ‘तत्र के चिन्नरा भीता व्यलीयन्त महीतले’ (भा० सौ० ८।९२)। महीतले व्यलीयन्त=भुवमाश्लिष्टवन्तः।
  • ‘पतत्पतङ्गप्रतिमस्तपोनिधिः पुरोऽस्य यावन्न भुवि व्यलीयत’ (शिशु० १।१२)। भुवि न व्यलीयत भुवं नावातरत्।
  • ‘विलिल्ये यत्कुक्षिस्थितशिखिनि वातापिवपुषा’ (महावीर० ६।६०)। वातापिकायेन व्यद्रावि, वातापितनुर्द्रुततां गतेत्यर्थः।
  • ‘स्थालीपाको विलीयते’ (अथर्व० २०।१३४।३)। विलीयते द्रवति।
  • ‘यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते। यस्मिन्विलीयते धर्मस्तं देवा वृषलं विदुः’ (भा० शां० ९०।१४)॥ विलीयते तिरोभवति नश्यति।
  • ‘यातुधानान् विलापय’ (अथर्व० १।७।६)। विलापय नाशय। आज्यं विलापयति। विलीनं करोति। सर्वं चिदात्मनि विलापयेत् तिरोभावयेत्। ब्रह्मज्ञानविलीनानां न भाति बाह्यमर्थजातम्। विलीना निमग्नाः।
  • ‘ततः शाखाविलीनानां स तेषां पक्षिणां मिथः’ (कथा० २६।२८)। शाखासु संश्रितानामित्यर्थः।
  • ‘सर्पिर्विलीनमाज्यं स्यात्’ (अमर:)।
  • ‘नयतु मामात्मनोऽङ्गेषु विलयमम्बा’ (उत्तर० ७)। विलयोन्तर्भावः।
  • ‘दिवसोऽनुमित्रमगमद् विलयम्’ (शिशु० ९।१७)। विलयोऽवसानम्।
  • ‘पुष्टिकाम एव…विलयनं जुहुयात्’ (गो० गृ० ३।६।४)। विलयनमधर्मथितं दधीति सत्यव्रतः सामश्रमी।
  • ‘विलयनं मथितं पिण्याकं मधु मांसं च वर्जयेत्’ (आप० ध० २।८।१८।१)। विलयनं नवनीतमलमिति हरदत्तः।

लुड्

  • {विलुड्}
  • लुड् (लुड विलोडने)।
  • ‘तात नोदधिविलोडनं प्रति त्वद्विनाथ वयमुत्सहामहे’ (शिशु० १४।८३)। विलोडनं मन्थनम्।
  • ‘विलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये’ (भा० शां० १३७।१३)। विलोड्यमाने क्षोभ्यमाणे।

लुप्

  • {विलुप्}
  • लुप् (लुप्लृ छेदने)।
  • ‘रक्षांसि हि बिलुम्पन्ति श्राद्धमारक्षवर्जितम्’ (मनु० ३।२०४)। विलुम्पन्ति आमृशन्ति आच्छिन्दन्ति। कामक्रोधौ शरीरस्थौ प्रज्ञानं तौ विलुम्पतः। कृन्ततः, उत्सादयतः, विनाशयतः।
  • ‘शकुन्तनिवहैर्विष्वग्विलुप्तच्छदः’ (पञ्चत०)। तरुर्विशेष्यः। विलुप्ताश्छिन्नाश्छदाः पत्राणि यस्य सः।
  • ‘प्रियमत्यन्तविलुप्तदर्शनम्’ (कु० ४।२)। अत्यन्ताय नष्टं दर्शनं यस्य तम्।
  • ‘क्रव्याद्भिरङ्गलतिका नियतं विलुप्ता’ (उत्तर० ३।२८)। विलुप्ता कर्तित्वा निगीर्णा।

लुभ्

  • {विलुभ्}
  • लुभ् (लुभ विमोहने। विमोहनमाकुलीकरणम्, लुभ गार्ध्ये)।
  • ‘स्मर यावन्न विलोभ्यसे दिवि’ (कु० ४।२०)। विलोभ्यसे गर्ध्यसे, आकृष्यसे।
  • ‘अङ्गनास्तमधिकं व्यलोभयन्’ (रघु० १९।१०)। प्रलोभितवत्यः। गर्धितवत्यः।
  • ‘क्व नु दृष्टिं विलोभयामि’ (शा० ६)। विलोभयामि रञ्जयामि।
  • ‘समीपवासेन विलोभितास्ते’ (भा० वन० १७६।९)। विलोभिता विमोहिता बुद्धिविभ्रमं गमिताः।
  • ‘दधद्विलुभितं वातैः केसरं वह्निपिङ्गम्’ (भट्टि० ९।४)। विलुभितं पर्याकुलीकृतम्। विलुभितः सीमन्तः। आकुलीकृत इत्यर्थः। विलुभितानि पदानि।
  • ‘आकुलीभूतानि विषयीभूतानि’ (का० ७।२।५४)।

लोक्

  • {विलोक्}
  • लोक् (लोकृ दर्शने)।
  • ‘वृतिं तत्र प्रकुर्वीत यामुष्ट्रो न विलोकयेत्’ (मनु० ८।२३९)। अपरपार्श्वे न विलोकयेदित्यर्थः।
  • ‘न विलोकयन्’ (गो० गृ० १।१।१४)। इतस्ततो नान्यदवलोकयन्नित्यर्थः। विविधं लोकनं विलोकनम्।
  • ‘विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति’ (कु० ५।७०)।

वच्

  • {विवच्}
  • वच् (वच् परिभाषणे)।
  • ‘नाहं वेदान् विनिन्दामि न विविक्ष्यामि कर्हिचित्’ (भा० शां० २६८।१२)। **विवक्ष्यामि विषमं वक्ष्यामि।
  • ‘किं नो अस्य द्रविणं कद्ध रत्नं वि नो वोचः’ (ऋ० ४।५।१२)। व्यवोचः=व्याख्यः=व्याचष्ठाः=व्याकरोः।
  • ‘अस्ति स्विन्नु वीर्य …न स्विदस्ति तदृतुथा वि वोचः’ (ऋ० ६।१८।३)। उक्तोऽर्थः।
  • ‘तेषां (प्रश्नानां) नैकंचनाशकं विवक्तुम्’ (छां० उ० ५।३।५)। विवक्तुं विवरीतुम् प्रतिवक्तुम्।
  • ‘सा होवाच नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचः’ (श० ब्रा० १४।६।८।५)। उक्तोऽर्थः।
  • ‘रुदन्ह मृत्युर्व्युवाच प्रश्नम्’ (आप० ध० १।११।३२।२४)। व्युवाच विविच्योवाच।
  • ‘तं होवाच नैतदब्राह्मणो विवक्तुमर्हति’ (छां० उ० ४।४।५)। विवक्तुं विस्पष्टं वक्तुम्।
  • ‘वि तोके अप्सु तनये च सूरेऽवोचन्त चर्षणयो विवाचः’ (ऋ० ६।३१।१)। व्यवोचन्त विरुद्धमभाषन्त, व्यवदन्त।

वद्

  • {विवद् }
  • वद् (वद व्यक्तायां वाचि)।
  • ‘बलेनायं हतो दैत्यो बालेनाक्लिष्टकर्मणा। विवदन्त्यशरीरिण्यो वाचः सुरसमीरिताः’ (हरि० २।१४।??७)॥ विवदन्ति विशेषेण वदन्ति निर्ब्रुवन्तीत्यर्थः। विमत्यर्थाभावात्तङ् न।
  • ‘तद्धैतच्छाण्डिल्यः साप्तरथवाहनिश्च। आचार्यान्तेवासिनौ व्यूदाते रूपमेवास्यै तदिति ह स्माह शाण्डिल्यो लोमानीति साप्तरथवाहनिः’ (श० ब्रा० १०।१।४।१०)। व्यूदाते विप्रलेपतुः, विवादं चक्राते।
  • ‘न च तान्विवदेद् धीमानाक्रुष्टश्चापि तैः सदा’ (मार्क० पु० ३४।९३)। न विवदेत् न विवदेत न वाक्कलहं कुर्यात्।
  • ‘यस्ते हवं विवदत् सजातो यश्च निष्ट्यः’ (अथर्व० ३।३।६)। विवदत् विरुन्धीत, प्रतिवदेत्।
  • ‘साहसस्तेयपारुष्यगोभिशापात्यये स्त्रियाम्। विवादयेत्सद्य एव…’ (याज्ञ० २।१२)॥ विवादयेत् उत्तरं दापयेत्।
  • ‘विवदन् वाऽथवा तूष्णीं व्योम्नीवापरिशङ्कितः’ (भा० उ० १३३।११)। विवदन् बहु वदन्।
  • ‘एवं विवदतोस्तत्र कृष्णनारदयोः’ (हरि० २।१२२।४५)। विवदतोः संभाषमाणयोः।
  • ‘हृष्टो विवदमानश्च कोकिलो मामवाह्वयत्’ (रा० ३।७९।१०)। विवदमानो व्याहरमाणः।
  • ‘विरत्रार्थविपर्यासकृन्न। तदुभयं व्युदितम्’ (शां० ब्रा० १९।२)। व्युदितं विवादास्पदम्।
  • ‘अथ ह प्राणा अहंश्रेयसि व्यूदिरे’ (छा० उ० ५।१।६)। अहं श्रेयानहं श्रेयानित्यत्र विषये विवदमाना बभूवुः, न संजज्ञुः, संवादं न विविदुः।
  • ‘तस्याननादुच्चरितो विवादश्चस्खाल वेलास्वपि नार्णवानाम्’ (रघु० १८।४३)। विवादो वचनम्। आज्ञावचनं शासनम्। अत्रार्थेऽन्यत्र दुर्लभः प्रयोगः।

वन्

  • {विवन्}
  • वन् (वन षण संभक्तौ)।
  • ‘अन्नमेव विवननमन्नं संवननं स्मृतम्’ (लौ० गृ० ३९।१)। विवननं विभजनम्। संवननं सह भुज्यमानं संश्लेषणमिति देवपालः।

वल्

  • {विवल्}
  • वल् (वल वल्ल संवरणे संचरणे च)।
  • ‘स्विद्यति कूणति वेल्लति विवलति निमिषति विलोकयति तिर्यक्’ (का० प्र०)। विवलति पार्श्वतो विनिवर्तते।

वल्ग्

  • {विवल्ग्}
  • वल्ग् (वल्ग गतौ)।
  • ‘कृतभुजध्वनि विवल्गतोः’ (कि० १८।११)। सून्दरमुत्प्लवमानयोरित्याह।
  • ‘माहेन्द्रेण विवल्गतीव धनुषा धाराशरोद्गारिणा’ (मृच्छ० ५।२७)। विवल्गति इतस्ततः प्रद्रवति, विधावति।

वस्

  • {विवस्}

  • वस् (वस निवासे, वस आच्छादने)।

  • ‘ब्रह्मचर्यं भवति विवत्स्यामि’ (छां० उ० ४।४।१)। वि वत्स्यामि वत्स्यामि। विशब्दो नार्थे विशेषं करोति। वस ब्रह्मचर्यं श्वेतकेतवित्यत्र केवलस्य वसेः प्रयोगदर्शनात्।

  • ‘मनोरमे न व्यवसिष्ट वस्त्रे’ (भट्टि० ३।२०)। व्यवसिष्ट=आच्छादयत्।

  • ‘शश्वत्पुरोषा व्युवास देवी’ (ऋ० १।११३।१३)। व्युवास विबभौ व्युष्टा। छन्दसि वसेर्व्युच्छतेरर्थे बहुलः प्रयोगः।

  • ‘प्रथमा ह व्युवास सा धेनुरभवद्यमे’ (अथर्व० ३।१०।१)। सा रात्रिस्तमोव्युदसनं कृतवती। विपूर्वो वसिर्वर्जने वर्तत इति सायणः।

  • ‘द्युमन्तो वि वसन्तु विप्राः’ (अथर्व० ४।१।५)। स्वस्वव्यापारेषु विविधं वर्तन्ताम् इत्यर्थः। अथवा विवसतिः परिचरणकर्मा। विवसन्तु हविर्भिर्देवान् परिचरन्तु इत्यर्थ इति च सः।

  • ‘पुरा व्यवात्सीद् यदनन्तवीर्यः।’ (भा० पु० ३।२।१६)। अध्यवात्सीदित्यर्थः। अपूर्वश्चायमन्यत्र मुधाऽन्वेष्योत्रार्थे प्रयोगः।

  • ‘कौटसाक्ष्यं तु कुर्वाणांस्त्रीन्वर्णान्धिार्मिको नृपः। प्रवासयेद् दण्डयित्वा ब्राह्मणं तु विवासयेत्’ (मनु० ८।१२३)॥ विवासयेत् राष्ट्रान्निःसारयेत् (कुल्लूकः)। ब्राह्मणं नग्नं कुर्यात् (गोविन्दराजः)। ब्राह्मणस्य विवासस्त्वं वासोऽपहरणं गृहभङ्गो वेति मेधातिथिः।

  • ‘उत्कोचजीविनो द्रव्यहीनाः कृत्वा विवासयेत्’ (याज्ञ० १।३३८)। स्वराष्ट्रात् प्रवासयेदिति मिताक्षरा। आरात्रिविवासमाचष्टे रात्रिं विवासयति (हेतुमति च ३।१।२६ सूत्रे वृत्तौ)। विवासोऽतिक्रमणम्।

  • ‘वाससी इव विवसानौ ये चरावः’ (तै० सं० १।५।१०।१)। विवसानौ विपरिदधतौ।

  • ‘इच्छन्नितो विवसितुं गणयन् स्वमासान्’ (भा० पु० ३।३१।१७)।

  • ‘अस्त्रहेतोर्महाबाहुरमितात्मा विवासितः’ (भा० वन० ८६।२)। विवासितः प्रवासितः।

  • ‘रामस्य गात्रमसि दुर्वहगर्भखिन्नसीताविवासनपटोः करुणा कुतस्ते’ (उत्तर० २।१०)। विवासनं स्वदेशान्निर्वासनम्।

  • ‘तत्रैकां रजनीं व्युष्य प्रभाते राम गम्यताम्’ (रा० ३।११।४०)। व्युष्य उषित्वा। नार्थो विना।

  • ‘द्विष्टव्युषितमस्वादु पूति चान्नं विवर्जयेत्’ (सुश्रुत० सू० ४६।५१८)। व्युषितं पर्युषितम्, कृतरात्रिपरिवासम्।

  • ‘प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह’ (भा० आश्व० १६।३४)। विवासो विप्रयोगः, दूरेऽवस्थानम्।

  • ‘वाससी इव विवसानौ’ (तै० सं० १।५।१०।१)। अर्थव्यक्त्यर्थमिह पुनर्न्यासः। अन्योन्यस्य विपरिवृत्ते इव वाससी धारयन्तौ। वेदे वसिर्व्युच्छनेपि वर्तते तथा च प्रयोगः–ते देवा मित्रावरुणावब्रुवन्निदं नो विवासयतमिति (तै० सं० ६।४।८)। विवासयतम् विभातं कुरुतमिति।

  • ‘निषेव्य पानं मदनीयमुत्तमं निशाविवासेषु चिराद् विमाद्यति’ (सौन्दर० ९।२९)। विसः समाप्तिरवसानम्।

वह्

  • {विवह्}
  • वह् (वह प्रापणे, प्रापणमिह गतिः)।
  • ‘हैरण्यास्तत्र वाहिन्यः स्वैरिण्यो व्यवहन्पुरा’ (भा० द्रोण० ५६।६)। व्यवहन् प्रावहन्। लोहितापगा।
  • ‘गजाश्वनरदेहान्सा व्युवाह पतितान्बहून्’ (भा० कर्ण० ४९।८२)। व्युवाह प्रवाहयामास।
  • ‘अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम्’ (भा० आदि० ८१।२६)। विवहामि उद्वहामि, परिणयामि, उपयच्छे।
  • ‘विवहावहै’ (आश्व० गृ० १।७।६)। विवाहसम्बन्धं करवावहै।
  • ‘महामना भवेद् धर्मे विवहेच्च महाकुले’ (भा० शां० १२३।२१)। विवहेत् विवाहं कुर्यात्।
  • ‘मघासु हन्यन्ते गावः फल्गुनीषु व्युह्यते’ (अथर्व० १४।१।१३)।
  • ‘इतरेतरयाजका इतरेतराध्यापका मिथो विवहमानाः’ (आप० ध० १।२९।८)। मिथो विवहमाना मिथो विवाहसम्बन्धं कुर्वाणाः।
  • ‘व्यूढे देवासुरे युद्धे कृत्वा देवसहायताम्’ (भा० द्रोण० ६३।५)। व्यूढे निर्व्यूढे परिसमाप्ते।
  • ‘व्यूढां द्रुपदपूत्रेण तव शिष्येण धीमता’ (गीता १।३)। व्यूढां रचिताम्। कृतविन्यासविशेषाम्। सेनामिति विशेष्यम्। विवाहः। स कुमार्याः पितृगृह इत्यथर्ववेदे चतुर्दशकाण्डभूमिकायां सायणः।
  • ‘मघासु हन्यन्ते गावः फल्गुनीषु व्यूह्यते’ (अथर्व० १४।१।१३)। व्यूह्यते व्युह्यते विवाहो भवति।
  • ‘पशवो विवाहाः’ (ऐ० ब्रा० ७।१३)। वाहेन निर्वाहकाः।

वह्

  • {विवह्}
  • वह् (वृहू उद्यमने)।
  • ‘सोमारुद्रा विवृहतं विषूचीममीवा’ (तै० सं० १।८।२२)। विवृहतमुन्मूलयतम्।
  • ‘त इमे लोका व्यवृह्यन्त वि यज्ञो व्यवृह्यत’ (जै० ब्रा० १।१५५)। व्यवृह्यन्त पृथगभवन्।

वा

  • {विवा}
  • वा (वा गतिगन्धनयोः)।
  • ‘वि वात वाहि यद्रपः’ (ऋ० १०।१३७।३, अथर्व० ४।१३।३)। विवाहि विगमय।
  • ‘वायुर्विवाति हृदयानि हरन्नराणाम्’ (ऋतु० ६।२२)। विवाति विविधं वाति, दिक्षु विदिक्षु च वाति।
  • ‘व्यवाते ज्योतिः’ (अथर्व० ८।१।२१)। व्यवात् व्यौच्छत्।
  • ‘येन स्म युज्यते वायुस्ततो लोकान् विवात्यसौ’ (भा० शां० ३४४।१०)।
  • ‘मिहं न वातो वि ह वाति भूम’ (ऋ० १०।३१।९)। मिहं न विवाति मेघमिवावगाहते। सायणस्त्वन्यथा व्याख्याति। नकारं प्रतिषेधार्थीयं पश्यति।

विच्

  • {विविच्}
  • विच् (विचिर् पृथग्भावे)।
  • ‘वायुर्वो विविनक्तु’ (वा० सं० १।१६)। युष्मान्सूक्ष्मकणेभ्यः पृथक् करोत्वित्याह।
  • ‘(मरुतः) प्रवेपयन्ति पर्वतान् विविञ्चन्ति वनस्पतीन्’ (ऋ० १।३९।५)। विविञ्चन्ति पृथक् कुर्वन्ति।
  • ‘यूयं (तण्डुलाः) विच्यध्वं यज्ञियासस्तुषैः।’ (अथर्व० ११।१।१२)। तुषैः पृथग्भवतेत्यर्थः।
  • ‘श्रेयश्च प्रेयश्च विविनक्ति धीरः’ (कठ० उ० २।२)। विचिन्त्य तयोर्भेदं करोति।
  • ‘विविनच्मि दिवः सुरान्’ (भट्टि० ६।३६)। पृथक् करोमि। प्रच्यावयामि। दिविषदो दिव उत्सारयामीत्याह।
  • ‘कर्मणां च विवेकार्थं धर्माधर्मौ व्यवेचयत्’ (मनु० १।२६)। कर्मणां विभागाय धर्माधर्मौ पृथक्त्वेनाभ्यधादित्याह।
  • ‘स्वल्पेन खलु कालेन विविक्तं पृथिवीतलम्। भविष्यति नरेन्द्रौघैः शतशो विनिपातितैः’ (हरि० २।४१।६२)॥ विविक्तं शून्यं विरहितं विधुरम्।
  • ‘विविक्तमर्थैरभिगम्य मद्गृहम्’ (अवहा० अविषह्य० जा० ७)। उक्तोऽर्थः।
  • ‘विविक्तदेशसेवित्वमरतिर्जनसंसदि’ (गीता १३।१०)। विविक्तो विजनः।
  • ‘यथा विविक्तं यद्वस्त्रं गृह्णीमो युक्तिसंभवात्’ (भा० पु० ११।२२।९)। विविक्तम् अनितरसाधारणम्, इतरैरसामान्यम्, असाधारणम् विलक्षणम्।
  • ‘वेदवित्सु विविक्तेषु प्रेत्य स्वर्गं समश्नुते’ (मनु० ११।६)। धनानि प्रतिपादयेदित्यनुषङ्गः। विविक्तेषु पुत्रकलत्राद्यवसक्तेषु (कुल्लूकः)। विविक्तौ पूतविजनावित्यमरः।
  • ‘ज्ञातोऽयं जलधर तावको विवेकः’ (भामिनी० १।९६)। विवेकः सदसद्विभेदकरी बुद्धिः।
  • ‘विवेकभ्रष्टानां भवति विनिपातः शतमुखः’ (भर्तृ० २।१०)।
  • ‘रे खल तव खलु चरितं विदुषामग्रे विविच्य वक्ष्यामि’ (भामिनी० १।१०८)। विविच्य सम्प्रधार्य।
  • ‘अथ स महात्मा तं राजानं दिष्टिकृतकापथाद् विवेच्य’ (अवदा० जा० २३)। विवेच्य पृथक् कुत्वा।
  • ‘अहमप्येवमेवैतच्चिकीर्षामि यथा युवाम्। विवेक्तुं नाहमिच्छामि त्वाकारं विदुरं प्रति’ (भा० आदि० २०१।१)॥ विवेक्तुं व्यक्तीकर्तुम्।
  • ‘प्रत्यग्रमज्जनविशेषविविक्तकान्तिः’ (रत्ना० १।२०) विविक्ता शुद्धा। विविक्तौ पूतविजनावित्यमरः।

विज्

  • {विविज्}
  • विज् (ओविजी भयचलनयोः)।
  • ‘सकृद् विविग्नानपि हि प्रयुक्तं माधुर्यमीष्टे हरिणान् ग्रहीतुम्’ (रघु० १८।१३)। विविग्नः संविग्न उद्विग्नः सन्त्रस्तः।

वी

  • {विवी}
  • वी (वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु)।
  • ‘पथि ग्रामविवीतान्ते क्षेत्रे दोषो न जायते’ (याज्ञ० २।१६२)।
  • ‘अकृष्यायां भूमौ पशुभ्यो विवीतानि प्रयच्छेत्’ (कौ० अ० २।२)। विवीतं गोचरो गत्यं गवादनी।

वृ

  • {विवृ}
  • वृ (वृञ् आवरणे)।
  • ‘कामं तु मे मारुतस्तत्र वासः प्रक्रीडिताया विवृणोतु देव’ (भा० आदि० ७१।४१)। विवृणोतु अपसारयतु। विवृणोतिर्मुख्यया वृत्त्याऽऽवरणापसारणे वर्तते गौण्या त्वपसारणमात्रे।
  • ‘ज्योतिषा वि तमो ववर्थ।’ (ऋ० १।९१।२२)। विवर्थ विववरिथ प्रकाशयामासिथ। दूरं चकर्थेत्याह।
  • ‘वि नो राये दुरो वृधि’ (ऋ० ९।४५।३)। विवृधि=विवृणु, उद्घाटय।
  • ‘नाकारणं विवृणुयात्खड्गम्’ (व० सं० ५०।६)। निष्कोषं कुर्यात्। नग्नं कुर्यादिति तु पदार्थः।
  • ‘अभिप्रायस्य पापत्वान्नैवं तु विवृणोम्यहम्’ (भा० आदि० १४२।१६)। विवृणोमि व्यक्तयामि।
  • ‘वसनस्येव च्छिद्राणि साधूनां विवृणोति यः’ (भा० वन० )।
  • ‘तस्यैष आत्मा विवृणुते तनूं स्वाम्’ (कठ० उ० १।२।२३)। उक्तोऽर्थः।
  • ‘श्रवणकटु नृपाणामेकवाक्यं विवव्रुः’ (रघु० ६।८५)। व्यक्तयामासुः, उदाजह्रुरित्यर्थः।
  • ‘यस्मै मुनिर्ब्रह्म परं विवव्रे’ (महावीर० २।४३)। विवव्रे व्याचचक्षे, उपदिदेश।
  • ‘अङ्गुल्या मध्ये विवृणोति’ (का० श्रौ० ७।७।१८)। विवरं करोतीत्यर्थः।
  • ‘दिशि दिशि निरपेक्षस्तावकीनं विवृण्वन्’ (परिमलम्) (भामिनी० १।५)। विवृण्वन् विस्तारयन् प्रथयन् प्रसारयन्।
  • ‘स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते’ (कु० ४।२६)। विवृतम् उद्घाटितम्।
  • ‘ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः’ (मेघ० ४३)। विवृतमनावृतं जघनं सक्थि यस्यास्ताम्।
  • ‘न विवृतो मदनो न च संवृतः’ (शा० २।१२)। विवृतो व्यक्तीकृतः।
  • ‘विपन्नास्तेऽद्य वसुधां विवृतामधिशेरते’ (भा० स्त्री० १६।३१)। विवृताऽनावृताऽव्यवहिता।
  • ‘तथा तैरवकीर्णस्य दिव्यैरस्त्रैः समन्ततः। न तस्य द्व्यङ्गुलमपि विवृतं सम्प्रदृश्यते’ (भा० वि० ६३।६७)॥ विवृतमसंवृतमनाकीर्णम्।
  • ‘अविवृतश्चरामि।’ (भा० पु० ५।१२।१५)। प्रच्छन्नोऽवरुद्ध इत्यर्थः।
  • ‘एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः’ (भा० आदि० १४०।१८)। अविवृतो गुप्ताङ्गः।
  • ‘विवृतस्नानः’ (पा० गृ० २।७)। सर्वस्य प्रकाशं स्नानं यस्य सः।
  • ‘न चैनां विवृतां प्रेक्षेत’ (का० सं० विमान० शिष्य० ८)। विवृतां नग्नाम्।
  • ‘विवृत इव निरुक्तः’ (भा० पु० १२।११।२४)। विवृतो व्याख्यातो व्यक्ततां नीतः।
  • ‘न हि शक्नोमि विवृते प्रत्याख्यातुं नराधिपम्’ (भा० वि० १३।२०)। विवृते प्रकाशे, सर्वजनसमक्षम्।
  • ‘विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत्’ (भा० आदि० १६३।९)। विवृत्य विस्फार्य।

वृ

  • {विवृ}
  • वृ (वृञ् वरणे)।
  • ‘स्वर्गमेवैभ्य एतया लोकं विवृणोति’ (ऐ० ब्रा० ६।७)। स्वर्गद्वारमुद्घाटयतीत्यर्थः।
  • ‘आचरन्त्या न विवृता सद्यो भवति मेदिनी’ (रा० २।३५।१४)। विवृता विदीर्णेति भूषणकारः।

वृज्

  • {विवृज्}
  • वृज् (वृजि वृजी वर्जने)।
  • ‘अतो जन्तुलूताव्याप्तो विवर्ज्यते’ (राज० ४।५२४)। विवर्ज्यते परिह्रियते।
  • ‘यद्वित्तं त्वयास्माकं विवर्जितम्’ (मार्क० १३३।२३)। विवर्जितम् समर्पितम्।
  • ‘प्रधानोऽप्यप्रधानः स्याद्यदि सेवाविवर्जितः’ (पञ्चतै० १।३४)। विवर्जितः=विहीनः शून्यः।

वृत्

  • {विवृत्}
  • वृत् (वृतु वर्तने)।
  • ‘अहश्च कृष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः’ (ऋ० ६।९।१)। रजसी उभौ लोकौ पृथिव्यन्तरिक्षे परितः पर्यायेण परिवर्तेते। विपर्ययेण वर्तेते इति दुर्गः।
  • ‘विवर्तेते अहनी (=रात्र्यहनी अहोरात्रौ) चक्रियेव’ (ऋ० १।१८५।१)। उक्तोऽर्थः।
  • ‘सनेमि चक्रमजरं वि वावृते’ (ऋ० १।१६४।१४)। अनन्तरोदीरित एवार्थः।
  • ‘व्योम्नि मेघा विवर्तन्ते परुषा गर्दभारुणाः’ (रा० ३।२४।४)। विवर्तन्ते इतस्ततो भ्रमन्ति।
  • ‘नाभेरधस्ताद् गुल्मोऽयमव्याविद्धं विवर्तते’ (का० सं० खिल० रक्त० श्लो० ५८)। विवर्तते लुठति।
  • ‘यत्रासौ केशान्तो विवर्तते’ (तै० उ० १।६।१)। विवर्तते विभक्तो भवति।
  • ‘अक्षयाणि (प्रहरणानि) किलैतानि विवर्तन्ते स्म मातले’ (भा० उ० ९८।१६)। विवर्तन्ते पुनः पुनः क्षिप्तान्यपि प्रहर्तुर्हस्तमायान्ति। विवर्तन्ते विनिवर्तन्ते।
  • ‘संवत्सराद्धि सर्वाणि भूतानि विवर्तन्ते’ (श० ब्रा० ८।४।२।२५)। विवर्तन्ते विनिश्चरन्ति जायन्ते।
  • ‘वि देवा जरसावृतन्’ (अथर्व० ३।३१।१)। व्यवृतन् व्ययूयुजन्।
  • ‘त्वयाभिगुप्तं कौन्तेयं न विवर्तेयुरन्तिकम्’ (भा० वन० )। न विवर्तेयुरन्तिकम्=नोपैतुमुत्सहेरन्।
  • ‘जीवितं च शरीरेण तेनैव सह जायते। उभे सह विवर्तेते उभे सह विनश्यतः’ (भा० शां० १७४।२२)॥ विवर्तेते संसारकाले विविधेन रूपेण वर्तेते।
  • ‘येनेशितं कर्म विवर्तते ह’ (श्वेताश्व० उ० ६।२)। विवर्तते वैविध्यं भजते, नानात्वमश्नुते।
  • ‘विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः’ (वा० प० १।१)। अतत्त्वतः प्रथत इत्याह।
  • ‘चिन्तयत्येव मयि महार्णवोन्मग्नमार्तण्डतुरङ्गमश्वासरयावधूतेव व्यवर्तत त्रियामा’ (दशकु० उपहारवर्मचरिते)। व्यवर्तत=अत्यवर्तत, व्यरमत् अन्तमापत्।
  • ‘तस्मिंश्चित्रियस्याश्वत्थस्य तिस्रः समिध आर्द्राः सपलाशाः प्रादेशमात्र्यः स्तिमिगवत्यः (=फलवतीः) विवर्तयति’ (आप० श्रौ० ५।१।५।१०)। विवर्तयति विलोडयति।
  • ‘वि चर्मणीव धिषणे अवर्तयत्’ (ऋ० ६।८।३)। व्यवर्तयत्।
  • ‘अन्यत्रोग्र विवर्तय’ (हेतिम्) (अथर्व० ११।२।२१)। विवर्तय गमय क्षिप।
  • ‘यज्ञ इन्द्रमवर्धयद् यद् भूमिं व्यवर्तयत्’ (अथर्व० २०।२७।५)। विवृत्तामकरोत्। वृष्ट्युदकेनोच्छूनामकरोदित्यर्थः।
  • ‘यत्र स्कम्भः प्रजनयन्पुराणं व्यवर्तयत्’ (अथर्व० १०।७।२६)। व्यवर्तयत् आविरभावयत्।
  • ‘संवर्तयन्तो वि च वर्तयन्नहा’ (ऋ० ५।४८।३)। संवर्तयन्तो नाशयन्तः (प्राणिनः)। विवर्तयन् अहा अहानि परिवर्तयन्त इत्यर्थः।
  • ‘यद्धि सन्धिं विवर्तयति तन्निर्भुजस्य रूपम्। अथ यच्छुद्धे अक्षरे अभिव्याहरति तत् प्रतृण्णस्य’ (ऐ० आ० ३।१।३)। विवर्तयति कल्पयति।
  • ‘विवर्तमाने त्वादित्ये तत्रास्तशिखिरं प्रति’ (भा० द्रोण० ९९।१)। विवर्तमाने परावर्तमाने निवर्तमाने।
  • ‘विवर्तमानं बहुशो रुधिरौघपरिप्लुतम्’ (भा० शल्य० ६५।५)। विवर्तमानम् विचेष्टमानं लुठन्तम्।
  • ‘कालकण्ठमुखकन्दरविवर्तमानमिव भूतजातम् प्रवेपते’ (उत्तर० ६)। वेदनया विह्वलन्तमित्याह।
  • ‘विवर्तमानं समरे कृतास्त्रम्’ (भा० उ० ४८।२९)। विविधैर्मण्डलवर्तमानं चरन्तम् इत्यर्थः।
  • ‘मनस्विगर्हिते विवर्तमान नरदेव वर्त्मनि’ (कि० १।३२)। शत्रुकृतां दुर्दशामनुभवन्तम् इति तात्पर्यार्थः। विरुद्धमात्मनः प्रतिकूलं वर्तमानमिति तु पदार्थः।
  • ‘आसीद् विवृत्तवदना च विमोचयन्ती’ (शा० २।१२)। साचिकृतमुखीत्याह।
  • ‘विवृत्तपाणिर्विहितोत्तरार्थं विभीषणोऽभाषत यातुधानान्’ (भट्टि० १२।२१)। विवृत्तपाणिस्तदभिमुखीकृतदक्षिणकरः।
  • ‘सीदमानो विवृत्ताङ्गोऽचेष्टमानो गतः क्षयम्’ (रा० २।६३।४९)। विवृत्ताङ्गः परावृत्तनेत्रः।
  • ‘कल्पक्षोभविवृत्तानि जगन्ति’ (यो० वा० )।
  • ‘संवाता मुहुरनिलेन नीयमाने दिव्यस्त्रीजघनवरांशुके विवृत्तिम्’ (कि० ७।१४)। विवृत्तिरपसारः।
  • ‘दृष्टो विवृत्य बहुशोप्यनया सतृष्णम्’ (शा० ३।९)। मुखं तदभिमुखीकृत्येति तात्पर्यार्थः। पृष्ठतः कृत्येति तु पदार्थः।
  • ‘मनोऽस्य जह्नुः शफरीविवृत्तयः’ (कि० ४।३)। शफरीविवृत्तयः=मत्सीनां विविधाश्चेष्टाः।
  • ‘विराजमतपत् स्वेन तेजसैषां विवृत्तये’ (भा० पु० ३।६।१०)। विवृत्तये स्फातये।
  • ‘संवर्तप्रकटविवर्तसप्तपाथोनाथोर्मिव्यतिकरविभ्रमप्रचण्डः’ (महावी० ६।२६)। विवर्त इति लुठनमाह। संवर्त इति च प्रलयम्।
  • ‘शब्दब्रह्मणस्तादृशं विवर्तमितिहासं रामायणं प्रणिनाय’ (उत्तर० २)। विवर्तः परिवर्तः परिवृत्तिः।
  • ‘एको रसः करुण एव निमित्तभेदाद्भिन्नः पृथक् पृथगिवाश्रयते विवर्तान्’ (उत्तर० ३।४७)। विवर्तः परिणामः।
  • ‘अकाण्डशुष्काशनिपातरौद्रः क एष धातुर्विषमो विवर्तः’ (महावीर० ५।५७)।
  • ‘निक्रमणं निषदनं विवर्तनं यच्च पड्वीशमर्वतः’ (ऋ० १।१६२।१४)। विवर्तनं लुठनम्।
  • ‘शय्याप्रान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः’ (शा० ६।५)। विवर्तनैः पार्श्वपरिवर्तनैः।
  • ‘कृतरूपविवर्तना’ (शिष्या) (कथा० १३।९४)। विवर्तनं परिवर्तः, विपरिणामः।
  • ‘पूनरकाण्डविवर्तनदारुणः’ (उत्तर० ४।१५)। उक्तोऽर्थः।
  • ‘चित्रतन्तुविरचितः संवर्तनविवर्तनसहिष्णुः’ (ध्वन्यालोकलोचने १।१ )। संवर्तनं विकासनं विवर्तनं संकोचनम् इति लोचनम्। तदिदं विपरीतार्थाख्यानं प्रमादजम्। परागः।
  • ‘वात्याभिर्वियति विवर्तित’ (कि० ५।३९)। विवर्तितः परिमण्डलितः।
  • ‘विवर्तिताञ्जननेत्र’ (कु० ५।५१)। विवर्तितं विचालितं (नेत्रम्)।
  • ‘मेरुकूटान्तेभ्यो निपतन्ती विवर्तिता’ (गङ्गा) (मार्क० पु० ६५।३)। विवर्तिता विवृत्ता। स्वार्थे णिच्। चक्रवत्स्यन्ना।
  • ‘विवर्तितभ्रूरियमद्य शिक्षते’ (शा० १।२३)। विवर्तिभ्रूरुदञ्चितभ्रूः।
  • ‘विवर्त्यमानोऽपि नदीरयेण’ (अवदा० रुरु० ६)। विवर्त्यमानः प्रतीपमुह्यमानः।
  • ‘वि पाप्मना वर्तत य एतया स्तुते’ (पञ्च० ब्रा० २।१।४)। विवर्तते पृथग्भवति।
  • ‘स्थाने रामायणकविर्दैवीं वाचं व्यवीवृतत्’ (उत्तर० ६।२०)। व्यवीवृतत् पर्यणमयत्।
  • ‘प्राकृतेन च बन्धेन तथा वैकारिकेण च। दक्षिणाभिस्तृतीयेन बद्धोऽत्यन्तं विवर्तते’ (ब्रह्माण्ड० ३।३।३७।३८)॥ विवर्तते परिवर्तते। परिभ्रमति। संसरति।
  • ‘यो वा अश्वस्य मेध्यस्य विवर्तनं वेद’ (तै० ब्रा० ३।९।२३।२)। विवर्तनं मार्गश्रमपरिहाराय भूमौ शरीरस्य परिवर्तनम्।

वृध्

  • {विवृध्}
  • वृध् (वृधु वृद्धौ)।
  • ‘समागमेन पुत्रस्य सावित्र्या दर्शनेन च। चक्षुषश्चात्मनो लाभात् त्रिभिर्दिष्ट्या विवर्धसे’ (भा० वन० २९८।२३)॥ स्पष्टोऽर्थः।

वृष्

  • {विवृष्}
  • वृष् (वृषु सेचने)।
  • ‘पर्जन्य इव धर्मान्ते वृष्ट्या साद्रिद्रुमां महीम्। आचार्यपुत्रस्तां सेनां बाणवृष्ट्या व्यवीवृषत्’ (भा० कर्ण० २०।३२)॥ व्यवीवृषत्=अभ्यवीवृषत्। बाणवर्षेणाभिषिक्तवान् इत्यर्थः।

वृह्

  • {विवृह्}
  • वृह् (वृह् उद्यमने)।
  • ‘यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया विवृहामि ते’ (अथर्व० ३।३३।१)। विवृहामि प्रवृहामि उद्यच्छामि, उद्धरामि, पृथक्करोमि।
  • ‘विश्वा इदर्यो अभिदिप्स्वो मृधो बृहस्पतिर्वि ववर्हा रथां इव’ (ऋ० १।२३।१३)। विववर्ह=उज्जहार, विददार, विसंहिताश्चकार।
  • ‘मेषा वि वर्हि मा युगं वि शारि’ (ऋ० ३।५३।१७)। मेषा=मा ईषा। मा विवर्हि मा स्म भङ्गमापत्।
  • ‘विष्वञ्चमेवास्मात्पाप्मानं विवृहतः’ (तै० ब्रा० ३।८।४।१)। विवृहतः पृथक्कुरुतः।
  • ‘यथेषीकां मुञ्जाद् विवृहेदेवं सर्वस्मात्पाप्मनो व्यवृहन्’ (श० ब्रा० ४।३।३।१६)। व्यवृहन् अपोदहरन्, पृथगकुर्वन्।
  • ‘सोमा रुद्रा विवृहतं मे विषूचीम्’ (अथर्व० ७।४३।१)। विवृहतं विनाशयतम्। अपबाधेथाम्।
  • ‘यद्वै यज्ञस्य मिथ्या क्रियते व्यस्य वृहन्ति’ (श० ब्रा० १।९।३।४)। विवृहन्ति अपच्छिन्दन्ति।
  • ‘तत्कर्म विवृह्येत सा परिचक्षा’ (श० ब्रा० १।३।५।१४)। विवृह्येत खण्डशः क्रियेत। परिचक्षाऽनादरः। परिर्वर्जने।
  • ‘सर्वेणैवैतद् भिषज्यति यत्किं च विवृढं यज्ञस्य’ (श० ब्रा० १४।३।२।२)। विवृढ़ विपर्यस्तमाकुलम्।
  • ‘यद् विवृढं तत् सन्दधाति’ (श० ब्रा० १।७।४।२२)। उक्तचर एवार्थः।

वे

  • {विवे}
  • (वेञ् तन्तुसन्ताने)।
  • ‘(आसन्दी) मुञ्जविवयना भवति’ (श० ब्रा० १२।८।३।६)। मुञ्जविवयना मुञ्जविवाना मुञ्जैरुता।
  • ‘उरौ पथि व्युते तस्थुरन्तः’ (ऋ० ३।५४।९)। व्युते विविक्ते।

वेन्

  • {विवेन्}
  • वेन् (वेन कान्तिकर्मा छान्दसः)।
  • ‘अश्विना वेह गच्छतं नासत्या मा विवेनतम्’ (ऋ० ५।७८।१)। कान्तिरिच्छा। विशब्दस्तदभावमाह। नञर्थो विः। यथा विकाङ्क्षेत्यत्र।

वेष्ट्

  • {विवेष्ट्}
  • वेष्ट् (वेष्ट वेष्टने)।
  • ‘विवेष्टमानोऽवर्तिष्ट शयनीयतलेऽन्वहम्।’ (राज० ८।२२५९)। विवेष्टमानो विचेष्टमानः।

व्यध्

  • {विव्यध्}
  • व्यध् (व्यध ताडने)।
  • ‘मा नो विदन् वि व्याधिनो मो अभिव्याधिनो विदन्’ (अथर्व० १।१९।१) विव्याधिनो दूराद्ये विध्यन्ति। विशब्दो विप्रकर्षमाह।

व्रश्च

  • {विव्रश्च}
  • व्रश्च (ओ व्रश्चू छेदने)।
  • ‘वि वृश्चद् वज्रेण वृत्रमिन्द्रः’ (ऋ० १।६१।१०)। विवृश्चत् व्यवृश्चत्=विविधमच्छिनत्। शकलान्यकरोत्।
  • ‘अदन्ति त्वा पिपीलिका वि वृश्चन्ति मयूर्यः’ (अथर्व० ७।५६।७)। विवृश्चन्ति चञ्चुभिः प्रतुदन्ति वितुदन्ति विदारयन्ति

शद्

  • {विशद्}
  • शद् (शद्लृ शातने)।
  • ‘भगस्य नयने क्रुद्धः प्रहारेण व्यशातयत्’ (भा० अनु० १६०।१८)। व्यशातयत्। अपातयत्, अभनक्, उदहरत्।
  • ‘पुरोडाशं भक्षयतो दशनान्वै व्यशातयत्’ (भा० द्रोण० २०२।५९)। उक्तोऽर्थः।

शंस्

  • {विशंस्}
  • शंस् (शंसु स्तुतौ)।
  • ‘त्रिस्तर्हि निविदा सूक्तं विशंसेत्’ (ऐ० ब्रा० ३।१९)। विशब्दो नानात्वमाचष्टे। विशंसेत् उच्चारयेत्।
  • ‘मा चिदन्यद् विशसत’ (ऋ० ८।१।१) विशंसत स्तुत

शस्

  • {विशस्}
  • शस् (शसु हिंसायाम्)।
  • ‘अनुमन्ता विशसिता निहन्ता क्रयविक्रयी’ (मनु० ५।५१)। विशसिताऽङ्गानि यः कर्तर्यादिना पृथक् करोति।
  • ‘तस्यास्त्वं दुहितुस्तथा विशसनं किं दारुणेऽमृष्यथाः’ (उत्तर० ४।५)। विशसनं कदनं निबर्हणम्।
  • ‘शोणितोदां रथावर्तां कृत्वा विशसने नदीम्’ (भा० द्रोण० १६।४३)। विशसनं सङ्गरः, युद्धभूः।
  • ‘धृषिशसी वैयात्ये’ (फा० ७।२।१९)। वैयात्ये धार्ष्ट्येऽविनये विशस्त इति भवति, अन्यत्र विशसितः।
  • ‘मां वा हरेयुस्त्वद्धस्ताद् विशसेयुरथापि वा।’ विशसेयुः=हिंस्युः। अन्यत्र विशसनं विकर्तनं भवति।

शास्

  • {विशास्}
  • शास् (शासु अनुशिष्टौ)।
  • ‘आशिषः प्रशिषश्च संशिषो विशिषश्च याः’ (अथर्व० ११।१०।२७)। विशिषो विविधानि शासनानीति सायणः।
  • ‘अथ पशुं विशास्ति’ (श० ब्रा० ३।८।३।३)। विशास्ति विशसति।

शिक्ष्

  • {विशिक्ष्}
  • शिक्ष् (शिक्ष विद्योपादाने)।
  • ‘सखे वि शिक्षेत्यब्रवीत’ (ऋ० ४।३५।३)। विशिक्ष (सोमपानम्) अनुगृहाण।

शिष्

  • {विशिष्}
  • शिष् (शिष्लृ विशेषणे)।
  • ‘पुनरकाण्डविवर्तनदारुणो विधिरहो विशिनष्टि मनोरुजम्’ (मालती० ४।७)। विशिनष्टि वर्धयति बृहंयति प्रकर्षति उपचिनोति।
  • ‘विशेषको वा विशिशेष यस्याः श्रियं त्रिलोकीतिलकः स एव’ (शिशु० ३।६३)॥ विशिशेष=अतिशिष्ये।
  • ‘तस्य दण्डवतो दण्डः स्वदेहान्न व्यशिष्यत’ (रघु० १७।६२)। न व्यशिष्यत=नाभिद्यत। दण्डः सैन्यम्।
  • ‘मौनात्सत्यं विशिष्यते’ (मनु० २।८३)। वरतरं भवतीत्यर्थः।
  • ‘सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते’ (मनु० ४।२३३)। वरिष्ठं भवतीत्यर्थः।

शिष्

  • {विशिष्}
  • शिष् (शिष असर्वोपयोगे)।
  • ‘हृदयं विघट्टितं चेत् सङ्गो विरहं विशेषयति’ (शृङ्गार० ६५)। विपूर्वोऽयमतिशये वर्तते इति भानुजिः। विशेषयति=अतिशेतेऽतिक्रामति। अविषह्यतरो दुःखतरो भवतीति तात्पर्यार्थः।
  • ‘अस्य काव्यस्य कवयो न समर्था विशेषणे’ (भा० आदि० १।७३)। विशेषणेऽतिशायने।
  • ‘यतमानोपि यं शक्रो न विशेषयति स्म ह’ (भा० आश्व० ५।१६)। उक्तोऽर्थः।
  • ‘विशेषयन्तावन्योन्यं मायाभिरतिमायिनौ’ (भा० द्रोण० १७४।२९)। विशेषयन्तौ=अतिशयानौ।
  • ‘साधु विशेषितं खलु रूपं स्वरेण’ (प्रतिमा ४५)। विशेषितमतिशयितम्।

शी

  • {विशी}
  • शी (शीङ् स्वप्ने)।
  • ‘पतिताः पात्यमानाश्च क्षितौ क्षीणा विशेरते’ (भा० कर्ण० ७९।२७)। विशेरते शेरते। विरिह विशेषकृन्न। विकीर्णाः शेरत इति वार्थः।
  • ‘मुञ्चन्ति गुर्वशुचिताविशयेन किं न’ (विश्व० च० २९।३६८)। विशयः संशयः।
  • ‘तत्र याथाकामी शब्दार्थस्य विशयित्वात्’ (सत्या० श्रौ० २५।४।५)। विशयी सन्देहास्पदम्।
  • ‘तत् किं जीवो वेदितव्येनोपदिश्यत उत मुख्यः प्राण उत परमात्मेति विशय’ (व्र० सू० शां० भा० १।४।१६)। विशयः संशयः।

शुध्

  • {विशुध्}
  • शुध् (शुध शौचे)।
  • ‘तेन मायासहस्रं तच्छम्बरस्याशुगामिना। बालस्य रक्षता देहमेकैकं च विशोधितम्’ (वि० पु० १।१९।२०)। विशोधितं परिमार्जितमुत्सादितम्।
  • ‘विशुद्धमुग्धः कुलकन्यकाजनः’ (मालती० ७।१)। विशुद्धोऽनघो निष्पाप ऋजुः।
  • ‘तदङ्गसंसर्गमवाप्य कल्पते ध्रुवं चिताभस्मरजो विशुद्धये’ (कु० ५।७९)। विशुद्धये पूतये निष्कल्मषत्वाय।
  • ‘उपविश्यासने युञ्ज्याद् योगमात्मविशुद्धये’ (गीता० ६।१२)। उक्तोऽर्थः।
  • ‘हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा’ (रघु० १।१०)। विशुद्धिर्निर्दोषस्वरूपम्।
  • ‘इयं विशुद्धरुदिता प्रमाप्याकामतो द्विजम्’ (मनु० ११।८९)। विशुद्धिः प्रायश्चित्तम्।
  • ‘घृतप्राशो विशोधनम्’ (मनु० ११।४३)। विशोधनं पापापनोदनम्।

शुभ्

  • {विशुभ्}
  • शुभ् (शुभ दीप्तौ)।
  • ‘क्षतजदिग्धवस्त्रा वै मुक्तकेशा विशोभना’ (हरि० २।१०५।८३)। विशोभना शोभारहिता। शोभत इत्येवंशीला शोभना। विशब्दो नञर्थकः।

शॄ

  • {विशॄ}
  • शॄ (शॄञ् हिंसायाम्)।
  • ‘सर्वेषां मूर्ध्नि वा तिष्ठेत् विशीर्येत वनेऽथवा’ (हितोप० १।११३)। विशीर्येत म्लानं सदधः पतेत्।
  • ‘स्वयं विशीर्णद्रुमपर्णवृत्तिता’ (कु० ५।२८)। स्वयमवपतितशुष्कपत्रोपजीविता।
  • ‘मा तण्डुलं विशरीर्देवयन्तम्’ (अथर्व० १२।३।१८)। मा विशरीः=मा विशारीः। मा खण्डशः कार्षीरित्यर्थः।

श्रण्

  • {विश्रण्}
  • श्रण् (श्रणु दाने)।
  • ‘विश्राणिते फलीकरणानामाचामस्यापामिति बलिं हरेत्’ (गो० गृ० १।४।३१)। विश्राणिते दत्ते। क्षीणप्राय इत्यर्थः।
  • ‘कथं नु शक्योऽनुनयो महर्षेर्विश्राणनाच्चान्यपयस्विनीनाम्’ (रघु० २।५४)। विश्राणनं दानम्। प्रायेण विपूर्वोऽयं धातुः प्रयुज्यत इति दीक्षितः।
  • ‘दक्षिणः क्षितिपतिर्व्यशिश्रणद दक्षिणाः’ (शिशु० १४।३३)। व्यशिश्रणत् प्रादात्। धातुर्विशब्दं न व्यभिचरतीत्येव द्योतनाय विरुपसर्गः प्रयुक्तः, अर्थं तु न कलयापि विशिनष्टि।

श्रम्

  • {विश्रम्}
  • श्रम् (श्रमु तपसि खेदे च)।
  • ‘प्रसीद विश्राम्यतु वीर वज्रम्’ (कि० ३।९)। विधाम्यतु विगतश्रममस्तु, विरमतु।
  • ‘इह देवतात्वं प्रति बहु विश्राम्यति भेदः’ (वाररुच० प्रथमे कल्पे)। विश्राम्यति तिष्ठति।
  • ‘जानामि त्वां परिश्रान्तं ततो विश्रामकाङ्क्षिणम्’ (भा० वन० १८८।९७)। विश्रामः श्रमाभावः। श्रमः खेदः (शारीरः)।
  • ‘काम कर्णान्तविश्रान्ते विशाले तस्य लोचने’ (रघु० ४।१३)। कर्णावधि विस्तारमाप्य स्थिते इत्याह।
  • ‘रघुरिव स नरेन्द्रो यज्ञविश्रान्तकोशः’ (शि० भा०)। विश्रान्तः परिसमाप्तः।
  • ‘मुखं तव विश्रान्तकथं दुनोति माम्’ (रघु० ८।५५)। विश्रान्तकथं विरतवचनं निवृत्तसंलापम्।
  • ‘स्वकालविरहाद् विश्रान्तपुष्पोद्गमा’ (विक्रम० ४।६७)। विरतकुसुमविकासा।
  • ‘पितामहः प्रजासर्गे त्वयि विश्रान्तवान्प्रभुः’ (भा० शां० १५६।७)। विश्रान्तवान् श्रमविनोदं कृतवान्।
  • ‘श्राम्यन्तीमनयद् गेहं विश्राम्यन्तीं तरौ तरौ’ (बृ० श्लो० सं० ४।११५)। विश्राम्यन्तीं श्रमापनोदं कुर्वतीम्।

श्रि

  • {विश्रि}
  • श्रि (श्रिञ् सेवायाम्)।
  • ‘सुप्रायणा अस्मिन्यज्ञे विश्रयन्तामृतावृधो द्वारः’ (वा० सं २८।५)। विश्रयन्ताम्=विव्रियन्ताम्।
  • ‘व्यचस्वतीरुर्विया विश्रयन्तां पतिभ्यो न जनयः शुम्भमानाः’ (अथर्व० ५।१२।५)। विश्रयन्तां विवृण्वताम्।
  • ‘या न ऊरु उशती विश्रयाति’ (ऋ० १०।८५।३७)। विश्रयाति विश्लेषयति। पञ्चमो लकारः
  • ‘ऊर्ध्वमस्या अञ्जयो वि श्रयन्ते’ (ऋ० ७।७८।१)।
  • ’ वि श्रयन्तामुर्विया हूयमाना द्वारो देवीः’ (ऋ० २।३।५)। विश्रयन्तां विवृतपिधाना भवन्त्वित्यर्थः।
  • ‘देवी र्द्वारो वि श्रयध्वम्’ (ऋ० ५।५।५)। उक्तोऽर्थः।
  • ‘प्रति गृम्णाति विश्रिता वरीमभिः’ (ऋ० १।५५।२)। विश्रिता व्याप्ताः। वरीमा वरिमा प्रथिमा विस्तारः।

श्रु

  • {विश्रु}
  • श्रु (श्रु श्रवणे)।
  • ‘छिन्द्धि भिन्द्धि प्रधाव त्वं पातयाऽभिसरेति च। व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः’ (भारते)॥ व्यश्रूयन्त उच्चैरश्रूयन्त।
  • ‘सर्वं विश्रावयामास यथाभूतं महाद्यते’ (भा० वन० १७३।६९)। उच्चैरुच्चार्य श्रवणयोरगोचरयत्।
  • ‘अब्रवीच्च विशुद्धात्मा सर्वं विश्रावयञ्जगत्’ (भा० आश्व० ६९।१७)। उक्तोऽर्थः।
  • ‘विश्रूयस्व स्वकर्मणा’ (भा० उ० १३३।१३)। प्रसिद्धिं गच्छेत्याह।
  • ‘तथैव गत्वा बीभत्सुर्नाम विश्राव्य चात्मनः’ (भा० वि० ५३।२०)। विश्राव्य उच्चैरुच्चार्य।
  • ‘यद्विश्रुतिः श्रुतिनुतेदमलं पुनाति’ (भा० पु० १०।८२।३०)। विश्रुतिः कीर्तिः।
  • ‘लक्ष्मणो जपतीत्येवं वाक्यं विश्रावयंस्तदा’ (रा० ६।९०।९२)। उच्चैरश्रावयन्नित्यर्थः। अट् न कृतः।
  • ‘पथा विश्राव्येषाम्’ (ऋ० १०।९३।१४)। विश्रावि विश्रुतम्। विश्रावोऽस्यास्तीति।

श्वि

  • {विश्वि}
  • श्वि (श्वि गतिवृद्ध्योः)।
  • ‘ईयुषीणामुपमा शश्वतीनां विभातीनां प्रथमोषा व्यश्वैत्’ (ऋ० १।११३।१५)। व्यश्वैत् प्रवृद्धा स्वतेजसाऽऽसीत्।

श्लथ्

  • {विश्लथ्}
  • श्लथ् (श्रथ श्लथ हिंसायाम्)।
  • ‘ऐरावतास्फालनविश्लथं यः सङ्घट्टयन्नङ्गदमङ्गदेन’ (रघु० ६।७३)। विश्लथं शिथिलम्।

श्लिष्

  • {विश्लिष्}
  • श्लिष् (श्लिष आलिङ्गने)।
  • ‘शरबन्धा विशिश्लिषुः’ (भट्टि० १४।६७)। विश्लिष्टा बभूवुः। सोपसर्गकोपि श्लिषिरिहाकर्मकः प्रयुक्तो वैयाकरणेन कविना। तदिदं गत्यर्थाकर्मकश्लिषेतिसूत्रवृत्त्या विरुध्यते।
  • ‘सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य’ (मेघ० ७)। विश्लेषितस्य वियोजितस्य।

श्वस्

  • {विश्वस्}
  • श्वस् (श्वस प्राणने)।
  • ‘न जानामि केनापि कारणेनापहस्तितसकलसखीजनं त्वयि विश्वसिति मे हृदयम्’ (काद०)। विश्वसिति विस्रम्भते श्रद्धत्ते।
  • ‘विश्वस्ताविधवे समे’ (अमरः)। अत्र विफलं श्वसिति स्मेति विश्वस्तेति व्युत्पत्तिमाचक्षाणो महेश्वरः साधूत्प्रैक्षिष्ट।

सञ्ज्

  • {विसञ्ज्}
  • सञ्ज् (षञ्ज सङ्गे)।
  • ‘तयोर्विषक्तयोः संख्ये पाञ्चाल्यकुरुमुख्ययोः’ (भा० द्रोण० २०।२३)। विषक्तयोर्द्वन्द्वे समासक्तयोः संश्लिष्टयोः।
  • ‘विषक्ते त्वयि दुर्धर्ष हतः शूरसुतो बलात्’ (भा० वन० २१।१३)। विषक्तेन्यत्र व्यासक्ते।
  • ‘विटपविषक्तजलार्द्रवल्कलेषु’ (शा० १।३२)। विषक्तानि संश्रितानि अवलम्बमानानि।
  • ‘विषक्तस्तीव्रेण व्रणितहृदयेन व्यथयता’ (उत्तर० ४।३)। विषक्तो जनितः।
  • ‘तस्माद्यत् पूयति तत् प्रवाते विषजन्ति’ (तै० सं० ६।४।७)। विषजन्ति प्रसार्य स्थापयन्ति।

सह्

  • {विसह्}
  • सह् (षह मर्षणे)।
  • ‘सा दुर्वारं कथमपि परित्यागदुःखं विषेहे’ (रघु० १४।८७)। विषेहे=सेहे। विशब्द इह विशेषकृन्न।
  • ‘तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे’ (रघु० ४।४९)।
  • ‘सीमायामविषह्यायां स्वयं राजैव धर्मवित्। प्रदिशेद् भूमिम्…’ (मनु० ८।२६५)॥ अविषह्यायाम् परिच्छेत्तुमशक्यायाम्।
  • ‘किं नाम लोकेषु विषह्यमस्य कृष्णस्य सर्वेषु सदेवकेषु’ (भा० वन० १२०।१७)। विषह्यम्=असह्यम्। विशब्दो नञर्थे।

सि

  • {विसि}
  • सि (षिञ् बन्धने)।
  • ‘विसिन्वन्ति बध्नन्तीन्द्रियाणीति विषयाः। स्यन्दन्तां कुल्या विषिताः पुरस्तात्’ (ऋ० ५।८३।८)। विषिता विमुक्ताः।
  • ‘ये ते शुक्रासः क्षां वपन्ति विषितासो अश्वाः’ (ऋ० ६।६।४)। विषितासः=वियुक्ताः।
  • ‘विषितं ते वस्तिबिलम्’ (अथर्व० १।३।८)। विषितं विमुक्तं विवृतम्।
  • ‘प्रजां त्वष्टा वि ष्यतु नाभिमस्मै’ (ऋ० २।३।९)। विष्यतु विमुञ्चतु। वितरत्वित्यर्थः।
  • ‘वि ष्यस्व शिप्रे विसृजस्व धेने’ (नि० ६।१७।२)। विष्यस्व प्रमुञ्च। जिह्वोपजिह्विके धेने। अधोदष्ट्रे वा।
  • ‘अथ यद्विषितो भवति तद्विष्णुर्भवति’ (नि० १२।१८।२)। विषितो व्याप्तः।
  • ‘वि मुडीकाय ते मनो रथीरश्वं न सन्दितम्। गीर्भिर्वरुण सीमहि’ (ऋ० १।२५।३)॥ विसीमहि विषितं शिथिलं कुर्मः।

सिव्

  • {विसिव्}
  • सिव् (षिवु तन्तुसन्ताने)।
  • ‘सीमा मर्यादा। विसीव्यति देशाविति।’ (नि० १॥३)। (विषीव्यतीति पाणिनीयाः)। देशौ विगतसन्तानौ करोति। पृथक् करोतीत्यर्थः।
  • ‘तस्मान्नवधा शिरो विष्यूतम्’ (तै० सं० ६।२।१।४)। विष्यूतं परस्परस्यूतम्।

सू

  • {विसू}
  • सू (षू प्रेरणे)।
  • ‘तद् ये च वा इत ऊर्ध्वा लोका ये चामुतोऽर्वाञ्चः, तेषामेष एतदुभयेषां विषुवति’ (जै० ब्रा० २।५)॥

सृ

  • {विसृ}
  • सृ (सृ गतौ)।
  • ‘चक्रीवदङ्गारुहधूम्ररुचो विसस्रुः’ (शिशु० ५।८)। विसस्रुर्विस्तारमापुः पप्रथिरे।
  • ‘विभिद्यमाना विससार सारसान्’ (कि० ८।३१)।
  • ‘रङ्गवद्विसृते जने’ (भा० शल्य ६२।४)। विसृते व्यपेते।
  • ‘बाणवद् विसृता यान्ति स्वामिकार्यपरा नराः’ (भा० शां० ११९।१५)। विसृता यान्ति=अपुनरावर्तिनो भवन्तीत्याह।
  • ‘विसार्य निपुणां दृष्टिम्’ (रा० १।४१।१६)। विसार्य समन्तात् प्रसार्य। विसारो मत्स्यः। व्याधिमत्स्यबलेष्विति वात्तिकेन कर्तरि घञ्। विविधं सरतीति विसारः। विसार्यपि मत्स्यो भवति वैसारिणोपि स्वार्थेऽणि। विसर उत्करो भवति।
  • ‘विसारी देवदत्त इति विसारिणो मत्स्ये’ (पा० ५।४।१६) इति सूत्रे वृत्तौ प्रत्युदाहरणम्।
  • ‘नावध्यक्षः समुद्रसंयाननदीमुखतरप्रचारान् देवसरोविसरोनदीतरांश्च…अवेक्षेत’ (कौ० अर्थ० २।२८।१)। विशोष्यं सरो विसरः।
  • ‘एवं चिन्तयतस्तस्य शालिसिक्थविसारिणः। महतो पि च मीनस्य…’ (बृ० क० को० १४७।११)॥ विसारिण इतस्ततः संचरतः। स्थाने प्रयोगः। विसारी मत्स्यो भवति वैसारिण इत्यपि। विसार इत्यपि च।

सृज्

  • {विसृज्}
  • सृज् (सृज विसर्गे)।
  • ‘विसृज सुन्दरि सङ्गमसाध्वसम्।’ (माल० ४।१३)। विसृज, त्यज, मुञ्च।
  • ‘प्रतिगृह्य वचो विससर्ज मुनिम्’ (रघु० ८।९१)। विससर्ज प्रेषयामास, प्रस्थापयामास, गमनमनुमेने।
  • ‘विसृजति हिमगर्भैरग्निमिन्दुर्मयूखैः’ (शा० ३।४)। विसृजति मुञ्चति वमति उद्गिरति।
  • ‘फणवानिवैष विससर्ज चेदिपः’ (वचो विषम्) (शिशु० १५।६२)। उज्जगार, व्याजहार, उदाजहारेत्याह।
  • ‘कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्’ (गीता ९।७)। विसृजाम्युत्पादयामि।
  • ‘यद्धि गुप्तावशिष्टं स्यात् तद्वित्तं धर्म कामयोः। संचयान्न विसर्गी स्यात्…’ (भा० शां० १२०।३५)॥ कोशाद् धनं न दद्यादित्यर्थः।
  • ‘अथात्राङ्गुलीर्विसृजते’ (श० ब्रा० ३।६।३।२१)। विसृजते विसृजति शिथिली करोति।
  • ‘शनैर्विसृज्यते सध्या नभो नेत्रैरिवावृतम्’ (रा० १।३४।१६)। विसृज्यतेऽपैति। कर्मकर्तरि प्रयोगः।
  • ‘शुभाशुभान्वितान्भावान् विसृजन्संक्षिपन्नपि’ (भा० अनु० १४।७२)। विसृजन् उत्पादयन्।
  • ‘प्रलपन्विसृजन् गृह्णन्’ (गीता० ५।९)। मलं विसृजन् मैत्रं कुर्वन्। आवश्यकमाचरन्। मलशब्दस्तु नात्यन्तमपेक्ष्यते।
  • ‘नवं पयो यत्र धनैर्मया च त्वद्विप्रयोगाश्रु समं विसृष्टम्’ (रघु० (१३।२६)। विसृष्टम् मुक्तम्। विहृतम्।
  • ‘पित्रा विसृष्टां मदपेक्षया यः श्रियं युवाप्यङ्कगतामभोक्ता।’ (रघु० १३।६७)। पित्रा विसृष्टां पित्राऽतिसृष्टां दत्ताम्।
  • ‘तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते’ (मनु० १।११)। तद्विसृष्टः तेनोत्पादितः। विना नार्थः। सृष्ट इत्येवालम्।
  • ‘तं तं विसृष्टवान् व्यासो वरदो धर्मवत्सलः’ (भा० आश्रम० ३३।२५)। विशब्दो नार्थान्तरकृत्।
  • ‘आभाते एव भातेऽस्मिन्कृच्छ्रात्सर्गे विसर्गता’ (यो० वा० ६। (२) १४३।३३)। विसर्गता विसर्गाभावः। विसर्गः सृष्टिः, विसृष्टिः=विविधा सृष्टिः।
  • ‘नारायणविसर्गः स प्रजास्तस्याप्ययोनिजा’ (हरि० १।१।४५)।
  • ‘तथा विसर्गे कौबेरे वारुणे चैव संयमे’ (भा० सभा० ७८।१९)। विसर्गे दाने।
  • ‘तथापि तच्छक्तिविसर्गः’ (भा० पु० ६।१७।२३)। विसर्गः पुण्यपापलक्षणं कर्मेति श्रीधरः।
  • ‘भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः’ (गीता ८।३)।
  • ‘ज्वरोऽविसर्गी बलवान्’ (चरके० चि० ३।१३४)। अविसर्गी नित्यानुषक्तः।
  • ‘तेषां सृष्टिं विसृष्टिं च वैशम्पायन कीर्तय’ (हरि० १।७।१)। विसृष्टिर्विविधा सृष्टिः।
  • ‘इयं विसृष्टिर्यत आबभूव’ (ऋ० १०।१२९।७)। उक्तोऽर्थः। विशब्दो नानात्वे।
  • ‘तस्मै विसृज्योत्तरकोसलानां…प्रभुत्वम्’ (रघु० १८।७)। विसृज्य समर्प्य।
  • ‘राज्यं च सर्वं विससर्ज तस्मै’ (भा० वि० ७१।२८)। विससर्ज ददौ।
  • ‘देवा अमुञ्चन्नसृजन्व्येनसः’ (तै० ब्रा० २।५।६।३)। एनसो व्यसृजन् पापाद् वियुक्तवन्तः।
  • ‘त?? विसृज्यते विश्वं जगदेतच्चराचरम्’ (दुर्गा० १।४३)। विसृज्यते विविधं सृज्यते। विर्नानार्थे।
  • ‘श्रूयते च– इयं विसृष्टि र्यत आबभूव’ (ऋ० १०।१२९।७)।
  • ‘नोपकिरन्त्युत्तरवेदिं विसृष्टमसद्’ (श० ब्रा० २।५।१।१८)। विसृष्टं विस्तीर्णमपरिच्छिन्नम्।

सृप्

  • {विसृप्}
  • सृप् (सृप्लृ गतौ)।
  • ‘अथ हंसा विससृपुः सर्वतः प्रमदावने’ (भा० वन० ५३।२५)। विससृपुः संचेरुः।
  • ‘यः सुबाहुरिति राक्षसोऽपरस्तत्र तत्र विससर्प मायया’ (रघु० ११।२९)।
  • ‘मनोरागस्तीव्रं विषमिव विसर्पत्यविरतम्’ (मालती० २।१) विसर्पति संचरति प्रसरति व्याप्नोति।
  • ‘(बाष्पः) विसर्पन् धाराभिर्लुठति धरणीं जर्जरकणः’ (उत्तर० १।२९)। विसर्पन् अनुष्यन्दमानः।
  • ‘विस्रप्स्यन्ति च ते यशः’ (भा० पु० ४।१।३१)। अन्तर्णीतण्यर्थः सृपिः। विसृमरतां नेष्यन्तीत्याह। विषविसर्पो विषसंचारः। विसर्पो विसर्पणशीलाऽनार्द्रा कण्डूः। आर्द्रा सा पामोच्यते। तथा च काश्यपसंहितायां प्रयोगः–न विना रक्तपित्ताभ्यां वैसर्पो जातु जायते (का० सं० खिल० विसर्पचि० श्लो० १६)। विसर्प एव वैसर्पः।
  • ‘विविधं सर्पति यतो विसर्पस्तेन स स्मृतः। परिसर्पोऽथवा नाम्ना सर्वतः परिसर्पणात्’ (चरक० चि० अ० २१)॥ विसर्पो ऽनार्द्रा कण्डूः।

सो

  • {विषो}
  • सो (षो अन्तकर्मणि)।
  • ‘पूषा ते बिलं विष्यतु’ (आप० ध० २।२।६।१)। अपावर्तयत्वित्याह।
  • ‘तत् (दाम) ते विष्याम्यायुषे’ (अथर्व० ६।६३।१)। विष्यामि विमुञ्चामि।
  • ‘स्यतिरुपसृष्टो विमोचने’ (नि० १।१७)।
  • ‘प्रकृते कर्मन् विष्यति’ (ग्रन्थिम्) (श० ब्रा० २।६।१।२५)। विष्यति विस्रंसयति, शिथिलयति, मुञ्चति।
  • ‘ईशानो विष्या दृतिम्’ (अथर्व० ७।१९।१)। विष्या विष्य विवृणु।
  • ‘ग्रन्थिं न विष्य ग्रथितं पुनान ऋजुं च गातुं वृजिनं च सोम’ (ऋ० ९।९७।१८)। विष्य शिथिलय।
  • ‘पूनान इन्दो वि ष्या मनीषाम’ (ऋ० ९।९५।५)। विष्या विष्य विकासय।
  • ‘रायस्पोषं वि ष्यतां नाभिमस्मे’ (ऋ० २।४०।४)। तौ सोमापूषणौ विष्यतां विमुञ्चताम्।
  • ‘इमं वि ष्यामि वरुणस्य पाशम्’ (तै० सं० १।१।१०)। विष्यामि विमुञ्चामि।

स्कम्भ्

  • {विष्कम्भ्}
  • स्कम्भ् (स्कम्भु रोधनार्थः स्तम्भनार्थो वा सौत्रः)।
  • ‘विष्कम्भोऽर्गलं न ना’ (अमरः)।
  • ‘तद् द्विगुणविष्कम्भं खाताद् वप्रं कारयेत्’ (कौ० अ० २।३।५)। विष्कम्भ आयामः।
  • ‘एषामन्तरविष्कम्भो योजनानि सहस्रशः’ (भा० भीष्म० ६।६)। विष्कम्भो विस्तारः।

स्तन्

  • {विस्तन्}
  • स्तन् (स्तन गदी देवशब्दे)।
  • ‘वितस्तनुः खे सुरदुन्दुभिस्वनाः’ (अवदा० ६।१९)। जगर्जुरित्यर्थः।

स्तम्भ्

  • {विष्टम्भ्}
  • स्तम्भ् (स्तम्भु धारणार्थः सौत्रः)।
  • ‘आहोस्वित् प्रसवो ममापचरितैर्विष्टम्भितो वीरुधाम्’ (शा० ५।९)। विष्टम्भितो रुद्धः।
  • ‘विष्टब्धं विद्रुमस्तम्भैर्वैदूर्यफलकोत्तमैः’ (भा० पु० १०।६९।९)। विष्टब्धं धृतम्, अवलम्बितम्।
  • ‘अत्युच्छ्रिते मन्त्रिणि पार्थिवे च विष्टभ्य पादावुपतिष्टते श्रीः’ (मुद्रा० ४।१३)। विष्टभ्य समासज्य, दृढं निधाय।
  • ‘विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’ (गीता १०।४२)। विष्टभ्य व्याप्य, आक्रम्य।
  • ‘स्फिग्देशेनोपविष्टः स दोर्भ्यां विष्टभ्य मेदिनीम्’ (भा० शल्य० ६१।२४)। विष्टभ्य=अवलम्ब्य।
  • ‘पार्श्वतः करणं प्राज्ञो विष्टम्भित्वा प्रकारयेत्’ (भा० शां० १४२।९)। विष्टम्भित्वा=विष्टभ्य=निश्चित्य, अवधार्य।
  • ‘यदुपयुक्तं चिराद् विपच्यते विष्टभ्नाति वा स विपाकदोष इति’ (सुश्रुत० १।४५।९)। विष्टभ्नाति गुडगुडाशब्दं करोति।
  • ‘सर्पच्च प्रतिघाति द्रव्यं न विष्टभ्नाति’ (आकाशः) (न्या० भा० ४।२।२२)। नास्य क्रियाहेतुं गुणं प्रतिबध्नाति।
  • ‘दृढेन मुष्टिबन्धेन शूलं विष्टभ्य निर्मलम्’ (मात्स्य० १५३।३९)। विष्टभ्य=अवलम्ब्य।

स्तृ

  • {विस्तृ}
  • स्तृ (स्तृञ् आच्छादने)।
  • ‘पटस्य विस्तारः। प्रथने वावशब्दे’ (३।३।३३)। इत्यत्र वृत्तावुदाहरणम्। तृणविस्तर इति तार्णं शयनीयमाह।

स्था

  • {विष्ठा}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘विज्ञायते च–ऋषे ऋषेर्वा एता निर्मिता यत्सामिधेन्यः, ता यदसंयुक्ताः स्युः प्रजया पशुभिर्यजमानस्य वितिष्ठेरन्’ (आप० श्रौ० इष्टिहौत्रकल्पे ११।१०)। वितिष्ठेरन् वियुञ्जीरन्।
  • ‘यस्त आत्मा पशुषु प्रविष्टो देवानां विष्ठामनु यो वितस्थे’ (आप० श्रौ० २।३।१०।५)। देवानां विष्ठां विशिष्टां स्थितिमवस्थामनुरुध्य वितिष्ठतेऽवतिष्ठते।
  • ‘महः संवरणाद् व्यस्थात्’ (वा० सं० १५।६५)। संवरणमरणिकाष्ठम्। ततो व्यस्थात् व्युदस्थात्। निरक्रामत् आविरासीत्।
  • ‘दिवः सदांसि बृहती वितिष्ठसे’ (नि० ९।२९।२)। वितिष्ठसे विष्टभ्य तिष्ठसीति दुर्गः।
  • ‘य एतावन्तश्च भूयांसश्च दिशो रुद्रा वितस्थिरे’ (वा० सं० १६।६३)। दिशो व्याप्य स्थिता इत्याह।
  • ‘ततो वि तिष्ठे भुवनानि विश्वा’ (अथर्व० ४।३०।७)। व्याप्य स्थितोस्मीत्यर्थः।
  • ‘प्रेति पशवो वितिष्टन्ते’ (श० ब्रा० १।४।१।६)। वितिष्ठन्ते प्रतिष्ठन्ते (गोचराय)।
  • ‘वितिष्ठन्तां मातुरस्या उपस्थान्नानारूपाः पशवो जायमानाः’ (अथर्व० १४।२।२५)। वित्तिष्ठन्तां प्रवर्तन्ताम्।
  • ‘शोकबुद्धिं तदा चक्रे न चैकत्र व्यतिष्ठत’ (भा० आदि० १७७।७)। नैकत्र स्थेमानमलंभत। अनवस्थितोऽभूदित्यर्थः।
  • ‘यथेयं पृथिवी मही दाधार विष्टितं जगत्’ (अथर्व० ६।१७।४)। विष्ठितं स्थावरमचलम्। जगत् चलम्।
  • ‘पशुं नः सोम रक्षसि पुरुत्रा विष्ठितं जगत्’ (ऋ० १०।२५।६)। अनन्तरोदीरित एवार्थः। सायणस्तु सुरनरतिर्यग्योन्यादिभावेनावस्थितमित्येवं व्याख्यात्।
  • ‘भूतोपहतचित्तेव विष्ठिता विस्मृता स्थिता’ (रा० २।५८।३४)। विष्ठिता निःस्पन्दा।
  • ‘क्षमायां विष्ठितं जगत्’ (रा० १।३३।९)। विष्ठितमवस्थितमाधृतं लम्बमानम्।
  • ‘एकं वर्षसहस्रं तु वामाङ्गुष्ठाग्रविष्ठितः’ (भा० अनु० १४।६८)। विष्ठितः स्थितः।
  • ‘स यो व्यस्थादभि दक्षदुर्वीम्’ (ऋ० २।४।७)। व्यस्थात् व्याप्यास्थात्।
  • ‘पङ्गुलेन समं भोगान् भुञ्जाना सा वितिष्ठते’ (बृ० क० को० ८५।३४)। वितिष्ठते तिष्ठति। अनुपसृष्टस्य तिष्ठते र्योऽर्थः स एव सोपसर्गकस्य।
  • ‘ता यदसंयुक्ताः स्युः प्रजया पशुभि र्यजमानस्य वितिष्ठेरन्’ (तै० सं० २।५।७।५)। वितिष्ठेरन् विश्लिष्टाः स्युः।
  • ‘न व्यतिष्ठत कस्मिंश्चिद् देशे वानरपुङ्गवः’ (रा० ४।२।२)। न व्यतिष्ठत न व्यरमत्, नावालम्बत।
  • ‘पारिप्लवगतैश्चापि (विमानादिभिः) देवतास्तत्र विष्ठिताः’ (रा० १।४३।१९)। विष्ठिताः सुष्ठु स्थिताः। पारिप्लवो यानभेदः शिबिकादिरूपः।

स्ना

  • {विष्णा}
  • स्ना (ष्णा शौचे)।
  • ‘विषमित्युदकनाम। विष्णाते र्विपूर्वस्य स्नातेः शुद्ध्यर्थस्य’ (नि० १२।२६।१)।

स्पर्ध्

  • {विस्पर्ध्}
  • स्पर्ध् (स्पर्ध सङ्घर्षे। सङ्घर्षः पराभिभवेच्छा)।
  • ‘येन विस्पर्धसे नित्यं यदर्थं घटसेऽनिशम्’ (भा० शां० २।२४)। विस्पर्धसे स्पर्धसे। नेह विरर्थान्तरयति। संघर्षसीत्येवार्थः।

स्फुर्

  • {विस्फुर्}
  • स्फुर् (स्फुर ईषच्चलने)।
  • ‘नदन्तं विस्फुरन्तं च पशुमारममारयत्’ (भा० सौप्तिक० ८।१९)। विस्फुरन्तं विचेष्टमानम्।
  • ‘आर्त्नी इमे विष्फुरन्ती अमित्रान्’ (ऋ० ६।७५।४)।
  • ‘विष्फुरन्ती विष्फुरन्त्यौ विघ्नत्याविति यास्कः’ (नि० ९।४०)।
  • ‘विस्फुरन्ती यथाकामं मैथुनायोपचक्रमे’ (रा० ७।८०।१६)। विस्फुरन्ती परिसर्पन्ती चेष्टमाना।
  • ‘किं नाम विस्फुरन्ति शस्त्राणि’ (उत्तर० ४)। चकासति, उन्मयूखानि भवन्ति।
  • ‘एकोपि विस्फुरितमण्डलचापचक्रं कः सिन्धुराजमभिषेणयितुं समर्थः’ (वेणी० २।२६)। विस्फुरितमाकृष्टम्।
  • ‘मुखेन विस्फूर्य सुवीरराष्ट्रपं ततोऽब्रवीत्तं द्रुपदात्मजा पुनः’ (भा० वन० २६८।१)। विस्फूर्य फूत्कारं कृत्वा।
  • ‘विस्फार्य सुमहच्चापम्’ (भा० द्रोण० १३५।४०)। विस्फार्य वितत्य। चिस्फुरोर्णावित्यात्वविकल्पः।
  • ‘आर्त्नी इमे विष्फुरन्ती अमित्रान्। स्फुरति र्वधकर्मा। विष्फुरन्त्यौ निघ्नत्यौ’ (नि० ९।४०)। निगदव्याख्यातम्। विशब्दो धात्वर्थानुवादी।
  • ‘विस्फारो धनुषः स्वान इत्यमरः।’

स्फूर्ज्

  • {विस्फूर्ज्}
  • स्फूर्ज् (टुओस्फुर्जा वज्रनिर्घोषे)।
  • ‘अस्त्येवं जडधामता च भवतो यद् व्योम्नि विस्फूर्जसे’ (का० प्र० १०।४४४)।
  • ‘क्व च विक्रान्तता याता क्व च विस्फूर्जितं महत्’ (भा० शल्य० ३१।३३)। विस्फूर्जितं गर्जितम्, स्तनितम्।
  • ‘तत्सर्वं सुरलोकदेवसदृशं धर्मस्य विस्फूर्जितम्’ (भर्तृ० २।१२५)। विस्फूर्जितम् फलं विपाकः, परिणामः।
  • ‘त्वद्भवतेर्विस्फूर्जितमिदम्’ (महिम्नः स्तोत्रे ११)। उक्तचर एवार्थः।
  • ‘धाराणां च निपातेन वायोर्विस्फूर्जितेन च’ (भा० वन० १८६।६)। विस्फूर्जितेन प्रचण्डेन वेगेन।
  • ‘विश्वं विध्वंसयन् वीर्यशौर्यविस्फूर्जितभ्रुवा’ (भा० पु० ४।२४।५७)। विस्फूर्जिताऽऽकुञ्चिता। अन्यत्र दुर्लभोर्थः।

स्मि

  • {विस्मि}
  • स्मि (ष्मिङ् ईषद्धसने)।
  • ‘उभयोर्न तथा लोकः प्रावीण्येन विसिष्मिये’ (रघु० १५।६८)। विसिष्मिये=विस्मयमाप साश्चर्यो बभूव।
  • ‘न विस्मयेत तपसा’ (मनु० ४।२३६)। न विस्मयेत् न दृप्येत्, न गर्वयेत।
  • ‘विस्माययन् विस्मितमात्मवृत्तौ’ (रघु० २।३३)। विस्माययन् विस्मयं कुर्वन् (जनयन्)।
  • ‘वीर्यवान् न च वीर्येण महता स्वेन विस्मितः’ (रा० २।१।१३)। विस्मितो गर्वितः।
  • ‘शमीजातं तु तं दृष्ट्वा अश्वत्थं विस्मितस्तदा’ (हरि० १।२६।४४)। विस्मितो विस्मयान्वितः।

स्मृ

  • {विस्मृ}
  • स्मृ (स्मृ चिन्तायाम्)।
  • ‘कमलवसतिमात्रनिर्वृतो मधुकर विस्मृतोस्येनां कथम्’ (शा० ५।१)।
  • ‘यदा त्वन्यसङ्गात्पूर्ववृत्तं विस्मृतो भवान्’ (शा० ६)। विस्मृतिः स्मतिसम्प्रमोषः।
  • ‘अनिर्देश्यसुखः स्वर्गः कस्तं विस्मारयिष्यति’ (विक्रम० ३।१८)।

स्यन्द्

  • {विस्यन्द्}
  • स्यन्द् (स्यन्दू स्रवणे)।
  • ‘शम्भुमयोभूभ्यां विष्यन्दयति’ (कौ० सू० ४३, ३-१२)। आसिञ्चतीत्यर्थः। मारुतं विष्यन्दमानं (पयः)। क्वथ्यमानमित्यर्थः।
  • ‘मारुतं विष्यन्दमानम्’ (दुग्धम्) (ऐ० ब्रा० ५।२६)। अर्थवैशद्याय भूयोऽस्य न्यासः। विष्यन्दमानम् ऊर्ध्वमुद्गतं पात्राद् बहिर्विशेषेण स्यन्दनदशापन्नम्।
  • ‘यस्याग्निहोत्रमधिश्रितं स्कन्दति वा विष्यन्दते वा’ (ऐ० ब्रा० ७।५)। विष्यन्दो नाम जलक्षीरयोरग्निसंयोगे क्षीरमधः कुर्वन् जलमुपरि च कुर्वन् व्यापारः (षड्गुरुशिष्यः)।

स्रंस्

  • {विस्रंस्}
  • स्रंस् (स्रंसु अवस्रंसने)।
  • ‘उतो त्वस्मै तन्वं वि सस्रे’ (ऋ० १०।७१।४)। विसस्रे विवृणोति।
  • ‘तस्मादु हैतद् यः सर्वमाजिमेति व्यवस्रंसते’ (श० ब्रा० ६।१२)। विस्रंसते शिथिली भवति, श्राम्यतीत्यर्थः।
  • ‘अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः’ (कठ० उ० २।२।४)।
  • ‘अथ विस्रंस्य ग्रन्थिम्’ (श० ब्रा० १।३।३।५)। ग्रन्थिं शिथिलीकृत्य, विसाय, विषीव्य।
  • ‘प्रजापतिः प्रजाः ससृजानः। स व्यस्रंसत’ (जै० ब्रा० २।१२८)। व्यस्रंसत शिथिलाङ्गो भवत्।
  • ‘प्राणानां ग्रन्थिरसि, मा विस्रसः’ (शां० गृ० ३।८।५) मा विस्रसः=विश्लथो मा भूः।

स्रम्भ्

  • {विस्रम्भ्}
  • स्रम्भ् (स्रम्भु विश्वासे)।
  • ‘सुविस्रब्धैरङ्गैः पथिषु विषमेष्वप्यचलता’ (मुद्रा० ३।३)। विस्रब्धैर्विश्वस्तैः प्रत्ययितैः स्वशक्तौ कृतश्रद्धैः।
  • ‘विस्रब्धं क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्वले’ (शां० २।६)। विस्रब्धमनाशङ्कम्, अशङ्कितम्।
  • ‘स्वगृहे स्वर्गलोके वा सङ्ग्रामे वा विरोघतः। विस्रम्भो वो न मन्तव्यो नित्यं क्षुद्रा हि दानवाः’ (मात्स्य० पु० १७८।७७)। विस्रम्भो विश्वासः क्षेमिणो वयमिति।

स्रु

  • {विस्रु}
  • स्रु (स्रु गतौ)।
  • ‘स तु बाणवरोत्पीडाद् विस्रवत्यसृगुल्बणम्’ (भा० वन० २१।८)। विस्रवति मुञ्चति। उल्बणमुत्कटम्।
  • ‘छिद्रो हि यज्ञो भिन्न इवोदधिर्विस्रवति।’ (गो० ब्रा० उत्तर० २।५)। विस्रवति श्च्योतति क्षरति। उदधिः कलशः।
  • ‘जलं विस्रावयेत्सर्वमविस्राव्यं च दूषयेत्’ (भा० शां० ६९।३९)। विस्रावयेत् परिवाहयेत्।
  • ‘पतिशोकातुरां शुष्कां नदीं विस्रावितामिव’ (रा० ५।१९।१७)। विस्रावितां रोधोभङ्गादिना निर्गमितजलाम्, कृतपरीवाहाम्।

स्वन्

  • {विस्वन्}
  • स्वन् (स्वन ध्वन शब्दे)।
  • ‘वेश्च स्वनो भोजने’ (८।३।६९)। इत्यत्र विष्वणतीत्युदाहृतं वृत्तौ। तस्य सशब्दं भुङ्क्त इत्यर्थः। अभ्यवहारक्रियाविशेषोऽभिधीयते यत्र स्वननमस्तीति वृत्तिः।

स्वप्

  • {विष्वप्}
  • स्वप् (ञिष्वप् शये)।
  • ‘तदाहुर्नाग्निरुपस्थेयः कश्श्रेयांसं विषुप्तं बोधयिष्यतीति’ (आप० श्रौ० ६।७।२।७।१)। विषुप्तं प्रसुप्तं सुषुप्तम्।

हन्

  • {विहन्}
  • हन् (हन हिंसागत्योः)।
  • ‘विघ्नन्ति रक्षांसि वने क्रतूंश्च’ (भट्टि० १।१९)। विघ्नन्ति क्रतून्=क्रतुष्वन्तरायमाचरन्ति।
  • ‘गतिर्विजघ्ने नहि तद्रथस्य’ (रघु० ५।२७)। न विहता प्रतिरुद्धाऽभूदित्यर्थः।
  • ‘न व्यहन्यत कदाचिदर्थिता’ (रघु० ११।२)। उक्तोऽर्थः।
  • ‘पद्मान्यशोकपुष्पाणि दृष्ट्वा दृष्टिर्विहन्यते। सीताया नेत्रकोषाभ्यां सदृशानीव…’ (रा० ४।१।७१)। विहन्यते रुध्यतेऽपसार्यते। पद्मकोशपलाशानि द्रष्टुं दृष्टिर्हि मन्यते। सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मणा ॥ इति पाठान्तरम्।
  • ‘तत्रापरीक्ष्य प्रवर्तमानोऽर्थाद् विहन्येत, अनर्थं चाप्नुयात् कदाचित्’ (मी० शा० भा० १।१।५)। विहन्येत रुद्धो वारितः स्यात्। अर्थं नासादयेदित्याह।
  • ‘तद्यथा शङ्कुभिश्चर्म विहन्यात्’ (श० ब्रा० २।१।१।१०)। वितानयेदित्याह।
  • ‘मुण्डमिश्रलक्षणेति’ (३।१।२१) सूत्रे तूस्तानि विहन्ति वितूस्तयतीत्युदाहृतं वृत्तौ। वितूस्तयति विशदी करोति। तूस्तानि जटीभूताः केशाः। तान्विहन्ति विश्लेषयति पृथक् करोतीत्यर्थः।
  • ‘प्रारभ्य विघ्नविहता विरमन्ति मध्याः’ (भर्तृ०)। विघ्नविहताः प्रत्यूहैः प्रतिहतप्रसराः।
  • ‘(अलं) सहसा संहतिमंहसां विहन्तुम्’ (कि० ५।१७)। विहन्तुम् अपनेतुम्।
  • ‘तत एष्याम्यतीतेऽग्नौ विहन्तुं पांसुसंचयम्’ (भा० आदि० २३०।१८)। उक्तपूर्व एवार्थः।
  • ‘तद्भूतनाथानुग नार्हसि त्वं सम्बन्धिनो मे प्रणयं विहन्तुम्’ (रघु० २।५८)। विहन्तुम् पराकर्तुं प्रत्याख्यातुं प्रत्यादेष्टुम्।
  • ‘विश्वा अग्ने अभियुजो विहत्य’ (अथर्व० ७।७७।९)। विहत्य विशेषेण हत्वा। अभियुजोऽभियोक्तॄन्।
  • ‘यदावधीर्वि पुरः शम्बरस्य’ (ऋ० १।१०३।८)। व्यवधीः=उज्जातयामासिथ, उदवर्तयः, उदसादयः।
  • ‘वि वृक्षान् हृन्त्युत हन्ति रक्षसः’ (ऋ० ५।८३।२)। विहन्ति विविधं हन्ति।
  • ‘अलाभे न विहन्येत (मुनिः) लाभे चैव न हर्षयेत्’ (भा० शां० २७८।१०)। न विहन्येत विमना न स्यात्।
  • ‘अम्लेन योगेन विहता मनुष्या माधुर्ययोगे प्रणयी भवन्ति’ (सुश्रुत० सूत्र० ४६।४६८)। विहता उद्वेजिताः।

हस्

  • {विहस्}
  • हस् (हसे हसने)।
  • ‘किमिति विषीदति रोदिति विकला विहसति युवतिसभा तव सकला’ (गीत० ९)। विहसति उपहसति। विरुद्धो हासो विहासः।
  • ‘गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः’ (मेघ० ५२)। विहस्य उपहस्य।
  • ‘किं चिद् विहस्यार्थपतिं बभाषे’ (रघु० २।४६)। विहस्य स्मितं कृत्वा। इह विशब्द ईषदर्थे।
  • ‘विहसितं सस्वनं स्यात्’ (अग्निपु० ३४२।१०)। इह विर्वैशिष्ट्ये।

हा

  • {विहा}
  • हा (ओहाक् त्यागे)।
  • ‘विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सञ्जुहुधीह पावकम्’ (कि० १।४४)। विहाय संन्यस्य परित्यज्य।
  • ‘ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः’ (मेघ० ४३)। विहातुमुत्स्रष्टुम् उज्झितुम्।

हा

  • {विहा}
  • हा (ओहाङ् गतौ)।
  • ‘विजिहीष्व लोकम्’ (अथर्व० ६।१२१।४)। विविधं गच्छेत्यर्थः।
  • ‘वराहेण पृथिवी संविदाना सूकराय वि जिहीते मृगाय’ (अथर्व० १२।१।४८)। विजिहीते विवरं ददातीत्यर्थः।
  • ‘स वायुमागच्छति तस्मै स तत्र विजिहीते’ (श० ब्रा० १४।८।१२।१)। विजिहीतेऽपसर्पति अवकाशं ददाति।
  • ‘वि पर्वाणि जिहतां सूतवा उ’ (अथर्व० १।११।१)। प्रसवनिरोधकाः सन्धिबन्धा विजिहतां विगच्छन्तु विश्लथा भवन्त्विति सायणः।
  • ‘विजिहीष्व वनस्पते योनिः सूष्यन्त्या इव’ (ऋ० ५।७८।५)। विजिहीष्व=विगच्छ विवृता भव। वनस्पतिर्वनस्पतिविकारः पेटिका।
  • ‘अथास्या ऊरू विहापयति’ (श० ब्रा० १४।९।४।२०)। विहापयति पृथक्करोति। वियौति वियुनाति।
  • ‘वि योनिं हापयामसि’ (अथर्व० १।११।३)। विहापयामसि विहापयामो विवृण्मः।
  • ‘सुकीर्तिना काक्षीवतेन योनिं व्यहापयत्’ (ऐ० ब्रा० ५।१५)। व्यहापयद् गर्भनिःसरणायावकाशमकरोदित्याह।
  • ‘इदं तच्छीर्षकपालं विहाप्य यदिदमन्तरतः शीर्ष्णो वीर्यं तदस्मिन्दधाति’ (श० ब्रा० ७।५।२।२५)। विहाप्य विदार्य।
  • ‘(अग्नाविष्णू युवाम्)। मा…वि जिहाथाम्’ (तै० सं० १।१।१२)। मम मार्गप्रदानार्थं विगच्छतम्।
  • ‘स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खम्’ (बृह० उ० ५।१०।१)। विजिहीते स्वात्मानं विश्लिष्टावयवं करोति।

हूर्च्छ्

  • {विहूर्च्छ्}
  • हूर्च्छ् (हुर्च्छा कौटिल्ये)।
  • ‘तस्माद्यो मनुष्याणां मेद्यत्यशुभे मेद्यति विहूर्च्छति हि, न ह्ययनाय चन भवति’ (श० ब्रा० २।४।२।६)। विहूर्च्छति पादावस्य विषमी भवत इत्याह।
  • ‘नाङ्गेन विहूर्च्छति’ (छां० उ० २।१९।२)। कुटिलो भवति।

हृ

  • {विहृ}
  • हृ (हृञ् हरणे)।
  • ‘विहरति हरिरिह सरसवसन्ते’ (गीत० १)। विहरति क्रीडति, आत्मानं विनोदयति।
  • ‘कीर्तिं बहुभ्यो विहर द्विराजे’ (अथर्व० ५।२०।९)। विहर विभज बहुलं वितर। न वीरपत्नीं विहरेत नारीम्। न विहरेत न विभजेत। स्त्र्यन्तरकरणेन धर्मार्थकामेषु तां विभागवतीं न कुर्यादित्यर्थः।
  • ‘एषा ह वा अस्य सहस्रम्भरता यदेनमेकं सन्तं बहुधा विहरन्ति’ (ऐ० ब्रा० १।२८)। व्याहरन्तीत्यर्थः।
  • ‘अथ यदेनमेकं सन्तं बहुधा विहरन्ति तदस्य वैश्वदेवं रूपम्’ (ऐ० ब्रा० ३।४)। पूर्वोक्त एवार्थः।
  • ‘स पच्छः प्रथमे सूक्ते विहरति, अर्द्धर्चशो द्वितीय ऋक्शस्तृतीये’ (गो० ब्रा० उ० ६।८)। स्थानविपर्ययं करोतीत्यर्थः।
  • ‘पञ्चशब्दादिलक्षणायां भुवि पादो विहरति’ (साङ्ख्यका० ३४, गौडपादः)। विहरति गतिं करोति, क्रामति।
  • ‘ग्रामं विहरति’ (उद्द्योते नागेशः)। गच्छतीत्यर्थः।
  • ‘इति बाष्पं विहरति’ (शा० ६)। मुञ्चतीत्यर्थः।
  • ‘पार्श्वतो विहरिष्यामि इत्येवं याचितो वरः’ (बाणेन) (हरि० १।३।७७)। त्वत्सन्निधौ विचरिष्यामीत्यर्थः।
  • ‘न सख्यमजरं लोके विद्यते जातु कस्य चित्। कालो वैनं विहरति क्रोधो वैनं रहत्युत’ (भा० आदि० १३१।६८)॥ विहरत्यपनयति अपाकरोति। एनमिति पुन्निर्देशो लिपिकरप्रमादजः।
  • ‘अग्नीदग्नीन् विहर’ (श० ब्रा० ४।२।५।११)। विहर पृथक्पृथक् प्रणय रचय।
  • ‘यस्त ऊरू विहरत्यन्तरा दम्पती शये’ (ऋ० १०।१६२।४)। विहरति पृथक्करोति।
  • ‘तस्मात्स्त्र्यूरू विहरति’ (ऐ० ब्रा० २।३५)। अनन्तरोदीरित एवार्थः।
  • ‘तद्यदेतावग्नी आहवनीयाद् विह्रियेते’ (श० ब्रा० १२।९।३।१३)। पूर्वेण समोऽर्थः।
  • ‘यस्य दस्युगणा राष्ट्रे ध्वाङ्क्षा मत्स्यान् जलादिव। विहरन्ति परस्वानि…’ (भा० शां० १४२।२९)॥ विहरन्ति अपहरन्ति, आच्छिन्दन्ति, विलुम्पन्ति।
  • ‘पततश्चापरो राजन् विजहारासिना शिरः’ (भा० कर्ण २८।३८)। विजहार अपजहार, चिच्छेद।
  • ‘व्यहरन्नुत्तमाङ्गानि पाण्डवा गजयोधिनाम् (भा० भीष्म० ६२।४२)। उक्तोऽर्थः।
  • ‘हिंसया विहरिष्यन्तो धर्म पितृकृतेन वै०’ (हरि० १।१९।५)। पित्रर्थं धर्मं श्राद्धमुद्दिश्य हिंसया विहरिष्यन्तो जीवन्त इत्यर्थः।
  • ‘ये पाकशंसं विहरन्त एवैः’ (अथर्व० ८।४।९)। विहरन्ते विशेषेण हरन्ति उपक्षपयन्ति यथाकामं परिवदन्तीत्यर्थ इति सायणः।
  • ‘ते देवा आग्नीध्रादेव सदस्यानग्नीन् विहरन्त’ (ऐ० ब्रा० २।३६)। विहरन्त=व्यहरन्त। अडभावश्छान्दसः। आहरन्नित्यर्थः।
  • ‘गृह्येऽग्नौ पाकयज्ञान् विहरेत्’ (वा० गृ० १।२)।
  • ‘देवरथस्यैव तदन्तरौ रश्मी विहरत्यलोभाय’ (ऐ० ब्रा० २।३७)। विहरति संगृह्णाति। अलोभाय=अनाकुलत्वाय।
  • ‘मासमेकं विजह्रुस्ते ससैन्यान्तःपुरा वने’ (भा० आश्रम० २९।७)। विजह्रुः, भ्रेमुः पर्याटुः।
  • ‘विहरेत्स्वास्थ्यमिदं च मे न सङ्गः’ (बुद्ध० ५।३५)। विहरेत् अपहरेत् नाशयेत्।
  • ‘स विद्युच्छुरितं चापं विहरन्वै तलात्तलम्’ (भा० वन ० १७।४)। विहरन् सव्यापसव्यहस्ततलपरिवर्तेन कर्षन्नित्यर्थः।
  • ‘एतां रात्रिं विहरेयाताम्’ (गो० गृ० १।६।६)। नयेयातां विगमयेयाताम्।
  • ‘यथालिङ्गं वा विहरन्’ (गो० गृ० ३।४।२१)। विहरन् व्यवहरन् इति सत्यव्रतः सामश्रमी। विहारो विकर्षणं पृथक्करणम्। एतत्कालत्रये मन्त्रान्विभजन् इत्यर्थ इति।
  • ‘विहरन्ननु संहरेच्चक्षुरसीति’ (द्रा० गृ० ३।१।१९)। विहरन्व्याहरन्। आङ् परिहृतः।
  • ‘स्थानासनाभ्यां विहरन्तः’ (आप० ध० १।९।२५।१०)। कालं क्षिपन्तः क्षपयन्त इत्यर्थः।
  • ‘विहारावसथोद्यानकूपारामसभाप्रपाः। वप्राणां चैव कर्तारः’ (भा० अनु० २३।९९)। विहारा भिक्षुनिकाय्याः।
  • ‘कुर्याद् विहारमाहारं निर्हारं विजने सदा ’ (शुक्र० ३।११२)। विहारो व्यवायो रतम्।
  • ‘यथाश्रुति विहारे’ (आप० ध० २।९।९)। विहारो यज्ञकर्म।
  • ‘शमीमय्यः स्रुचो भवन्ति हिरण्यमय्यो वा दक्षिणस्य विहारस्य’ (भा० श्रौ० ८।६।६)। उक्तोऽर्थः।
  • ‘न विहारार्थं जल्पेत्’ (लौ० गृ० १।२०)। विहारः क्रीडा। तदर्थं परिहासादिकं न वदेत्। अथवा विहारो मलमूत्रोत्सर्गमाह। विहारार्थं न जल्पेदनुज्ञाग्रहणायेत्यर्थ इति देवपालः।
  • ‘सविहारं सुखं जग्मुर्नगरं नागसाह्वयम्’ (भा० आदि० २०७।११)। सविहारं सलीलम्।
  • ‘अन्तरेण खल्वपि शब्दप्रयोगं बहवोऽर्था गम्यन्तेऽक्षिनिकोचैः पाणिविहारैश्च’ (पा० २।१।१ भाष्ये)। पाणिविहारैर्हस्तचेष्टाभिः।
  • ‘न समावृत्ता वपेरन्नन्यत्र विहारात्’ (आप० ध० १।३।१०।७)। विहारो यागदीक्षा। वपेरन्नित्यत्र केशानिति शेषः।
  • ‘यथा तर्हि रथाङ्गानि विहृतानि प्रत्येकं व्रजिक्रियां प्रत्यसमर्थानि भवन्ति’ (पा० १।२।४५ सूत्रभाष्ये)। विहृतानि विक्षिप्तानीति कैयटः। विहरतिरिह पृथक्करणे वर्तत इति नागेशः।
  • ‘महाव्याहृतीश्च विहृता ओङ्कारान्ताः’ (गो० गृ० २।१०।४०)। विहृता विकृष्य हृताः पृथक्कृताः।
  • ‘यदस्य हृतं विहृतं यत् पराभृतम्’ (अथर्व० ५।२९।५)। उक्तोर्थः।
  • ‘कुत आगम्यते सौते क्व चायं विहृतस्त्वया। कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम’ (भा० आदि० १।७)॥ विहृतो नीतः नीलकण्ठः। विहृत्य नीत इति तु वयम्। विहृतम्।
  • ‘अवसरागतस्याभाषणं व्याजादिना दर्शितेङ्गितम्’ (दशरूपके २।३०)। निगदव्याख्यातम्।
  • ‘विहृतिमियाय रुचिस्तडिल्लतानाम्’ (कि० १०।१९)। विहृतिर्विवृद्धिः। विवृतिमिति पाठान्तरम्।
  • ‘आध्यादीनां विहर्तारं धनिने दापयेद् धनम्’ (याज्ञ० २।२६)। विहर्तारमपनेतारम् (उपभोगादिना)।
  • ‘आङो दोऽनास्यविहरणे’ (पा० १।३।२०)। विहरणं व्यादानम्। मूलतो विहरणं पृथक्करणमित्यधस्तादसकृदुक्तम्। ओष्ठपुटयोः पृथक्करणमेवास्यविहरणम्।
  • ‘वेः पादविहरणे’ (पा० १।३।४१)। इह विहरणं विक्षेपः। विक्रमते वाजीत्युदाहरणम्। सुष्ठु पदानि विक्षिपतीत्यर्थः। अश्वादीनां गतिविशेषो विक्रम इति च वृत्तिः।
  • ‘उपानदधिनहनपूर्वोत्तरपदविहरणपथिभोजनशय्यासनोदकपानाद्यासु’ (नि० १।१।११ इत्यत्र दुर्गः)। उक्तोऽर्थः।
  • ‘वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम्’ (सां० का० २८ इत्यत्र गौडपाद:)। उक्तपूर्व एवार्थः।
  • निष्कालन-प्रवेशने तन्त्री-विहरणम्’ (गो० गृ० ३।६।९)। तन्त्र्या बन्धनरज्ज्वा दाम्नः पृथक्करणमिह विहरणमुक्तम्। अग्निविहरणम्। स्वस्थानाद् विभज्यान्यत्र नयनम् (ऐ० ब्रा० ४।३ इत्यत्र सायणः)।
  • ‘गार्हपत्याद् दक्षिणाग्निमुद्धृत्य तस्मादाहवनीयं प्रणीय दक्षिणाग्नेस्तदायतने निधानं विहरणम्’ (श्रौ० प० नि०)।
  • ‘गार्हपत्यकुण्डस्थानामग्नीनामाहवनीयदक्षिणाग्निकुण्डयोर्विहारो वितानम् इति’ (मनु० ६।९ इत्यत्र कुल्लूकः)।
  • ‘उत्तरत उपचारो विहारः’ (बौ० ध० १।७।१५।१)। विहृता अग्नयो यस्मिन्देशे स विहारः।
  • ‘जपत्युत्तरतो विहारस्य’ (आप० श्रौ० १।१।४)।
  • ‘विहारं प्रपद्यते पूर्वेणोत्करमपरेण प्रणीताः’ (आश्व० श्रौ० १।१।४)। विहारो विहृताग्निमध्यगः प्रदेशः।
  • ‘न विहारेण व्यवेयात्’ (आश्व० गृ० १।५।४ इत्यत्रानाविलायामुद्धृतम्)।
  • ‘विहारवेलाविलोले पर्यटति पत्नीजने’ (हर्ष० तृ० उ०)। विहारो वह्निसन्धुक्षणमग्निहोत्रार्थम् इति शङ्करसङ्केतः।
  • ‘स्थानासनविहारैः’ (याज्ञ० ३।५१)। विहारः क्रीडा विनोदो वा।
  • ‘विहारयोगान्व्याख्यास्यामः’ (आप० शुल्ब० १)। विहारो विमानम्।
  • ‘देवरथस्यैव तदन्तरौ रश्मी विहरति’ (ऐ० ब्रा० २।३७)। विहरति विशेषेण सम्पादयति।
  • ‘वक्षसश्चन्दनं बाह्वोस्तिलकं विजहार सा’ (ब्रह्मवै० पु० २।१६।१२५)। विजहार जहार जग्राह।
  • ‘पच्छः प्रथमं षड् वालखिल्यानां सूक्तानि विहरति’ (ऐ० ब्रा० ६।२४)। विहरति पदव्यत्यासपूर्वं शंसति।
  • ‘बहिष्ठेभिर्विहरन्यासि तन्तुम्’ (ऋ० ४।१३।४)। विहरन्व्यूहन् विस्तारयन्।
  • ‘षट् स्वरेषुविहृताः’ (लीला० २२६)। षट् स्वरेषुभिर्विहृता विभक्ताः।
  • ‘कः पञ्चनिघ्नो विहृतस्त्रिषष्ट्या’ (लीला० २६०)। उक्तोऽर्थः।
  • ‘विहृता वा इमे प्राणाः’ (ऐ० ब्रा० ६।२८)। विहृताः परस्परं व्यतिषक्ताः।
  • ‘अविहृतानेव चतुर्थं प्रगाथाञ्छंसति’ (ऐ० ब्रा० ६२४)। अविहृतान् अव्यत्यस्तान्, यथापाठं स्थितान्।
  • ‘व्यायामाच्च विहाराच्च’ (चरक० चि० १५।२३५)। विहारो ऽङ्गक्षेपणादिचेष्टा।
  • ‘प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम्’ (सुश्रत० नि० १।३९)। विहारः कायवाङ्मनोव्यापारः।
  • ‘अथातो विहारयोगान् व्याख्यास्यामः’ (सत्या० श्रौ० २५।१।१)। विह्रियन्ते ऽस्मिन्नग्नय इति विहार आयतनम्।
  • ‘यदिदं बहुधाऽग्निर्विह्रियते’ (पञ्च० ब्रा० १०।१२।१०)। अन्यत्रान्यत्र च प्रणीयत इत्यर्थः।

ह्वल्

  • {विह्वल्}
  • ह्वल् (ह्वल ह्मल चलने)।
  • ‘अन्तर्भिन्नं भ्रमति हृदयं विह्वलत्यङ्गमङ्गम्’ (मालती० ५।२०)। विह्वलति विचलति वेपते।
  • ‘क्षणमात्रसखीं (स्रजम्) सुजातयोः स्तनयोस्तामवलोक्य विह्वला’ (रघु० ८।३७)। विह्वला परवशेति मल्लिः।
  • ‘संज्ञां नोपलभे सूत मनो विह्वलतीव मे’ (भा० आदि० १।२१८)। भ्रमतीत्यर्थः।
  • ‘वित्तव्याधविकारविह्वलगिरां नामापि न श्रूयते’ (भर्तृ० ३।५९)। विह्वला क्लिष्टा, दूना।

ह्वृ

  • {विह्वृ}
  • ह्वृ (ह्वृ कौटिल्ये)।
  • ‘इममग्ने चमसं मा विजिह्वरः’ (अथर्व० १८।३।५३)। कुटिलं मा कार्षीरित्यर्थः।

ह्वे

  • {विह्वे}
  • ह्वे (ह्वेञ् स्पर्धायां शब्दे च)।
  • ‘यदिन्द्राग्नी जना इमे विह्वयन्ते तना गिरा’ (ऋ० ८।४०।७)। नाना ह्वयन्त इत्यर्थः।
  • ‘तां देवासुरा व्यह्वयन्त’ (तै० सं० १।७।१।३)। व्यह्वयन्त विविधमाह्वयन्।