०१

युवोरनाकौ॥ ७.१.१॥

यु वु इत्येतयोरुत्सृष्टविशेषणयोरनुनासिकयणोः प्रत्यययोर्ग्रहणम्, तयोः स्थाने यथासंख्यमन अक इत्येतावादेशौ भवतः। योरनः, वोरकः। नन्द्यादिभ्यो (३.१.१३४) ल्युः-नन्दनः। रमणः। सायमादिभ्यष्ट्युट्युलौ तुट् च (४.३.२३)- सायंतनः। चिरंतनः। ‘ण्वुल्तृचौ’ (३.१.१३३)- कारकः। हारकः। ‘वासुदेवार्जुनाभ्यां वुन्’ (४.३.९८)- वासुदेवकः। अर्जुनकः। अनुनासिकयणोरिति किम्? ‘ऊर्णाया युस्’ (५.२.१२३)- ऊर्णायुः। ‘भुजिमृङ्भ्यां युक्त्युकौ’ (प०उ० ३.२१) - भुज्युर्मृत्युरिति। एवमादीनां हि यणोऽनुनासिकत्वं न प्रतिज्ञायते,‘ प्रतिज्ञानुनासिक्याः पाणिनीयाः’। इह युवोरिति निर्देशाद् द्वन्द्वैकवद्भावपक्षेऽनित्यमागमशासनम् इति नुम् न क्रियते। नपुंसकलिङ्गता वा ‘लिङ्गमशिष्यं लोकाश्रयत्वाद् लिङ्गस्य’(महाभाष्य १.३९०) इति न भवति। इतरेतरयोगपक्षे तु छान्दसत्वाद् वर्णलोपो द्रष्टव्यः।

	युवोश्चेद् द्वित्वनिर्देशो द्वित्वे यण्तु प्रसज्यते।

	अथ चेदेकवद्भावः कथं पुंवद् भवेदयम्॥

	द्वित्वे नैगमिको लोप एकत्वे नुमनित्यता।

	अशिष्यत्वाद्धि लिङ्गस्य पुंस्त्वं वेह समाश्रितम्॥

आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् ॥ ७.१.२॥

आयन् एय् ईन् ईय् इय् इत्येत आदेशा भवन्ति यथासंख्यं फ ढ ख छ घ इत्येतेषां प्रत्ययादीनाम्। फ इत्येतस्यायनादेशो भवति। ‘नडादिभ्यः फक् ’ (४.१.९९)-नाडायनः। चारायणः। ढस्य एयादेशो भवति। ‘स्त्रीभ्यो ढक्’(४.१.१२०)-सौपर्णेयः। वैनतेयः। खस्य ईनादेशो भवति। ‘कुलात् खः’ (४.१.१३९)-आढ्यकुलीनः। श्रोत्रियकुलीनः। छस्येयादेशो भवति। ‘वृद्धाच्छः’(४.२.११४)-गार्गीयः। वात्सीयः। घ इत्येतस्येयादेशो भवति। ‘क्षत्राद् घः’ (४.१.१३८)-क्षत्रियः। प्रत्ययग्रहणं किम्? फक्कति। ढौकते। खनति। छिनत्ति। घूर्णते। आदिग्रहणं किम्? ऊरुदघ्नम्। जानुदघ्नम्। एत आयन्नादयः प्रत्ययोपदेशकाल एव भवन्ति। कृतेष्वेतेषु प्रत्ययाद्युदात्तत्वं भवति। तथा च ‘घच्छौ च’(४.४.११७) इति घचश्चित्करणमर्थवद् भवति। शङ्खः, षण्ढः इत्येवमादीनां हि ‘उणादयो बहुलम्’ (३.३.१) इति बहुलवचनादादेशा न भवन्ति। ‘ऋतेरीयङ्’(३.१.२९) इति वा वचनं ज्ञापकं धातुप्रत्ययानामादेशाभावस्य। ‘एजेःखश्’(३.२.२८), ‘पदरुजविशस्पृशो घञ्’(३.३.१६) इत्येवमादिषु तु इत्संज्ञया भवितव्यम्। तद्धितेषु हि खकारघकारयोरादेशवचनमवकाशवदितीत्संज्ञां बाधितुं नोत्सहते। आयन्नीनोर्नकारस्येत्संज्ञायां प्राप्तायां प्रतिविधातव्यम्, नित्कार्यं हि संभवति॥

झोऽन्तः॥ ७.१.३॥

प्रत्ययग्रहणमनुवर्तते, आदिग्रहणं निवृत्तम्। प्रत्ययावयवस्य झस्य अन्त इत्ययमादेशो भवति। कुर्वन्ति। सुन्वन्ति। चिन्वन्ति। अद्य श्वो विजनिष्यमाणाः पतिभिः सह शयान्तै (वासि०गृ० १३.२४)। ‘जृविशिभ्यां झच्’ (प०उ० ३.१२६)- जरन्तः। वेशन्तः। प्रत्ययस्येत्येव-उज्झिता। उज्झितुम्। उज्झितव्यम्। अस्मिन्नप्यन्तादेशे कृते प्रत्ययाद्युदात्तत्वं भवति। तथा च झचश्चित्करणमर्थवद् भवति॥

अदभ्यस्तात् ॥ ७.१.४॥

अभ्यस्तादङ्गादुत्तरस्य झकारस्य अदित्ययमादेशो भवति। ददति। ददतु। दधति। दधतु। जक्षति। जक्षतु। जाग्रति। जाग्रतु। अन्तादेशापवादोऽयं जुसादेशेन तु बाध्यते। अददुः। अजगारुः। अत्राप्यदादेशे कृत प्रत्ययाद्युदात्तत्वं भवति॥

आत्मनेपदेष्वनतः ॥ ७.१.५॥

आत्मनेपदेषु यो झकारस्तस्यानकारान्तादङ्गादुत्तरस्यादित्ययमादेशो भवति। चिन्वते। चिन्वताम्। अचिन्वत। पुनते। लुनते। लुनताम्। अलुनत। आत्मनेपदेष्विति किम्? चिन्वन्ति। लुनन्ति। अनत इति किम्? च्यवन्ते। प्लवन्ते। नित्यत्वादत्र विकरणे कृते झोऽन्तादेशेन भवितव्यमित्यदादेशो न भवति। अनकारान्तेनाङ्गेन झकारविशेषणं किम्? इह मा भूत्-अद्य श्वो विजनिष्यमाणाः पतिभिः सह शयान्तै (वासि०गृ० १३.२४)॥

शीङो रुट् ॥ ७.१.६॥

शीङोऽङ्गादुत्तरस्य झादेशस्यातो रुडागमो भवति। शेरते। शेरताम्। अशेरत। रुडयं परादिः क्रियते। स यदि झकारस्यैव स्याददादेशो न स्यादित्यत एवायमादेशस्यागमो विधीयते। सानुबन्धग्रहणमयङ्लुगर्थम्। तेनेह न भवति-व्यतिशेश्यते॥

वेत्तेर्विभाषा ॥ ७.१.७॥

वेत्तेरङ्गादुत्तरस्य झादेशस्यातो विभाषा रुडागमो भवति। संविदते, संविद्रते। संविदताम्, संविद्रताम्। समविदत, समविद्रत। वेत्तेरिति लुग्विकरणस्य ग्रहणं किम्? इह मा भूत्-विन्ते, विन्दाते, विन्दत इति॥

बहुलं छन्दसि ॥ ७.१.८॥

छन्दसि विषये बहुलं रुडागमो भवति । दे॒वा॑ अ॒दुह्र॒ (मै०सं० ४.२.१३)। गन्धर्वाप्स॒र॑सो॒ अदुह्र (मै०सं० ४.२.१३)। दुहेर्लङि झकारस्यादादेशे कृते रुट् । ‘लोपस्त आत्मनेपदेषु’ (७.१.४१) इति तकारलोपः। न च भवति-अदुहत। बहुलवचनादन्यत्रापि भवति-अदृ॑श्रमस्य के॒तवः॒ (ऋ०१.५०.३)। ‘ऋदृशोऽङि गुणः’ (७.४.१६) इत्येतदपि बहुलवचनादेवात्र न भवति॥

अतो भिस ऐस् ॥ ७.१.९॥

अकारान्तादङ्गादुत्तरस्य भिस ऐस् इत्ययमादेशो भवति। वृक्षैः। प्लक्षैः। अतिजरसैः। जरामतिक्रान्तैरिति विगृह्य समासे कृते ह्रस्वत्वे च भिस ऐसादेशो भवति। ‘एकदेशविकृतमनन्यवद् भवति’ इति जरशब्दस्य जरसादेशः। ‘संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य’ इति परिभाषेयमनित्या ‘कष्टाय क्रमणे’ (३.१.१४) इति निर्देशात् । अत इति किम् ? अग्निभिः वायुभिः। तपरकरणं किम्? खट्वाभिः। मालाभिः।

	एत्वं भिसि परत्वाच् चेदत ऐस् क्व भविष्यति ।

	कृतेऽप्येत्वे भौतपूर्व्यादैस्तु नित्यस्तथा सति ॥

अत इत्यधिकारो ‘जसः शी’ (७.१.१७) इति यावत् ॥

बहुलं छन्दसि ॥ ७.१.१०॥

छन्दसि विषये बहुलमैसादेशो भवति। अत इत्युक्तमनतोऽपि भवति नद्यैरिति। अतो न भवति-देवेभिः सर्वेभिः प्रोक्तमिति॥

नेदमदसोरकोः ॥ ७.१.११॥

इदम् अदस् इत्येतयोरककारयोर्भिस ऐस् न भवति । एभिः। अमीभिः। अकोरिति किम्? इमकैः। अमुकैः। अकोरित्येतदेव प्रतिषेधवचनं ज्ञापकं ‘तन्मध्यपतितस्तद् ग्रहणेन गृह्यते’ इति । इदमदसोः कादिति नोक्तम् , विपरीतोऽपि नियमः संभाव्येत - इदमदसोरेव कादिति। ततश्चेह न स्यात्-सर्वकैः, विश्वकैः। इह च स्यादेव-एभिः, अमीभिः। प्रतिषेधकरणं विपरीतनियमनिवृत्त्यर्थम् ॥

टाङसिङसामिनात्स्याः ॥ ७.१.१२॥

अकारान्तादङ्गादुत्तरेषां टाङसिङसाम् इन आत् स्य इत्येत आदेशा भवन्ति यथासंख्यम्। टा इत्येतस्येनादेशो भवति-वृक्षेण। प्लक्षेण। ङसीत्येतस्य आत्-वृक्षात्। प्लक्षात्। ङसित्येतस्य स्यादेशो भवति-वृक्षस्य। प्लक्षस्य। अत इति किम्? सख्या। पत्या। अतिजरसिन अतिजरसादिति केचिदिच्छन्ति। यथा तु भाष्ये (३.३०९) तथा नैतदिष्यत इति लक्ष्यते॥

ङेर्यः ॥ ७.१.१३॥

ङेरिति चतुर्थ्येकवचनस्य ग्रहणम्। अकारान्तादङ्गादुत्तरस्या ङे इत्येतस्य य इत्ययमादेशो भवति। वृक्षाय। प्लक्षाय। अत इत्येव-सख्ये। पत्ये। ‘संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य’ इति परिभाषेयमनित्या, तेन दीर्घो भवति॥

सर्वनाम्नः स्मै ॥ ७.१.१४॥

अकारान्तात् सर्वनाम्न उत्तरस्य ङेः स्मै इत्ययमादेशो भवति। सर्वस्मै। विश्वस्मै। यस्मै। तस्मै। कस्मै। अत इत्येव-भवते। अथोऽत्रास्मै इत्यन्वादेशेऽशादेशे (२.४.३२) एकादेशः प्राप्नोति। तत्रान्तरङ्गत्वादेकादेशात् पूर्वं स्मैभावः क्रियते, पश्चादेकादेश इति॥

ङसिङ्योः स्मात्स्मिनौ ॥ ७.१.१५॥

ङसि ङि इत्येतयोरकारान्तात् सर्वनाम्न उत्तरयोः स्मात् स्मिन् इत्येतावादेशौ भवतः। ङसीत्येतस्य स्मात्- सर्वस्मात्। विश्वस्मात्। यस्मात्। तस्मात्। कस्मात्। ङीत्येतस्य स्मिन्-सर्वस्मिन्। विश्वस्मिन्। यस्मिन्। तस्मिन्। अन्यस्मिन्। अत इत्येव-भवतः। भवति। सर्वनाम्न इत्येव-वृक्षात्। वृक्षे॥

पूर्वादिभ्यो नवभ्यो वा ॥ ७.१.१६॥

पूर्वादिभ्यो नवभ्यः सर्वनामभ्य उत्तरयोर्ङसिङ्योः स्मात् स्मिन् इत्येतावादेशौ वा भवतः। पूर्वस्मात्, पूर्वात्। पूर्वस्मिन्, पूर्वे। परस्मात्, परात्। परस्मिन्, परे। अवरस्मात्, अवरात्। अवरस्मिन्, अवरे। दक्षिणस्मात्, दक्षिणात्। दक्षिणस्मिन्, दक्षिणे। उत्तरस्मात्, उत्तरात्। उत्तरस्मिन्, उत्तरे। अपरस्मात्, अपरात्। अपरस्मिन्, अपरे। अधरस्मात्, अधरात्। अधरस्मिन्, अधरे। स्वस्मात्, स्वात्। स्वस्मिन्, स्वे। अन्तरस्मात्, अन्तरात्। अन्तरस्मिन्, अन्तरे। नवभ्य इति किम्? त्यस्मात्। त्यस्मिन्॥

जसः शी ॥ ७.१.१७॥

अकारान्तात् सर्वनाम्न उत्तरस्य जसः शीत्ययमादेशो भवति। सर्वे। विश्वे। ये। के। ते। दीर्घोच्चारणमुत्तरार्थम् (७.१.१९)। त्रपुणी। जतुनी॥

औङ आपः ॥ ७.१.१८॥

आबन्तादङ्गादुत्तरस्यौङः शीत्ययमादेशो भवति। खट्वे तिष्ठतः। खट्वे पश्य। बहुराजे। कारीषगन्ध्ये। ङकारः सामान्यग्रहणार्थः, औटोऽपि ग्रहणं यथा स्यात्।

औकारोऽयं शीविधौ ङिद् गृहीतो ङिच्चास्माकं नास्ति कोऽयं प्रकारः।

सामान्यार्थस्तस्य चासञ्जनेऽस्मिन् ङित्कार्यं ते श्यां प्रसक्तं  स दोषः॥ १॥

ङित्त्वे विद्याद् वर्णनिर्देशमात्रं वर्णे यत् स्यात् तच्च विद्यात् तदादौ।

वर्णश्चायं तेन ङित्त्वेऽप्यदोषो निर्देशोऽयं पूर्वसूत्रेण वा स्यात्॥ २॥

नपुंसकाच्च ॥ ७.१.१९॥

नपुंसकादङ्गादुत्तरस्य औङःशी इत्ययमादेशो भवति। कुण्डे तिष्ठतः। कुण्डे पश्य। यस्येतिलोपः (६.४.१४८) प्राप्तः। ‘श्यां प्रतिषेधो वक्तव्यः’ (६.४.१४८वा०) इति न भवति। दधिनी। मधुनी। त्रपुणी । जतुनी ॥

जश्शसोःशिः ॥ ७.१.२०॥

नपुंसकादङ्गादुत्तरयोर्जश्शसोः शि इत्ययमादेशो भवति। कुण्डानि तिष्ठन्ति। कुण्डानि पश्य। दधीनि। मधूनि। त्रपूणि। जतूनि। जसा सहचरितस्य शसो ग्रहणादिह न भवति-कुण्डशो ददाति, वनशः प्रविशन्तीति॥

अष्टाभ्य औश् ॥ ७.१.२१॥

अष्टाभ्य इति कृताकारोऽष्टन् शब्दो गृह्यते, तस्मादुत्तरयोर्जश्शसोरौशित्ययमादेशो भवति। अष्टौ तिष्ठन्ति। अष्टौ पश्य। कृताकारस्य ग्रहणं किम्? अष्ट तिष्ठन्ति। अष्ट पश्य। एतदेव कृतात्वस्य ग्रहणं ज्ञापकम् ‘अष्टन आ विभक्तौ’(७.२.८४)इत्यात्वविकल्पस्य। ‘षड्भ्यो लुक् ’ (७.१.२२) इत्यस्यायमपवादः, नाप्राप्ते तस्मिन्निदमारभ्यते। यस्तु ‘सुपो धातुप्रातिपदिकयोः’ (२.४.७१) इति, तस्मिन् प्राप्ते चाप्राप्ते चेति स न बाध्यते-अष्टपुत्रः, अष्टभार्य इति। तदन्तग्रहणमत्रेष्यते। परमाष्टौ। उत्तमाष्टौ। प्रियाष्टान इत्यत्रात्वस्याभावादौश्त्वं न भवति॥

षड्भ्यो लुक् ॥ ७.१.२२॥

षट्संज्ञकेभ्य उत्तरयोर्जश्शसोर्लुग् भवति। षट् तिष्ठन्ति। षट् पश्य। पञ्च। सप्त। नव। दश। षट्प्रधानात् तदन्तादपि भवति। परमषट्। उत्तमषट्। यत्र तूपसर्जनं षट् ततो न भवति-प्रियषषः, प्रियपञ्चान इति॥

स्वमोर्नपुंसकात्॥ ७.१.२३॥

सु अम् इत्येतयोर्नपुंसकादुत्तरयोर्लुग् भवति। दधि तिष्ठति। दधि पश्य। मधु तिष्ठति। मधु पश्य। त्रपु। जतु। तद् ब्राह्मणकुलमित्यत्र लुका त्यदाद्यत्वं (७.२.१०२) बाध्यते पूर्वविप्रतिषेधेन,नित्यत्वाद् वा। लुको हि निमित्तम् ‘अतोऽम् ’(७.१.२४) इति लक्षणान्तरेण विहन्यते, न पुनस्त्यदाद्यत्वेनैव। ‘यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यं भवति’॥

अतोऽम्॥ ७.१.२४॥

अकारान्ताद् नपुंसकादुत्तरयोः स्वमोरमित्ययमादेशो भवति। कुण्डं तिष्ठति। कुण्डं पश्य। वनम्। पीठम् । मकारः कस्माद् न क्रियते? दीर्घत्वं (७.३.१०२) प्राप्नोति॥

अद्ड् डतरादिभ्यः पञ्चभ्यः ॥ ७.१.२५॥

डतरादिभ्यः परयोः स्वमोरद्ड् इत्ययमादेशो भवति। कतरत् तिष्ठति। कतरत् पश्य। कतमत् तिष्ठति। कतमत् पश्य। इतरत्। अन्यतरत्। अन्यत्। पञ्चभ्य इति किम्? नेमं तिष्ठति। नेमं पश्य। डित्करणं किम्? कतरत् तिष्ठतीत्यत्र पूर्वसवर्णदीर्घो मा भूत्। इह तु कतरत् पश्येति स्थानिवद्भावादमिपूर्वत्वेन (६.१.१०७) अपि सिध्यति। एवं तर्हि तकारादेश एव कस्माद् न विधीयते? हे कतरदिति संबुद्घेर्लोपो मा भूत्।

अपृक्तश्चेदमो     दोषो   निवृत्ते     डतरादिषु।

अद्ड्डित्त्वाड् डतरादीनां न लोपो नापि दीर्घता॥

नेतराच्छन्दसि ॥ ७.१.२६॥

इतरशब्दादुत्तरयोः स्वमोश्छन्दसि विषयेऽद्डादेशो न भवति। मृ॒त॑मि॑त॒रमा॒ण्ड॑म॑वा॒पद्यत॒ (मै०सं० १.६.१२)। वार्त्रघ्नमितरम्। छन्दसीति किम्? इतरत् काष्ठम्। इतरत् कुड्यम्। ‘अतोऽम्’ (७.१.२४) इत्यस्मादनन्तरमितराच्छन्दसीति वक्तव्ये नेतराच्छन्दसीति वचनं योगविभागार्थम्। एकतराद्धि सर्वत्र छन्दसि भाषायां प्रतिषेध इष्यते। एकतरं तिष्ठति, एकतरं पश्येति॥

युष्मदस्मद्भ्यां ङसोऽश् ॥ ७.१.२७॥

युष्मदस्मदित्येताभ्यामुत्तरस्य ङसोऽशित्ययमादेशो भवति। तव स्वम्। मम स्वम्। शित्करणं सर्वादेशार्थम्। अन्यथा ह्यादेशव्यपदेशप्रक्ऌप्त्यर्थमादेरेव स्यात्, ततश्च ‘योऽचि’ (७.२.८९) इत्येतद् न स्यात्॥

ङे प्रथमयोरम् ॥ ७.१.२८॥

ङे इत्यविभक्तिकोऽयं निर्देशः। ङ इत्येतस्य प्रथमयोश्च विभक्त्योः प्रथमाद्वितीययोर्युष्मदस्मद्भ्यामुत्तरयोरमित्ययमादेशो भवति। तुभ्यं दीयते। मह्यं दीयते। प्रथमयोः- त्वम्। अहम्। युवाम्। आवाम्। यूयम्। वयम्। त्वाम्। माम्। युवाम्। आवाम्॥

शसो न ॥ ७.१.२९॥

युष्मदस्मद्भ्यामुत्तरस्य शसो नकारादेशो भवति। युष्मान् ब्राह्मणान्। युष्मान् ब्राह्मणीः। अस्मान् ब्राह्मणीः। युष्मान् कुलानि। अस्मान् कुलानि॥

भ्यसो भ्यम् ॥ ७.१.३०॥

युष्मदस्मद्भ्यामुत्तरस्य भ्यसो भ्यमित्ययमादेशो भवति। युष्मभ्यं दीयते। अस्मभ्यं दीयते। भ्यमादेशे कृते शेषे लोपे (७.२.९०) च ‘बहुवचने झल्येत्’ (७.३.१०३) इत्येत्वं प्राप्नोति। तद् ‘अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य’ इति न भवति। केचित् पुनरभ्यमादेशमेत्वनिवृत्त्यर्थं कुर्वन्ति। येषां तु शेषे लोपष्टिलोपस्तेषामभ्यमादेश एव। उदात्तनिवृत्तिस्वरः (६.१.१६१) चादेरेव भवति॥

पञ्चम्या अत्॥ ७.१.३१॥

पञ्चम्या भ्यसो युष्मदस्मद्भ्यामुत्तरस्य अदित्ययमादेशो भवति। युष्मद् गच्छन्ति। अस्मद् गच्छन्ति॥

एकवचनस्य च ॥ ७.१.३२॥

पञ्चम्या एकवचनस्य युष्मदस्मद्भ्यामुत्तरस्यादित्ययमादेशो भवति। त्वद् गच्छन्ति। मद् गच्छन्ति॥

साम आकम्॥ ७.१.३३॥

साम इति षष्ठीबहुवचनमागतसुट्कं गृह्यते। तस्य युष्मदस्मद्भ्यामुत्तरस्याकमित्ययमादेशो भवति। युष्माकम्। अस्माकम्। अथ किमर्थमागतसुट्को गृह्यते, न ह्यादेशविधानकाले सुड् विद्यते? तस्यैव तु भाविनः सुटो निवृत्त्यर्थम्। आदेशे कृते हि शेषे लोपे (७.२.९०) युष्मदस्मदोरकारान्तत्वात् सुट् प्राप्नोति, स स्थानिन्यन्तर्भूतत्वाद् निवर्तते। दीर्घोच्चारणं सवर्णदीर्घार्थम्। अकमि तु सति ह्रस्वकरणे तद्विधानसामर्थ्यादेव सवर्णदीर्घत्वं न प्राप्नोति। तत्सामर्थ्यमेत्वं प्रति भविष्यतीति अकारकरणमेत्वनिवृत्त्यर्थमिति ‘अतो गुणे’ (६.१.९७) पररूपत्वं स्यात्॥

आत औ णलः॥ ७.१.३४॥

आकारान्तादङ्गादुत्तरस्य णल औकारादेशो भवति। पपौ। तस्थौ। जग्लौ। मम्लौ। अत्रौत्वमेकादेशः स्थानिवद्भावो द्विर्वचनमित्यनेन क्रमेण कार्याणि क्रियन्ते। एकादेशादनवकाशत्वादौत्वम् द्विर्वचनादपि परत्वादेकादेश इति॥

तुह्योस्तातङाशिष्यन्यतरस्याम्॥ ७.१.३५॥

तु हि इत्येतयोराशिषि विषये तातङादेशो भवत्यन्यतरस्याम्। जीवताद् भवान्। जीवतात् त्वम्। जीवतु भवान्। जीव त्वम्। ङित्करणं गुणवृद्धिप्रतिषेधार्थमिति सर्वादेशस्तातङ् भवति। ङित्त्वात् चास्य स्थानिवद्भावाद् यत् पित्त्वं प्राप्नोति तद् निवर्तते। ङित् च पिद् न भवति। तेन ‘ब्रुव ईट्’ (७.३.९३) इति ब्रूताद् भवानितीड् न भवति। आशिषीति किम् ? ग्रामं गच्छतु भवान्। गच्छ त्वम्॥

तातङि ङित्त्वं संक्रमकृत् स्यादन्त्यविधिश्चेत् तच्च तथा न।

हेरधिकारे हेरधिकारो लोपविधौ तु ज्ञापकमाह ॥ १॥

तातङो ङित्त्वसामर्थ्याद् नायमन्त्यविधिः स्मृतः।

न तद्वदनङादीनां तेन तेऽन्त्यविकारजाः ॥२॥

विदेःशतुर्वसुः॥ ७.१.३६॥

‘विद ज्ञाने’ इत्येतस्माद् धातोरुत्तरस्य शतुर्वसुरादेशो भवति। विद्वान्,विद्वांसौ, विद्वांसः। स्थानिवद्भावादुगित्कार्ये सिद्धे वसोरुकारकरणं ‘वसोः संप्रसारणम्’ (६.४.१३१) इत्यत्र क्वसोरपि सामान्यग्रहणार्थम्। ‘एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य’ इत्येतदपि न भवति। तथा सत्युकारकरणमनर्थकं स्यात्। अन्यतरस्यांग्रहणं केचिदनुवर्तयन्ति। विदन्, विदन्तौ, विदन्तः॥

समासेऽनञ्पूर्वे क्त्वो ल्यप्॥ ७.१.३७॥

समासेऽनञ्पूर्वे क्त्वा इत्येतस्य ल्यबित्ययमादेशो भवति। प्रकृत्य। प्रहृत्य। पार्श्वतः-कृत्य। नानाकृत्य। द्विधाकृत्य। समास इति किम्? कृत्वा। हृत्वा। अनञ्पूर्व इति किम्? अकृत्वा। अहृत्वा। परमकृत्वा। उत्तमकृत्वा। अनञिति हि नञोऽन्यदनञ् नञ्सदृशम् अव्ययं परिगृह्यते। तेन नञ् अनव्ययं चानञ् न भवति। स्नात्वाकालक इत्यादिषु मयूरव्यंसकादिषु (२.१.७२) निपातनाद् ल्यबादेशो न भवति। अथ वा समास इति निर्धारणे सप्तमी। तेन क्त्वान्तः समास एव परिगृह्यते। स च ‘येन विधिस्तदन्तस्य’ (१.१.७२) इत्यनेन तदन्तविधिना, न तु ‘कृद्ग्रहणे गतिकारकपूर्वस्यापि०’ इति। तथा चानञ्पूर्व इत्युच्यते। गतिकारकपूर्वस्यैव तु ग्रहणे सति नञ्पूर्वस्य प्रसङ्ग एव नास्ति, नञ् न गतिर्न च कारकमिति। प्रधाय, प्रस्थायेत्यादिषु हिप्रभृतीनन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब् बाधते एवेति ज्ञापितम् एतत् (२.४.३६)॥

क्त्वापिच्छन्दसि॥ ७.१.३८॥

समासेऽनञ्पूर्वे क्त्वा इत्येतस्य क्त्वा इत्ययमादेशो भवति, अपिशब्दाल्ल्यबपि भवति छन्दसि विषये। कृष्णं॑ वा॑सो य॑जमानं परिधापयित्वा (काठ०सं०११.१०)। प्र॒त्यञ्च॑म॒र्कं प्॑रत्यर्पयि॒त्वा (शौ०सं० १२.२.५५)। ल्यबपि भवति-उद्धृत्य जुहुयात् (काठ०सं०६.६)। वा छन्दसीति नोक्तं सर्वोपाधिव्यभिचारार्थम्। तेनासमासे ल्यब् भवति। अर्च्य तान् देवान् गतः। छन्दोऽधिकार ‘आज्जसेरसुक्’ (७.१.५०) इति यावत्॥

सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः॥ ७.१.३९॥

छन्दसि विषये सुपां स्थाने सु लुक् पूर्वसवर्ण आ आत् शे या डा ड्या याच् आल् इत्येत आदेशा भवन्ति। सु-अ॒नृ॒क्ष॒रा ऋ॒जवः॑ सन्तु॒ पन्थाः॒ (ऋ० १०.८५.२३)। पन्थान इति प्राप्ते॥ सुपां सुपो भवन्तीति वक्तव्यम्॥ धु॒रि दक्षि॑णायाः (ऋ०१.१६४.९)। दक्षिणायामिति प्राप्ते ॥ तिङां तिङो भवन्तीति वक्तव्यम्॥ च॒षालं॒ ये अ॑श्वयू॒पाय॒ तक्ष॑ति (ऋ०१.१६२.६)। तक्षन्तीति प्राप्ते। लुक् -आ॒र्देर् चर्म॒न् (तै०सं० ७.५.९.३)। लोहिते चर्मन् (काठ०सं० २४.२)। चर्मणीति प्राप्ते। हविर्धाने यत् सुन्वन्ति तत् सामिधेनीरन्वाह। यस्मिन् सुन्वन्ति तस्मिन् सामिधेनीरिति प्राप्ते। पूर्वसवर्णः-धी॒ती (ऋ० १.१६४.८)। म॒ती (ऋ० १.८२.२)। सुष्टु॒ती (ऋ० २.३२.४)। धीत्या मत्या सुष्टुत्येति प्राप्ते। आ-द्वा य॒न्तारा॑ (तै०सं०४.६.९.३)। द्वौ यन्तारौ इति प्राप्ते। आत्-न ताद् ब्राह्मणाद् निन्दामि । न तान् ब्राह्मणानिति प्राप्ते। शे-न यु॒ष्मे वा॑जबन्धवः (ऋ०८.६८.१९)। अ॒स्मे इ॑न्द्राबृहस्पती (ऋ० ४.४९.४)। यूयं वयमिति प्राप्ते। यूयादेशो वयादेशश्च छान्दसत्वाद् न भवति। या- उ॒रु॒या॑ (मै०सं०२.७.८)। धृष्णु॒या (ऋ० १.२३.११)। उरुणा धृष्णुनेति प्राप्ते। डा-नाभा॑ पृथि॒व्याम्(शौ०सं०७.६२.१) । नाभौ पृथिव्यामिति प्राप्ते। ड्या-अनुष्ट्या च्यावयतात्। अनुष्टुभेति प्राप्ते। याच्-साधु॒या (ऋ० १०.६६.१२)। साध्विति सोर्लुकि प्राप्ते। आल्-व॒स॑न्ता॒ यजेत (मै०सं० २.१.४)। वसन्त इति प्राप्ते ॥ इयाडियाजीकाराणामुपसंख्यानम्॥ इया-उर्वि॒या परि॑ ख्यन्(ऋ० १०.१०.२)। दार्विया परिज्मन्। उरुणा, दारुणेति प्राप्ते। डियाच्-सु॒क्षे॒त्रि॒या (ऋ०१.९७.२), सुगात्रिया। सुक्षेत्रिणा सुगात्रिणेति प्राप्ते। ईकारः-दृतिं॒ न शुष्कं॑ सर॒सी शया॑नम् (ऋ०७.१०.३.२)। सरसि शयानमिति प्राप्ते॥ आङयाजयारामुपसंख्यानम्॥ आङ्-प्र बा॒हवा॑ (ऋ० २.३.८.२)। प्रबाहुनेति प्राप्ते। अयाच्-स्वप्न॒या स॑चसे॒ जन॑म् (शौ० सं० ५.७.८)। स्वप्नेनेति प्राप्ते। अयार्-सिन्धु॑मिव ना॒वया (ऋ० १.९७.८)। नावेति प्राप्ते॥

अमो मश्॥ ७.१.४०॥

अम् इति मिबादेशो गृह्यते। तस्य छन्दसि विषये मशादेशो भवति। वधीं॑ वृ॒त्रम् (ऋ०१.१६५.८)। क्रमीं वृक्षस्य शाखाम्। लुङि ‘बहुलं छन्दस्यमाङ्योगेऽपि’(६.४.७५) इत्यडागमाभावः। शित्करणं सर्वादेशार्थम्। मकारस्यापि हि मकारवचनमनुस्वारनिवृत्त्यर्थं स्यात्॥

लोपस्त आत्मनेपदेषु॥ ७.१.४१॥

आत्मनेपदेषु यस्तकारस्तस्य छन्दसि विषये लोपो भवति। दे॒वा॑ अ॒दुह्र॒ (मै०सं०४.२.१३)। गन्धर्वाप्स॒र॑सो॒ अदुह्र (मै०सं०४.२.१३)। अदुहतेति प्राप्ते। दु॒हाम॒श्विभ्यां॒ पयो॑ अ॒घ्न्येयम् (ऋ०१.१६४.२७)। दुग्धामिति प्राप्ते। दक्षिणतः पुमान् स्त्रियमुपशये (काठ०सं० २०.६)। शेत इति प्राप्ते। अपीत्यधिकाराद् न भवति-तत्र आत्मानमनृतं कुरुते। आत्मनेपदेष्विति किम्? उत्सं॑ दुहन्ति क॒लशं॒ चतु॑र्बिलम् (तै०ब्रा०३.७.४.१६)॥

ध्वमो ध्वात्॥ ७.१.४२॥

छन्दसि विषये ध्वमो ध्वादित्ययमादेशो भवति। अन्त॑रेवो॑ष्मा॑णं वारयध्वात् (काठ०सं०१६.२१)। वारयध्वमिति प्राप्ते ॥

यजध्वैनमिति च ॥ ७.१.४३॥

यजध्वमित्येतस्य एनमित्येतस्मिन् परतो मकारलोपो निपात्यते वकारस्य च यकारः छन्दसि विषये। यज॑ध्वैनं प्रियमेधाः॒ (ऋ०८.२.३७)। यजध्वमेनमिति प्राप्ते ॥

तस्य तात् ॥ ७.१.४४॥

तशब्दस्य लोण्मध्यमपुरुषबहुवचनस्य स्थाने तादित्ययमादेशो भवति। गा॑त्रं॒ गात्रम॒स्या॑नू॒नं कृणुतात् (मै०सं० ४.१३.४)। कृणुतेति प्राप्ते। ऊवध्यगो॒हं॑ पा॑र्थि॒वं खनतात् (मै०सं०४.१३.४)। खनतेति प्राप्ते। अ॒स्ना॑ र॒क्षः॒ सं॑सृ॒जतात् (मै०सं०४.१३.४)। संसृजतेति प्राप्ते। सू॑र्यं॒ च॑क्षु॒र्गमयता॒त् (मै०सं०४.१३.४)। गमयतेति प्राप्ते॥

तप्तनप्तनथनाश्च ॥ ७.१.४५॥

तस्येति वर्तते। छन्दसि विषये तस्य स्थाने तप् तनप् तन थन इत्येत आदेशा भवन्ति। तप्-शृ॒णोत॑ ग्रावाणः (तै०सं०१.३.१३.१)। शृणुतेति प्राप्ते। सु॒नोता॑ (ऋ०७.३२.८)। सुनुतेति प्राप्ते। तनप् -सं व॑र॒त्रा द॑धातन (ऋ०१०.१०.१.५)। धत्तेति प्राप्ते। तन-जु॑जुष्टन (ऋ०४.३६.७)। जुषतेति प्राप्ते। छान्दसत्वात् श्लुः। थन-यदिष्ठन। यदिच्छतेति प्राप्ते। पित्करणमङित्त्वार्थम्॥

इदन्तो मसि ॥ ७.१.४६॥

छन्दसि विषये मसीत्ययं शब्द इकारान्तो भवति। मसः सकारान्तस्य इकारागमो भवति, स च तस्यान्तो भवति। तद्ग्रहणेन गृह्यत इत्यर्थः। पुन॒स्त्वोद् दी॑पयामसि (शौ०सं०१२.२.५)। उद्दीपयाम इति प्राप्ते। शलभान् भञ्जयामसि (पै०सं० ५.२०.४)। भञ्जयाम इति प्राप्ते। त्वयि॑ रात्रि वसामसि (शौ०सं०१९.४७.९)। वसाम इति प्राप्ते॥

क्त्वो यक्॥ ७.१.४७॥

क्त्वा इत्येतस्य यगागमो भवति छन्दसि विषये। द॒त्त्वाय (ऋ०१०.८५.३३) सविता धियः। दत्त्वेति प्राप्ते। ‘क्त्वापिच्छन्दसि’ (७.१.३८) इत्यस्यानन्तरमिदं कस्माद् नोच्यते? समास इति तत्रानुवर्तते॥

इष्ट्वीनमिति च ॥ ७.१.४८॥

इष्ट्वीनमित्ययं शब्दो निपात्यते छन्दसि विषये। यजेः क्त्वाप्रत्ययान्तस्य ईनमादेशोऽन्त्यस्य निपात्यते। इष्ट्वीनं देवान्। इष्ट्वा देवानिति प्राप्ते। पीत्वीनमित्यपीष्यते। चकारस्यानुक्तसमुच्चयार्थत्वात् सिद्धम्॥

स्नात्व्यादयश्च ॥ ७.१.४९॥

स्नात्वी इत्येवमादयः शब्दा निपात्यन्ते छन्दसि विषये। स्ना॒त्वी॑ म॑ला॒दिव (मै०सं०३.११.१०)। स्नात्वेति प्राप्ते। पी॒त्वी सोम॑स्य वावृधे (ऋ०३.४०.७)। पीत्वेति प्राप्ते। प्रकारार्थोऽयमादिशब्दः॥

आज्जसेरसुक् ॥ ७.१.५०॥

अवर्णान्तादङ्गादुत्तरस्य जसेरसुगागमो भवति छन्दसि विषये। ब्राह्म॑णासः॒ पित॑रः॒ सोम्या॑सः (ऋ०६.७५.१०)। ब्राह्मणाः सोम्या इति प्राप्ते। ये पूर्वा॑सो॒ य उप॑रासः (ऋ०१०.१५.२) इत्यत्र परत्वादसुकि पुनः प्रसङ्गविज्ञानात् शीभावः प्राप्तः, ‘सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेव’ इति न भवति॥

अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि ॥ ७.१.५१॥

छन्दसीत्यतः प्रभृति निवृत्तम्। अश्व क्षीर वृष लवण इत्येतेषामङ्गानामात्मप्रीतिविषये क्यचि परतोऽसुगागमो भवति। अश्वस्यति वडवा। क्षीरस्यति माणवकः। वृषस्यति गौः। लवणस्यत्युष्ट्रः। आत्मप्रीताविति किम्? अश्वीयति। क्षीरीयति। वृषीयति। लवणीयति॥ अश्ववृषयोर्मैथुनेच्छायामिति वक्तव्यम्॥ क्षीरलवणयोर्लालसायामिति वक्तव्यम्॥ तृष्णातिरेको लालसा। अन्यत्रात्मप्रीतावपि न भवति। अपर आह॥ सर्वप्रातिपदिकेभ्यो लालसायामसुग् वक्तव्यः॥ दध्यस्यति, मध्वस्यति इत्येवमाद्यर्थम्। अपर आह॥ सुग् वक्तव्यः॥ दधिस्यति, मधुस्यति इत्येवमाद्यर्थम्॥

आमि सर्वनाम्नःसुट् ॥ ७.१.५२॥

आदिति वर्तते। अवर्णात् सर्वनाम्न उत्तरस्यामः सुडागमो भवति। सर्वेषाम्। विश्वेषाम्। येषाम्। तेषाम्। सर्वासाम्। यासाम्। तासाम्। आदित्येव-भवताम्। आमीति षष्ठीबहुवचनं गृह्यते, न ‘ङेराम् नद्याम्नीभ्यः’ (७.३.११६) इति, तस्य हि परत्वादाङ्याट्स्याटो भवन्ति। यश्च किमेत्तिङव्ययघादामुः (५.४.११), आमश्च लिटि (३.१.३५), न तौ सर्वनाम्नः स्तः। सानुबन्धकाविति वा तौ न गृह्येते (परि०८१)। आमीति सप्तमीनिर्देश उत्तरार्थः। इह तु सर्वनाम्न इति पञ्चमीनिर्देशात् ‘तस्मादित्युत्तरस्य’ (१.१.६७) इति षष्ठीप्रक्ऌप्तिर्भविष्यति॥

त्रेस्त्रयः॥ ७.१.५३॥

त्रि इत्येतस्य आमि परे त्रय इत्ययमादेशो भवति। त्रयाणाम्। त्रीवामित्यपि छन्दसीष्यते। त्रीणामपि समुद्राणामिति॥

ह्रस्वनद्यापो नुट्॥ ७.१.५४॥

ह्रस्वान्ताद् नद्यन्तादाबन्ताच्चोत्तरस्यामो नुडागमो भवति। ह्रस्वान्तात् तावत्-वक्षाणाम्। प्लक्षाणाम्। अग्नीनाम्। वायूनाम्। कर्तृणाम्। नद्यन्तात्-कुमारीणाम्। किशोरीणाम्। गौरीणाम्। शार्ङ्गरवीणाम्। लक्ष्मीणाम्। ब्रह्मबन्धूनाम्। वीरबन्धूनाम्। आबन्तात्-खट्वानाम्। मालानाम्। बहुराजानाम्। कारीषगन्ध्यानाम्॥

षट्चतुर्भ्यश्च ॥ ७.१.५५॥

षट्संज्ञकेभ्यश्चतुः शब्दाच्चोत्तरस्यामो नुडागमो भवति। षण्णाम्। पञ्चानाम्। सप्तानाम्। नवानाम्। दशानाम्। चतुर्णाम्। रेफान्तायाः संख्यायाः षट्संज्ञा न विहिता, ‘षड्भ्यो लुक् ’ (७.१.२२) इति लुग् मा भूत्। बहुवचननिर्देशादत्र संख्याप्रधानस्य ग्रहणं भवति। परमषण्णाम्। परमपञ्चानाम्। परमसप्तानाम्। परमचतुर्णाम्। उपसर्जनीभूतायास्तु संख्याया न भवति। प्रियषषाम्। प्रियपञ्च्ञाम्। प्रियचतुरामिति॥

श्रीग्रामण्योश्छन्दसि ॥ ७.१.५६॥

श्री ग्रामणी इत्येतयोश्छन्दसि विषय आमो नुडागमो भवति। श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णाम् (ऋ० १०.४५.५)। अपि तत्र सूतग्रामणीनाम् (काठ०सं० २८.३)। श्रीशब्दस्य ‘वामि’ (१.४.५) इति विकल्पेन नदीसंज्ञा, तत्र नित्यार्थं वचनम्। सूतग्रामणीनामिति यदा सूताश्च ते ग्रामण्यश्च सूतग्रामण्यो भवन्ति तदर्थमिदं वचनम्। यदा तु सूतश्च ग्रामणीश्च सूतग्रामणि, सूतग्रामणि च सूतग्रामणि च सूतग्रामणि चेति सूतग्रामणीनामिति, तदा ह्रस्वादित्येव सिद्धम्॥

गोः पादान्ते ॥ ७.१.५७॥

गो इत्येतस्मादृक्पादान्ते वर्तमानादुत्तरस्यामो नुडागमो भवति। वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म् (ऋ०१०.४७.१)। पादान्त इति किम्? गवां॑ गो॒त्रमु॒दसृ॑जो॒ यद॑ङ्गिरः (ऋ०२.२३.१८)। ‘सर्वे विधयश्छन्दसि विकल्प्यन्ते’ इति पादान्तेऽपि क्वचिद् न भवति। ह॒न्तारं॒ शत्रू॑णां कृधि वि॒राजं॒ गोप॑तिं॒ गवा॑म् (ऋ० १०.१६६.१)॥

इदितो नुम् धातोः ॥ ७.१.५८॥

इदितो धातोर्नुमागमो भवति। कुडि-कुण्डिता। कुण्डितुम्। कुण्डितव्यम्। कुण्डा। हुडि-हुण्डिता। हुण्डितुम्। हुण्डा। इदित इति किम्? पचति। पठति। अयं धातूपदेशावस्थायामेव नुमागमो भवति, कुण्डा हुण्डेति ‘गुरोश्च हलः’(३.३.१०३) इत्यकारप्रत्ययो यथा स्यात्। तथा हि ‘धिन्विकृण्व्योर च’ (३.१.८०) इति प्रत्ययविधावेव नुमनुषक्तयोर्गर्हणम्। धातुग्रहणं चेह क्रियते धातूपदेशकाल एव नुमागमो यथा स्यादित्येवमर्थम्। तासिसिचोरिदित्कार्यं नास्तीत्युच्चारणार्थो निरनुनासिक इकारः पठ्यते। अमंस्तेत्येवमादौ हि ‘हनः सिच्’ (१.२.१४) इति कित्त्वविधानसामर्थ्याद् नकारलोपो न भवति। मन्तेत्यत्रापि ‘असिद्धवदत्राभात्’ (६.४.२२) इति टिलोपस्यासिद्धत्वाद् नलोपो न भवति। इह कस्माद् न भवति-भेत्ता छेत्तेति? ‘इरितां समुदायस्येत्संज्ञा’(महाभाष्य १.२६३) इतीदित्त्वं नास्ति। अवयवशोऽपीत्संज्ञायां सत्यां’ गोः पादान्ते’ (७.१.५७) इतोऽन्तग्रहणमनुवर्तयितव्यम्। तेनान्तेदितो धातवो गृह्यन्ते॥

शे मुचादीनाम् ॥ ७.१.५९॥

शे प्रत्यये परतो मुचादीनां नुमागमो भवति। मृच्ऌ -मुञ्चति। लुप्ऌ -लुम्पति। विद्ऌ -विन्दति। लिपि-लिम्पति। सिच्-सिञ्चति। कृती-कृन्तति। खिद-खिन्दति। पिश-पिंशति। श इति किम्? मोक्ता। मोक्तुम्। मोक्तव्यम्। मुचादीनामिति किम्? तुदति। नुदति॥ शे तृम्फादीनामुपसंख्यानं कर्तव्यम्॥ के पुनस्तृम्फादयः? ‘तृफ तृम्फ तृप्तौ’,‘दृफ दृम्फ उत्क्लेशे’, ‘गुफ गुम्फ ग्रन्थे’, ‘उभ उम्भ पूरणे’,‘शुभ शुम्भ शोभार्थे, इत्यत्र ये सानुषङ्गास्तृम्फादयः, तेषाम् ‘अनिदितां हल उपधायाः क्ङिति’(६.४.२४) इत्यनुनासिकलोपे कृते नुम् विधीयते, स च विधानसमार्थ्याद् न लुप्यते। तृम्फति। दृम्फति। गुम्फति। उम्भति। शुम्भति। ये तु निरनुषङ्गास्तेषां तृफति, दृफति, गुफति, उभति, शुभतीत्येवं भवति॥

मस्जिनशोर्झलि ॥ ७.१.६०॥

मस्जि नशि इत्येतयोरङ्गयोर्झलादौ प्रत्यये नुमागमो भवति। मङ्क्ता। मङ्क्तुम्। मङ्क्तव्यम्। नंष्टा। नंष्टुम्। नंष्टव्यम्। झलीति किम्? मज्जनम्। नशनम्। ‘मस्जेरन्त्यात् पूर्वं नुममिच्छन्त्यनुषङ्गादिलोपार्थम्’ (१.१.४७ वा०)। मग्नः। मग्नवान्॥

रधिजभोरचि॥ ७.१.६१॥

रधि जभि इत्येतयोरजादौ प्रत्यये नुमागमो भवति। रन्धयति। रन्धकः। साधुरन्धी। रन्धंरन्धम्। रन्धो वर्तते। जम्भयति। जम्भकः। साधुजम्भी। जम्भंजम्भम्। जम्भो वर्तते। परापि सती वृद्धिर्नुमा बाध्यते, नित्यत्वात्। अचीति किम्? रद्धा। जभ्यम्॥

नेट्यलिटि रधेः॥ ७.१.६२॥

इडादावलिटि प्रत्यये परे रधेर्नुमागमो न भवति। रधिता। रधितुम्। रधितव्यम्। इटीति किम्? रन्धनम्। रन्धकः। अलिटीति किम्? ररन्धिव। ररन्धिम। नुमि कृते संयोगान्तत्वाद् ‘असंयोगाल्लिट् कित्’ (१.२.५) इति कित्त्वं नास्तीति नलोपो न भवति। अथ क्वसौ कथं भवतिव्यम्? रेधिवानिति। कथम्? एत्वाभ्यासलोपयोः कृतयोरिडागमः क्रियते, ततो नुमागमः, तस्यौपदेशिककित्त्वाश्रयो लोपः। अथेटि लिटीत्येवं नियमः कस्माद् न क्रियते, लिट्येवेटि नान्यत्रेति? विपरीतमप्यवधारणं संभाव्येत, इट्येव लिटि नान्यत्रेति। तथा हि सति ररन्धेत्यत्र न स्यात्, रधितेत्यत्र च स्यादेव॥

रभेरशब्लिटोः ॥ ७.१.६३॥

रभेरङ्गस्य शब्लिड्वर्जितेऽजादौ प्रत्यये परतो नुमागमो भवति। आरम्भयति। आरम्भकः। साध्वारम्भी। आरम्भमारम्भम्। आरम्भो वर्तते। अशब्लिटोरिति किम्? आरभते। आरेभे। अचीत्येव-आरब्धा॥

लभेश्च ॥ ७.१.६४॥

लभेश्चाजादौ प्रत्यये शब्लिड्वर्जिते नुमागमो भवति। लम्भयति। लम्भकः। साधुलम्भी। लम्भंलम्भम्। लम्भो वर्तते। अशब्लिटोरित्येव-लभते। लेभे। अचीत्येव-लब्धा। लभेश्च पृथग्योगकरणमुत्तरार्थम्॥

आङो यि ॥ ७.१.६५॥

आङ उत्तरस्य लभेर्यकारादिप्रत्ययविषये नुमागमो भवति। आ॒ल॒म्भ्या॑ गौः। आ॒ल॒म्भ्या॑ वडवा। प्राक् प्रत्ययोत्पत्तेर्नुमि कृते विहतम् अदुपधत्वमिति ‘ऋहलोर्ण्यत्’ (३.१.१२४) इति ण्यत्प्रत्ययः, तत्र कृदुत्तरपदप्रकृतिस्वरत्वेन (६.२.१३९) अन्तस्वरितत्वं (६.१.१८५) भवति। यति तु पुनरुत्तरपदाद्युदात्तत्वं (६.१.२१३) स्यात्। आङ इति किम्? लभ्यम्। कथम् अ॒ग्निष्टो॒म॑ आ॒ल॑भ्यः॒ (मै०सं० ३.९.५) इति? ‘सर्वे विधयश्छन्दसि विकल्प्यन्ते’। अथ वा आलभ्य इत्यत्र नुमि कृतेऽनुषङ्गलोपः क्रियते॥

उपात् प्रशंसायाम् ॥ ७.१.६६॥

उपादुत्तरस्य लभेः प्रशंसायां गम्यमानायां यकारादिप्रत्ययविषये नुमागमो भवति। उ॒प॒ल॒म्भ्या॑ भवता विद्या। उ॒प॒ल॒म्भ्या॑नि धनानि। ण्यत्प्रत्ययान्तत्वादन्तस्वरितत्वमेव। प्रशंसायामिति किम्? उपलभ्यमस्माद् वृषलात् किंचित्। पोरदुधत्वात् (३.१.९८) यत्प्रत्ययान्तमिदम्॥

उपसर्गात् खल्घञोः ॥ ७.१.६७॥

उपसर्गादुत्तरस्य लभेः खल्घञोः परतो नुमागमो भवति। ईषत्प्रलम्भः। सुप्रलम्भः। दुष्प्रलम्भः। घञि-प्रलम्भः। विप्रलम्भः। सिद्धे सत्यारम्भो नियमार्थः। उपसर्गादेव लभेः खल्घञोः परतो नुमागमो भवति, नान्यत्र। ईषल्लभः। लाभो वर्तते॥

न सुदुर्भ्यां केवलाभ्याम् ॥ ७.१.६८॥

सु दुरित्येताभ्यां केवलाभ्यामन्योपसर्गरहिताभ्यामुपसृष्टस्य लभेः खल्घञोः परतो नुमागमो भवति। सुलभम्। दुर्लभम्। घञि-सुलाभः। दुर्लाभः। केवलाभ्यामिति किम्? सुप्रलम्भः। दुष्प्रलम्भः। सुदुर्भ्यामिति तृतीयां मत्वा केवलग्रहणं क्रियते। पञ्चम्यां हि व्यवहितत्वादेवाप्रसङ्गः। अतिसुलभमित्यत्र कर्मप्रवचनीयत्वादतेः केवल एव सुशब्द उपसर्ग इति भवति प्रतिषेधः। यदा त्वतिशब्दो न कर्मप्रवचनीयः, तदा नुम् भवत्येव- अतिसुलम्भ इति। पञ्चमीनिर्देशपक्षेऽप्येवमर्थं केवलग्रहणं कर्तव्यम्॥

विभाषा चिण्णमुलोः ॥ ७.१.६९॥

चिण् णमुल् इत्येतयोर्विभाषा लभेर्नुम् भवति। अलाभि, अलम्भि। लाभंलाभम्, लम्भंलम्भम्। व्यवस्थितविभाषा चेयम्, तेनानुपसृष्टस्य विकल्पः, उपसृष्टस्य नित्यं नुम् भवति। प्रालम्भि। प्रलम्भंप्रलम्भम्॥

उगिदचां सर्वनामस्थानेऽधातोः ॥ ७.१.७०॥

उगितामङ्गानां धातुवर्जितानामञ्चतेश्च सर्वनामस्थाने परतो नुमागमो भवति। भवतु-भवान्, भवन्तौ, भवन्तः। ईयसुन्-श्रेयान् श्रेयांसौ, श्रेयांसः। शतृ-पचन्, पचन्तौ, पचन्तः। अञ्चतेः-प्राङ्, प्राञ्चौ, प्राञ्चः। उगिदचामिति किम्? दृषद्, दृषदौ, दृषदः। सर्वनामस्थान इति किम्? भवतः पश्य। श्रेयसः पश्य। अञ्चतिग्रहणं नियमार्थम्, अञ्चतेरेव धातोरन्यस्य मा भूत्। उखास्रत्। पर्णध्वत्। अधातोरिति किम्? अधातुभूतपूर्वस्यापि यथा स्यात्। गोमन्तमिच्छति गोमत्यति, गोमत्यतेरप्रत्ययो गोमान्। अत्र हि धातुत्वादञ्चतिग्रहणाद् न स्यात्॥

युजेरसमासे ॥ ७.१.७१॥

युजेरसमासे सर्वनामस्थाने परतो नुमागमो भवति। युङ्, युञ्जौ, युञ्जः। असमास इति किम्? अश्वयुक् , अश्वयुजौ, अश्वयुजः। युजेरितीकारनिर्देशाद् ‘युज समाधौ’ इत्यस्य ग्रहणं न भवति। युजमापन्ना ऋषयः॥

नपुंसकस्य झलचः॥ ७.१.७२॥

नपुंसकस्य झलन्तस्याजन्तस्य च सर्वनामस्थाने परतो नुमागमो भवति। उदश्विन्ति। शकृन्ति। यशांसि। पयांसि। अजन्तस्य-कुण्डानि। वनानि। त्रपूणि। जतूनि। नपुंसकस्येति किम्? अग्निचिद् ब्राह्मणः। झलच इति किम्? बहुपुरि। बहुधुरि। विमलदिवि। चत्वारि। अहानि। उगितो झलन्तस्य नपुंसकस्य परत्वादनेनैव नुम् भवति। श्रेयांसि। भूयांसि। कुर्वन्ति। कृषन्ति ब्राह्मणकुलानि॥ बहूर्जि प्रतिषेधो वक्तव्यः॥ बहूर्जि ब्राह्मणकुलानि। अन्त्यात् पूर्वं नुममेक इच्छन्ति। बहूर्ञि्ज ब्राह्मणकुलानि॥

इकोऽचि विभक्तौ॥ ७.१.७३॥

इगन्तस्य नपुंसकस्याङ्गस्याजादौ विभक्तौ नुमागमो भवति। त्रपुणी। जतुनी। तुम्बुरुणी। त्रपुणे। जुतने। तुम्बुरुणे। इक इति किम्? कुण्डे। पीठे। अचीति किम्? उत्तरार्थम्। यद्येवम्, तत्रैव कर्तव्यम्। इह तु करणस्य एतत् प्रयोजनम्-हे त्रपो इत्यत्र नुम् मा भूदिति, ‘न ङिसंबुद्ध्योः’ (८.२.८) इति नलोपप्रतिषेधः स्यात्। ननु च ‘न लुमताङ्गस्य’(१.१.६३) इति प्रत्ययलक्षणे प्रतिषिद्धे विभक्तिरेव नास्ति? एतदेवाज्ग्रहणं ज्ञापकं प्रत्ययलक्षणप्रतिषेधोऽत्र न भवतीति। तथा च संबुद्धिगुणः क्रियते। विभक्ताविति किम्? तौम्बुरवं चूर्णम्।

	इकोऽचि व्यञ्जने मा भूदस्तु लोपःस्वरःकथम्।

	स्वरो वै श्रूयमाणेऽपि लुप्ते किं न भविष्यति ॥ १॥

	रायात्वं तिसृभावश्च व्यवधानान्नुमा अपि।

	नुड् वाच्य उत्तरार्थं तु इह किंचित् त्रपो इति॥ २॥

तृतीयादिषु भाषितपुंस्कं पुंवद् गालवस्य॥ ७.१.७४॥

तृतीयादिषु विभक्तिष्वजादिषु भाषितपुंस्कमिगन्तं नपुंसकं गालवस्याचार्यस्य मतेन पुंवद् भवति। यथा पुंसि ह्रस्वनुमौ न भवतः, तद्वदत्रापि न भवत इत्यर्थः। ग्रामणीर्ब्राह्मणः, ग्रामणि ब्राह्मणकुलम्। ग्रामण्या ब्राह्मणकुलेन, ग्रामणिना ब्राह्मणकुलेन। ग्रामण्ये ब्राह्मणकुलाय, ग्रामणिने ब्राह्मणकुलाय। ग्रामण्यो ब्राह्मणकुलात्, ग्रामणिनो ब्राह्मणकुलात्। ग्रामण्यो ब्राह्मणकुलस्य, ग्रामणिनो ब्राह्मणकुलस्य। ग्रामण्योर्ब्राह्मणकुलयोः, ग्रामणिनोर्ब्राह्मणकुलयोः। ग्रामण्यां ब्राह्मणकुलानाम्,‘नुमचिर०’(महाभाष्य ७.१.९६ वा०) इति पूर्वविप्रतिषेधेन नुट्, ग्रामणीनां ब्राह्मणकुलानाम्। ग्रामण्यां ब्राह्मणकुले, ग्रामणिनि ब्राह्मणकुले। शुचिर्ब्राह्मणः, शुचि ब्राह्मणकुलम्। शुचये ब्राह्मणकुलाय, शुचिने ब्राह्मणकुलाय। शुचेर्ब्राह्मणकुलात्, शुचिनो ब्राह्मणकुलात्। शुचेर्ब्राह्मणकुलस्य, शुचिनो ब्राह्मणकुलस्य। शुच्योर्ब्राह्मणकुलयोः, शुचिनोर्ब्राह्मणकुलयोः। शुचौ ब्राह्मणकुले, शुचिनि ब्राह्मणकुले। तृतीयादिष्विति किम्? ग्रामणिनी ब्राह्मणकुले। शुचिनी ब्राह्मणकुले। भाषितपुंस्कमिति किम्? त्रपुणे। जतुने। इह कस्माद् न भवति-पीलुर्वृक्षः, पीलु फलम्, पीलुने फलायेति? समानायामाकृतौ यद् भाषितपुंस्कं तुल्ये प्रवृत्तिनिमित्ते तस्य पुंवद्भावः। इह तु वृक्षाकृतिः प्रवृत्तिनिमित्तं पुंसि शब्दस्य, फलाकृतिर्नपुंसके। तदेतदेवं कथं भवति भाषितपुंस्कमिति? भाषितः पुमान् यस्मिन्नर्थे प्रवृत्तिनिमित्ते स भाषितपुंस्कशब्देनोच्यते। तद्योगादभिधेयमपि यद् नपुंसकं तदपि भाषितपुंस्कम्। तस्य प्रतिपादकं यच्छब्दरूपं तदपि भाषितपुंस्कमिति। इक इत्येव-कीलालपा ब्राह्मणः। कीलालपं ब्राह्मणकुलम्। कीलालपेन ब्राह्मणकुलेन। अचीत्येव-ग्रामणिभ्यां ब्राह्मणकुलाभ्याम्॥

अस्थिदधिसक्थ्यक्ष्णामनङ् उदात्तः ॥ ७.१.७५॥

अस्थि दधि सक्थि अक्षि इत्येतेषां नपुंसकानां तृतीयादिष्वजादिषु विभक्तिषु परतोऽनङित्ययमादेशो भवति, स चोदात्तो भवति। अस्थ्ना। अस्थ्ने। दध्ना। दध्ने। सक्थ्ना। सक्थ्ने। अक्ष्णा। अक्ष्णे। अस्थ्यादय आद्युदात्ताः, तेषामनङादेशः स्थानिवद्भावादनुदात्तः स्यादित्युदात्तवचनम्। तत्र भसंज्ञायामल्लोपे (६.४.१३४) कृत उदात्तनिवृत्तिस्वरेण (६.१.१६१) विभक्तिरुदात्ता भवति। एतैरस्थ्यादिभिर्नपुंसकैरनपुंसकस्याप्यङ्गस्य तदन्तग्रहणमिष्यते। प्रियास्थ्ना ब्राह्मणेन। प्रियदध्ना। तृतीयादिष्विति किम्? अस्थिनी। दधिनी। अचीत्येव-अस्थिभ्याम्। दधिभ्याम्॥

छन्दस्यपि दृश्यते ॥ ७.१.७६॥

अस्थिदधिसक्थ्यक्ष्णामनङ् छन्दस्यपि दृश्यते। यत्र विहितस्ततोऽन्यत्रापि दृश्यते। अचीत्युक्तमनजादावपि दृश्यते। इन्द्रो॑ दधी॒चो अ॒स्थभिः॑ (ऋ०१.८४.१३)। भ॒द्रं प॑श्येमा॒क्षभिः॑ (मा०सं०२५.२१)। तृतीयादिष्वित्युक्तमतृतीयादिष्वपि दृश्यते। अस्थान्युत्कृत्य जुहोति। विभक्तावित्युक्तमविभक्तावपि दृश्यते। अक्षण्वता लाङ्गलेन। अस्थ॒न्वन्तं॒ यद॑न॒स्था बिभ॑र्ति (ऋ० १.१६४.४)॥

ई च द्विवचने ॥ ७.१.७७॥

द्विवचने परतश्छन्दसि विषयेऽस्थ्यादीनामीकारादेशो भवति, स चोदात्तः। अक्षी ते इन्द्र पिङ्गले कपेरिव। अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्या॒म् (ऋ० १०.१६३.१)। अक्षी इत्यत्र नुम् परत्वादीकारेण बाध्यते। तत्र कृते ‘सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेव’इति पुनर्नुम् न क्रियते॥

नाभ्यस्ताच्छतुः ॥ ७.१.७८॥

अभ्यस्तादङ्गादुत्तरस्य शतुर्नुम् न भवति। ददत्, ददतौ, ददतः। दधत्, दधतौ, दधतः। जक्षत्, जक्षतौ, जक्षतः। जाग्रत, जाग्रतौ, जाग्रतः। शतुरनन्तर ईकारो न विहित इति व्यवहितस्यापि नुमः प्रतिषेधो विज्ञायते॥

वा नपुंसकस्य ॥ ७.१.७९॥

अभ्यस्तादङ्गादुत्तरो यः शतृप्रत्ययस्तदन्तस्य नपुंसकस्य वा नुमागमो भवति। ददति, ददन्ति कुलानि। दधति, दधन्ति कुलानि। जक्षति, जक्षन्ति कुलानि। जाग्रति, जाग्रन्ति कुलानि॥

आच्छीनद्योर्नुम् ॥ ७.१.८०॥

अवर्णान्तादङ्गादुत्तरस्य शतुर्वा नुमागमो भवति शीनद्योः परतः। तुदती कुले, तुदन्ती कुले। तुदती ब्राह्मणी, तुदन्ती ब्राह्मणी। याती कुले, यान्ती कुले। याती ब्राह्मणी, यान्ती ब्राह्मणी। करिष्यती कुले, करिष्यन्ती कुले। करिष्यती ब्राह्मणी, करिष्यन्ती ब्राह्मणी। अत्रान्तरङ्गत्वादेकादेशे कृते व्यपवर्गाभावादवर्णान्तादङ्गादुत्तरस्य शतुरिति न युज्यते वक्तुम्। ‘उभयत आश्रये नान्तादिवत्’ इत्यन्तादिवद्भावोऽपि नास्ति, भूतपूर्वगत्याश्रयणे वा अदती घ्नतीत्येवमादिष्वतिप्रसङ्ग इति? अत्र समाधिं केचिदाहुः-शतुरवयवे शतृशब्दे वर्तते, अवर्णान्तादङ्गादुत्तरो यः शत्रवयव इति। अपरे पुनराहुः- आदित्येतेन शीनद्यावेव विशेष्येते- अवर्णान्तादङ्गादुत्तरे ये शीनद्यौ तयोः परतः शत्रन्तस्य नुम् भवतीति। तत्र ‘येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्’ इति तकारेणैव व्यवधानमाश्रयिष्यते। आदिति किम्? कुर्वती। सुन्वती। शीनद्योरिति किम्? तुदताम्। नुदताम्॥

शप्श्यनोर्नित्यम्॥ ७.१.८१॥

शप् श्यन् इत्येतयोः शतुः शीनद्योः परतो नित्यं नुमागमो भवति। पचन्ती कुले। पचन्ती ब्राह्मणी। दीव्यन्ती कुले। दीव्यन्ती ब्राह्मणी। सीव्यन्ती कुले। सीव्यन्ती ब्राह्मणी। नित्यग्रहणं वेत्यस्याधिकारस्य निवृत्त्यर्थम्। इहारम्भसामर्थ्याद् नित्यमुत्तरत्र विकल्प एवेत्याशङ्क्येत॥

सावनडुहः ॥ ७.१.८२॥

सौ परतोऽनडुहोऽङ्गस्य नुमागमो भवति। अनड्वान्। हे अनड्वन्। अत्र केचिदादित्यधिकारादाममोः कृतयोर्नुमं कुर्वन्ति। तेन नुमा आममौ न बाध्येते, आमम्भ्यां च नुमिति। अपरे तु सत्यपि सामान्यविशेषत्व आममोर्नुमश्च समावेशमिच्छन्ति, न बाध्यबाधकभावम्, यथा चिचीषत्यादिषु दीर्घत्वद्विर्वचनयोरिति॥

दृक्स्ववस्स्वतवसां छन्दसि ॥ ७.१.८३॥

दृक् स्ववस् स्वतवस् इत्येतेषां सौ परतो नुमागमो भवति छन्दसि विषये। ईदृङ्। तादृङ्। यादृङ्। स॒दृङ् (ऋ० १.९४.७)। स्ववा॑न् (ऋ० १०.९२.९)। स्वत॑वाँः पा॒युर॑ग्ने॒ (ऋ० ४.२.६)॥

दिव औत्॥ ७.१.८४॥

दिवित्येतस्य सौ परत औदित्ययमादेशो भवति। द्यौः। दिविति प्रातिपदिकमस्ति निरनुबन्धकम्। धातुस्तु सानुबन्धकः, स इह न गृह्यते। अक्षद्यूः॥

पथिमथ्यृभुक्षामात् ॥ ७.१.८५॥

पथिन् मथिन् ऋभुक्षिन् इत्येतेषामङ्गानां सौ परत आकार आदेशो भवति। पन्थाः। मन्थाः। ऋभुक्षाः। स्थानिन्यनुनासिकेऽपि आकारोऽनुनासिको न भवति। ‘भाव्यमानेन सवर्णानां ग्रहणं न भवति’ इति शुद्धो ह्ययमुच्चार्यते॥

इतोऽत् सर्वनामस्थाने ॥ ७.१.८६॥

पथ्यादीनामिकारस्य स्थान अकारादेशो भवति सर्वनामस्थाने परतः। पन्थाः, पन्थानौ, पन्थानः। पन्थानम्, पन्थानौ। मन्थाः, मन्थानौ, मन्थानः। मन्थानम्, मन्थानौ। ऋभुक्षाः, ऋभुक्षाणौ, ऋभुक्षाणः। ऋभुक्षाणम्, ऋभुक्षाणौ। आदिति वर्तमाने पुनरद्वचनं षपूर्वार्थम्। ऋभुक्षणमित्यत्र ‘वा षपूर्वस्य निगमे’ (६.४.९) इति दीर्घविकल्पः॥

थो न्थः ॥ ७.१.८७॥

पथिमथोस्थकारस्य स्थाने न्थ इत्ययमादेशो भवति सर्वनामस्थाने परतः। पन्थाः, पन्थानौ, पन्थानः। मन्थाः, मन्थानौ, मन्थानः॥

भस्य टेर्लोपः ॥ ७.१.८८॥

पथ्यादीनां भसंज्ञकानां टेर्लोपो भवति। पथः। पथा। पथे। मथः। मथा। मथे। ऋभुक्षः। ऋभुक्षा। ऋभुक्षे। सर्वनामस्थान इत्यनुवर्तमानमपि विरोधादिह न संबध्यते॥

पुंसोऽसुङ्॥ ७.१. ८९॥

पुंस् इत्येतस्य सर्वनामस्थाने परतोऽसुङित्ययमादेशो भवति। पुमान्, पुमांसौ, पुमांसः। इह परमपुमानिति प्रागेव विभक्त्युत्पत्तेः समासान्तोदात्तत्वम्, उत्पन्नायां विभक्तावसुङ् इत्यनिष्टः स्वरः प्राप्नोति। तदर्थमसुङ्युपदेशिवद्वचनं कर्तव्यम्। तेन परमपुमानित्यन्तोदात्तो भवति। पुमानित्ययं पुनराद्युदात्त एव॥

गोतो णित्॥ ७.१.९०॥

गोशब्दात् परं सर्वनामस्थानं णिद् भवति। णित्कार्यं तत्र भवतीत्यर्थः। गौः, गावौ, गावः। तपकरणं किम्? चित्रगुः। शबलगुः। कथं हे चित्रगो, हे चित्रगव इति? ‘अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य’इति संबुद्धिजसोर्गुणे कृते णित्त्वं न भवति। अथवा गोत इति संबन्धलक्षणा षष्ठी। गोतः संबन्धि यत् सर्वनामस्थानमिति। यत् च तदर्थस्यैकत्वादिषु सर्वनामस्थानं तद् गोः सर्वनामस्थानमित्युच्यते। चित्रगुशब्दात् तु यत् सर्वनामस्थानं तदन्यपदार्थस्यैकत्वादीनाह। तपरकरणं तु निर्देशार्थमेव। केचिद् ओतो णित् इति पठन्ति, द्योशब्दादपि यत् सर्वनामस्थानं विद्यते तदर्थम्। द्यौः, द्यावौ, द्यावः। गोत इत्येतदेव तपरकरणनिर्देशादोकारान्तोपलक्षणं द्रष्टव्यम्। वर्णनिर्देशेषु हि तपरकरणं प्रसिद्धम्॥

णलुत्तमो वा॥ ७.१.९१॥

उत्तमो णल् वा णिद् भवति। णित्कार्यं तत्र वा भवतीत्यर्थः। अहं चकर, अहं चकार। अहं पपच, अहं पपाच॥

सख्युरसम्बुद्धौ॥ ७.१.९२॥

असंबुद्धौ यः सखिशब्दः तस्मात् परं सर्वनामस्थानं णिद् भवति। सखायौ, सखायः। असंबुद्धाविति किम्? हे सखे॥

अनङ् सौ ॥ ७.१.९३॥

सखिशब्दस्य सौ परतोऽनङित्ययमादेशो भवति, स चेत् सुशब्दः संबुद्धिर्न भवति। सखा। असंबुद्धाविति किम्? हे सखे॥

ऋदुशनस्पुरुदंसोऽनेहसां च ॥ ७.१.९४॥

ऋकारान्तानामङ्गानामुशनस् पुरुदंसस् अनेहस् इत्येतेषां चासंबुद्धौ सौ परतोऽनङादेशो भवति। कर्ता। हर्ता। माता। पिता। भ्राता। उशना। पुरुदंसा। अनेहा। असंबुद्धावित्येव-हे कर्तः। हे मातः। हे पितः। हे पुरुदंसः। हे अनेहः। हे उशनः। उशनसः संबुद्धावपि पक्षेऽनङ् इष्यते। हे उशनन्। ‘न ङिसंबुद्ध्योः’(८.२.८) इति नलोपप्रतिषेधोऽपि पक्ष इष्यते। हे उशन। तथा चोक्तम्-

संबोधने तूशनसस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम्।

माध्यंदिनिर्वष्टि गुणं त्विगन्ते नपुंसके व्याघ्रपदां वरिष्ठः॥

इति। तपरकरणमसन्देहार्थम्॥

तृज्वत् क्रोष्टुः॥ ७.१.९५॥

क्रोष्टुशब्दस्तुन्प्रत्ययान्तः संज्ञाशब्दः सर्वनामस्थानेऽसंबुद्धौ परतः तृज्वद् भवति। तृजन्तस्य यद् रूपं तदस्य भवतीत्यर्थः। रूपातिदेशोऽयम्। प्रत्यासत्तेश्च क्रुशेरेव तृजन्तस्य यद् रूपं तदतिदिश्यते। तत् च क्रोष्टृ इत्येतदन्तोदात्तम्। क्रोष्टा, क्रोष्टारौ, क्रोष्टारः। क्रोष्टारम्, क्रोष्टारौ। सर्वनामस्थान इत्येव-क्रोष्टून्। असंबुद्धावित्येव-हे क्रोष्टो॥

स्त्रियां च॥ ७.१.९६॥

असर्वनामस्थानार्थमारम्भः। स्त्रियां च क्रोष्टुशब्दस्य तृज्वद् भवति। क्रोष्ट्री। क्रोष्ट्रीभ्याम्। क्रोष्ट्रीभिः। क्रोष्टुशब्दं केचिद् गौरादिषु पठन्ति। ते ङीषि प्रत्यये तृज्वद्भावं कुर्वन्ति। तेषां पञ्चभिः क्रोष्ट्रीभिः क्रीतैः पञ्चक्रोष्टृभी रथैरिति स्त्रीशब्दस्य लुकि कृते न सिध्यति। तत्र प्रतिविधेयम्। ये तु गौरादिषु न पठन्ति, तेषां स्त्रियामित्यर्थनिर्देशः, स्त्रियां वर्तमानःक्रोष्टुशब्दः तृज्वद् भवति। कृतेऽतिदेश ‘ऋन्नेभ्यो ङीप्’(४.१.५) इति ङीप् प्रत्ययः। तत्र ‘उदात्तयणो हल्पूर्वात्’(६.१.१७४) इत्यन्तोदात्त एव क्रोष्ट्रीशब्दो भवति॥

विभाषा तृतीयादिष्वचि ॥ ७.१.९७॥

तृतीयादिषु विभक्तिष्वजादिषु क्रोष्टुर्विभाषा तृज्वद् भवति। क्रोष्ट्रा, क्रोष्टुना। क्रोष्ट्रे, क्रोष्टवे। क्रोष्टुः, क्रोष्टोः। क्रोष्टरि, क्रोष्टौ । क्रोष्ट्रोः, क्रोष्ट्वोः। तृतीयादिष्विति किम्? क्रोष्टून्। अचीति किम्? क्रोष्टुभ्याम्। क्रोष्टुभिः॥ तृज्वद्भावात् पूर्वविप्रतिषेधेन नुम्नुटौ भवतः॥ प्रियक्रोष्टुनेऽरण्याय। हतक्रोष्टुने वृषलकुलाय। नुट्-क्रोष्टूनाम्॥

चतुरनडुहोरामुदात्तः ॥ ७.१.९८॥

चतुर् अनडुह् इत्येतयोः सर्वनामस्थाने परत आमागमो भवति, स चोदात्तः। चत्वारः। अनड्वान्, अनड्वाहौ, अनड्वाहः। अनड्वाहम्। तदन्तविधिरत्रेष्यते। प्रियचत्वाः, प्रियचत्वारौ, प्रियचत्वारः। प्रियानड्वान्, प्रियानड्वाहौ, प्रियानड्वाहः॥ अनडुहः स्त्रियां वेति वक्तव्यम्॥ अनडुही, अनड्वाही। गौरादिपाठात् सिद्धम्॥

अम् संबुद्धौ ॥ ७.१.९९॥

संबुद्धौ परतश्चतुरनडुहोरमागमो भवति। पूर्वस्यायमपवादः। हे प्रियचत्वः। हे प्रियानड्वन्॥

ॠत इद्धातोः ॥ ७.१.१००॥

ॠकारान्तस्य धातोरङ्गस्य इकारादेशो भवति। किरति। गिरति। आस्तीर्णम्। विशीर्णम्। धातोरिति किम्? पितृणाम्। मातृणाम्। लाक्षणिकस्याप्यत्र ग्रहणमिष्यते। चिकीर्षतीत्यत्रापि यथा स्यादिति धातुग्रहणं क्रियते॥

उपधायाश्च ॥ ७.१.१०१॥

उपधायाश्च ॠकारस्य इकारोदेशो भवति। कीर्तयति, कीर्तयतः, कीर्तयन्ति॥

उदोष्ठ्यपूर्वस्य ॥ ७.१.१०२॥

ओष्ठ्यः पूर्वो यस्माद् ॠकारादसावोष्ठ्यपूर्वः, तदन्तस्य धातोरङ्गस्य उकारादेशो भवति। पूर्ताः पिण्डाः। पुपूर्षति। मुमूर्षति। दन्त्योष्ठ्यपूर्वोऽप्योष्ठ्यपूर्वो भवतीत्यत्रापि भवति-वुवूर्षति ऋत्विजम्, प्रावुवूर्षति कम्बलम्। ओष्ठ्यो ह्यत्र प्रत्यासत्तेरङ्गावयव एव गृह्यते, तेन ‘ॠ गतौ’ इत्यस्य संपूर्वस्य समीर्णमिति भवति॥ इत्त्वोत्त्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन॥ आस्तरणम्। आस्तारकः। निपरणम्। निपारकः। निगरणम्। निगारकः॥

बहुलं छन्दसि ॥ ७.१.१०३॥

छन्दसि विषय ॠकारान्तस्य धातोरङ्गस्य बहुलमुकारादेशो भवति। ओष्ठ्यपूर्वस्येत्युक्तम्, अनोष्ठ्यपूर्वस्यापि भवति। मित्रावरुणा॒ ततु॑रिम् (ऋ० ४.३९.२)। दू॒रे ह्यध्वा॒ जगु॑रिः (ऋ० १०.१०८.१)। ओष्ठ्यपूर्वस्यापि न भवति-पप्रितमम्। वव्रितमम्। क्वचिद् भवति-पपु॑रिः (ऋ० १.४६.४)॥

॥ इति श्रीवामनविरचितायां काशिकायां वृत्तौ सप्तमाध्यायस्य प्रथमः पादः॥