१३५ अत्यति

क्रम्

  • {अत्यतिक्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘कथं त्वामत्यतिक्रान्तः’ (भा० आदि० १२५।१८)। शोकाकुलत्वाच्छब्दस्याभ्यास इति नीलकण्ठः।

रिच्

  • {अत्यतिरिच्}
  • रिच् (रिचिर् विरेचने)।
  • ‘ध्रियमाणः कपोतस्तु मांसेनात्यतिरिच्यते’ (भा० वन० १३१।२७)। अत्यतिरिच्यते=अतितरामतिरिक्तो भवति, गुरुभारतरो भवतीत्याह।