गुणवाचकैः षष्ठीतत्पुरुषः

निषेधः

२.२.८ षष्ठी इति सूत्रेण षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते । यथा - सीतायाः पतिः = सीतापतिः ।

परन्तु, “२.२.११ पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन” इति सूत्रेण केषुचन स्थलेषु षष्ठीतत्पुरुषसमासस्य निषेधः कृतः अस्ति । गुणवाचकैः शब्दैः सह षष्ठीतत्पुरुषसमासः न भवति इति अस्य सूत्रस्य कश्चन अंशः ।

अतएव, ब्राह्मणस्य शुक्लः (दन्तः इत्याशयः) = ब्राह्मणशुक्लः इति न भवति । एवमेव, काकस्य कृष्णम् (बर्हणम्) = काककृष्णम् इति न भवति ।

अपवादाः

परन्तु, केषाञ्चन गुणवाचकशब्दानां विषये प्रयोगे षष्ठीतत्पुरुषसमासः अवश्यं कृतः दृश्यते । यथा, “अर्थस्य गौरवम् अर्थगौरवम्” अत्र “गौरव” इति गुणवाचकशब्देन सह समासः कृतः अस्ति । अस्य प्रयोगः साहित्ये बहुत्र दृश्यते —

  • उपमा कालिदासस्य, भारवेर्थगौरवम् (सुभाषितम्) ।
  • न च न स्वीकृतम् अर्थगौरवम् (किरातार्जुनीये २.२७) ।

एतादृशेषु स्थलेषु षष्ठीतत्पुरुषसमासस्य समर्थनार्थम् सिद्धान्तकौमुद्यां २".२.११ पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन" इत्यत्र निर्दिश्यते —

अनित्योऽयं गुणेन निषेधः । “तदशिष्यं संज्ञाप्रमाणत्वात्” इत्यादिनिर्देशात् । तेनार्थगौरवम् बुद्धिमान्द्यमित्यादि सिद्धम् ।

संज्ञायाः प्रमाणम् = संज्ञाप्रमाणम् इत्यत्र एतादृशः समासः कृतः दृश्यते, अतश्च अयं निषेधः अनित्यः इति आशयः ।

विशेषणता-विवेकः

गुणवाचकशब्दाः द्विधा —

  • केचन गुणवाचकशब्दाः गुणवतः पदार्थस्य विशेषणरूपेण अपि प्रयुज्यन्ते । यथा, शुक्लः इति गुणवाचकशब्दः यथा “दन्तस्य वर्णः शुक्लः” इत्यत्र गुणरूपेण प्रयुज्यते, तथैव “शुक्लः पटः” इत्यत्र गुणवतः पदार्थस्य विशेषणरूपेण अपि प्रयुज्यते ।
    • एतादृशानां गुणवाचकशब्दानां विषये एव “२.२.११ पूरणगुणसुहितार्थ..” इति सूत्रेण षष्ठीतत्पुरुषसमासस्य निषेधः कृतः अस्ति । अतएव ब्राह्मणस्य शुक्लः / काकस्य कृष्णम् इत्यत्र षष्ठीसमासः न भवति ।
  • परन्तु केचन गुणवाचकशब्दाः गुणवतः पदार्थस्य विशेषणरूपेण नैव प्रयुज्यन्ते । यथा — गौरवः, प्राधान्यम्, रसः आदयः शब्दाः केवलं गुणरूपेण एव प्रयुज्यन्ते ।
    • एतादृशानां गुणवाचकशब्दानां विषये “२.२.११ पूरणगुणसुहितार्थ” इति सूत्रेण उक्तः निषेधः नैव प्रवर्तते । अतः एते शब्दाः षष्ठीतत्पुरुषसमासे भवितुम् अर्हन्ति । यथा — अर्थगौरवम्, शब्दप्राधान्यम्, फलरसः इति ।

विशेषनिषेधः

केषाञ्चन शुद्ध-गुणवाचकशब्दानां विषये अपि षष्ठीतत्पुरुषसमासः न भवति । यथा, बलाकायाः शौक्ल्यम्, काकस्य कार्ष्ण्यम् — आदयः । एते प्रयोगाः भाष्यकारेण निर्दिष्टाः सन्ति । अतः अत्र भाष्यवचनाद् एव समासः न भवति इति निर्णयः ।

तत्-स्थ-ता

किंच, भाष्ये २.२.८ षष्ठी इत्यत्र “तत्स्थैश्च गुणैः षष्ठी समस्यते” इति वार्त्तिकम् पाठ्यते । यत्र गुणः पदार्थे अविभक्तरूपेण तिष्ठति, तत्र गुणवाचकशब्देन सह षष्ठीतत्पुरुषसमासः अवश्यं भवति इति आशयः । यथा, चन्दनस्य गन्धः = चन्दने विद्यमानः गन्धः = चन्दनगन्धः , पटहस्य शब्दः = पटहे विद्यमानः शब्दः = पटहशब्दः । अनेन प्रकारेण अपि, “अर्थस्य गौरवम् = “अर्थे विद्यमानः गौरवः” इति मत्त्वा अर्थगौरवम् इति षष्ठीतत्पुरुषसमासः सिद्ध्यति ।