+वाक्यस्तरम्

अर्थज्ञानहेतवः

पदस्तरे

  • किं नाम पदम्?
    • क्रमवत्-वर्णसमूहः, सुप्-तिङन्तम् इति वैयाकरणाः।
    • शक्तं पदम्। इति तु नैयायिकाः। उदाहरणम् - “वने रामः। इत्यत्र ३ पदानि - वनम्, ङिप्रत्ययः, रामः।”

पदसमूहस्तरे

सामर्थ्यं द्वेधा -

  • व्यपेक्षा-लक्षणम् - आकाङ्क्षादिवशात् परस्परान्वयः। सामर्थ्यमिदं वाक्ये एव नित्यं भवति, न अन्यत्र। अत एव - राज्ञः पुरुष इत्यादिवाक्य एव भवति।
  • एकार्थीभाव-लक्षणम्- पदानां समुदायशक्त्या विशिष्टैकार्थप्रतिपादकता। सामर्थ्यमिदं वृत्तिषु भवति। इदंच सामर्थ्यं राजपुरुष इत्यादिवृत्तावेव।