श्चु-ष्टु-त्वे

बलक्रमः

  • दन्त्येषु स् त् थ् द् ध् न्॥ - [स्तुँ॥]
  • तालव्येषु श् च् छ् ज् झ् ञ् [श्चुँ॥]
  • मूर्धन्येषु ष् ट् ठ् ड् ढ् ण्॥ [ष्टुँ॥]

स्तोः श्चुना श्चुः

  • श्चुँ-आदेश एतयोः
    • स्तुँ + श्चुँ
    • श्चुँ + स्तुँ
उदाहरणानि (द्रष्टुं नोद्यम्)
  • स्-श्
    • स् + श् - रामश्शेते
    • श्+ स् - अत्र न भवति - व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः ८.२.३६ इति षकारादेशः।
  • स्-चुँ
    • रामश्चिनोति रामश्छात्रः
    • मस्ज् + अनीयर् → मश्ज् + अनीय → (झलां जश् झशि ८.४.५३ इति जश्त्वे कृते) मज्जनीय ।
  • त् + श्, न् + श्
    • भवान् शेते
      • → भवान् त् शेते [शि तुक् ८.३.३१ इति नकारस्य विकल्पेन तुगागमः] → भवान् च् शेते [स्तोः श्चुना श्चुः ८.४.४० इति तकारस्य चकारः] → भवाञ् च् शेते [स्तोः श्चुना श्चुः ८.४.४० इति नकारस्य ञकारः] → भवाञ्च्शेते
      • → भवाञ् शेते
  • (पदान्ते ध् | थ्→)द् + श्
    • सुहृद् शेते
      • → सुहृज् शेते → (खरि च ८.४.५५ इति चर्त्वे) सुहृच् शेते → (शश्छोऽटि ८.४.६३ इति वैकल्पिके छत्वे) सुहृच्छेते ।
      • सुहृच्-शेते
  • [ च् + न् ] - याच् + नङ् + टाप् - याच्ञा
  • [ ज् + न् ] -यज् + नङ् - यज्ञ

निषेधः

  • शात् - [ श् + त् / थ् / द् / ध् / न् ] - अत्र सन्धिर् न भवति। जश्-त्वम्।
    • [ चवर्ग + त् / थ् / द् / ध् ] (इति २० योगाः) ⇒ अत्र चोः कुः ८.२.३० इति झलि परे चवर्गस्य कुत्वं भवति, अतः अत्र श्चुत्वस्य उदाहरणानि न विद्यन्ते ।

(स्तोः‌) ष्टुना ष्टुः

  • ष्टुँ-आदेश एतयोः
    • स्तुँ + ष्टुँ
    • ष्टुँ + स्तुँ
उदाहरणानि (द्रष्टुं नोद्यम्)
  • रामष्षष्ठः
  • सकार-टवर्गयोगे
    • रामष्टीकते रामष्ठकारीयति
  • तवर्ग-षकारयोगे
    • पिष् + क्त → पिष्ट
    • द्विष् + थ → द्विष्ठ
    • द्विष् + ध्वम् → द्विष्ध्वम् → (झलां जश् झशि ८.४.५३ इति जश्त्वे) द्विड्ध्वम् ।
  • तवर्ग-टवर्गयोगे
  • सुहृट्टीकते सुहृट्ठकारीयति सुृहृड्डयसे, सुहृड्ढौकसे ।
  • सुहृज्णकारीयति / सुहृण्णकारीयति । [यरोऽनुनासिकेऽनुनासिको वा ८.४.४५ इति विकल्पेन अनुनासिकादेशः]
  • राजण्टीकसे / राजण्ठकारीयसि / राजण्डयसे / राजण्ढौकसे / राजण्णकारीयसि ।
  • ईड् + ते → ईड् + टे → (खरि च ८.४.५५ इति चर्त्वे) ईट्टे ।
  • आ + ईड् + ध्वम् → ऐड्ढ्वम्
  • षड्णवतिः, षण्णवतिः [यरोऽनुनासिकेऽनुनासिको वा ८.४.४५ इति विकल्पेन अनुनासिकादेशः]

निषेधः

  • न पदान्ताट्टोरनाम् ८.४.४२ — पदान्तटवर्गीयवर्णात् परस्य तवर्गीयवर्णस्य षकारस्य च ष्टुत्वं न भवति ।

  • तोः षिः (न) ८.४.४३ — तकारस्य षकारे परे ष्टुत्वं न भवति ।

  • [ ष् + द् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः पदान्त-षकारस्य झलां जशोऽन्ते ८.२.३९ इति जश्त्वे डकारः भवति । अपदान्तषकारात् परः दकारः नैव कुत्रचित् दृश्यते ।

  • [ ष् + न् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः षकारे परे नकारस्य रषाभ्यां नो णः समानपदे ८.४.१ इति णत्वं विधीयते ।

  • [ त् / थ् / ध् + टवर्ग ] (इति १५ योगाः) ⇒ अत्र पदान्ततकारथकारधकाराणाम् जश्त्वे कृते दकारः भवति, अतः तत्र ष्टुत्वं नैव सम्भवति । अपदान्ततकारथकारधकाराणाम् उदाहरणानि न दृश्यते ।

यरोऽनुनासिकेऽनुनासिको वा

  • वाच् मुख → वाक् मुख [चोः कुः ८.२.३० इति कुत्वम्] → वाग् मुख [झलां जशोऽन्ते ८.२.३९ इति जश्त्वे गकारः] → वाङ् मुख | वाग्मुख
  • मरुत् ञकारीयति → मरुज् ञकारीयति | मरुञ्ञकारीयति