१५२ उद्

अच्

  • {उदच्}
  • अच् (अचु यतिपूजनयोः)।
  • ‘अथ या घृतकुल्या तस्यै हिरण्ययाः पुरुषा हिरण्ययैः चमसैः सर्वान्कामानुदचिरे’ (जै० ब्रा० १।४२)। उदचिरे उदवतवन्तः। अत्रैव (१।४४) उदचन्त, उदाचीरिति प्रयोगौ स्थितौ।

अज्

  • {उदज्}
  • अज् (अज गतिक्षेपणयोः)।
  • ‘यो गा उदाजदपधा बलस्य’ (ऋ० २।१२।३)। उदाजत् निरकालयत्।
  • ‘यो वो ब्रह्मिष्ठः स एता गा उदजताम्’ (वृ० उ० ३।१।१)।
  • ‘ब्रह्मगवीरुदजसे’ (बृ० उ० ३।७।१)।
  • ‘उद् गा आजदभिनद् ब्रह्मणा वलम्’ (ऋ० २।२४।३) उक्तोऽर्थः।
  • ‘उच्छुक्रमत्कमजते सिमस्मात्’ (ऋ० १।९५।७)। उदजते=उद्धरते।
  • ‘अवीरघ्नीरुदजन्त्वापः’ (अथर्व० १४।१।३९)। उदजन्तु निः सरन्तु।

अञ्च्

  • {उदञ्च्}
  • अञ्च् (अञ्चु गतिपूजनयोः)।
  • ‘महान्तं कोशमुदचा निषिञ्च’ (ऋ० ५।८३।८)। उदच=उदञ्च। उद्गृहाण, उन्नमय, उन्नय।
  • ‘महान्तं कोशमुदचाभिषिञ्च’ (अथर्व० ४।१५।१६)। उदच=उद्धरेति सायणः।
  • ‘पूर्णात्पूर्णमुदच्यते’ (बृ० उ० ५।१)। उद्रिच्यत उद्गच्छतीति शङ्करः।
  • ‘उदक्तमुदकं कूपात्’ (कौमुदी)। उद्धृतमित्यर्थः।
  • ‘जगदालोक्य तत्तादृग् उदक्तोपप्लवाप्लुतम्’ (यो० वा० ६(२)१३४।३६)। उदञ्चतिरिहोर्ध्वगत्यर्थः। उदक्ता उत्थिताः (उपप्लवाः)।
  • ‘उदकमुदञ्चन्निह कूपे कोपि निष्कलो ममैकशरणभूतः पतितः’ (दशकु०)। उदञ्चन् उद्गमयन्नित्यर्थः।
  • ‘एकैकमेव पादमुदच्य तिष्ठति’ (अश्वः) (श० ब्रा० ५।१।४।५)। उदच्य उदग्रं कृत्वा। उदकोदञ्चनः। उदकमुदच्यतेऽनेनेति। पानीयोद्धरणपात्रम्। तैलोदङ्कः। तैलमुदच्यतेऽस्मिन्निति। कुतुपः, कुतूर्वा।
  • ‘ते नो गोपा अपाच्यास्त उदक् त इत्था न्यक्’ (ऋ० ८।२८।३)। उदक् उदीच्याः (दिशः)।

अन्

  • {उदन्}
  • अन् (अन प्राणने)।
  • ‘उदानिषुर्महीरिति तस्मादुदकमुच्यते’ (अथर्व० ३।१३।४)। उदानिषुरुच्छ्वसितवत्यः।
  • ‘इमाः प्रजाः प्राणत्यश्चोदानत्यश्चान्तरिक्षमनुचरन्ति’ (श० ब्रा० ३।८।३।२)। उदानत्य उच्छ्वासं कुर्वत्यः।
  • ‘ऋचा प्राणिहि यजुषा समनिहि साम्नोदनिहि’ (शां० गृ० ९।२४।२)। उदनिहि उदानाख्यः श्वासस्ते प्रेर्तामित्याह।

अव्

  • {उदव्}
  • अव् (अव रक्षणगत्यादिषु)।
  • ‘अस्माकमंशमुदवा भरे भरे’ (अथर्व० ७।५२।४)। सङ्ग्रामे सङ्ग्रामेऽस्माकं भागमुदव उद्गमयेत्याह।
  • ‘भगेमां धियमुदवा ददन्नः’ (ऋ० ७।४१।२)। उदव=अवधेहि।
  • ‘कुर्कुराविव कूजन्तावुदबन्तौ वृकाविव’ (अथर्व० ७।१००।२)। (वत्सान्) उद्गृह्य गच्छन्तौ, प्रच्छन्नचारिणवुपशयस्थाविति वा।
  • ‘यज्ञेयज्ञे न उदव’ (ऋ० ५।५।९)। उदव उच्चै रक्ष। उरु नः शर्म यच्छेत्युक्तं भवति।

अस्

  • {उदस्}
  • अस् (असु क्षेपे)।
  • ‘अथैतान्यजमानोऽञ्जलौ समोप्य। ऊर्ध्वानुदस्यति’ (श० ब्रा० २।६।२।१६)। उदस्यति उत्क्षिपति।
  • ‘पुच्छमुदस्यति उत्पुच्छयते’ (पा० ३।१।२० सूत्रवृत्तौ)।
  • ‘इत्थं विहृत्य वनिताभिरुदस्यमानं’ (वारि) (कि० ८।५५)। उक्तोऽर्थः।
  • ‘तदुदस्तमलातं तु भीमः प्रहरतां वरः। पदा सव्येन चिक्षेप’ (भा० वन० ११।४५)। उदस्तमुत्क्षिप्तम्।
  • ‘उदस्ताधोरणः’ (दशकु० ३४)। उदस्तोऽधः क्षिप्तः। अस्थान उच्छब्दः।
  • ‘प्रह्लादो ह वै कायाधवः। विरोचनं स्वं पुत्रमुदास्यत्’ (तै० ब्रा० १।५।१०।७)। उदास्यत् हस्तेनोद्धृत्य भूमावपातयत्।
  • ‘प्रजापति र्वै प्रजाकामस्तपोऽतप्यत। स हिरण्यमुदास्यत्’ (तै० ब्रा० ३।११।८।६)। उदास्यत् उदपादयत्।

अंश्

  • {उदंश्}
  • अंश् (अंश विभाजने)।
  • ‘इन्द्र स्थातर्हरीणां नकिष्टे पूर्व्यस्तुतिम्। उदानंश शवसा न भन्दना’ (ऋ० ८।२४।१७)॥ उदानंश संबिभजे साधारणीचक्रे।

अश्

  • {उदश्}
  • अश् (अशू व्याप्तौ)।
  • ‘को वो महान्ति महतामुद् अश्नवत्’ (ऋ० ५।५९।४)। उदश्नवत् व्यश्नवत् व्यश्नुवीत प्राप्नुयात्। अश्नवत् इति पञ्चमे लकारे रूपम्।

आप्

  • {उदाप्}
  • आप् (आप्लृ व्याप्तौ)।
  • ‘महाकर्म भरतस्य न पूर्वे नापरे जनाः। दिवं मर्त्या इव हस्ताभ्यां नोदापुः पञ्च मानवाः’ (ऐ० ब्रा० ८।२३)। नोदापुः=नोच्चैरासादयामासुः। ऊर्ध्वं प्रसारिताभ्यां हस्ताभ्यां नाधिजग्मुरित्युक्तं भवति।
  • ‘दिवं मा इव बाहुभ्यां नोदापुः पञ्च मानवाः’ (श० ब्रा० १३।५।४।१४)। उक्तोर्थः।

आस्

  • {उदास्}
  • आस् (आस उपवेशने)।
  • ‘विधाय वैरं सामर्षे नरोऽरौ य उदासते’ (शिशु० २।४२)। उदासते उपेक्षन्तेऽनास्थास्तिष्ठन्ति, ताटस्थ्येन वर्तन्ते।
  • ‘तत्किमित्युदासते भरताः’ (मालती० १)। उदासतेऽचेष्टाः स्थिताः।
  • ‘उदासीनो निरीक्षस्व न कार्यः संभ्रमस्त्वया’ (भा० आदि १५४।२०)। उदासीनो वीतचिन्तः।
  • ‘अनन्तरमरिं विद्यादरिसेविनमेव च। अरेरनन्तरं मित्रमुदासीनं तयोः परम्’ (मनु० ७।१५८)॥ उदासीनो न मित्रं न चामित्रः।
  • ‘यदा यजमानः समे यियक्षते तदा समे यजेतेति वचनमुदास्ते। स्वार्थस्य प्राप्तत्वात्’ (याज्ञ० १।८१ मिताक्षरायाम्)। उदास्ते प्रचोदनापराङ्मुखमवतिष्ठते। प्रेरकं न भवतीत्यर्थः।

  • {उदि}
  • इ (इण् गतौ)।
  • ‘उदसौ सूर्यो अगादुदयं मामको भगः’ (ऋ० १०।१५९।१)। उदगात् उदगमत्, आक्रामत।
  • ‘चित्रं देवानामुदगादनीकम्’ (ऋ० १।११५।१)।
  • ‘आदित्यः पुरस्तादुदेति पश्चादस्तमेति’ (भाष्ये)।
  • ‘उदेति सविता तामस्ताम् एवास्तमेति च’ (सुभाषितम्)।
  • ‘पूर्वस्यां दिश्युदयं याति। तथात उदेति (पशुः) तथा संजीवति’ (श० ब्रा० ३।८।२।२७)। उदेति उत्तिष्ठति।
  • ‘आगादुदगादयं जीवानां व्रातमप्यगात्’ (अथर्व० २।९।२)। उदगात् उदस्थात्।
  • ‘उदगात्कठकौथुमम् (अनुवादे चरणानाम् २।४।३ इत्यत्र वृत्तावुदाहरणम्)। उदयः प्रक्रम उद्भवः।
  • ‘समूलघातमध्नन्तः परान्नोद्यन्ति मानिनः’ (शिशु० २।३३)। नोद्यन्ति नाभ्युदयन्ते।
  • ‘उदेति पूर्वं कुसुमं ततः फलम्’ (शा० ७।३०)। उदेति निष्कसति, उद्भवति, उत्पद्यते, जायते।
  • ‘उद्रथानां जयतां यन्तु घोषाः’ (ऋ० १०।१०३।१०)। उद्यन्तु उच्चैर्यान्तु।
  • ‘उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद’ (छां० उ० १।६।७)। उदेति निष्क्रामति। निर्मुच्यत इत्यर्थः।
  • ‘सा पृथिवीमुदैत्’ (गो० ब्रा० पूर्व० २।२१)। ** (समुद्रान् निर्याय) पृथिव्या उपर्यांगच्छदित्यर्थः।**
  • ‘समानमेतदुदकमुच्चैत्यव चाहभिः’ (ऋ० १।१६४।५१)। उदेति उच्छलति उत्क्रामति। अवैति=अधो गच्छति।
  • ‘वत्सेश्वरात्पुनरुदेष्यति चक्रवर्ती’ (कथा० २६।२८०)। उदेष्यति जनिष्यते।
  • ‘न प्रभातरलं ज्योतिरुदेति वसुधातलात्’ (शा० १।२१)। उदेति उत्तिष्ठति।
  • ‘तस्मिन्खलु प्रपीड्यमाने यत्तैलमुदियात्’ (चरक० वि० ७।२९)। उदियात् निरियात् निष्क्रामेत्।
  • ‘आत्मोदयः परग्लानिः’ (शिशु० २।३०)। परज्यानिरिति पाठान्तरम्। आत्मोदयः स्वस्य समुन्नतिः समृद्धिः।
  • ‘सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः’ (भा० उ० ३३।९१)। उदयः फलं विपाकः।
  • ‘नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम्’ (पा० ८।४।६७)। उदात्तोदयम् उदात्त उत्तरो यस्मात्तत्। उदयशब्दः परशब्दसमानार्थः प्रातिशाख्येषु प्रसिद्धः।
  • ‘उत्तमानुत्तमेषूदयेषु’ (ऋक्० प्रा० ४।३)। आपद्यन्त इति शेषः।
  • ‘अभिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत्’ (भा० वन० २८२।२२)। उदयः प्रक्रमः, प्रारम्भः।
  • ‘पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः’ (रघु० ५।५६)। बलोदयो बलाभिवृद्धिः।
  • ‘आजीवन्स्वेच्छया दण्ड्यो दाप्यस्तं चापि सोदयम्’ (याज्ञ० २।६७)। उदयो वृद्धिः कुसीदम्।
  • ‘तस्माद्यत्नात्प्रतीक्षन्ते कालस्योदयमागतम्’ (भा० वि० २७।६)। कालस्योदयम् औपयिकमवसरम्।
  • ‘हस्ते गृहीत्वा सहराममच्युतं नीत्वा स्ववाटं कृतवत्यथोदयम्’ (भा० पु० १०।११।२०)। उदयं जन्मोत्सवम्।
  • ‘अथवा मर्षयिष्यामि क्रोधमद्य निशामिमाम्। गृह्यतामुदयः स्वैरं कामभोगेषु वानर’ (रा० ४।९।६९)॥
  • ‘विभ्रष्टहर्षा पिहितापणोदया’ (अयोध्या) (रा० २।४८।३७)। उदयो निर्गमद्वारम्।
  • ‘संमानं मेनिरे सर्वाः प्रहर्षोदितचेतसः’ (रा० १।१६।३०)। उदितं विकस्वरम्।
  • ‘तां रात्रिमुषितं रामं सुखोदितमरिन्दमम्’ (रा० ६।१२१।१)। सुखोदितं सुखं शयनादुत्थितम्।
  • ‘अयमनघ तवोदितः प्रियार्थम्’ (रा० ६।८३।४४)। उदितः=उत्थितः=उद्युक्तः सज्जः।
  • ‘अविहतगतिर्दैवोद्रेकादुदित्वरविक्रमः’ (शि० भा० १४।१०६)। उदित्वर उदयशीलः, वर्धिष्णुः।
  • ‘त्रिवृदुदयना’ (यज्ञाः) (श० ब्रा० १।३।५।६)। त्रिवृदन्ता इत्यर्थः।
  • ‘यज्ञस्य वा निशितिं वोदितिं वा’ (ऋ० ६।१५।११)। उदिति र्वाक्।
  • ‘राद्धिः समृद्धिरव्यृद्धिर्मतिरुदितयः’ (अथर्व० १०।२।१०)। उदितिरूर्ध्वगतिः। अवसानं तिरोधानं वेति संस्कृतशार्मण्यकोषः।
  • ‘उदिते ऽनुदिते वा’ (जुहोति) (वाराहश्रौ० १।४।२।९)।
  • ‘ऋकार उदये कण्ठ्यौ’ (ऋक् प्रा० ११।११)। उदये=परभूते। उदेति उपरि आगच्छतीत्युदयः परः।
  • ‘प्राणमेवानु प्रयन्ति प्राणमनूद्यन्ति’ (तै० स० ६।५।८)। उद्यन्ति समापयन्ति। अनुः सहार्थे।
  • ‘स गिरिमुदैत्’ (ऋ० सं० २।३।३।१)। उदैत् ऊर्ध्वमगच्छत्, उदपतत्।
  • ‘श्रीमद्भिरुदितोदितैः’ (हरि० २।२२।१६)। उदितेन कथाप्रसङ्गेन उदितैरुद्भटै प्रकाशैरिति नीलकण्ठः।

इङ्ग्

  • {उदिङ्ग्}
  • इङ्ग् (इगि गतौ)।
  • ‘ताः (अपः) सव्ये पाणौ कृत्वा दक्षिणेनोदिङ्गयति’ (श० ब्रा० १।१।३।७)। उदिङ्गयति उच्छालयति।
  • ‘नातिव्यक्तं न चाव्यक्तमेवं वर्णान् उदिङ्गयेत्’ (तै० प्रा० २।५)। उदिङ्गयेत् उच्चारयेत्।
  • ‘आनशे व्यानश इति त्रिरुदिङ्गयति’ (तै० ब्रा० १।१।८।६)। उदिङ्गयति ऊर्ध्वं चलयति।

ईक्ष्

  • {उदीक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘प्रच्छन्नं वा प्रकाशं वा सर्वमग्निरुदीक्षते’ (रा० ६।३।१११)। उदीक्षते सम्पश्यति।
  • ‘यूपस्याग्रमुदीक्षते’ (भा० श्रौ० ७।८।१३)। उदीक्षते उच्चक्षुः सन्नीक्षते। स्थाने खलूच्छब्दः।
  • ‘त्रीणि तेजांसि नोच्छिष्ट उदीक्षेत कदाचन। सूर्याचन्द्रमसौ चैव नक्षत्राणि च सर्वशः’ (भा० अनु० १०४।६३)। उक्तोऽर्थः।
  • ‘गगनस्थं विनिः श्वस्य दिवाकरमदैक्षत’ (भा० आदि० १३७।८)।
  • ‘सूर्यमुदीक्षते’ (श० ब्रा० १।९।३।१५)।
  • ‘उन्नम्य वदनं भीरुः शिंशपां तामुदैक्षत’ (रा० ५।३१।२६)। उन्नम्य वदनमित्युक्त उच्छब्दोऽत्र गतार्थः।
  • ‘न विण्मूत्रमुदीक्षेत’ (मनु० ४।७७)। न निध्यायेत्। न निरीक्षेत। उदीक्षणं वर्णादिना निरूपणम्। निरूपणं च चिरकालप्रेक्षणेन भवतीति निषिध्यत इति मेधातिथिः।
  • ‘त्रीणि वर्षाण्युदीक्षेत कुमार्यृतुमती सती’ (मनु० ९।९०)। प्रतीक्षेत।
  • ‘भरतस्त्वामुदीक्षते’ (रा० ६।१०९।५)। उक्तोऽर्थः।
  • ‘सत्येनातिपरीताङ्गा नोदीक्षन्ते स्म किञ्चन’ (भा० सभा० ६७।२२)। नोदीक्षन्ते न किमपि प्रतिपद्यन्ते। प्रतिपत्तिमूढास्तिष्ठन्तीत्याह।
  • ‘अथैनं सूर्यमुदीक्षयति’ (पा० गृ० २।२)। उदीक्षमाणं प्रयुङ्क्ते। अर्थस्त्वभिव्यक्तः।
  • ‘उदीक्षमाणः पृतनां जयामि युधि वासव’ (भा० शां० ९८।९)। उदीक्षमाणो दृशमुन्नमय्य पश्यन्नित्यर्थः।
  • ‘किं गतेन यदि सा न जीवति प्राणिति प्रियतमा तथापि किम्। इत्युदीक्ष्य नवमेघमालिकां न प्रयाति पथिकः स्वमन्दिरम्’ (भर्तृ० २।६६)॥
  • ‘तस्याः शङ्कां भयं दुखं मुहूर्तमपि नोत्सहे। मनसि प्रतिसंजातं सौमित्रेऽहमूदीक्षितुम्’ (रा० २।२२)॥ उपेक्षितुम् इति पाठान्तरम्। तज्ज्यायः। उदीक्षितुं द्रष्टुम्।
  • ‘उदीक्षितुं रावण नेह युक्तः स संयुगे राघवगन्धहस्ती’ (रा० ३।३१।४६)। चक्षुरुन्नमय्य ईक्षितुमित्यर्थः।
  • ‘अभ्यकीर्यन्त वृन्दानि दामग्रन्थिमुदीक्ष्यतम्’ (भा० वि० १९।२३)। उदीक्ष्य दूरतो दृष्ट्वा।
  • ‘द्विपद्वीपिशरण्यानामरण्यानामुदीक्षणम्’ (शि० भा० १९।१८)। उदीक्षणं वीक्षणम्।
  • ‘युधिष्ठिरमुदीक्षन्तः सेहुर्दुःखमनुत्तमम्।’ (भा० वन० २५९।७)। युधिष्ठिरमुखप्रेक्षिणः सन्तः।
  • ‘जहास शक्रं च शनैरुदैक्षत’ (भा० आदि० १९७।१६)। उदैक्षत उच्चक्षूभूयालोकयत्।
  • ‘व्रीडादनु देवीमुदीक्ष्य मन्ये संन्यस्तदेहः स्वयमेव कामः’ (कु० ७।६७)। उक्तोऽर्थः।
  • ‘तव मौनमुदीक्ष्य माधवो भविता काकुवचःपरायणः (पारिजात० ३।१६)। उदा नार्थः।

ईर्

  • {उदीर्}
  • ईर् (ईर गतौ)।
  • ‘उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते’ (ऋ० ८।४४।१७)। उदीरते उच्चरन्ति।
  • ‘उदस्य केतवो दिवि शुक्रा भ्राजन्त ईरते’ (अथर्व० १३।२।१)। उदीरते उत्पतन्ति।
  • ‘उदीर्ष्व नार्यभि जीवलोकम्’ (ऋ० १०।१८।८)। उत्तिष्ठेत्येवाह।
  • ‘उदीरतामवर उत् परास उन्मध्यमाः पितरः सोम्यासः’ (ऋ० १०।१५।१)। उक्तोऽर्थः।
  • ‘पृथग्घोषा उलुलयः केतुमन्त उदीरताम्’ (अथर्व० ३।१९।६)। उदीरताम् उद्गच्छन्तु।
  • ‘उदैरत रणितानि’ (दशकु० १२३)। उदतिष्ठन्, उदचरन्।
  • ‘उदीरय कवितमं कवीनाम्।’ (ऋ० ५।४२।३)। उदीरय कीर्तय।
  • ‘कुसुमं कृतदोहदस्त्वया यदशोकोऽयमुदीरयिष्यति’ (रघु० ८।६२)। उदीरयिष्यति उद्गमयिष्यति।
  • ‘उदीरयेतां ब्राह्माणि दिव्यान्यस्त्राण्यनेकशः’ (भा० द्रोण० १९२।३१) उदीरयेताम् प्राक्षिपेताम्। आडभावश्छान्दसः। छन्दोवत्कवयः कुर्वन्ति।
  • ‘उदीरयामास सलीलमक्षान्’ (रघु० ६।१८)। प्रावपदित्यर्थः।
  • ‘उदैरयच्छिरः’ (सर्पः) (दशकु० २०३)। उदस्थापयत्, फणामकरोदित्यर्थः।
  • ‘उदीराणा उतासीनाः’ (अथर्व० १२।१।२८)। उदीराणा उत्तिष्ठन्तः।
  • ‘उदीर्यमाणमस्त्रं तद् विश्वामित्रस्य धीमतः’ (रा० १।५५।२२)। उदीर्यमाणं विसृज्यमानम्।
  • ‘सोदीर्णोऽभिहतौ वक्त्रमापद्य मारुतः’ (पा० शि० ९)। उदीर्ण उत्थितः।
  • ‘ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह। उदीर्णे दहतः शत्रून् वनानीवाग्निमारुतो’ (भा० वन० २६।१०)। उदीर्णे प्रवृद्धे।
  • ‘त्रैलोक्यमासीत्संत्रस्तं ब्रह्मास्त्रे समुदीरिते’ (रा० १।५६।१५)। समुदीरिते प्रयुक्ते।
  • ‘उदीरितोऽर्थः पशुनापि गृह्यते’ (हितोप० २।४९)। उदीरितः शब्दोक्तः।
  • ‘तैस्तत्र परिधावद्भिश्चरणोदीरितं रजः’ (भा० सौ० ८।९६)। उदीरितमुत्थापितमुद्धतम्।
  • ‘खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति’ (रा० २।९३।१५)। उक्तोऽर्थः।
  • ‘स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः’ (रा० २।१।७)। उदीर्णस्य दृप्तस्य।
  • ‘अदैन्यमनुदीर्णत्वमनुद्वेगो व्यवस्थितिः’ (भा० शां० २७४।१८)। अनुदीर्णत्वं दर्पाहङ्कारराहित्यम्।
  • ‘उद्धातः प्रणवो यासां न्यायैस्त्रिभिरुदीरणम्’ (कु० २।१२)। उदीरणमुच्चारणं शंसनम्।
  • ‘कुनृपोदीरणोद्भूतो गिरः पाप्माऽपनेष्यते’ (राज० ८।४९)। उदीरणं कीर्तनम्।
  • ‘अग्निर्वा इतो वृष्टिमुदीरयति’ (तै० सं० २।४।१०।२)। उदीरयति ऊर्ध्वं गमयति (आहुतिभिः)। वृष्टिमुदकम्।
  • ‘उदीरयामास सलीलमक्षान्’ (रघु० ६।१८)। उदीरयामास प्रोवाप प्रचिक्षेप।
  • ‘अग्निमुदर्यमुदीरयति’ (चरक० वि० ३।४२)। उदीरयति वर्धयति।
  • ‘लोभात् क्रोधः प्रभवति परदोषैरुदीर्यते’ (भा० शां० १६३।७)। उदीर्यत उद्दीप्यते।
  • ‘तिसृभिस्त्वमवस्थाभिर्महिमानमुदीरयन्’ (कु० २।६)। उदीरयन् उद्भावयन् प्रकटयन्।
  • ‘सर्वं तु दुःखं मम लक्ष्मणेदं शान्तं शरीरे वनमेत्य शून्यम्। सीतावियोगात्पुनरप्युदीर्णम्’ (रा० ३।६३।६)॥ उदीर्णमुत्थितम्।
  • ‘समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यर्हविषेव पावकः’ (रा० ५।५७।२)। उदीरितः प्रेरित उद्दीप्तः।

ईष्

  • {उदीष्}
  • ईष् (ईष गतिहिंसादर्शनेषु)।
  • ‘ऊर्ध्वः प्राण उदीषतु’ (अथर्व० ११।११।२१)। उदीषतु निर्गच्छतु उत्क्रामतु।

उक्ष्

  • {उदुक्ष्}
  • उक्ष् (उक्ष सेचने)।
  • ‘किं तृतीयमेतां दिशमुदौक्षीः’ (श० ब्रा० १२।५।३।४)। उदौक्षीः=उपर्यसिचः।

उब्ज्

  • {उदुब्ज्}
  • उब्ज् (उब्ज आर्जवे)।
  • ‘उदुब्जैनां महते वीर्याय’ (अथर्व० ११।१।७)। उद्गतशिरस्कां कुर्विति सायणः।
  • ‘इन्द्रो वृत्रमहन्। तस्य शीर्षकपालमुदौब्जत्’ (तै० सं०)। उदौब्जत् उत्तानमभवत्।

ऊह्

  • {उदूह्}
  • ऊह् (ऊह वितर्के)।
  • ‘अथास्य यत्स्वं छन्द आसीदनुष्टुप् तामुदन्तमभ्युदौहदच्छावाकीयामभि’ (ऐ० ब्रा० ३।१३)। उदौहत् अपसारितवान् इति सायणः। उदनैषीदिति भट्ट भास्करः।
  • ‘स प्राचोऽङ्गारानुदूहति’ (श० ब्रा० १।२।१।५)। उदूहति निष्कासयति।
  • ‘ते वा एते उल्मुके उदूहन्ति’ (श० बा० १।८।२।१)। निष्कासयन्ति, उत्कर्षन्ति।
  • ‘ते ऽब्रुवन्। सर्वं वा अयमिदं प्रधक्ष्यति। एनमूर्ध्वमुदूहामेति’ (जै० ब्रा० २।५)। उदूहाम उन्नयाम। ते ऽ पामूर्ध्वं रसमुदौहन्। उदनयन्नित्यर्थः।

  • {उदृ}
  • ऋ (ऋ गतौ)।
  • ‘समुद्रादूर्मिर्मधुमाँ उदारत्’ (ऋ० ४।५८।१, वा० सं० १७।८९, आप० श्रौ० ५।५।१७।४)। उदारत् उदगच्छत्।
  • ‘अनूनवर्चा उदियर्षि भानुना’ (ऋ० १०।१४०।२)। उदियर्षि उद्गच्छसि उत्पतसि।
  • ‘समुद्रादूर्मिमुदियर्ति वेनः’ (ऋ० १०।१२३।२)। उदीरयति, उन्नमयतीत्यर्थः।
  • ‘अयं मे पीत उदियर्ति वाचम्’ (ऋ० ६।४७।३)। उदियर्ति समीरयति, प्रयोजयति।
  • ‘स भन्दना उदियर्ति प्रजावतीः’ (ऋ० ९।८६।४१, नि० ५।२)। उदियर्ति उदीरयतीति दुर्गः।

  • {उदृ}
  • ऋ (ऋ गतिप्रापणयोः)।
  • ‘उन्नो वीराँ अर्पय भेषजेभिः’ (ऋ० २।३३।४)। उदर्पय उत्थितान् गवान्निर्गतान् कुरु। उल्लाघान् सम्पादय।

ऋच्

  • {उदृच्}
  • ऋच् (ऋच स्तुतौ)।
  • ‘तेषां यद् उदृचं गच्छन्ति’ (श० ब्रा० १३।१।६।३)। उदृचं गच्छन्त्यन्तं गच्छन्तीत्याह।
  • ‘अस्य यज्ञस्योदृचि स्वाहा।’ (अथर्व० ??।४८।१)। उत्तमाऽवसानवर्तिनी ऋक् उदृक्। तद्वाचिनाऽनेन शब्देन यागसमाप्तिर्लक्ष्यत इति सायणः।
  • ‘आऽस्य यज्ञस्योदृचः’ (वा० सं० ४।१०)। उदृक् अवसानम्॥

एज्

  • {उदेज्}
  • एज् (एजृ कम्पने)।
  • ‘उदेजतु प्रजापति र्वृषा शुष्मेण वाजिना’ (अथर्व० ४।४।२)। उदेजतु उन्नमतु।

कम्प्

  • {उत्कम्प्}
  • कम्प् (कपि चलने)।
  • ‘आश्लिष्यमाणः प्रियया शङ्करोपि यदाज्ञया। उत्कम्पते सभुवनं स जयत्यसमसायकः’ (कथा० १५।२)॥ उत्कम्पतेऽतितरां देपते।

कल्

  • {उत्कल्}
  • कल् (कल गतौ संख्याने च, कल विल क्षेपे)।
  • ‘हस्तोत्कलितस्तदाऽसुरो विक्रीडितो यद्वदहिर्गरुत्मतः (भा० पु० ७।८।२६)। हस्तोत्कलितो हस्तान्निर्गतः।
  • ‘प्रहर्षवेगोत्कलितानन–’ (भा० पु० ७।८।३५)। उत्कलितं व्यात्तम्।
  • ‘गाव उत्कालितपुंस्का बाहाय च विक्रयाय च स्त्रिय एवावशिष्यन्ते। कः पुनरर्हत्यग्राम्याणां पुंस उत्कालयितुं ये ग्रहीतुमशक्याः कुत एव बाहाय च विक्रयाय च’ (पा० १।२।७३ सूत्रे भाष्यम्)। उत्कालितपुंस्काः=निष्कासितपुम्भावाः।

कष्

  • {उत्कष्}
  • कष् (कष हिंसायाम्)।
  • ‘सीरोत्कषणसुरभिं गन्धमाघ्राय चोर्व्याः’ (पूर्वमेघ० १६)। उत्कषणमुत्खननम्।

कस्

  • {उत्कस्}
  • कस् (कस गतौ)।
  • ‘उत्कसन्तु हृदयान्यूर्ध्वः प्राण उदीषतु’ (अथर्व० ११।९।२१)। शरीरादुद्गच्छन्त्वित्याह। दीर्यन्तामिति वा।

काश्

  • {उत्काश्}
  • काश् (काशृ दीप्तौ)।
  • ‘स उच्चकाशे धवलोदरोदरः’ (भा० पु० १।११।२)। उच्चैश्चकाशे अतितरां दिदीपे।

कुच्

  • {उत्कुच्}
  • कुच् (कुच सम्पर्चन-कौटिल्यप्रतिष्टम्भ-विलेखनेषु)।
  • ‘उत्कोचकाश्चौपधिकाः’ (मनु० ९।२५८)। उत्कोचका ये कार्यिभ्यो धनं गृहीत्वा कार्यमयुक्तं कुर्वन्ति (कुल्लूकः)।
  • ‘उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः’ (भा० द्रोण० ७३।३२)। उक्तोऽर्थः।

कूज्

  • {उत्कूज्}
  • कूज् (कूज अव्यक्ते शब्दे)।
  • ‘उत्कूजितैः परभृतस्य’ (ऋतु० ६।३२)। तारैः कोकिल-व्याहारैः।
  • ‘चक्रवाकवदुत्कूजनम्’ (कथा० १०।१३०)। उक्तोऽर्थः।

कुर्द्

  • {उत्कुर्द्}
  • कुर्द् (कुर्द खुर्द गुर्द गुद क्रीडायामेव)।
  • ‘भिक्षापात्रमुद्दिश्य निमेषादुत्कूर्दितोऽप्राप्त एव भूमौ निपपात’ (पञ्चत०)।

कृ

  • {उत्कृ}
  • कृ (डुकृञ् करणे)।
  • ‘संयावः क्षीर-गुडघृतादि-कृत उत्करिकाख्यः पाकविशेषः’ (याज्ञ० १।१७३ मिताक्षरायाम्)।
  • ‘उत्कृतकर्णचूलिकेन…मुखेन’ (स्वप्न० २)। उत्कृता उर्ध्वं कृता।
  • ‘कृषिं सुसस्यामुत्कृधि’ (काठक० २।३)। उत्कृधि उत्कृष्टां कुरु।
  • ‘उत्करिकोपनाहैश्च स्वेदयेन्मृदुभिः क्षणम्’ (चरक० चि० १७।८०)। उत्करिका स्फोटादीनां विपाकाय कृतो लेपविशेषः।

कृत्

  • {उत्कृत्}
  • कृत् (कृती छेदने)।
  • ‘धार्ष्टद्युम्नेः स शिरश्चोच्चकर्त’ (भा० कर्ण० ८२।९)। उच्चकर्त उच्चिच्छेद।
  • ‘त्वच उत्कर्तमवपाकानां संव्रश्चमोषधिवनस्पतीनाम्’ (श० ब्रा० १३।७।१।९)। उत्कर्तमुत्कृत्त्य। णमुलन्तम्।
  • ‘स्वयं वा शिश्नवृषणावुत्कृत्य’ (मनु० ११।१०४)। उत्कृत्त्य अपच्छिद्य।
  • ‘एतस्य (मृगस्य) उत्कृत्त्यमानस्य’ (हितोप०)। शकलीक्रियमाणस्य।
  • ‘यथा श्रान्तोऽविमुच्यमान उत्कृत्येत’ (ऐ० ब्रा० ६।२३)। उत्कृत्येत हीयेत क्षीयेत।

कृत्

  • {उत्कृत्}
  • कृत् (कृती वेष्टने)।
  • ‘पुमाँ एनं तनुते उत्कृणत्ति पुमान् वितत्ने अधि नाके अस्मिन्’ (ऋ० १०।१३०।२)। उत्कृणत्ति उद्वेष्टयति।
  • ‘यथा श्रान्तोऽविमुच्यमान उत्कृत्येतैवं यजमाना उत्कृत्येरन्’ (ऐ० ब्रा० ६।३३)। अविमुच्यमानोऽविषीयमाणोऽवियुज्यमानः शकटात्। युग्योऽश्वादिरिति शेषः। उत्कृत्येत स्वयमेवोत्क्रान्तवेष्टनः स्यात्, निर्मुक्तबन्धनो भवेत्। उत्कृत्येत उच्छिद्येतेति तु सायणः।

कृष्

  • {उत्कृष्}
  • कृष् (कृष विलेखने)।
  • ‘उत्कर्षति जलात्तस्मात्स्थलं पुरुषसत्तमः’ (भा० आदि० २१७।९)। उत्कर्षति उद्धृत्य प्रापयति।
  • ‘उत्कर्षति धनुःश्रेष्ठं गाण्डीवमशनिस्वनम्’ (भा० वि० ५३।५)। उत्कर्षति विकर्षति।
  • ‘खले वाली युपो भवत्येतया हि तं रसमुत्कृषन्ति’ (पञ्च० ब्रा० १६।१३।८)।
  • ‘उत्कर्षति ह वै ज्ञानसन्ततिम्’ (मुण्डक०)। उन्नमयति।
  • ‘द्व्यङ्गुलोत्कर्षं खण्डिकां छिनत्ति’ (पा० ३।४।५१ सूत्रवृत्तौ)। द्व्यङ्गुले उत्कृष्येत्यर्थः। उद्धृत्येति तात्पर्यार्थः।
  • ‘उत्कृष्ट एव ग्राहस्तु सोऽर्जुनेन यशस्विना’ (भा० आदि० २१६।१२)। उद्धृत इत्यर्थः।
  • ‘सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः’ (पा० २।१।६१)। अत्र उत्कृष्टौ गौः कर्दमादिति प्रत्युदाहरणं वृत्तौ। उद्धृत इत्यर्थः। उत्कृष्टपुरुष इति तूदाहरणम्। उदात्तो गुण्यः प्रवर इत्यर्थः।
  • ‘जिह्वालौल्योत्कृष्टौत्सुक्यात्’ (पञ्चत०)। उत्कृष्टमत्यारूढमौत्सुक्यम्।
  • ‘कलावधर्म उत्कृष्यमाणे’ (भा० पु० ५।६।१०)। अभ्युत्तिष्ठति।
  • ‘प्रासानुत्कृष्य तरसा स्वशरीरादरिन्दमः’ (भा० भीष्म० ९।३९)। उत्कृष्य उद्धृत्य। उद्वृह्य। निर्गमय्य।
  • ‘एते धर्माः सर्ववर्णेषु लीना उत्क्रष्टव्याः क्षत्रियैरेष धर्मः’ (भा० शां० ६५।१२)। उत्कर्षं प्रापयितव्या उन्नमयितव्याः।
  • ‘प्रचल्य चरणोत्कर्षैर्दारयन्निव मेदिनीम्’ (रा० ३।५६।२९)। चरणोत्कर्षैर्बलवच्चरणन्यासैः।
  • ‘उत्कर्षे च वचोऽनृतम्’ (याज्ञ० ३।२२९)। उत्तरवर्णप्रख्यापननिमित्तम्। उत्कर्षश्चेति क्वाचित्कं पाठान्तरम्। तत्रोत्कर्ष आत्मोन्नायकमनृतोद्यमिति स्मृतिकारस्याशयः।
  • ‘यत्नाभावे तूत्कर्षो भवति नोद्धारः’ (आश्व० गृ० १।४।७ सूत्रेऽनाविलायां हरदत्तः)।
  • ‘स्फाटिकं स्थलमासाद्य जलमित्यभिशङ्कया। स्ववस्त्रोत्कर्षणं राजा कृतवान् बुद्धिमोहितः’ (भा० सभा० ४७।३-४)॥ उत्कर्षणमुत्करणमूर्ध्वकरणम्।
  • ‘मत्तान् गिरितटोत्कृष्टान्…। वारणान्…’ (रा० ४।१३।११)। उल्लिखितगिरितटान्नित्यर्थः।
  • ‘उत्कृष्टपर्णकमलां… पद्मिनीमिव’ (रा० ५।१९।१६)। उद्धृतपत्रपद्मामित्यर्थः।

कृ

  • {उत्कृ}
  • कृ (कृ विक्षेपे)।
  • ‘वेदेर्वा उत्करमुत्किरन्ति’ (ऐ० ब्रा० ६।३)। कूटमुत्क्षिपन्तीत्यर्थः।
  • ‘दैवात्कथमप्यक्षरमुत्किरति घुणोपि काष्ठेषु’ (रविगुप्तः)। अक्षरमुत्किरति उत्खननेनाक्षरं लिखति। उल्लिखतीति यावत्।
  • ‘परिखामुत्किरन्नाम चकार च महाबिलम्’ (भा० आदि० १४७।१६)। प्राकारपरिधिभूतो गर्तः परिखा। परिखापरिष्कारव्याजेन बिलान्मृदमुत्किरन् बहिः क्षिपन्नित्यर्थः।
  • ‘वायुरुत्किरंश्च रजो महत्’ (रा० ६।९०।२६)। उत्किरन् उत्क्षिपन् ऊर्ध्वं क्षिपन्।
  • ‘रजोभिस्तुरगोत्कीर्णैः’ (रघु० १।४२)। उत्कीर्णैः=उत्क्षिप्तैरुद्धतैः।
  • ‘उत्कीर्णा इव वासयष्टिषु निशानिद्रालसा बर्हिणः’ (विक्रम० ३।२)। उत्कीर्णा उल्लिखिताः।
  • ‘मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम्।’ (जयस्तम्भम्) (रघु० ४।५९)।
  • ‘घुणोत्कीर्णमिवाक्षरम्’ (पञ्चत० ३।१३९)।
  • ‘पल्वलोत्कीर्णमुक्तेन पूर्यन्ते वनराजयः’ (हरि० २।१०।१९)। उत्कीर्णमुत्सितं (तोयम्)। उक्तोऽर्थः।
  • ‘पुरुषायाममात्रां च भूमिमुत्कीर्य खादिरैः’ (सुश्रुत० २।८२।३)। उत्कीर्य उत्खाय।
  • ‘आखूत्करः’ (मृच्छ० )। आखुनोक्षिप्तः कूटः।
  • ‘वस्त्रमाल्योत्करयुतः…महस्तस्य महागिरेः’ (भा० अश्व० ५९।१२)। उत्करो राशिः।
  • ‘आखुराजं गृहोत्करेषु यजेत’ (गो० गृ० ४।४।३०)। उत्करेषु अवकरेषु।
  • ‘उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थकावित्यमरः।’ (पा० कृ धान्ये ३।३।३० सूत्रेण घञि रूपम्)। संयावो गुडघृतपयोभिः कृत उत्करिकेति संज्ञायते।

कृत्

  • {उत्कृत्}
  • कृत् (कृत संशब्दने)।
  • ‘महिमानं यदुत्कीर्य तव संह्रियते वचः। श्रमेण तद् अशक्त्या वा न गुणानामियत्तया’ (रघु० १०।३३)। उत्कीर्य संस्तुत्य।

क्लिद्

  • {उत्क्लिद्}
  • क्लिद् (क्लिदू आर्द्रीभावे)।
  • ‘गौरवं शीतमुत्क्लेदो रोमहर्षोऽतिनिद्रता’ (माधव० २।१३)। उत्क्लेदः श्लेष्मनिष्ठीवनम्।

क्लिश्

  • {उत्क्लिश्}
  • क्लिश् (क्लिशू विबाधने)।
  • ‘गुरुता हृदयोत्क्लेशः सदनं छर्द्यरोचकौ’ (सुश्रुत० उत्तर० ३९।३७)। हृदयोत्क्लेशो हृद्गता तीव्रवेदना।
  • ‘स्नेहस्वेदैस्तथोत्क्लेश्य वपुषः शोधनैर्मलः’ (अष्टाङ्ग० सूत्र० १८।५९)। उत्क्लेश्य पतनोन्मुखं कृत्वा।

क्लृप्

  • {उत्क्लृप्}
  • क्लृप् (कृपू सामर्थ्ये)।
  • ‘या वशा उदकल्पयन्देवा यज्ञादुदेत्य’ (अथर्व० १२।४।४१)। उदकल्पयन् निरमिमत।

क्रम्

  • {उत्क्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति’ (मनु० २।१२०)। उत्क्रामन्ति ऊर्ध्वां गतिं कुर्वन्ति, उदीरते।
  • ‘उत्क्रामातः पुरुष भावपत्थाः’ (अथर्व० ८।१।४)। अतो मृत्युपाशनिचयादुत्क्राम निष्क्राम निरिहि।
  • ‘शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः’ (गीता० १५।८)। उत्क्रामति जहाति।
  • ‘न च स्वं कुरुते कर्म तदोत्क्रामति मूर्त्तितः’ (मनु० १।५५)। उत्क्रामति पूर्वदेहादुत्क्रम्यान्यत्र गच्छति।
  • ‘उदायुषा’ (अथर्व० ३।३१।१०) इत्युपोत्तिष्ठति।
  • ‘उद्वयम्’ (अथर्व० ७।५३।७)
  • ‘इत्युत्क्रामति’ (कौ० सू० २४)।
  • ‘सोदक्रामत् स गार्हपत्ये न्यक्रामत्’ (सा विराट्) (अथर्व० ८।१०।२)। उदक्रामत् अपाक्रामत्।
  • ‘उत्क्रामन्तं स्थितं वापि’ (आत्मानम्) (गीता० १५।१०)। शरीरादुज्जिहानम्।
  • ‘ऋषिषूत्क्रामत्सु ते देवा अब्रुवन् को न ऋषिर्भविष्यति’ (नि० १३।१२)। उत्क्रामत्सु इतः प्रयत्सु, लोकान्तरं यात्सु।
  • ‘स यदोत्क्रमिष्यन् भवति नैतं घोषं शृणोति’ (श० ब्रा० १४।८।१०।१)। **उत्क्रमिष्यन् प्रैष्यन्। आसन्नमरणः।
  • ‘सप्त मर्यादा इत्युत्तरतोऽग्नेः सप्त लेखा लिखति प्राच्यः। तासु पदान्युत्क्रामयति–इषे त्वा…’ (कौ० सू० ७६।२१-२४)। उत्क्रामयति उत्थाप्य न्यासयति।
  • ‘उत्क्रान्तशैशवौ’ (रघु० १५।३३)। उत्क्रान्तमतिक्रान्तम्, अतीतम्।
  • ‘आर्षं प्रमाणमुत्क्रम्य धर्मं न प्रतिपालयन्’ (भा० वन० ३१।२१)।
  • ‘पूर्वानुपायानुत्क्रम्य चतुर्थ इह दृश्यते’ (रा० ५।३७।२९)। उत्क्रम्य अतिक्रम्य अतीत्य। देवानामुत्क्रमणमसि। निःश्रेणिरित्याह। उत्क्रमो मृतमिति वैजयन्ती।
  • ‘उत्तरेणोत्क्रमयेत्’ (आश्व० गृ० १।८।३)। (वधूमुदकात्)। उत्तारयेदित्याह।

क्रुश्

  • {उत्क्रुश्}
  • क्रुश् (क्रुश आह्वाने रोदने च)।
  • ‘उदक्रोशन् विप्रमुख्या विधुन्वन्तोऽजिनानि च’ (भा० आदि० १८८।२)। उदक्रोशन् उच्चैराक्रन्दन्।
  • ‘उच्चुक्रुशुश्च कौरव्या गान्धर्वान्प्रेक्ष्य पीडितान्’ (भा० वन० २४१।२२)।
  • ‘आगम्य खाण्डवप्रस्थमुदक्रोशत् स पाण्डवान्। ह्रियते गोधनं क्षुद्रैः’ (भा० आदि० २१३।६-७)। उदक्रोशद् उच्चैराह्वयत्।
  • ‘सूतानुच्चुक्रुशुः केचिद्रयान् योजयतेति च’ (भा० आदि० २२०।१८)। उच्चैः स्माहुः। जहार च स विप्राणां रत्नान्युत्क्रोशतामपि। उच्चैराक्रन्दतामित्यर्थः।
  • ‘ततश्च सर्वैरुत्क्रुष्टं…प्रसादं कुरु भूपेति’ (मार्क० पु० १५।४७)। उक्तोऽर्थः।
  • ‘अथोत्क्रुष्टं तदा हृष्टैः सर्वैर्देवैरुदायुधैः’ (भा० वन० २३१।७७)। उत्क्रुष्टमुद्धुषितम्। क्ष्वेडाऽक्रियतेत्यर्थः।
  • ‘मुनिशिष्यैरथोत्क्रुष्टे’ (भा० आश्व०)। आक्रन्दिते सति। उत्क्रोशकुररौ समावित्यमरः। उच्चैः क्रोशतीत्युत्क्रोशः।

क्लिद्

  • {उत्क्लिद्}
  • क्लिद् (क्लिदू आर्द्री भावे)।
  • ‘महानदी चर्मराशेरुत्क्लेदात्ससूजे यतः’ (भा० शां० २९।१२३)। उत्क्लेदात् सारद्रवात्।

क्लिश्

  • {उत्क्लिश्}
  • क्लिश् (क्लिश उपतापे)।
  • ‘यत्किञ्चिद् दोषमुत्क्लेश्य भक्तं कायान्न निर्हरेत्’ (सुश्रुत० सूत्र० २०।२०)। उत्क्लेश्य प्रकुपितं कृत्वा।

क्वथ्

  • {उत्क्वथ्}
  • क्वथ् (क्वथे निष्पाके)।
  • ‘उत्क्वथितैः कल्केः’ (सुश्रुत० २।४१८।१०)। उच्चैः पाचितेरित्यर्थः।

क्षिप्

  • {उत्क्षिप्}
  • क्षिप् (क्षिप प्रेरणे)।
  • ‘बलिमाकाश उत्क्षिपेत्’ (मनु० ३।९०)। ऊर्ध्वं क्षिपेत्, उदस्येत्।
  • ‘संसारदुःखं बहिरुत्क्षिपन्ति’ (भा० पु० ३।५।३८)। उत्क्षिपन्ति निःसारयन्ति। संसारदुःखादात्मानं मोक्षयन्तीत्याह।
  • ‘घटे तस्याः स्कन्धोत्क्षिप्ते’ (विद्ध० )। उत्क्षिप्त उद्गृह्यावस्थापिते।
  • ‘नागफणोत्क्षिप्त-सिंहासननिषेदुषी’ (रघु० १५।८३)। उत्क्षिप्तमुत्तम्भितम् (आसनम्)।
  • ‘गन्धोऽयं पवनोत्क्षिप्तः’ (रा० ६।१६।७)। उत्क्षिप्त ऊर्ध्वं गमितः।
  • ‘शिर उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपत्’ (भा० आदि० १८।१५)। उत्क्षिप्य उदस्य।
  • ‘रौद्रं रूपमथोत्क्षिप्य चक्रे रूपं शिवं शिवः’ (भा० शां० १६६।६४)। उत्क्षिप्य परित्यज्य।
  • ‘उत्क्षेपकग्रन्थिभेदौ करसन्दंशहीनकौ’ (कायौ) (याज्ञ० २।२७४)। वस्त्राद्युत्क्षिपत्यपहरतीत्युत्क्षेपकः।
  • ‘तालवृन्तमुत्क्षेपक इति’ (हर्ष० ४) शङ्करमिश्रसंकेतः।
  • ‘अतिमात्रलोहिततलौ बाहू घटोत्क्षेपणात्’ (शा० १।२७)। उत्क्षेपणमुच्छालनम्।
  • ‘बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता’ (शा० ५।३०)। बाहू उत्क्षिप्य उदस्य ऊर्ध्वं प्रास्य।
  • ‘उत्क्षिप्य तर्जनीम्।’ ऊर्ध्वीकृत्य, उन्नमय्य, उदञ्च्य।

खन्

  • {उत्खन्}
  • खन् (खनु अवदारणे)।
  • ‘उच्चखान च शिरश्छेत्तुमट्टहासम्’ (हर्ष० ३)। कोशान्निष्कृष्टवान् इत्यर्थः।
  • ‘उत्खातखड्गः’ (वेणी० ३)। निष्कृष्टासिरित्यर्थः।
  • ‘उत्खातं परित्यागशल्यम्’ (उत्तर० ३) उद्धृतम्।
  • ‘उत्खातप्रतिरोपिताः’ (रघु० ८।२७)। उत्खाता उन्मूलिताः।
  • ‘उत्खातं निधिशङ्कया क्षितितलम्’ (भर्तृ० ३।५)। उत्खातमुत्पाटितम्।
  • ‘उत्खातलवणो मधुरेश्वरः प्राप्तः’ (उत्तर० ७)। उत्खातोऽधिकारात्प्रच्यावितोऽवरोपितः। उत्खातकेलिः शृङ्गाद्यैर्वप्रक्रीडा निगद्यते। उत्खातमुत्खननम्।
  • ‘उत्खाय दर्पचलितेन सहैव रज्ज्वा’ (शिशु० ५।५९)। उत्खाय उत्पाट्य।

खिद्

  • {उत्खिद्}
  • खिद् (खिदेति छान्दसः)।
  • ‘वपामुत्खिदति’ (भा० श्रौ० ७।१४।११)। निष्कुष्णातीत्यर्थः।
  • ‘एकं पादं नोत्खिदति सलिलाद्धंस उच्चरन्। स चेत्तमुद्धरेदङ्ग न मृत्यु र्नामृतं भवेत्’ (अथर्व० ११।४।२१)॥ उत्खिदति उद्धरति।

गद्

  • {उद्गद्}
  • गद् (गद व्यक्तायां वाचि)।
  • ‘तदेतत्सर्वं मदिरारसगद्गदोद्गदितमिवाभासते’ (स्याद्वाद० १३, हैमः)। उद्गदितमुल्लपितम्।

गम्

  • {उद्गम्}
  • गम् (गम्लृ गतौ)।
  • ‘महानसादुद्गच्छति धूमः।’ निष्क्रामतीत्यर्थः।
  • ‘उद्गतानीव सत्त्वानि बभूवुरमनस्विनाम्’ (रा० २।४८।२)। उद्गतानि निष्क्रान्तानि उत्क्रान्तानि। सत्त्वानि प्राणाः।
  • ‘उन्नाम इत्युद्गतनामधेयः’ (रघु० १८।१९)। उद्गतं प्रथितं प्रख्यातम्। उद्वान्तमुद्गत इत्यमरः।
  • ‘शक्रस्योद्गम्य चरणं प्रस्थितो जनमेजयः। द्विजस्त्रीणां वधं कृत्वा’ (भा० अनु० ६।३६)। उद्गम्य ऊर्ध्वं क्रमित्वा, उच्चैर्गत्वा। ऊर्ध्वगमनेनारोहणमाश्रयणं लक्ष्यते।
  • ‘चरणं स्त्रीदूषणलक्षणं कर्म। पारिजातस्योद्गमः’ (मालती० २)। उद्गम उद्भवः।
  • ‘भवन्ति नम्रास्तरवः फलोद्गमैः’ (शा० ५।१२)। फलप्रसवेन।
  • ‘रोमोद्गमः प्रादुरभूदुमायाः’ (कु० ७।७७)। रोमोद्गमो रोमाञ्चः।
  • ‘हरिततुरणोद्गमशङ्कया मृगीभिः’ (कि० ५।३८)। तृणाङ्कुरभ्रान्त्या।
  • ‘तिरयति दृशोरुद्गमं बाष्पपूरः’ (मालती० १।३५)। उद्गमो विवृतिः।
  • ‘तत्स्याद् उद्गमनीयं यद् धौतयोर्वस्त्रयोर्युगम्’ (अमरः)।
  • गृहीतप्रत्युद्गमनीयवस्त्रा (कु ७।११)। युगग्रहणं प्रायिकाभिप्रायमिति स्वाम्यादयः। उद्गम्यतेऽभिलष्यत इत्युद्गमनीयमिति स्वामी।
  • ‘धौतोद्गमनीयवासिनी’ (दशकु०)। अत्र धौतमित्यतिरिक्तं सुत्यजम्।
  • ‘उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्यमुद्गमयति’ (हेतुमति चेतिसूत्रे चित्रीकरणे प्रापि इति वार्तिके वृत्तिस्थमुदाहरणम्)। सूर्योद्गमनं प्राप्नोति। माहिष्मतीप्राप्तिकालेऽस्य सूर्य उदयत इत्याश्चर्यमिति वाक्यार्थः।

गल्

  • {उद्गल्}
  • गल् (गल स्रवणे)।
  • ‘न्यरुन्धन्नुद्गलद्बाष्पमौत्कण्ठ्यात्’ (भा० पु० १।१०।१४)। उद्गलत् निःस्रवत्।

गाह्

  • {उद्गाह्}
  • गाह् (गाहू विलोडने)।
  • ‘ताः प्राच्य उज्जिगाहिरे’ (का० श्रौ० १३।३।२६)। उन्मज्जन्तीत्यर्थः।

गुर्

  • {उद्गुर्}
  • गुर् (गुरी उद्यमने)।
  • ‘उदगुरिषत द्रुमान्’ (भट्टि० १५।३४)। उदयच्छन्त, उदक्षिपन्निति वा।
  • ‘नम उद्गुरमाणाय चाभिघ्नते च’ (वा० सं० १६।४६)। तर्जनपूर्वकं वाचमुदीरयमाणाय।
  • ‘चित्रेष्वप्युद्गूर्णा निपतिताश्च प्रहारा दृश्यन्ते’ (पा० ३।१।२६ सूत्रभाष्ये)। उद्गूर्णा उत्थिता अभ्युत्थिताः।
  • ‘क्रोधोद्गीर्णगदस्य’ (वेणी० ६।१२)। उद्गूर्णा उद्यता।
  • ‘उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः’ (याज्ञ० २।२१५)। उद्गूर्णे प्रहारार्थमुद्यते दण्डादौ।

गुह्

  • {उद्गुह्}
  • गुह् (गुहू संवरणे)।
  • ‘ऊर्ध्वमेवोद्गूहति’ (रज्जुम्) (श० ब्रा० १।३।१।१७)। उद्गूहति ऊर्ध्वमावर्तयति। ऊर्ध्वमिति वोदिति वा शक्यमेकतरं परिहर्तुम्।
  • ‘नीविमुद्गूहते’ (श० ब्रा० ३।२।१।१५)। विस्रंसयतीत्यर्थः।
  • ‘शाखामुद्गूहति… यजमानस्येति। इषे त्वा’ (तै० सं० १।१।१ इत्यत्र भट्टभास्करः)। उद्गूहति उपगूहति।

गूर्

  • {उद्गूर्}
  • गूर् (गूरी उद्यमने)।
  • ‘उज्जुगूरे ततः शैलं हन्तुमिन्द्रजितं कपिः’ (भट्टि० १४।५१)। उज्जुगूरे उच्चिक्षेप।

गृ

  • {उद्गृ}
  • गृ (गृ निगरणे)।
  • ‘यद् उद् गिरति भ्रमरः’ (मुद्रा० २।११)। उद्गिरति गुञ्जति वमतीति च।
  • ‘भोः फेनं पिबामि यमिमे वत्सा मातॄणां स्तनान् पिबन्त उद्गिरन्ति’ (भा० आदि० ३।४८)। उद्गिरन्ति वमन्ति।
  • ‘घटा हि राज्ञामभिषेककाले सहाम्भसेवापदमुद्गिरन्ति’ (पञ्चत० ३।२६७)। उद्गिरन्ति अवसिञ्चन्ति, गालयन्ति। आहरन्तीति तात्पर्यार्थः।
  • ‘उद्गिरतो यद् गरलं फणिनः पुष्णासि परिमलोद्गारैः’ (भामिनी० १।११)। आमोदवमनैरित्याह।
  • ‘उद्गिरन्निव स्नेहम्’ (शिशु० १४।१)। उद्वमन्। प्रकटयन्।
  • ‘महीपतेः शासनमुज्जगार’ (रघू० १४।५३)। उच्चारयामास।
  • ‘ओङ्कारमुद्गिरन् वक्त्रात् सावित्रीं च तदन्वयाम्। शेषेभ्यश्चैव वक्त्रेभ्यश्चतुर्वेदान् गिरन् बहून्’ (भा० शां० १२८७२)॥ उद्गिरन् उच्चारयन्।
  • ‘निक्षेपणाद्रागमिवोद्गिरन्तौ’ (कु० १।३३)। निरस्यन्तौ निष्ठीव्यन्तौ।
  • ‘उद्गीर्णस्य वावगीर्णस्य वा मन्थो रोमन्थः’ (पा० ३।१।१५ सूत्रभाष्ये)। उद्गीर्णम् उद्वान्तम्, उद्गलितम्।
  • ‘कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वरः’ (गीत० १।७७)। उद्गीर्णः कारितो जनितः। अत्रार्थेऽस्य शब्दस्य प्रयोगो नातीव सङ्गच्छते। नहि कोकिलकलरवैः कठोररवैरप्युत्प्रेक्ष्यमाणैः कर्णज्वरो निष्ठीव्यते नाम। यत्र वमनमिव दुर्निरोधं निःसरणमभिप्रेयते निसर्गजं तत्रैवोद्गिरतेर्व्यवहारो व्यवहारविदां विदितः।
  • ‘सौजन्योद्गारः’ (महावीर० ४)। सौजन्याभिव्यक्तिः।
  • ‘धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति’ (मेघ० ७१)। उद्गारो निर्गतिः।
  • ‘पुरावृत्तोद्गारैरपि च कथिता कार्यपदवी’ (मालती० २।१३)। इतिहासकीर्तनैरित्यर्थः।
  • ‘पुरावृत्तकथोद्गारैः’ (हितोप० ३।१०५)।
  • ‘मदोद्गारसुगन्धिषु कटेषु करिणाम्’ (रघु० ४।५७)। मदोद्गारो मदसलिलस्रुतिः।
  • ‘अभूच्च रुधिरोद्गारैररुणं धरणीतलम्’ (शि० भा०)। रुधिरोद्गारो रक्तस्रवः।
  • ‘दृष्ट्वोद्गारान् सान्नरसान् तृप्त्या परया युताः’ (भा० वन० २६३।२९)। उद्गारः कण्ठगर्जनम्।
  • ‘तेनोद्गारो भवेच्छुद्धो भक्तं प्रति रुचिस्तथा’ (सुश्रुत० २।१७८।२१)। शुद्धममम्लत्वादिविधुरं गलगर्जनम् इत्यर्थः।
  • ‘अविभाव्य निमित्तार्थं श्रुत्वोद्गारमिमं मम’ (अवदा० कुल्माषपिण्डीजातके श्लो० ८)।** उक्तोऽर्थः।**
  • ‘तस्य लाङ्गूल-निनदं पर्वतः स गुहामुखैः। उद्गारमिव गौ र्नदन्नुत्ससर्ज समन्ततः’ (भा० वन० )। उक्तचर एवार्थः।
  • ‘पश्चिमेन तु तं दृष्ट्वा सागरोन्गारसन्निभम्’ (रा० ७।३२।९)। सागरोद्गारो वेलावृद्धिः।
  • ‘कृत्वाप्यनन्यसामान्यमुल्लेखं नोद्गिरन्ति ये’ (कथा० ७८।११५)। नोद्गिरन्ति वाचा न व्याहरन्ति नोदीरयन्ति।
  • ‘प्रलपन्निव सोन्मादमुज्जगार मनोगतम्’ (कथा० ८९।६५)। उज्जगार विववार।
  • ‘क्कणितं मरणायोक्तं पराजयाय प्रवर्तनं कोशात्। स्वयमुद्गीर्णे युद्धं ज्वलिते विजयो भवति खड्गे’ (व० बृ० सं० ५०।५)॥ उद्गीर्णे उद्गते निर्गते।
  • ‘ससंवृतद्वारवती चत्वरोद्गारहासिनी’ (हरि० १।५४।५९)। मथुरा विशिष्यते

गै

  • {उद्गै}
  • गै (कै गै शब्दे)।
  • ‘उदगासीन्म इत्युद्गात्रे’ (ऐ० ब्रा० ५।३४)। उद्गानं साम्न उच्चारणम्।
  • ‘ओमिति ह्युद्गायति’ (छां० उ० १।१।१)।
  • ‘उत प्रास्तौदुच्च विर्द्वा अगायत्’ (ऋ० १०।६७।३)। इह प्रस्तोतुरुद्गातुश्च प्रवृत्ती उक्ते।
  • ‘नवभिरध्वर्युरुद्गायति’ (तै० सं० ७।५।८।२)।
  • ‘यशः स्वमुच्चैरुद्गीयमानं वनदेवताभिः’ (रघु० २।१२)। उच्चैरुद्गीयमानमुच्चैः सस्वरं कीर्त्यमानम्। उच्चैरिति वोदिति वा शक्यमेकतरं त्यक्तुम्।
  • ‘हंसकारण्डवोद् गीता’ (नद्यः) (भा० वन०)। गानशब्दनिर्भरा इत्यर्थः।
  • ‘उद्गीतमेतत् परमं तु ब्रह्म’ (श्वेता० उ० १।७)। उद्गीतं कीर्तितमुपवर्णितम्।
  • ‘तदेतत्ते मयोद्गीतं यथातथम्’ (भा० भीष्म० ६५।६९)। परमं गुह्यमेतन्मया ते कथितमविप्लुतार्थमिति भावः।
  • ‘त्वदधीना हि मे प्राणाः किन्नरोद्गीतभाषिणि’ (भा० आदि० १७२।१०)। उद्गीतं गीतम्।
  • ‘गेयमुद्गातुकामा’ (मेघ० ८४)।
  • ‘गाता चतुर्णां वेदानामुद्गाता प्रथमर्त्विजाम्’ (हरि० १।५४।१०)। उद्गाता सामग ऋत्विग्विशेषः।
  • ‘बृहस्पति र्वै देवानामुदगायत्’ (पञ्च० ब्रा० ६।७।१)। उदगायत् औद्गात्रमकरोदित्यर्थः।

ग्रन्थ्

  • {उद्ग्रन्थ्}
  • ग्रन्थ् (ग्रन्थ सन्दर्भे)।
  • ‘लताप्रतानोद्ग्रथितैः स केशैः’ (रघु० २।८)। उद्ग्रथितैरुन्नद्धैः।
  • ‘दर्भस्तम्बान् उद्ग्रथ्य’ (ऐ० ब्रा० ५।२३)। उक्तोऽर्थः।
  • ‘ज्यां त्रिरुद्ग्रथ्य बध्नाति’ (कौ० सू० ३५)। उद्ग्रथ्य आवर्त्य।
  • ‘कर्माशयं ग्रथितमुद्ग्रथयन्ति सन्तः’ (भा० पु० ४।२२।३९)। उद्ग्रथयन्ति ग्रन्थिभेदनं कुर्वन्ति। ग्रथ इति कविकल्पितो धातुः।

ग्रह्

  • {उद्ग्रह्}
  • ग्रह् (ग्रह उपादाने)।
  • ‘उदग्रभं परिपानाद् यातुधानं किमीदिनम्’ (अथर्व० ४।२०।८)। निरकृक्षम् इत्यर्थः।
  • ‘ब्रह्मणैवात्मानमुद्गृह्णाति ब्रह्मणा भ्रातृव्यं निगृह्णाति’ (तै० सं० ५।४।६।६)। उद्गृह्णाति उन्नयति उत्कर्षति। निगृह्णाति बाधते न्यञ्वयति, अवनमयति, निनयति।
  • ‘तृणानि वोद्गृह्णाति प्रतिसंस्कृतम्’ (का० श्रौ० ५।५।७)। उच्चिनोतीत्यर्थः।
  • ‘भूतेभ्यस्त्वेति स्रुचमुद् गृह्णाति’ (तै० सं० ६।२।८।३)। उद्गृह्णाति उद्यच्छते।
  • ‘अथ पुरुषशीर्षमुद्गृह्णाति’ (श० ब्रा० ७।५।२।१३)।
  • ‘शक्तिं चोग्रामुदग्रहीत्’ (भट्टि० १५।५२)। उक्तोऽर्थः। असौ वा आदित्य उद्ग्राभः। एष निग्राभः।
  • ‘उद्यन्वा एतद् यजमानमुद्गृह्णाति, निम्रोचन्नस्य भ्रातृव्यं निगृह्णाति’ (मै० सं० ३।३।८)। उद्गृह्णाति उन्नमयति। (निगृह्णाति अवनमयति)। वाक्यार्थस्य परार्थत्वे हिशब्दोऽयं प्रयुज्यते।
  • ‘उद्गृह्णाति च वाक्यार्थमिन्दवो वामुशन्ति हि’ (वे० मा० निपातानु० १)। उद्गृह्णाति समर्थयते।
  • ‘आस्तीर्णयोरन्तान् उद्गृह्णाति’ (का० श्रौ० १६।३।५)। कृष्णाजिन पुष्करपर्णयोरन्तान् ऊर्ध्वमादत्त इत्युक्तं भवति।
  • ‘उदेनं भगो अग्रभीत्’ (अथर्व० ८।१।२)। उदग्रभीत् उदग्रहीत् मृत्युमुखान्निरमुवत्, आरक्षीत्, पर्यत्रास्त।
  • ‘अवर्षीर्वर्षमुदु षू गृभाय’ (ऋ० ५।८३।१०)। वर्षमुद्गृभाय=वर्षमुद्गृहाण। विरमयेत्यर्थः।
  • ‘यद् वृष्ट्वोद्गृह्णाति तद्धेमन्तस्य’ (श० ब्रा० २।२।३।८, वा० सं० २२।२६)। उद्गृह्णाति विरमति।
  • ‘उद्गृह्णाति तन्निधनम्’ (छां० उ० २।१५।१)। उक्तोऽर्थः।
  • ‘रेतस्यायास्त्रिरुद् गृह्णाति’ (लाट्या श्रौ० ७।१२।३)। विरमति मध्ये विरामं करोतीत्यर्थः।
  • ‘यो दीक्षत एतैरेव तद्यजुर्भिरुद्गृभ्णीते’ (श० ब्रा० ३।१।४।१)। उद्गृभ्णीत उत्तिष्ठति। अकर्मकोत्रोद् ग्रहिः।
  • ‘उद्गृभ्णीते वा एषो स्माल्लोकाद् देवलोकमभि’ (श० ब्रा० ३।१।४।१)। उक्तोऽर्थः।
  • ‘अथ नीविमुद्गृहते’ (श० ब्रा० ३।२।१।१५)। उद्गृहते=उद्गृह्णीते बध्नाति।
  • ‘जितमुद्ग्राहयेज्जेत्रे’ (याज्ञ० २।२००)। सभिको जितं द्रव्यं पराजितादुद्धरेत् इत्यर्थः।
  • ‘विशेषविदुषः शास्त्रं यस्तवोद्ग्राह्यते परः’ (शिशु० ३।७५)। उद्ग्राह्यत उपन्यस्यते। उद्ग्राहितमुपन्यस्तमिति वैजयन्ती।
  • ‘मोज्जिग्रहः सुनीतानि’ (भट्टि० १५।२०)। मा उज्जिग्रहः=मा स्मोद्ग्राहयः=मोपन्यस्थः। सुनीतानि सनीतिवचनानि।
  • ‘उद्गृह्णते स्वाहा’ (वा० सं० २।३६)।
  • ‘पर्णोटजाग्रविश्रान्तशुकोद्ग्राहितशास्त्रदृक्’ (यो वा० (६ (२) १८१।१४)। उद्ग्राहितमुच्चारितम्, उदाहृतम्।
  • ‘विचारितमलं शास्त्रं चित्रमुद्ग्राहितं मिथः’ (यो० वा० ४।५७।२८)। उद्ग्राहितं सम्यग्गृहीतं साध्ववगतम्।
  • ‘उद्गृहीतालकान्ताः’ (मेघ० ८)। ऊर्ध्वं धृता अलकान्ताः चूर्णकुन्तलान्ता याभिस्ताः।
  • ‘उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन्’ (वा० सं० १७।६४)। उद्ग्राभमुत्कर्षम्। निग्राभमपकर्षम्।
  • ‘वाजस्य प्रसव उद्ग्राभेणोदग्रभीत्’ (वा० सं० १७।६३)। उद्ग्राभ उद्ग्रहणम्। ऊर्ध्वं हि गृहीत्वा दीयत इत्युद्ग्रहणं दानम्।
  • ‘ततो घटोत्कचः खड्गमुद्गृह्याद्भुतदर्शनम्’ (भा० द्रोण० १७४।३६)। कोशान्निष्कृष्येत्यर्थः। उद्धृत्येति पाठान्तरम्।
  • ‘बाहू उद्गृह्णाति सुवर्देवाँ अगन्म’ (बौ० श्रौ० ११।११)। उद्गृह्णाति उद्यच्छति उन्नयति।
  • ‘तान्यत्राद् गृह्णीयात्’ (ऐ० ब्रा० ७।३३)। उद्गृह्णीयादूर्ध्वं धारयेत्।
  • ‘ब्रह्मणैवात्मानमुद्गृह्णाति’ (तै० सं० ५।४।७)। उद्गृह्णाति उच्छ्रितं करोति।
  • ‘प्रजापतिः प्रजा असृजत सोऽताम्यत्। तस्मै वाग्ज्योतिरुदगृह्णात्’ (पञ्च० ब्रा० १०।३।१)। उदगृह्णात् उत्कृष्य गृहीतवती।
  • ‘उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन्’ (पा० ३।३।३५ सूत्रे भाष्ये)। स्रुगुद्यमनं कृत्वेत्यर्थः।

घट्

  • {उद्घट्}
  • घट् (घट चेष्टायाम्)।
  • ‘दहाम्यहं युष्मान्सदस्युद्घाटयामि वा’ (कथा० ४।७८)। उद्घाटयामि रहस्यं वो विवृणोमि। रहस्यं भिनद्मि। गुह्यं सूचयामि।
  • ‘निरयनगरद्वारमुद्घाटयन्ती’ (भर्तृ० १।६२)। उद्घाटयन्ती विवृण्वती, अपिधानमपनयन्ती।
  • ‘द्वारे पुरस्योद्घटितापिधाने’ (कु० ७।५३)।
  • ‘परस्परस्य मर्माण्युद्घाटितवन्तौ’ (पञ्चत०)। उक्तोऽर्थः।
  • ‘कार्यमुद्घाटितं क्वापि मध्ये विघटते यतः’ (हितोप० ४।२)। उद्घाटितमारब्धम्।
  • ‘सूत्रादिभिर्वा तरुणास्थिमर्मण्युद्घाटिते यः क्षवथुर्निरेति’ (सुश्रुत० २।३७०)। उद्घाटिते विवृते।

घट्ट्

  • {उद्घट्ट्}
  • घट्ट् (घट्ट चलने)।
  • ‘तत्समापन्नौ पाशावुद्घट्टयामास’ (अवदा० जा० २२)। उद्घट्टयामास निर्दुधाव।
  • ‘तत्रावश्यं वलयकुलिशोद्घट्टनोद्गीर्णतोयम्’ (मेघ० ६३)। उद्घट्टनं सङ्घर्षः।

घृष्

  • {उद्घृष्}
  • घृष् (घृषु सङ्घर्षे)।
  • ‘(आसनम्) चूडामणिभिरुद्घृष्टपादपीठं महीक्षिताम्’ (रघु० १७।२८)। उद्घृष्टं मृदितम्।
  • ‘दण्डोद्धृष्ट घण्टा–’ (राज० २।९९)। उद्घृष्टा ताडिता। उच्चारणे दोषविशेष उद्घृष्टमुच्यते।
  • ‘यस्योद्घर्षणलोष्टकैरपि सदा पृष्ठे न जातः किणः’ (मृच्छ० २।११)। उद्घर्षणमुच्चैर्घर्षणम्, अधिकं घर्षणम्।
  • ‘उद्घर्षणं तु विज्ञेयं कण्डूकोष्ठानिलापहम्’ (सुश्रुतै० २।१४०।१४)। उद्घर्षणं मर्दनं संवाहनम्।

चर्

  • {उच्चर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘उच्चचार निनदोऽम्भसि तस्याः’ (रघु० ९।७३)। उच्चचार उत्तस्थौ।
  • ‘देहत्यागस्य गगनादुच्चचारेति भारती’ (राज० १।३१०)। उच्चचार उदीराञ्चक्रे, उदैर्त, उदतिष्ठत्, उदभवत्।
  • ‘एषा सृतिः सती संचरणी यैषा हृदयादूर्ध्वा नाड्युच्चरति’ (श० ब्रा० १४।६।११।३)। ऊर्ध्वं प्रतिष्ठत इत्याह।
  • ‘यथोर्णनाभिस्तन्तुनोच्चरेत्’ (श० ब्रा० १४।५।१।२३)। उच्चरेत् संचरेत्, विहरेत्।
  • ‘बाष्पमुच्चरति’ (पा० १।३।५३ सूत्रे वृत्तौ)। उद्गच्छति, ऊर्ध्वं गच्छति।
  • ‘तिरस्कृत्योच्चरेत्काष्ठलोष्टपत्रतृणादिना’ (मनु० ४।४९)। मूत्रपुरीषोत्सर्गं कुर्यादित्यर्थः।
  • ‘बलैश्चलच्चरणविधूतमुच्चरद्घनावलीरुदचरत क्षमारजः’ (शिशु० १७।५२)। उदचरत उदलङ्घत अत्यक्रामत्।
  • ‘गुरुवचनमुच्चरते’ (पा० १।३।५३ सूत्रवृत्तौ)। उच्चरते लङ्घते। अतिवर्तते।
  • ‘ये समुदाचारमुच्चरन्ते तेऽवगीयन्ते’ (अस्मत्कृतौ वा० मुक्ता०)।
  • ‘पत्न्यः पतीनुच्चरन्त पत्नीश्च पतयस्तथा’ (भा० मौ० २।११)। उच्चरन्त=उदचरन्त=अतिचरितवत्यः, व्यभिचरितवत्यः।
  • ‘अपि च प्रातिपदिकाद् उच्चरन्ती द्वितीयादिविभक्तिः प्रातिपदिकार्थविशेषिका भवतीत्याह’ (मी० शा० भा० १।१।७)। उच्चरन्ती उत्पद्यमानेत्यर्थः।
  • ‘एकं पदं नोत्खिदति सलिलाद्धंस उच्चरन्’ (अथर्व० ११।४।२१)। उच्चरन् निष्क्रामन्, उद्यन्, उदयमानः।
  • ‘ज्योक् पश्येम सूर्यमुच्चरन्तम्’ (अथर्व० ६।६२।३)।
  • ‘मा ते दृशन्सूर्यमुच्चरन्नम्’ (अथर्व० ८।४।२४)। दर्शन्निति लोके।
  • ‘दाने तपसि सत्ये च यस्य नोच्चरितं यशः। विद्यायामर्थलाभे वा मातुरुच्चार एव सः’ (भा० विदुलावचनम्)॥ उच्चरितमुत्थितमभ्युदितम्। उच्चारो विष्ठा।
  • ‘मूत्रोच्चारौ न कारयेत्’ (सुश्रुत० ४।२।१८)।
  • ‘स्कन्धोच्चारणनम्यमानवदनप्रच्योतितोये घटे’ (प्रतिमा० १।५)। उच्चारणमुत्क्षेपणम्।
  • ‘यद्युच्चरेत् समापिपयिषेत्’ (बृह० उ० १।५।२३)। यद्युच्चरेत् आरभेत। प्राणोपासनमिति शेषः।
  • ‘तावत्तत्रोच्चचारैवं भारती गगनाङ्गनात्’ (कथा० ८०।४३)। उच्चचार उद्गता।
  • ‘उच्चचार पुरस्तस्य गूढरूपा सरस्वती’ (रघु० १५।४६)। उच्चचार व्याजहार।
  • ‘आदित्यमुच्चारं करोति’ (तै० सं० २।३।१२।२)। उच्चारम् उच्छ्रिताचारम्, उपरि चरन्तम्।

चल्

  • {उच्चल्}
  • चल् (चल कम्पने)।
  • ‘नोच्चचालासनादिन्द्रः’ (भा० पु० ६।७।८)। नोत्तस्थावित्यर्थः।
  • ‘अनुच्चलन्नपि रथाद् भ्रूभङगेन चकार सः। विलोलाँल्लोमकम्पेन दिङ्नाग इव भूधरान्’ (राज० ८।१५८)॥ अनुच्चलन्=अनुत्तिष्ठन्। स्वस्याधिकरणमविजहत् इत्यर्थः।
  • ‘सं यजत्रैरङ्गानीत्यंसयोरुच्चलयोः’ (आप० श्रौ० ७।५।१४।२)। उच्चलयोर् अंसयोर्ये चलस्थाने अंसकोटी तयोः (अञ्जनम्)।

चि

  • {उच्चि}
  • चि (चिञ् चयने)।
  • ‘सावित्र्या सार्धमुच्चितार्चनकुसुमा सस्नौ’ (हर्ष० २)। उच्चितानि अवचितानि। उच्वयः समुच्चयः।
  • ‘एकस्थसौन्दर्यदिदृक्षयेव रूपोच्चयेन मनसा विधिना कृता नु’ (शा० २।९)। अचलशैलशिलोच्चयाः (अमरः)। नीवीबन्धोप्युच्चय उच्यते। तथा च हरिवंशे प्रयोगः–चन्द्रार्ककिरणोद्द्योतं गिरिकूटं शिलोच्चयम् (हरि० १।४२।२४)। शिला मनःशिला, तद्वर्ण उच्चयो नीवीबन्धनं यस्य तम्। उच्चैस्तरेप्युच्चयः समूहे नीविबन्धन इति मेदिनी।
  • ‘निबद्धदृष्टिः शिथिलाकुलोच्चया’ (कि० ८।१५)। नारीकट्यंशुकग्रन्थौ नीवी स्यादुच्चयोऽपि चेति मार्तण्ड इति मल्लिः।
  • ‘वसन्तसंभृतानीह पुष्पाण्युच्चिनुते स्वयम्’ (कथा० ८९।१०)। उच्चिनुते संगृह्णीते।

चृत्

  • {उच्चृत्}
  • चृत् (चृती हिंसाग्रन्थनयोः)।
  • ‘चर्म चरतेर्वा। उच्चृत्तं भवतीति वा’ (नि० २।५)। उच्चृत्तमुत्कृत्तं (शरीरात्)।

च्यु

  • {उच्च्यु}
  • च्यु (च्युङ् गतौ)।
  • ‘ता अनुष्ठ्योच्च्यावयतात्’ (ऐ० ब्रा० २।६)। उद्धरतेत्याह। अनुष्ठिर्यत्न इति षड्गुरु०।

छद्

  • {उच्छद्}
  • छद् (छद अपवारणे)।
  • ‘प्रसाधनोच्छादनस्नापनोच्छिष्टभोजनानीति गुरोः’ (बौ० ध० १।२।२।३६)। उच्छादनं छत्रधारणं (गुरोरुपरि)।
  • ‘स्नापकोच्छादका वैद्याः’ (रा० २।८६।१४)। उच्छादका अङ्गमर्दकाः। उच्छादनं समुल्लेखोद्वाहनोद्वर्तनेषु चेति विश्वः।

छिद्

  • {उच्छिद्}
  • छिद् (छिदिर् द्वैधीकरणे)।
  • ‘नोच्छिन्द्यादात्मनो मूलं परेषां चातितृष्णया’ (भा० )। नोच्छिन्द्यात् नोद्वृहेत्, नोत्सादयेत्।
  • ‘उच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा’ (पञ्चत० २।८९)। अस्तं यान्तीत्याह।
  • ‘चतुर्धा ब्रह्मौदनं व्युद्धृत्य प्रभूतेन सर्पिषोपसिच्य कर्षन्ननुच्छिन्दन्’ (आप० श्रौ० ५।१।५।९)। अनुच्छिन्दन् अविमुञ्चन् अनुसृजन्। यावद् ऋत्विजो गृह्णन्ति तावदनुत्सृजन्निति रुद्रदत्तः।
  • कर्षन् भूमेरनुत्क्षिप्य सारयन्। नक्ताहृतमनुच्छिन्नम्… अम्बु’ (वि० पु० ३।१६।१०)। उच्छिन्ना वियोजिता विश्लेषिता व्यपवृक्ताः।
  • ‘अविनाशी वा अरे अयमात्माऽनुच्छित्तिधर्मा’ (शा० ब्रा० १४।७।३।१५)।
  • ‘परोच्छित्त्या लभ्यामभिलषति लक्ष्मीं हरिसुते’ (कि० १०।६३।) उच्छित्तिरुत्सादः।
  • ‘यस्मिन्नुच्छिद्यमाने तु रिपुरन्यः प्रवर्तते। न तस्योच्छित्तिमातिष्ठेत् कुर्वीतैनं स्वगोचरम्’ (का० नी० सा० ८।६७)॥ उच्छित्तिर्निर्मूलनम्, उज्जासनम्। स्वगोचरं स्वायत्तम्।
  • ‘आशातन्तुर्न च कथयताऽत्यन्तमुच्छेदनीयः’ (मालती० ९।२६)। उच्छेदनीयो विलोपनीयः।
  • ‘पुत्रस्य चरणोच्छेदो विहितः कारणं विना’ (कथा० १८।१९)। उच्छेद उत्कर्तनम्।
  • ‘सकलदायादानामुच्छेदं करिष्यामि’ (पञ्चत०)। उच्छेदं निर्मूलनम्।
  • ‘उच्छेत्तारं च धर्माणां परदाराभिमर्शनम्’ (रा० ३।३२।१२)। उच्छेत्तारं विनाशयितारम्।
  • ‘निदानोच्छेदेन हि निदानिन उच्छेदः शक्यते कर्तुम्’ (पा० ३।१।९४ सूत्रे न्यासे)। उच्छेद उन्मूलनमुत्सादो विनाशः।

जन्

  • {उज्जन्}
  • जन् (जनी प्रादुर्भावे)।
  • ‘उदुस्रिया जनिता यो जजान’ (ऋ० ३।१।१२)। उज्जजान ऊर्ध्वं जनयामास। उस्रियाः प्रक्षिप्ता आहुतयः।
  • ‘उज्जायतां परशु र्ज्योतिषा सह’ (ऋ० १०।४३।९)। ** ऊर्ध्वं प्रादुर्भवतु (मेघविदारणार्थम्) इत्याह।**
  • ‘उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाऽजनि’ (ऋ० १।७४।३)। उदजनि उदपादि उत्पन्नः।
  • ‘उज्जातमिन्द्र ते शवः’ (ऋ० ८।६२।१०)। उज्जातमौत्कट्येन प्रादुर्बभूव। शवो बलम्।
  • ‘प्रियः सूर्ये प्रियो अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः’ (ऋ० १०।४५।१०)। उच्छब्द इह विशेषकृन्न। उज्जातं जातम्।
  • ‘यतो देवा उदजायन्त विश्वे’ (ऋ० ४।१८।१)। उदजायन्त उदभवन्।

जस्

  • {उज्जस्}
  • जस् (जसु हिंसायाम्)।
  • ‘स त्वमुज्जास्यमानासु प्रजासु’ (रा० ७।१०४।११)। उज्जास्यमानासु हिंस्यमानास। उच्छब्दो जासयतिना साहचर्यं द्योतयति, नार्थं विशिनष्टि। एतत्साहचर्यमपभ्रंशेपि लक्ष्यत इत्यव्यभिचारीदम्।

जि

  • {उज्जि}
  • जि (जि जये, जि अभिभवे)।
  • ‘धाता षडक्षरेण षड् ऋतूनुदजयत्’ (तै० सं० १।७।११।१)। उदजयत्=व्यजयत।
  • ‘स यो न उज्जेष्यति तस्य न इदं भविष्यति’ (श० ब्रा० ५।१।१।३)। उज्जेष्यति अभिविष्यति। उच्छब्दो नार्थे विशेषं करोति।
  • ‘आर्यं वर्णमुज्जापयन्ति’ (पञ्च० ब्रा० ५।५।१७)। विजेतारं कुर्वन्तीत्याह।
  • ‘तेषामग्निरेवोदजयत्’ (जै० ब्रा० १।१०८)। उदजयत् उच्चैरजयत्, उत्कृष्टं जयमलभत।
  • ‘देवा वा ओषधीषु पक्वास्वाजिमयुः। स इन्द्रो ऽ वेदग्नि र्वा उज्जेष्यतीति’ (काठक० १२।७)। उक्तोऽर्थः।
  • ‘अग्नेरहमुज्जितिमनूज्जेषम्’ (तै० सं० १।६।४।१)। उच्छ्रित ऊर्ध्वलोकविषयो वा जय उज्जयः।

जीव्

  • {उज्जीव्}
  • जीव् (जीव प्राणधारणे)।
  • ‘उदजीवत् सुमित्राभूः’ (भट्टि० १७।९५)। उदजीवत् समजीवत् पुनः प्राणानापद्यत।

जृम्भ्

  • {उज्जृम्भ्}
  • जृम्भ् (जृभि गात्रविनामे)।
  • ‘सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भते’ (हनुमन्नाटके ५।१८)। उज्जृम्भत उदयते।
  • ‘उज्जृम्भमाण घनको समुद्भवेन कम्पेन…’ (पारिजात० ४।२१)। उज्जृम्भमाणो वर्धमानः।

ज्वल्

  • {उज्ज्वल्}
  • ज्वल् (ज्वल दीप्तौ)।
  • ‘या हुता (आहुतयः) उज्ज्वलन्ति’ (श० ब्रा० १४।६।१।१०)। उज्ज्वलन्ति ऊर्ध्वं ज्वलन्ति। उदर्चिषो भवन्ति। ऊर्ध्वशिखाः सत्यो ज्वलन्ति।
  • ‘अथाग्नि नोदज्वलत्’ (तै० सं० २।६।९।४)। नोदज्वलत् नोददीप्यत।

डी

  • {उड्डी}
  • डी (डीङ् विहायसा गतौ)।
  • ‘उड्डीनम्’ (भा० कर्ण० ४१।२६)। ऊर्ध्वगमनम् इत्यर्थः।

तक्ष्

  • {उत्तक्ष्}
  • तक्ष् (तक्ष त्वक्ष तनूकरणे)।
  • ‘उत्तक्षतं स्वर्यं पर्वतेभ्यः’ (अथर्व० ८।४।४)। उत्तक्षतम् उद्धृत्य तक्षतम् संभरतम्। स्वर्य्यं स्वरणार्हमायुधम्।

तन्

  • {उत्तन्}
  • तन् (तनु विस्तारे)।
  • ‘दिवो मूलमवततं पृथिव्या अध्युत्ततम्’ (अथर्व० २।७।३)। उत्ततम् ऊर्ध्व विस्तृतम्।
  • ‘यदुत्ततं नि तत्तनु’ (अथर्व० ७।९५।३)। उत्ततमुन्नतम्।
  • ‘उत्तानय दृशं सन्तु दिशः कुवलयाकुलाः’ (वृ० क० म० वे० ३१, श्लो० १२३)। उत्तानय उल्लासय। ऊर्ध्वं विलोकयेत्युक्तं भवति।
  • ‘उत्ता षुन कोशविग्रहबलं पद्येषु यत्र श्रितम्’ (भारतभावदीपे हरि० भवि० सप्तमाध्यायस्योपक्रमे नीलकण्ठपद्यम्)। उत्तानेषु विशदेषु।

तप्

  • {उत्तप्}
  • तप् (तप सन्तापे)।
  • ‘उत्तपति स्वर्णं स्वर्णकारः’ (पा० १।३।२७) सूत्रे वृत्तिः। उत्तपते रविः। उद्दीप्यत इत्यर्थः। उत्तपते पाणिम्। उत्तपते पृष्ठम्। तपतीत्येवार्थः। नार्थ उदा।
  • ‘अनिशं निजैरकरुणः करुणं कुसुमेषुरुत्तपति यद्विशिखैः’ (शिशु० ९।६७)। उत्तपति सन्तापयति पीडयति कदर्थयति।
  • ‘तीव्रमुत्तपमानोऽयमशक्यः सोढुमातपः’ (भट्टि० ८।१५)। उत्तपमानश्चण्डं तपन्।
  • ‘प्रत्यूहः सर्वसिद्धीनामुत्तापः प्रथमः किल’ (हितोप० ३।४५)। उत्तापः सन्तापः खेदः संज्वरः।

तम्

  • {उत्तम्}
  • तम् (तमु ग्लानौ)।
  • ‘एकाङ्गेभ्यो विभिन्नेभ्यो बिभ्यदुद्भिन्नसंभ्रमः। उदताम्यत्तथा चिन्तालुप्तसंविद् दिवानिशम्’ (राज० ६।१२४)॥ उदताम्यत् पर्यग्लायत्।

तस्

  • {उत्तस्}
  • तस् (तसि भूव अलङ्करणे)।
  • ‘उत्तंसयिष्यति कचांस्तव देवि भीमः’ (वेणी० १।२१)। उत्तंसयिष्यति संयंस्यति।
  • ‘पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे इत्यमरः।’ इह उच्चावश्च समानार्थकाविति विस्पष्टम्।

तिज्

  • {उत्तिज्}
  • तिज् (तिज निशाने)।
  • ‘अश्वमुत्तेजयामास’ (कथा० १८।९१)। बलवत् प्रयुयुजे प्रेरयामास।
  • ‘तानुत्तेजयामि सुहृदो यदि मोक्षणाय’ (मृच्छ०)। उक्तोऽर्थः।

तुद्

  • {उत्तुद्}
  • तुद् (तुद व्यथने)।
  • ‘विद्वेषमुत्तुदति चेतसि नासिका मे’ (अवदा० ना० १३)। उत्तुदति उत्पादयति।

तृद्

  • {उत्तृद्}
  • तृद् (उतृदिर् हिंसानादरयोः)।
  • ‘तं पञ्चदश स्तोमो मध्यत उदतृदत्’ (तै० ब्रा० २।२।३।१)। अच्छिनदित्यर्थः।

तॄ

  • {उत्तृ}
  • तॄ (तॄ प्लवनतरणयोः)।
  • ‘उदतारिषुरम्भोधिम्’ (भट्टि० १५।३३)। पारमगमन् इत्यर्थः।
  • ‘पक्वमुत्तारयेत्पश्चादनिरुद्धेन देशिकः’ (अग्नि पु० २७।१२)। उत्तारयेत्=अधः श्रयेत्।
  • ‘इमानि हि प्राणयन्ति सृजन्युत्तारयन्ति च’ (भा० शां० )।
  • ‘यस्मादुत्तार्यते पापात्’ (भा० उ० )। उत्तार्यते निर्मोक्ष्यते।
  • ‘पल्वलोत्तीर्णवराहयूथानि’ (रघु० २।१७)। उत्तीर्णानि निर्गतानि।
  • ‘नरकादुत्तीर्णः कोपि नारकी भविष्यति’ (प्र० च०)। उत्तीर्णो निर्गतोऽवतीर्णः।
  • ‘तद् गृह उत्तीर्णौ’ (वेताल०)। उत्तीर्णौ=अवतीर्णौ।
  • ‘व्यसनमहार्णवादपारादुत्तीर्णम्’ (मृच्छ० १०।४९)। उत्तीर्णं निर्गतम्। अभिषेकोत्तीर्णः स्नात्वा नदीजलान्निर्गतः।
  • ‘आयुरुत्तीर्णः’ (हरि०)। आयुषोऽन्तं गतः। उपरत इत्यर्थः।
  • ‘जलादुत्तीर्य’ (भा० वन० ११)। बहिरागम्य।
  • ‘अज्ञानभुक्तं तूत्तार्यम्’ (मनु० ११।१६०)। वमितव्यमित्याह।
  • ‘यो घोरामापदं प्राप्य नोत्तारमधिगच्छति’ (भा० उ० १२४।२७)। उत्तार उत्तरणं निस्तरणम्।
  • ‘तेषां श्रवांस्युत्तिर’ (ऋ० १।११।७)। वर्षयेत्यर्थः।
  • ‘जलनिधिजलमध्यादेष उत्तार्यतेऽर्कः’ (शिशु० ११।४४)। उत्तार्यत उद्ध्रियत उन्नीयते।
  • ‘तत्रायमुत्तीर्य करेणुकायाः सुवासिनीसाधितमङ्गलश्रीः’ (धर्मशर्म्मा० १७।१०४)। उत्तीर्य अवतीर्य। अवस्यार्थ उदः प्रयोगो व्यवहारेण समर्थनां न लभते, तेन परिहार्योऽयं व्यवहारव्यभिचारमनिच्छद्भिः।

त्रस्

  • {उत्त्रस्}
  • त्रस् (त्रसी उद्वेगे)।
  • ‘विघ्ना हि बहवो लोके वालानुत्त्रासयन्ति हि’ (हरि० २।५।७)। उत्त्रासयन्ति उद्वेजयन्ति।

दंश्

  • {उद्दंश्}
  • दंश् (दंश दशने)।
  • उद्दंशः। मशकः। खट्वामलः। यूका।

दल्

  • {उद्दल्}
  • दल् (दल विशरणे)।
  • ‘तालुदेशमथोद्दाल्य ब्राह्मणस्य महात्मनः। ज्योतिर्ज्वाला सुमहती जगाम त्रिदिवं तदा’ (भा० शां० २००।२०)। उद्दाल्य विशीर्य।

दस्

  • {उद्दस्}
  • दस् (दसु उपक्षये)।
  • ‘“उद्दासी” इति ग्रह्यादिषु’ (पा० ३।१।१३४) पठितम्। प्रायेण दसिरुपपूर्वः प्रयोगमवतरन्दृष्टः, क्वचिदुत्पूर्वोपीतीतः प्रयोगाज्जायते।

दह्

  • {उद्दह्}
  • दह् (दह भस्मीकरणे)।
  • ‘साग्निरुद्दहति’ (यो० सू० ३।४५ सूत्रभाष्ये)।

दा

  • {उद्दा}
  • दा (डुदाञ् दाने)।
  • ‘उद्दाय मृधे स्वरिक्थं परात्सुपर्णाविव वज्रिवक्त्रात्’ (भा० पु० ३।१।३९)। उद्दाय आच्छिद्य।

दिश्

  • {उद्दिश्}
  • दिश् (दिश अतिसर्जने, दिशिरु??चारणक्रिय इति भाष्यकारः)।
  • ‘उदग् उद्दिशति’ (भा० श्रौ० ६।१३।३)। उद्दिशति उन्नयति उन्नमयति। अग्निमिति शेषः।
  • ‘प्रलये च तमभ्येति तस्माद् उद्दिश्यते पुनः’ (भा० शां० २८५।८)। तस्माद्दुदिश्यते तस्माज्जायत इति शब्दमात्रेणोच्यते न तु वस्तुतस्ततो जायत इत्यभिसन्धिः।
  • ‘प्रागुदीचीमुद्दिशति’ (शां० श्रौ० २।९।२२)। संकेतयतीत्यर्थः।
  • ‘कारणं वान्यद् उद्दिशेत्’ (मनु० ८।५२)। कथयेदित्यर्थः।
  • ‘कथं मामेवोद्दिशति’ (शा०)। मामेव लक्ष्यीकृत्य ब्रवीतीत्यर्थः। उपहतविवेका लोका यदुद्देश्यं शिक्षाभिरुचिस्तां नोद्दिशन्ति यदनुद्देश्यं जीविकालाभमात्रं तद् उद्दिशन्ति। (इति कस्य चिद् विमर्शकस्य सुविचिन्तितं वचः)। उद्दिशन्ति लक्ष्यं कुर्वन्ति।
  • ‘प्रथमोद्दिष्टमास्पदम्’ (कु० ६।३५)। पूर्वमुदाहृतम्।
  • ‘ततः प्रविशति यथोद्दिष्टव्यापारा शकुन्तला।’ यथोदिष्टं यथावर्णितम्।
  • ‘उद्दिष्टामुपनिहितां भजस्व पूजाम्’ (मालती० ६।२५)। उद्दिष्टा त्वदर्थे सङ्कल्पिताम्।
  • ‘सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम्’ (भर्तृ० १।५६)। उद्दिष्टमुपदिष्टम्। अनेडमूक उद्दिष्टः शठ इति मेदिनी। उद्दिष्टः कथित उक्त उदाहृत उदीरितः।
  • ‘पन्थानमृषिणोद्दिष्टम्’ (रा० २।५६।४)। उद्दिष्टं निर्दिष्टमुपदिष्टम्। विशिष्योदाहृतम्।
  • ‘यदन्यदपि नोद्दिष्टं तत्रापि क्रियतां मतिः’ (रा० ४।४४।१२७)। नोद्दिष्टमनुक्तम्, अननुशिष्टम्।
  • ‘काले सांवत्सरोद्दिष्टे’ (बृ० सं० ५२।९८)। दैवज्ञेनावधार्य कथित इत्याह।
  • ‘त्वं साधुभिरुद्दिष्टः प्रथममेव चक्रवर्तिनं पुत्रं जनयिष्यसीति’ (शा० ५)। उद्दिष्ट आदिष्टः=भविष्यद्वचनमुक्तः।
  • ‘क्रान्तिश्च गतिरुद्दिष्टा’ (मार्क० पु० २६।१७)। उद्दिष्टा कथिता।
  • ‘पलायनेन चोद्दिष्टाः प्राणान् रक्षामहे वयम्। एकेन बहवो भग्ना यशो नाशं गमिष्यति’ (रा० ६।६६।२७)॥ उद्दिष्टाः प्रख्याताः प्रसिद्धाः। समासवाक्यमुद्देशः। विद्याविनयहेतुरिन्द्रियजयः। व्यासवाक्यं निर्देशः।
  • ‘कर्णत्वगक्षिजिह्वाघ्राणेन्द्रियाणां शब्दस्पर्शरूपरसगन्धेष्वप्रतिपत्तिरिन्द्रियजयः’ (कौ० अ० १५।१।१८०)। कश्चित्कञ्चिदाह देवदत्तं मे भवानुद्दिशत्विति। स इहस्थः पाटलिपुत्रस्थं देवदत्तमुद्दिशति–अङ्गदी कुण्डली किरीटी व्यूढोरस्को वृत्तबाहुरीदृशो देवदत्त इति।
  • ‘प्रत्यक्षमाख्यानमुपदेशः। गुणैराख्यानमुद्देशः।’ (पा० १।३।२ सूत्रे भाष्ये)। समासवचनमुद्देशः। यथा शल्यमिति। विस्तरवचनं निर्देशः।
  • ‘यथा शारीरमागन्तु चेति’ (सुश्रुत० उत्तर० ६५।९)।
  • ‘उद्देशमात्रेण मया देशाः संकीर्तिता विभो’ (भा० भीष्म० ९।७०)।
  • ‘उद्देशमात्रेण नामनिर्देशमात्रेण। संकीर्तिता मुने। उद्देशतश्च गन्धर्वा विविधाश्च महर्षयः’ (भा० सभा० १५।५)॥ उक्तोऽर्थः।
  • ‘सूर्योद्देशेन तिला दातव्याः’ (पञ्चत० २)। सूर्य एषां सम्प्रदानं देवतेति सङ्कल्प्येत्यर्थः।
  • ‘अनत्यन्तगतस्त्वेष उद्देशो भवति’ (नि० १२।४०।२)। अनैकान्तिक्येषा प्रतिज्ञा भवतीत्युक्तं भवति।
  • ‘अर्थमप्रतियतो नात्यन्तं स्वरसंस्कारोद्देशः’ (नि० १।१५।१)। उद्देशोऽवधारणम्।
  • ‘एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया’ (गीता १०।४०)। उद्देशतः संक्षेपेण सङ्ग्रहेण।
  • ‘माहात्म्यमपि चैवोक्तमुद्देशेन वाचा प्रभो’ (भा० अनु० ७२।१)। उक्तोऽर्थः।
  • ‘ते समासाद्य पन्थानं यथोक्तं वृषपर्वणा। अनुसस्रुर्यथोद्देशम्’ (भा० वन०)॥ यथोद्देशं यथानुशिष्टि।
  • ‘उद्देशज्ञाः कुबेरस्य नलिन्याः’ (भा० वन०)। उद्देशः परिसरः पर्यन्तभूः।
  • ‘कुण्डलोद्देशात् तं च पप्रच्छ’ (कथा० २०।२१०)। कुण्डलमधिकृत्येत्यर्थः।
  • ‘शृगालादधमं श्वानं प्रवदन्ति मनीषिणः। तस्याप्यधम उद्देशः शरीरस्य श्वजाघनी’ (भा० शां० १४१।५७)॥ उद्देशः प्रदेशोऽवयवः।
  • ‘आतपाक्रान्तोऽयमुद्देशः’ (शा० ३)।
  • ‘प्रवातसुभगोऽयमुद्देशः’ (शा० ३)। उभयत्र उद्देशः प्रदेशः।
  • ‘ततोऽत्र दीपोद्देशेन दत्त्वाग्निं मासवेश्मनि’ (कथा० १०।११०)। दीपप्रज्वलनप्रयोजनमनुरुध्येत्यर्थः। उद्देशो गण्डकूपस्तु पर्वतस्याभिधीयत इति हारावली।
  • ‘कृतोद्देशः स बीभत्सुः पञ्चमीमाभितः समाम्’ (भा० वन० १५८।३)। पञ्चमे वर्षे समागन्तास्मीति कृतसङ्केत इत्यर्थः।
  • ‘यस्त्वस्य कथितः सत्यो गुणोद्देशस्त्वया मम’ (भा० वन० ४५।१५)। गुणोद्देशो गुणलेशः।
  • ‘एष सप्तर्षिकोद्देशो व्याख्यातस्ते मया नृप’ (हरि० १।७।५८)। सप्तर्षिसम्बन्धि नामधेयादि।
  • ‘त्यज्यमानद्रव्ये उद्देश्यविशेषो देवता, मन्त्रस्तुत्या च’ (पा० ४।२।२४ सूत्रे सि० कौ०)। यस्यै संकल्प्य हविरादि सम्प्रदीयते सा देवतेत्याह।
  • ‘किमुद्दिश्य पयोधरान्ध्वनतः प्रार्थयते मृगाधिपः’ (कि० २।२१)।
  • ‘वध्यशिलामुद्दिश्य प्रस्थितः’ (पञ्चत० १)। उद्दिश्य अभिलक्ष्य।
  • ‘मदीयेषु लेखेषु तत्रभवत उद्दिश्य सभाजनाक्षराणि पातयिष्यामः’ (माल० ५)। तत्र भवत उद्दिश्य भवदभिप्रायकाणि।
  • ‘रामश्चोपेत्य विज्ञाप्यो मामुद्दिश्य सगौरवम्’ (रा० गोरेसि० १।८०।२१)। मामुद्दिश्य मन्नाम्ना।
  • ‘वचसि भवति सङ्गत्यागम् उद्दिश्य वार्ता श्रुतिमुखरमुखानां केवलं पण्डितानाम्’ (भर्तृ० २।७१)। उद्दिश्य=अधिकृत्य, विषयीकृत्य।
  • ‘अवदद् देवीं मामुद्दिश्य।’ (कथा० २।७१)। मामुद्दिश्य मामन्तरेण, मद्विषये।
  • ‘उद्दिश्योद्दश्य तेषां च चक्रे राजौर्ध्वदेहिकम्’ (भा० शां० ४२।६)। उद्दिश्योद्दिश्य नामान्युच्चार्य प्रत्येकम्, नामादेशम्।
  • ‘सालङ्कारान्गजानश्वान्कन्याश्चैव वरस्त्रियः। उद्दिश्योद्दिश्य सर्वेभ्यो ददौ स नृपसत्तमः’ (भा० आश्रम० १४।४-५)॥ उद्दिश्योद्दिश्य=अयमस्याऽयमस्येति नामनिर्देशपुरःसरम्।
  • ‘प्रेतायोद्दिश्य गामप्येके घ्नन्ति’ (पा० गृ० ३।१०)। प्रेतायेत्यनेनैव उद्दिश्यार्थोभिहितः, इदमनन्यप्रयोजनं केवलं प्रेतस्य सम्प्रदानतामेव बलीयोभिव्यनक्ति।
  • ‘नियुक्तास्तत्र पशवस्तास्ता उद्दिश्य देवताः। जलचराः स्थलचरा अन्तरीक्षचरास्तथा’ (रा० १।१३।३१)॥ ताभ्यस्ताभ्यो देवताभ्यः सङ्कल्प्य।
  • ‘सन्धाय चापे तानाशु लक्ष्यमुद्दिश्य राक्षसान्। मुमोच राघवो बाणान्’ (रा० ३।२६।२०)॥ लक्ष्यभूतान् राक्षसान्प्रतीत्यर्थः।
  • ‘उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे’ (रा० १।३३।१७)। उक्तोऽर्थः।
  • ‘एतद्वाक्यं नलो राजा दमयन्तीं समाहितः। उवाचासकृदार्तो हि भैमीमुद्दिश्य भारत’ (भा० वन० ६१।१४)॥ भैमीमभिसम्बोध्येत्यर्थः।
  • ‘अध्यापनविधिना हि प्रवर्त्यमानो माणवकः कथं चिदध्ययनमात्रमनुतिष्ठेन्न त्वपूर्वमुद्दिशेत्’ (शा० दी० १।१)। उद्दिशेत् निमित्तं कुर्यात्, लक्ष्यं कुर्यात्। अपूर्वमदृष्टं प्रयोजनमनुसन्धाय नाध्ययनं प्रक्रमेतेत्युक्तं भवति।
  • ‘सचैलमुद्दिष्टं तस्य पापप्रशान्तये’ (पञ्चत० ३।११७)। उद्दिष्ट कथितं स्मृतम्।

दिह्

  • {उद्दिह्}
  • दिह् (दिह उपचये)।
  • ‘ऊर्जं वा एतं रसं पृथिव्या उद्दिहन्ति यद् वल्मीकम्’ (तै० आ० ५।२।८)। उत्क्षिपन्तीत्यर्थः।

दीप्

  • {उद्दीप्}
  • दीप् (दीपी दीप्तौ)।
  • ‘तस्य यद् रेतसः प्रथममुददीप्यत तदसावादित्योऽभवत्’ (ऐ० ब्रा० ३।३४)।
  • ‘उद्दीप्यस्व जातवेदः’ (कौ० उ०)। समिद्धो भवेत्याह।
  • ‘बाणवदनमुददीपि भिये’ (शिशु० १५।४८)। उददीपि प्राज्वालीत्। कर्तरि चिण्।
  • ‘उद्दीपनविभावास्ते रसमुद्दीपयन्ति ये’ (सा० द० १६०)।
  • ‘पुनस्त्वोद्दीपयामसि’ (अथर्व० १२।२।५)।

दृश्

  • {उद्दृश्}
  • दृश् (दृशिर् प्रेक्षणे)।
  • ‘तान्समन्तमेवोदारान् परियत्तानुदपश्यन्’ (ऐ० ब्रा० २।३१)। उदपश्यन् उदङ्मुखाः सन्तो दृष्टवन्त इति सायणः। उदारान् उद्धतान् इति च सः।
  • ‘यावदाकर्णयन्नादमुत्पश्यति वियज्जनः’ ( )। उत्पश्यति उदीक्षते, उच्चक्षुभूय निरीक्षते। स्थान उपसर्गयोगः।
  • ‘अमावास्यायां पूर्वमहर्भवति। उद्दृष्टम् उत्तरम्’ (तै० ब्रा० १।८।१०)। उद्दृष्टं शुक्ला प्रतिपद् उत्कर्षेण दर्शनस्य तत्रोपक्रमात्।

दो

  • {उद्दो}
  • दो (दो अवखण्डने)।
  • ‘बद्धे सन्दानितं मूतमुद्दितं सन्दितं सितम् इत्यमरः। उद्दितं सन्दितं बद्धम्। उच्छब्दः समोऽर्थे। समे तुद्दानबन्धने इत्यमरः। इह गजबन्धनमुद्दानमुक्तम्। उद्दाते क्रियमाणे तु मत्स्यानां तत्र रज्जुभिः’ (भा० शां० १३७।१४)। उद्दानं बन्धनम्। उद्यानमिति पाठान्तरम्।

द्युत्

  • {उद्द्युत्}
  • द्युत् (द्युत दीप्तौ)।
  • ‘त्रिभिर्नेत्रैः कृतोद्द्योतं त्रिभिः सूर्यरिवोदितैः’ (भा० अनु० १४।५३)। उद्द्योतः प्रकाशः।
  • ‘हर्षरश्मिभिरुद्द्योतं तस्यान्तः पुरमाबभौ’ (रा० १।१५।१९)। उद्द्योतत इत्युद्द्योतम् भासमानं भास्वरम्।

द्रु

  • {उद्द्रु}
  • द्रु (द्रु गतौ)।
  • ‘समाने वै योना आस्तां सूर्यश्चाग्निश्च। ततः सूर्य उदद्रवत्’ (का० सं ६।३)।
  • ‘उदद्रवत्’ (का० सं० ६।६)। उदद्रवत् ऊर्ध्वमगमत्।
  • ‘सो (अग्निः)ऽस्य मूर्ध्न ऊर्ध्व उदद्रवत्’ (कपि० क० सं० ३।१२)। उक्तोऽर्थः।
  • ‘तेनैवोद्रुत्याग्निहोत्रं जुहुयात्’ (तै० ब्रा० २।२।१।६)। उद्द्रुत्य शीघ्रं निष्क्रम्य।
  • ‘तान् पत्नीसंयाजा त उपानयन्। ते तदन्तमेव कृत्वोदद्रवन्’ (तै० ब्रा० १।५।९।३)। उदद्रवन् तत्परित्यज्योद्गताः।
  • ‘श्री र्वै सोमः पाप्मा सुरोपयामा यदागते काले प्राञ्चः सोमैरुद्द्रवन्ति’ (काठक० १४।६)। उद्द्रवन्ति=उत्क्रामन्ति।
  • ‘अथो खल्वाहुर्यत् प्राच उद्द्रुतस्य स्कन्देत्’ (जै० ब्रा० १।५४)। उद्द्रुतस्य निष्क्रान्तस्य।

धा

  • {उद्धा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘वृक्षे गर्भं मृतमुद्धास्यन्ति’ (श० ब्रा० ४।५।२।१३)। ऊर्ध्वं स्थापयिष्यन्तीत्याह।
  • ‘(पितरः) ये दग्धा ये चोद्धिता’ (अथर्व० १८।२।३४)। उद्धिता ऊर्ध्वदेशे पितृलोके स्थिताः।
  • ‘उद्धिर्त रथचक्रम्’ (श० ब्रा० ५।१।५।१-२)। ऊर्ध्वं स्थापितमित्यर्थः।
  • ‘शिवा मानस्य पत्नी न उद्धिता तन्वे भव’ (अथर्व० ९।३।६)। उद्धिता=निर्मिता।
  • ‘ब्रह्मणा वेदिरुद्धिता’ (अथर्व० १९।४२।२)। उक्तोऽर्थः।
  • ‘त्र्युद्धिं करोति’ (तै० सं० ५।१।६)। उद्धिरुन्नतोऽवयवः। उद्धीयत उद्धतं भवतीति।

धाव्

  • {उद्धाव्}
  • धाव् (धावु गतिशुद्ध्योः)।
  • ‘भुजङ्गो हि तृणाग्रस्पृष्टोपि स्फटाटोपैरुद्धावति’ (का० नी० सा० १०।३ जयमङ्गलायाम्)।

धु

  • {उद्धु}
  • धु (धुञ् कम्पने, धू विधूनने)।
  • ‘उद्धुनीयात्सत्केतून्’ (भट्टि० १९।८)। उत्कम्पयेदित्यर्थः।
  • ‘उद् धुन्वन्तोऽपरे रेणून्’ (भा० वन०)। उत्क्षिपन्त उद्घन्तः।
  • ‘तस्य निश्वासवातेन रज उद्धूयते महत्’ (भा० वन०)। उक्तोऽर्थः।
  • ‘हरः सङ्क्रीडमानश्च उमया सह पर्वते। भुजाभ्यामुद्धूतः…’ (रा० ३।४७।१०)। उद्धूत आन्दोलितः।
  • ‘उद्धूतानीह सर्वेषां यदूनां हृदयानि वै’ (हरि० २।२३।२२)। उद्धूतानि क्षुभितानि, आन्दोलितानि विकम्पितानि।
  • ‘उद्धूतलाङ्गूलमहापताक-ध्वजोत्तमांसाकुलभीषणान्तं’ (किरीटिनम्)। (भा० वि० ५४।२७)। उद्धूतमुपरि क्षिप्तम्।
  • ‘आसीद् वनमिवोद्धूतं स्त्रीवनं रावणस्य तत्’ (रा० ५।९।६६)। उद्धूतं विकस्वरं सहर्षम्। उद्धव उत्सवः। उद्धुनोति दुःखमिति। पचाद्यच्।

धृ

  • {उद्धृ}
  • धृ (धृञ् धारणे)।
  • ‘उद्दधार ततो नीलः शरं तस्य कलेवरात्’ (रा० ४।२२।२१)। उद्दधार निश्चकर्ष।
  • ‘साम्राज्यं निजमुद्दधार सकलं सङ्गीतशास्त्रं च यः’ (रा० ७।१०।३७)। उद्दधार=उत्कर्षं प्रापयामास।
  • ‘आगमस्तु कृतो येन सोभियुक्तस्तमुद्धरेत्’ (याज्ञ० २।२८)। उद्धरेत् साधयेत्।
  • ‘एष त्वां सजनामात्यमुद्धरामि स्थिरो भव’ (भा० उ० १८९।२३)। उद्धरामि उत्सादयामि।
  • ‘मां तावदुद्धर शुचो दयिताप्रवृत्त्या’ (विक्रम० ४।३१)। उद्धर रक्ष। उन्नय इति त्वक्षरार्थः।
  • ‘भगवति तव स्पृष्टानद्भिश्चिरादुददीधरत्’ (उत्तर० १।२३)। दुर्गतेः पर्यत्रायतेत्यर्थः।
  • ‘नमयामास नृपाननुद्धरन्’ (रघु० ८।९)। अनुद्धरन् अनुत्सादयन्।
  • ‘उद्धरणीये चक्षुषी’ (दशकु० १०२)। निष्क्रष्टव्ये उत्पाट्ये।
  • ‘पातयितुमेव शक्तिर्नान्नपिटमुद्धर्तुम्’ (पञ्चत० १।३६३)। उद्धर्तुम् उत्क्षेप्तुम् उत्थापयितुम्।
  • ‘स बन्धुर्यो विपन्नानामापदुद्धरणक्षमः’ (हितोप० १।२९)। उद्धरणं परित्राणम्।
  • ‘जग्धस्य मोहाद् हि विशुद्धिमन्धसो जुगुप्सितस्योद्धरणं प्रचक्षते’ (भा० पु० ४।४।१८)। उद्धरणं वमनम्।
  • ‘अपि ते ब्राह्मणा भुक्त्वा गताः सोद्धरणान् गृहान्’ (भा० अनु० ६०।१४)। सोद्धरणान् स्वामिन्यागते दास्यामीति याचमानेभ्यो बालकेभ्य आशाप्रदर्शनमुद्धरणं तत्सहितान् इति नीलकण्ठः।
  • ‘ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरम्’ (मनु० ९।११२)। उद्धारोपोद्धारः, देयांशस्य पृथक्करणम्।
  • ‘राज्ञश्च दद्युरुद्धारमित्येषा वैदिकी श्रुतिः’ (मनु० ८।९७)। युद्धे निजितस्य द्रविणस्य षष्ठोंशः।
  • ‘एतद् वित्तं तदभवद्यदुद्दध्रे युधिष्ठिरः’ (भा० आश्व० ६५।२०)। उद्दध्रे उच्चखान।

ध्मा

  • {उद्ध्मा}
  • ध्मा (ध्मा शब्दाग्निसंयोगयोः)।
  • ‘उद्धमाधम सन्धम’ (तै० आ० १।१२।१)।
  • ‘उद्ध्माय मरिष्यसि’ (श० ब्रा० १।४।३।१८)। उद्ध्माय उच्छ्वस्य।

ध्वंस्

  • {उद्ध्वंस्}
  • ध्वंस् (ध्वंसु अवस्रंसने गतौ च)।
  • ‘ब्राह्मणस्य गवां राजन् ह्रियतीनां रजः पुरा। सोममुद्ध्वंसयामास…’ (भा० अनु० १०१।४)॥ उद्ध्वंसयामास व्याप संववार।

नट्

  • {उन्नट्}
  • नट् (नट अवस्यन्दने)।
  • उत्पूर्वस्यास्य हिंसायां प्रवृत्तिरनेकार्थत्वाद् धातूनाम्।

नद्

  • {उन्नद्}
  • नद् (णद अव्यक्ते शब्दे)।
  • ‘असोढसिंहध्वनिरुन्ननाद’ (कु० १।५६)। उच्चैर्ननाद रिरेभे।
  • ‘ततोन्तरिक्षमुत्प्लुत्य कालमेघ इवोन्नदन्’ (भा० द्रोण० १५६।८६)।
  • ‘गोमायुर्दारुणं मुहुरुन्नदन्’ (भा० उ० )। उच्चैर्वाश्यमानः।
  • ‘नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवङ्गमाः’ (रा० गोरे० ४।४५।८)। उक्तोऽर्थः।

नम्

  • {उन्नम्}
  • नम् (णम प्रह्वत्वे शब्दे च)।
  • ‘उन्नमति नमति वर्षति गर्जति मेघः करोति तिमिरौघम्। प्रथमश्रीरिव पुरुषः करोति रूपाण्यनेकानि’ (मृच्छ० ५।२६)॥ उन्नमति उदञ्चति, ऊर्ध्वं गच्छति।
  • ‘उन्नमत्पीनोत्तुङ्गपयोधरा’ (प्र० च० ४।८)। उन्नमन्तौ उदञ्चन्तौ (पयोधरौ)।
  • ‘…अपश्यद् दिवसेऽन्तिमे। मध्यन्दिने पयोदालीमुन्नमन्तीं रविं प्रति’ (बृ० श्लो० सं० २।६९)।
  • ‘लघूनुन्नमयन्भावान् गुरूनप्यवपातयन्। वातुं विधिरिवारेभे प्रचण्डश्च प्रभञ्जनः’ (कथा० २५।४२॥ उन्नमयन् उन्नयन्, उदञ्चयन्।
  • ‘उन्नम्योन्नम्य तत्रैव दरिद्राणां मनोरथाः। हृदयेषु विलीयन्ते विधवास्त्रीस्तनाविव’ (पञ्चत० २।९८)॥
  • ‘उन्नम्य वदनं भीरुः शिंशपां तामुदैक्षत’ (रा० ५।३०।१२)। उन्नम्य उन्नतं कृत्वा।

नश्

  • {उन्नश्}
  • नश् (नशतिर्व्याप्तिकर्मा छान्दसः)।
  • ‘उत्तरं सुम्नमुन्नशम्’ (ऋ० २।२३।८)। उन्नशम् उदनशम्। प्रापमित्यर्थः।**

नह्

  • {उन्नह्}
  • नह् (णह बन्धने)।
  • ‘अस्थ्यवयवोऽस्थिमध्यमनुप्रविश्य मज्जानमुन्नह्यति’ (सुश्रुत० १।१३१।९)। उन्नह्यति निष्कर्षति, बहिष्करोतीति यावत्।
  • ‘मुक्तागुणोन्नद्धं मौलिम्’ (रघु० १७।२३)। उन्नद्धमूर्ध्वदेशे नद्धं बद्धम्।
  • ‘ते नैव शक्याः सहसा विजेतुम्। वीर्योन्नद्धा…’ (भा० भीष्म० ८०।१०)। प्रवृद्धवीर्याः, वीर्येण दृप्ता वा।
  • ‘आत्मप्रमाण उन्नद्धः श्रेयसोऽवमन्यकः’ (भा० वन० ३१।१७)। उन्नद्धो दृप्तः। जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता इति नानार्थऽशष्वमरः।
  • ‘पुंरत्नैः पुनरप्रमेयमहिमोन्नद्धैर्न किं साध्यते’ (राज० ४।३३१)। उन्नद्धैः प्रवृद्धैः उन्नतैः।
  • ‘ततः प्रसन्ना पृथिवी तस्य… पुनरुन्नह्य सलिलात्’ (भा० वन० )। उन्नह्य निष्क्रम्य निर्गत्य।
  • ‘श्रियैश्वर्यमदोन्नाहं पश्य उन्मादकं नृणाम्’ (भा० पु० १०।७३।१९)। उन्नाहः=उद्बन्धनं स्वैराचार इत्यर्थ इति श्रीधरः। उन्नाहः सौवीरकम् इत्यपि क्वचित्।

नी

  • {उन्नी}
  • नी (णीञ् प्रापणे)।
  • ‘क्षिणोमि ब्रह्मणाऽमित्रानुन्नयामि स्वाँ अहम्’ (वा० सं० ११।८२)। उन्नयामि उत्कर्षं प्रापयामि।
  • ‘दण्डमुन्नयते’ (सि० कौ०)। उत्क्षिपतीत्यर्थः।
  • ‘प्रकृतिप्रत्ययाद्यर्थाद्यैः संकीर्णे लिङ्गमुन्नयेत्’ (अमरः)। उन्नयेत् अनुमिमीत, तर्कयेत्।
  • ‘कथमपि स इत्युन्नेतव्यस्तथापि दृशोः प्रियः’ (उत्तर० ३।२२)। उक्तोऽर्थः।
  • ‘तत एकान्तमुन्नीय पाराशर्यो युधिष्ठिरम्। अब्रवीदुपपन्नार्थम् इदं वाक्यविशारदः’ (भा० वन० ३६।२८)॥ विजने निर्णीय।
  • ‘रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्’ (हरि० १।३२।१२)। निर्गमयति, उद्धरतीत्याह।
  • ‘नीचा सन्तमुदनयः परावृजम्’ (ऋ० १२।१३।१२)। उदनयः=उदनमयः।
  • ‘उत्तूर्वयाणं धृषता निनेथ’ (ऋ० ६।१८।१३)। उन्निनेथ। उक्तोऽर्थः।
  • ‘कि स्विदादित्यमुन्नयति’ (भा० वन० ३१३।४५)। उन्नयति उच्चैःसंस्थं करोति।
  • ‘अध्वर्यवः कर्तना श्रुष्टिमस्मै वने निपूतं वन उन्नयध्वम्’ (ऋ० २।१४।९)। उन्नयध्वम् मूलमस्यावृहतेत्याह।
  • ‘ऊर्ध्वं प्राणमुन्नयति अपानं प्रत्यगस्यति।’ (कठ० उ० ५।३)। उन्नयति उदीरयति, उत्क्रमयति।
  • ‘तं धीरासः कवय उन्नयन्ति’ (पा० गृ० २।२)। तर्कयन्ति, निचायन्ति।
  • ‘उन्नीयन्ते स्म बालाश्चिह्नैरङ्गानि कोमलैः’ (बृ० श्लो० सं० ७।१५)। उन्नीयन्ते तर्क्यन्तेऽभ्युह्यन्ते, अनुमीयन्ते।
  • ‘प्राड्विवाको वक्ष्यमाणेन शपथेन सत्यमुन्नयेत्’ (मनु० ८।१०९) इत्यत्र कुल्लूकः। उक्तोऽर्थः।
  • ‘ततो राज्ञां चरैराप्तैः प्रवृत्तिरुदनीयत’ (भा० आदि० २००।१)। उदनीयत उपानीयत। तथा च पाठान्तरं प्रवृत्तिरुपानीयत। इदमेव ज्यायः।
  • ‘पुमांसमुन्नयेत्प्राज्ञः शयने तप्त आयसे’ (भा० शां० १६५।६५)। उपरि निदध्यादित्यर्थः।
  • ‘को अस्या नो द्रहोऽवद्यवत्या उन्नेष्यति’ (अथर्व० ७।१०८।१)। उन्नेष्यति उद्धरिष्यति।
  • ‘उग्रस्य मन्योरुद् इदं नयामि’ (अथर्व० १।१०।१,९।१।९)। उक्तोऽर्थः।
  • ‘अनुपूर्वया फलवृक्षशाखया सकृत् सीमन्तमुन्नयेत्’ (द्रा० गृ० २।२।२५)। पृथक् कुर्यात्।
  • ‘ओमुन्नेष्यामि हव्यं देवेभ्यः पाप्मभ्यो यजमानम्’ (भा० श्रौ० ६।११।१)। उद्वक्ष्यामि, उद्धरिष्यामीत्यर्थः।
  • ‘चतुरः स्रुवान्पूर्णानुन्नयत्यनूचो वा उन्नयति’ (भा० श्रौ० ६।११।४)। उन्नयति=उद्गृह्णाति।
  • ‘सन्दाय ‘धर्माय दीष्वे’ (वा० सं० ३८।३) ति वत्समुन्नयति (का० श्रौ० २६।५।४)। उन्नयति गोरपाकरोति, पृथक् करोति।
  • ‘लक्ष्मीं परम्परीणां त्वमत्यन्तीनत्वमुन्नय’ (भट्टि० )। उन्नय=नय=प्रापय। अनर्थक उच्छब्दः।
  • ‘एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते’ (कौ० उ० )। उन्नेतुमुद्धर्तुमिच्छतीत्यर्थः।
  • ‘वधायोन्नीयमानेषु’ (भा० शां० २६७।३)।
  • ‘कीचकानां विनाशेन वयमुन्नीतसन्तापाः संवृत्ताः’ (पञ्चत० २)। उन्नीत उद्धृतः।
  • ‘सा तु तावतोन्नीतमदभिप्राया’ (दशकु०)। उन्नीतस्तर्कितो विभावितः।
  • ‘देवेनैकत्र नीतानामुन्नीतानां स्वकर्मभिः’ (भा० पु० ७।२।२१)। उन्नीतानां विप्रयुक्तानाम्।
  • ‘मन्त्रयस्वैनमुन्नीय परवन्तं विशेषतः’ (भा० आश्व० २८।१२)। उन्नीय एकान्तं नीत्वा।
  • ‘स तस्य पदमुन्नीय तस्मादेवाश्रमात्प्रभुः। कौन्तेयो भीमसेनं महावने’ (भा० वन० १७९।४९)। उन्नीय तर्कयित्वा, अनुमाय।
  • ‘उन्नयः पदार्थानाम्’ (पा० ३।३।२?? सूत्रवृत्तौ)। उन्नयोऽनुमा।
  • ‘उन्नयने च’ (का० श्रौ० २५।१२।१५)। उन्नयन्त्यस्मादित्युन्नयनं पूतभूत् पात्रम्।
  • ‘सोन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम्’ (प्रश्नोप० ५।४)। उन्नीयते ऊर्ध्वं नीयते।
  • ‘पञ्चकृत्व उन्नयेत्’ (शां० ब्रा० २।१)। स्धाल्या उद्धरेत् (चमसेनेति शेषः)।

पच्

  • {उत्पच्}
  • पच् (डुपचष् पाके)।
  • ‘उत्पचविपचा’ (मयूरव्यंसकादयश्च २।१।७२ इत्यत्र वृत्तौ)।

पत्

  • {उत्पत्}
  • पत् (पत्लृ गतौ)।
  • ‘उदपप्तत् सूर्यः’ (ऋ० १।१९१।९)। उदगादित्यर्थः।
  • ‘उत्ते वयश्चिद्वसतेरपप्तन्’ (ऋ० १।१२४।१२)। वयश्चित् पतगा इव वसते र्निरक्रामन् इत्यर्थः।
  • ‘उत्पेतुः सहसा स्वेभ्यो गृहेभ्यः पुरुषर्षभाः’ (हरि० २।१२१।१३)। गृहेभ्यस्तत्वरिरे, त्वरया निरीयुः।
  • ‘अप्सु निर्मथनादेव रसात् तस्माद् वरस्त्रियः। उत्पेतुः–’ (रा० १।४५।३३)॥ उत्पेतुरुन्ममज्जुः, उज्जग्मुः।
  • ‘आसनाद् उत्पपात हृष्टा’ (रा० २।७२।२)। उत्पपात वेगेनोत्तस्थौ।
  • ‘उत्पेतुरासनात्सर्वे क्रोधसंरक्तलोचनाः’ (भा० उ० १६२।१६)। उक्तोऽर्थः।
  • ‘उत्पपात भृशं क्रुद्धः श्येनवन्निपपात च’ (भा० द्रोण० १७४।३५)। उत्पपात उत्पुप्लुवे।
  • ‘नाकीर्तयित्वा गाः सुप्यात्ता नासंस्मृत्य चोत्पतेत्’ (भा० अनु० ७८।१६)। उत्पतेत् शय्यात उत्तिष्ठेत्। संजिहीत।
  • ‘उत्पतेत् सहजाद् देशाद् व्याधिदुर्भिक्षपीडितात्’ (भा० शां० १३९।९१)। देशादुत्पतेत्=देशं त्यजेदित्यर्थः। निर्गच्छेदिति शब्दार्थः।
  • ‘तस्मादस्य यत्रैव क्व च कुशो वा यद्वा विकृन्तति तत एव लोहितमुत्पतति’ (श० ब्रा० ३।१।२।१६)। उत्पतति निःसरति। स्रवति। क्षरति।
  • ‘दैवात्कन्दुकपातेनोत्पतत्यार्यः पतन्नपि। तथा त्वनार्यः पतति मृत्पिण्डपतनं यथा’ (तन्त्रा० २।४।१४२)॥ उत्पतति उन्नमति, ऊर्ध्वां गतिमाप्नोतीत्यर्थः।
  • ‘उत्पतेदपि चाकाशं निपतेच्च यथेच्छकम्’ (भा० वन० १५५।१९)। भीममुद्दिश्योक्तिः। विहङ्गवद् विहायसं गच्छेदित्यर्थः।
  • ‘तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः’ (भा० आदि० १५४।१३)। आसनात्सहसोदतिष्ठदित्यर्थः।
  • ‘तव वाक्यामुदीक्षाणा उत्पतन्ति पतन्ति च’ (व० धर्मशा० १६।३२)।
  • ‘उत्पतोदङ्मुखः खम्’ (मेघ० )। उड्डयस्वेत्यर्थः।
  • ‘उत्पतितोपि हि चणकः शक्तः किं भ्राष्ट्रकं भङ्क्तुम्’ (पञ्चत० १।१??८)। उत्पतितः सहसोद्गत उत्प्लुतः। सवेगमुच्चरन्।
  • ‘दूर देव चालोक्य तं महासत्त्वं हन्तुमुत्पतितनिश्चयः’ (अवदा० शरभजा०)। उत्पतितनिश्चय उत्पन्नमतिः।
  • ‘द्वारि शिशुरुत्पतितुं द्रागङ्गान्याकुञ्च्य लीयते निभृतः’ (भामिनी० १।१०६)। उत्पतितुम्=उड्डयितुम्।
  • ‘उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन्’ (ग० १।२९।२६)। आसनेभ्य उत्थायमुत्थायम्। सन्तोषातिशयकृतोऽयमासनपरित्यागः। उत्पातेन ज्ञापिते च (चतुर्थी सम्प्रदाने २।३।१३ इत्यत्र वार्तिकम्)। प्राणिनां शुभाशुभसूचको विकार उत्पातः।
  • ‘बुद्धिरात्मानुगाऽतीव उत्पातेन विधीयते’ (भा० वन० १८१।२५)। उत्पातेन=उत्क्रान्त्यादिना।
  • ‘उत्पाताश्च निपाताश्च सुयुद्धं सुपलायितम्’ (भा० शां० ५९।४६)। उत्पाता ग्रहयुद्धादयो धूमकेत्वादयश्च।
  • ‘विहङ्गाः कालचोदिताः। राक्षसानां विनाशाय उत्पातान् व्याहरन्ति च’ (रा० ६।११।४१)॥
  • ‘सापि सुकुमारसुभगेत्युत्पातपरम्परा केयम्’ (का० प्र० १०)। उक्तोऽर्थः।
  • ‘अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम्’ (रा० ५।२६।३२)। महोत्पात उत्तमा व्यापद्।
  • ‘विचलन्प्रथमोत्पाते हयानां भरतर्षभ’ (भा० वन० १६८।४०)। उत्पात उद्घातः।
  • ‘एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः’ (रा० ५।३९।४०)। एकोत्पातेन सकृदुत्पत्येत्यर्थः।
  • ‘पातोत्पाता मनुष्याणाम्’ (हितोप० १।१६८)। नमनोन्नमने इत्याह। अभ्युदयास्तमयावित्यभिप्रायः।
  • ‘यद्युद्वा पतेत् सं वा विजेत’ (गौर्घर्मधुक्) (सत्या० श्रौ० २४।७।१९)। उत्पतेत् उत्प्लुत्य गच्छेत्।
  • ‘उत्पतन्तमनूपेतू रुमाप्रभृतयः स्त्रियः’ (रा० ४।३४।४)। उत्पेतुः सहसोत्तस्थुः।
  • ‘उत्पतन्निपतंश्चापि तिष्ठन् गच्छन् पुनः पुनः’ (रा० ५।१२।१५)। उत्पतन् अधिरोहन् (उच्चैः स्थानानि)। निपतन् ततोऽवरोहन्।
  • ‘ननु चोत्पततैव वचनलोपं चोदिताः स्मः’ (पा० १।२।६४ सूत्रे असमासे वचनलोप इति वार्तिके भाष्यम्)। उत्पतता तत्पक्षदूषणमुपक्रममाणेनैव।

पद्

  • {उत्पद्}
  • पद् (पद गतौ)।
  • ‘उत्पद्यते गृहे यस्य न च ज्ञायते कस्य सः। स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः’ (मनु० ९।१७०)॥ उत्पद्यते जायते प्रसूयते।
  • ‘उत्पत्स्यते स्ति मम कोपि समानधर्मा’ (मालती० १।६)। उत्पत्स्यते जनिष्यते संभविष्यति।
  • ‘उदपादि चास्य मनसि’ (काद० १३२)। अस्य चित्तमुत्पन्नम् इत्यर्थः।
  • ‘वायोर्ज्योतिरुत्पद्यते’ (मनु० १।७७)।
  • ‘दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा’ (याज्ञ० २।२२५)। उत्पाद उत्पत्तिः।
  • ‘अलाबुं वर्जयेन्नारी तथैवोत्पादिकामपि’ (हरि० २।७९।५९)। उत्पादिकामुपोदकीम्।

पा

  • {उत्पा}
  • पा (पा पाने)।
  • ‘उत्पिबन्ते वा इमानि दिक्षु नाष्ट्ररक्षांसि’ (श० ब्रा० ५।२।४।७)। निःशेषं पिबन्तीत्यर्थः।

पार्

  • {उत्पार्}
  • पार् (पार तीर कर्मसमाप्तौ)।
  • ‘उत्त्वा मृत्योरपीपरम्’ (अथर्व० ८।२।९)। उद् अपीपरम् उद् अपपारम्। पारमनयम् इत्यर्थः।

पिञ्ज्

  • {उत्पिञ्ज्}
  • पिञ्ज् (पिजि वर्णसम्पर्चनयोः)।
  • ‘उत्पिञ्जोत्पादनासज्जे तस्मिन्’ (राज० ३।१२२)।

पिष्

  • {उत्पिष्}
  • पिष् (पिष्लृ संचूर्णने)।
  • ‘भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः’ (भा० वन० ११।७३)। उत्पिष्टे बलवद् बाधिते उपपीडिते संचूर्णिते।

पीड्

  • {उत्पीड्}
  • पीड् (पीड अवगाहने)।
  • ‘अन्योन्यमुत्पीडयदुत्पलाक्ष्याः’ (स्तनद्वयम्) (कु० १।४०)। उत्पीडयद् मृद्नत्, सङ्घर्षत्।
  • ‘स तु बाणवरोत्पीडाद् विस्रवत्यसृग् उल्बणम्’ (भा० वन० २१।८)। बाणोत्पीडः क्षतस्थानम्। नयनसलिलोत्पीडरुद्धावकाशाम् (निद्राम्)। उत्पीडः सवेग उद्गमः।
  • ‘पूरोत्पीडे तडागस्य परीवाहः प्रतिक्रिया’ (उत्तर० ३।२९)। उत्पीड ओघातिरेकः।
  • ‘अभवच्छोणितोद्गारात्सोत्पीड इव सर्वतः’ (रा० ४।१६।२२)। सोत्पीडः सफेनः। अभवच्छोणितोद्गारी सापीड इव पर्वत इति पाठान्तरम्।
  • ‘उत्पीड इव धूमस्य मोहः प्रागावृणोति माम्’ (उत्तर० ३।९)। धूमस्योत्पीडः संघातः।
  • ‘तदुत्पीडितवारिराशिः सरित्प्रवाहः’ (रघु० ५।४६)। तेन गजेनोत्पीडित उच्चालितः।
  • ‘एताः करोत्पीडितवारिधाराः’ (रघु० १६।६६)। उक्तोऽर्थः।

पू

  • {उत्पू}
  • पू (पूञ् पवने)।
  • ‘सवितुस्त्वा प्रसव उत्पुनामि’ (वा० सं० १।३१)। उत्पुनामि शोधयामि। नार्थ उदा।
  • ‘सवितुर्वः प्रसव उत् पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः’ (वा० सं० १।१२)। उत्पुनामि अवदायामि।
  • ‘त्रिराज्यमुत्पुनाति’ (द्रा० गृ० १।२।१४)।
  • ‘सर्पिरनुत्पूतम् नवनीतं नोत्पूतम्’ (आश्व० गृ० २।६)।
  • ‘(आज्यम्) उत्पूय’ (श० ब्रा० १२।४।४।७)। पवित्रेण संशोध्येत्यर्थः।
  • ‘द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम्’ (मनु० ५।११५)।
  • ‘एते वा उत्पवितारो यत्सूर्यस्य रश्मयः’ (श० ब्रा० १।१।३।६)। उत्पवितारः पवनशीलाः पूतिकराः।

पृ

  • {उत्पृ}
  • पृ (पृ पालनपूरणयोः)।
  • ‘(तौग्र्यं नावः) उदश्विभ्यामिषिताः पारयन्ति’ (ऋ० १।१८२।६)। उत् पारयन्ति उत्तारयन्ति तीरं नयन्ति पारं प्रापयन्ति।
  • ‘उत्त्वा मृत्योरोषधयः सोमराज्ञीरपीपरन्।’ (अथर्व० ८।१।१७)। उदपीपरन् पर्यत्रायन्त।

प्रुष्

  • {उत्प्रुष्}
  • प्रुष् (प्रुष स्नेहनसेवनपूरणेषु)।
  • ‘उत्प्रुषो विप्रुषः संजुहोमि’ (का० श्रौ० ३।८।१)। उलूखले मुसले यच्च शूर्पे इति सूत्रस्यादिः। उत्पतिताः प्रुष उत्प्रुषः। प्रुषो बिन्दवो द्रप्साः।

प्लु

  • {उत्प्लु}
  • प्लु (प्लुङ् गतौ)।
  • ‘प्लवन्निमज्जति निमग्नमुत्प्लवति’ (षड्विंश० ५।७)। उत्प्लवति उत्प्लवते तरति।
  • ‘यल्लघु तद् उत्प्लवते’ (पा० ३।२।१२६ सू० वृत्तौ)।
  • ‘तदेतत्प्रावृष्युज्जीमूताः प्लवन्ते’ (का० सं० ३६।७)। उत्प्लवन्त उद्गच्छन्ति।
  • ‘न चाग्निमुत्प्लुत्य गच्छेत्’ (मनु० ४।५४ इत्यत्र कुल्लूकः)। उत्प्लुत्य लङ्घयित्वा। प्लुत्याऽतीत्य।

फल्

  • {उत्फल्}
  • फल् (त्रिफला विशरणे)।
  • ‘स प्रांशुर्वेष्टितश्मश्रुरुष्णीषेणोत्फलन् पुनः’ (राज० ८।९५)। उत्फलन् उत्पतन् उत्सर्पन्।

बन्ध्

  • {उद्बन्ध्}
  • बन्ध् (बन्ध बन्धने)।
  • ‘रज्जुपाशेन कण्ठमुद्बध्नाति’ (मुद्रा ६)। कण्ठमूर्ध्वं बद्ध्वा विलम्बत इत्यर्थः।
  • ‘उद्बद्धबाहुः पुरुषो बधबन्धमवाप्नुयात्’ (सामुद्रिके)।
  • ‘अस्मिन्वृक्षे किलोद्बद्धं शरीरम्’ (भा० वि० ४१।१)। उद्बद्धम् विलम्बितम्।
  • ‘क्रियते कथमुद्बन्धस्त्वया मे दर्श्यताम्’ (कथा० १३।१००)।
  • ‘स्वदोषकोपनाद्रोगं लभते मरणान्तिकम्। अपिबोद्वन्धनादीनि परीतानि व्यवस्यति’ (भा० आश्व० १७।१३)॥ रज्ज्वा कण्ठं बद्ध्वाऽऽमनो विलम्बनमुद्बन्धनमित्यसकृदुक्तोर्थः।
  • ‘पादप आत्मानमुद्बध्य व्यापादयामि’ (रत्ना० ३)। उक्तोऽर्थः।
  • ‘अज्ञानादुपसम्पन्ना रज्जुरुद्बन्धनी यथा’ (रा० २।१२।८०)। उद्बध्यतेऽनयेति व्युत्पत्तेः।
  • ‘आयोगवेन विप्राया जातास्ताम्रोपजीविनः। सूनिकस्य नृपायां तु जाता उद्बन्धकाः स्मृताः’ (उशना)॥**
  • ‘सुदेवोऽद्योद्वा बध्नीत प्र वा पतेत्’ (श० ब्रा० ११।५।१।८)। उद्बध्नीत उद्वद्बध्नीयात् रज्ज्वा बद्ध्वाऽऽत्मानमवलम्बयेत्।

बाध्

  • {उद्बाध्}
  • बाध् (बाधृ लोडने, लोडनं प्रतिवातः)।
  • ‘यद्यग्निनोद्बाधेत…अप्यग्रेणैव यूपमरत्नी सन्दध्याताम्’ (श० ब्रा० ४।२।१।१९)। नोद्बाधेत नोद्दीप्येत।
  • ‘यदभिष्टिते उदबाधत’ (श० ब्रा० ५।४।१९)। उदबाधत उदश्वयत्।

बुध्

  • {उद्बुध्}
  • बुध् (बुध अवगमने)।
  • ‘उद्बुध्यध्वं समनसः सखायः’ (ऋ० १०।१०१।१)। जागृत, जागरिता भवतेत्याह।
  • ‘उद्बुध्यस्व प्रतिजागृहि त्वम्’ (वा० सं० १५।५४)। प्रतिबुद्धो भवेत्यर्थः। एनं यजमानं प्रतिजागृहीति महीधर एवं भाषमाणः प्रतिजागर्तेः सकर्मत्वमूरी करोति। युज्यते चैतत्। अवेक्षा प्रतिजागर इत्यमरोक्तेः। प्रतिदिनं यजमानं जागरूकं सावधानं कुर्विति वदन्वाऽस्थान्तर्णीतण्यर्थतां मन्यत इतीह प्रसङ्गादुपन्यस्यते।
  • ‘रत्याद्युद्बोधका लोके विभावाः काव्यनाट्ययोः (सा० द० २।२९)। उद्बोधका उद्दीपनाः।

ब्रू

  • {उद्ब्रू}
  • ब्रू (ब्रूञ् व्यक्तायां वाचि)।
  • ‘ओदनमुद्ब्रुवते’ (तै० ब्रा० १।७।१०।६)। ओदनमन्तरेण संवदन्त्येकमतयो भवन्तीत्यर्थो भाति। अधिदेवनकाल ओदनं पणत्वेन सर्वे परस्परं ब्रूयुरिति सायणः।
  • ‘स यन्न संभरति तस्योद्ब्रुवीत तस्य नाश्नीयाद् यावाज्जीवम्’ (श० ब्रा० ५।२।२।४)। तस्योद्ब्रुवीत तं प्रत्याचक्षीतेत्यर्थो भासते।

भा

  • {उद्भा}
  • भा (भा दीप्तौ)।
  • ‘सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ’ (मनु० १।७)। उद्बभौ प्रादुर्बभूव। उत्पूर्वो भातिः प्रादुर्भावे वर्तत इति कुल्लूकः।

भास्

  • {उद्भास्}
  • भास् (भासृ दीप्तौ)।
  • ‘अनुद्भासि वासो वसीत’ (आप० ध० १।३०।१२)। उद्भासि उल्बणम्। विनीतवेषः स्यादित्यर्थः।

भिद्

  • {उद्भिद्}
  • भिद् (भिदिर् विदारणे)।
  • ‘प्रजापतेः प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत। तस्य यः श्लेष्मासीत्स सार्धं समवद्रुत्य मध्यतो नस्त उदभिनत् स एष वनस्पतिरभवत्’ (श० ब्रा० १३।४।४।६)। उदभिनत्=उदभिद्यत=अङ्कुरितोऽभवत्। अङ्कुरोऽभिनवोद्भिदि (अमरः)।
  • ‘संस्वेदजा अण्डजा उद्भिदश्च’ (भा० आदि० ८९।११)।
  • ‘सेमं नः कारुमुपमन्युमुद्भिदमिन्द्रः कृणोतु प्रसवे रथं पुरः’ (ऋ० १।१०२।९)। उद्भिदमन्तःप्रवेशशीलं विजेतारमभिभवितारम्।
  • ‘ये (देवाः) अस्मभ्यं घनदा उद्भिदश्च’ (ऋ० १०।११६।९)। उक्तोर्थः। किसलयोद्भेदः=नवपल्लवोद्गमः।
  • ‘रत्यन्तसुलभोद्भेदैर्निःसृतैः स्वेदबिन्दुभिः’ (राज० ५।३८२)। उक्तोऽर्थः।

भू

  • {उद्भू}
  • भू (भू सत्तायाम्)।
  • ‘श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत्’ (भा० आदि० १८।२९)। नोद्भवति, नोत्पद्यते, न जायते।
  • ‘उदभून्मुरजध्वनिः’ (कथा० २।३४)। उदतिष्ठत्, उदस्थात् प्रादुरभूत्।
  • ‘उदभवत्तीव्रो दुर्भिक्षः’ (कथा० २७।९४)। उक्तोऽर्थः।
  • ‘तेषामति त्रीण्यरिच्यन्त न त्रीण्युदभवन्’ (तै० ब्रा० १।५।१२।१)। नोदभवन् न पर्याप्नुवन्। तौ च स्वस्वपक्षहेतुभिः स्वस्वपक्षं स्थापयतः परपक्षमुद्भावयतः।
  • ‘परलोकमुद्भावयाम्यथेमम्’ (अवदा० रुरुजा०)। उद्भावयामि उन्नयामि।
  • ‘उद्भावय कुलं मग्नं त्वत्कृते स्वयमेव हि’ (भा० उ० १३३।२२)। उद्भावय उन्नय उद्धर।
  • ‘उद्भावय स्ववीर्यं वा तां वा गच्छ ध्रुवां गतिम्’ (भा० उ० १३३।१८)। उद्भावय आविर्भावय, व्यक्तय, दर्शय।
  • ‘विनतं क्वचिदुद्भूतं क्वचिद्याति शनैः शनैः’ (गाङ्गं सलिलम्) (रा० १।४३।२४)। उद्भूतमुन्नतं पाषाणादियोगात्। उद्धूतमिति पाठान्तरम्। उद्भूतरूपं नयनस्य गोचरः (भाषापरिच्छेदे)। उद्भूतं प्रकटं मूर्तम्, सविग्रहम्। परिच्छिन्नम्।
  • ‘अलं ह्येष त्वत्कुलोद्भूतये विधिः’ (कु० ६।८२)। उद्भूतिरुच्छ्रायः समृद्धिः।
  • ‘ईश्वरानुद्भाविता वा शक्तिः’ (शब्दस्य) (सा० द०)। अनुद्भाविताऽनुत्पादिता।
  • ‘मायां मयोद्भाव्य परीक्षितोऽसि’ (रघु० २।६२)। उद्भाव्य=समुत्पाद्य।
  • ‘नोपादानं विनोद्भवः’ (वि० पु० १।१७।५८)। उद्भवः=उत्पादः, संभवो जन्म।
  • ‘यो देवानां प्रभवश्चोद्भवश्च’ (श्वेता० उ० ३।४)। उक्तोऽर्थः।
  • ‘तेनानुद्भवोपि संगृहीतः’ (सां का० ७ तत्त्व०)। अनुद्भवः=अनागतावस्थया सूक्ष्मरूपेण स्वोपादानेऽवस्थानम्।
  • ‘वदन्ति कारणं श्रेष्ठं स्वपक्षोद्भावनाय वै’ (भा० शां० ३००।२)। स्वपक्षोत्कर्षायेत्यर्थः।
  • ‘अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान्। पाण्डवा अपि तत् प्रतिचक्रुर्यथागतम्॥ उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः’ (भा० आदि० १४१।२१-२२) उद्भावनं प्रमादः, अनवेक्षा, अप्रतिजागरः। अयमर्थो भाति। भानपि दुर्लभः शब्दमर्यादयेत्यवश्यप्रतिपत्तव्यम्।
  • ‘उद्भावयिता बन्धून्न्यग्भावयिता शत्रून्’ (दशकु०)। उद्भावयिता उन्नमयिता, उत्कर्षकः।
  • ‘चतुर्भिरक्षरैरनुष्टुब् बृहतीं नोदभवत्’ (तै० ब्रा० १।५।१२।३)। नोदभवत् पूरयितुं समर्था नाभवत्।
  • ‘जगर्जुर्जलदा दिक्षु ह्युद्भूताश्च महार्णवाः’ (मात्स्य० १५०।२११)। उद्भूता उद्गूर्णा उच्छलिताः।
  • ‘तास्ते (धानाः) सन्तूद्भ्वीः प्रभवीः’ (अथर्व० १८।४।४३)। उद्भ्वीः प्रचुराः प्रभूताः।

भृ

  • {उद्भृ}
  • भृ (भृञ् भरणे)।
  • ‘यदी घृतेभिराहुतो वाशीमग्निर्भरत उच्चाव च’ (ऋ० ८।१९।२३)। उद्भरते उदीरयति सम्पादयति। वाशीं शब्दम्।

भ्रम्

  • {उद्भ्रम्}
  • भ्रम् (भ्रमु चलने, भ्रमु अनवस्थाने)।
  • ‘क्वचिद् उद्भ्रमते योगात् क्वचिद् विभ्रमते बलात्’ (रा० ३।६०।३६)। उद्भ्रमते उद्भ्रमति उत्पतति।
  • ‘उद्भ्रमामि विरहात् खलु तस्याः’ (नै० ५।१०८)। उद्भ्रमामि उन्माद्यामि।
  • ‘दृष्ट्वा स्वप्नगतं राममुद्भ्रमामि विचेतनः’ (रा० ३।३९।१६)। उद्भ्रमामि भ्रान्तं प्रलापं करोमि।
  • ‘धावत्युद्भ्रमति प्रमीलति पतत्युद्याति मूर्छत्यपि’ (गीत० ४)। उद्भ्रमति=पर्यटति। कमलस्योद्भ्रान्तभृङ्गस्य च। उपरि भ्रमन्तो भृङ्गा यत्र, तादृशस्येत्यर्थः। उद्भ्रान्तासिः=भ्रमितखड्गः। किञ्चिदुद्भ्रम्याब्रवीत्। उद्विज्येत्यर्थः।
  • ‘उद्भ्रमन्निव वेगेन विक्षिपन् रघुनन्दनः’ (रा० ३।६०।४)। उद्भ्रमन् उत्पतन्।
  • ‘उद्भ्रमः संभ्रमश्चैव गणौ ते परिचारकौ। तवाज्ञया करिष्येते लोकस्योद्भ्रमसम्भ्रमौ’ (मात्स्य० १८०।९९)॥ उद्भ्रम उन्मादः।

मथ्

  • {उन्मथ्}
  • मथ् (मथे विलोडने)।
  • ‘प्रयोजयति चोन्माथं नित्यमस्तं गते रवौ’ (भा० शां० १३८।२३)। उन्माथः कूटयन्त्रं पशुमृगपक्षिबन्धनम्।
  • ‘सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा’ (हरि० २।३०।३२)। उन्मथनम् उद्गृह्य (मल्लस्य) निपातनम्।

मद्

  • {उन्मद्}
  • मद् (मदी हर्षे)।
  • ‘उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः’ (भा० वन० २३०।४७)।
  • ‘दश धर्मं न जानन्ति…मत्तः प्रमत्त उन्मत्तः’ (भा० उ० ३३।१०२)।
  • ‘अति जनं वा गच्छेदुद्वा माद्येत’ (पञ्च० ब्रा० १८।११।१०)। उन्माद्येत उन्माद्येत् उन्मादमुपेयात्।
  • ‘काननऽस्मिन्विना कान्तां चित्तमुन्मादयन्ति मे’ (रा० ४।१।९७)। उन्मादयन्ति उन्मत्तमुद्भ्रान्तं कुर्वन्ति।

मा

  • {उन्मा}
  • मा (माङ् माने)।
  • ‘उदिमां मात्रां मिमीमहे’ (अथर्व० १८।२।४३)। उच्छब्देन मानस्योत्कर्षगुणोऽभिधीयते।
  • ‘तोल्यते उन्मीयते स्रुवादिनाऽवदीयते इति तोलम्’ (अथर्व० १।७।२) इत्यत्र सायणः।
  • ‘यज्ञस्य (सोमः) प्रमाभिमोन्मा प्रतिमा वेद्यां क्रियमाणायाम्’ (का० सं० ३४।१४)। उन्मा उन्मानमुत्सेधमानम्।
  • ‘या महती महोन्माना’ (अथर्व० ५।७।९)। उन्मानमूर्ध्वमानम्। महोच्छ्राया ( निर्ऋतिः)।
  • ‘तानुदमिमीत यावदग्निहोत्रमासीत्तावानग्निष्टोमः’ (तै० सं० १।६।९।१)। उदमिमीत तुलयोन्मितवान्।
  • ‘स्वशब्दोन्मानाभ्यां च’ (ब्र० सू० २।३।२२)। उद्यम्य मानमुन्मानम्।

मि

  • {उन्मि}
  • मि (डुमिञ् प्रक्षेपे)।
  • ‘यत्र यूपमुन्मिन्वन्ति’ (ऐ० ब्रा० २।२)। उन्मिन्वन्ति उत्खनन्ति। निपूर्वस्तु निखनने वर्तते।

मिल्

  • {उद्मिल्}
  • मिल् (मिल श्लेषणे)।
  • ‘उन्मिलन्ति कुहूः कुहूरिति कलोत्तालाः पिकानां गिरः’ (गीत० १।४७)। उन्मिलन्ति उच्चकैर्मिलन्ति सुष्ठु श्लिष्यन्ति इति विवक्षति। आश्चर्यमिव मिलेर्योग उदः प्रयोगः।

मिष्

  • {उद्मिष्}
  • मिष् (मिष स्पर्धायाम्)।
  • ‘निमिष्य नोन्मिषन्त्येव यावत्ते तस्य सैनिकाः’ (शि० भा० २१।५६)। नोन्मिषन्ति नेत्रे नोन्मीलयन्ति।
  • ‘उन्मिमेष तदा मुनिः’ (भा० पु०)। उक्तोऽर्थः।
  • ‘प्रलपन् विसृजन्गृह्णन् उन्मिषन्निमिषन्नपि’ (गीता० ५।९)। नेत्रोन्मेषं कुर्वन्नित्यर्थः।
  • ‘उन्मिषत्सु ग्रहग्रामणीषु’ (काद० १७६)। उद्यच्छत्स्वित्यर्थः।
  • ‘प्रलयान्तोन्मिषिते विलोचने’ (कु० ४।२)। उन्मिषिते उन्मीलिते।
  • ‘उन्मेषं यो मम न सहते जातिवैरी निशायाम्’ (का० प्र० १०)। उन्मेषो विकासः।
  • ‘सतां प्रज्ञोन्मेषः’ (भर्तृ० २।११४)। बुद्धिविद्योतः।
  • ‘विद्युदुन्मेषदृष्टिम्’ (मेघ० ८१)। विद्युदुन्मेषः=विद्युद्विलासः।

मुच्

  • {उन्मुच्}
  • मुच् (मुच्लृ मोक्षणे)।
  • ‘आर्तनादो हि यः पौरैरुन्मुक्तः’ (रा०)। उन्मुक्तः=विसृष्टः। उत्मुक्ताः शराः। उक्तोऽर्थः।
  • ‘भूषणान्युन्मुमुचुः क्षमायाम्’ (भट्टि० ३।२२)। उत्कृष्य त्यक्तवत्य इत्यर्थः।
  • ‘प्रत्यर्पिताः शत्रुविलासिनीनामुन्मुच्य सूत्रेण विनैव हाराः’ (रघु० ६।२८)। उन्मुच्य=आक्षिप्य, आच्छिद्य।
  • ‘सत्यकञ्चुकमुन्मुच्य’ (भा० शा० २७।१७)। उन्मुच्य अवरोप्य, अवतार्य।
  • ‘लेखमुन्मुच्य’ (राज० ३।२३५)। उद्बन्धनं कृत्वेत्यर्थः।

मुह्

  • {उन्मुह्}
  • मुह् (मुह वैचित्ये)।
  • ‘यस्तिष्यस्तौ पुनर्वसू येषां त इमे तिष्यपुनर्वसवः। उन्मुग्धास्तिष्यादय एव विपर्यासेन दृश्यमाना बहुव्रीहिणोच्यन्ते’ (पा० १।२।६३ सूत्रे वृत्तिः)। उन्मुग्धा व्यामुग्धाः संशयिता भ्रान्ते र्विषयतां गताः। कर्तृधर्मोऽधिकरण आरोप्यते। अविविक्ता इति तु तात्पर्यार्थः।

मृज्

  • {उन्मृज्}
  • मृज् (मृजू शुद्धौ)।
  • ‘सर्वं तूष्णीमनुक्रामन्नुच्च मार्ष्टि अव च मार्ष्टि’ (बौ० श्रौ०)। ऊर्ध्वमुपरिष्टात् प्रमार्ष्टि प्रोञ्छति।
  • ‘अथ हुत्वोर्ध्वं ग्रहमुन्मार्ष्टि’ (श० बा० ४।१।१।२४)। अनन्तरोदीरित एवार्थः।
  • ‘स्तोमं चेमं प्रथमः सूरिरुन्मृजे’ (ऋ० १०।१६७।४)। उन्मृजे शुन्धामि, शोषयामि, संस्करोमि। उच्छब्दः शोधनस्योत्कर्षमाह।

मृद्

  • {उन्मृद्}
  • मृद् (मृद क्षोदे)।
  • ‘पादौ कुरु। उन्मृदानेति गम्यते’ (१।३।१ सूत्रे क्रियाविशेषक उपसर्ग इति वार्तिकभाष्ये)। विरजी कुर्वित्यर्थः।

मृश्

  • {उन्मृश्}
  • मृश् (मृश आमर्शने, आमर्शनं स्पर्शः)।
  • ‘अथैनम् (अश्वम्) उन्मृशति’ (श० ब्रा० ६।३।३।१२)। उपर्यास्फालयति, आस्फालनपूर्वं विरमयति, निरुद्धगतिं करोति।
  • ‘उदू षु णो वसो महे मृशस्व शूर राधसे’ (ऋ० ८।७०।९)। उन्मृशस्व=उन्मृश=आमर्शनपूर्वमुत्थापयेत्यर्थः।
  • ‘उन्मृश्या हैव द्यौरास’ (श० ब्रा० १।४।१।२२)। उन्मृश्या ऊर्ध्वं प्रेरितेन करेण स्पृश्या।

मन्द्

  • {उन्मन्द्}
  • मन्द् (मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु)।
  • ‘दानाय शूरमुदमन्दिषुः सुताः’ (ऋ० ९।८१।१)। अभिषुताः सोमाः शूरमिन्द्रं दानायोद्धर्षयन्ति प्रोत्साहयन्ति। लोके मदिरात्मनेपदी।

मस्ज्

  • {उन्मस्ज्}
  • मस्ज् (टु मस्जो शुद्धौ)।
  • ‘दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे’ (रा० ३।६।३)। उन्मज्जकाः कण्ठदघ्नजले हेमन्तेषु स्थित्वा तपः साधकाः।

यम्

  • {उद्यम्}
  • यम् (यम उपरमे)।
  • ‘प्र वाता इव दोधत उन्मा पीता अयंसत’ (ऋ० १०।११९।२)। उदयंसत समैरिरन्। मां संरब्धमकुर्वन्नित्याह।
  • ‘ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे’ (ऋ० १।१०।१)। उद्येमिरे प्रयुयुजिरे, प्रेरितवन्तः।
  • ‘उद्यच्छेध्मम्’ (श० ब्रा० ९।२।३।१)। उद्गृहाणेत्यर्थः।
  • ‘यो वा अप्रतिष्ठितो वज्रमुद्यच्छति नैनं शक्नोत्युद्यन्तुम्’ (श० ब्रा० १।१।१।१८)। उक्तोऽर्थः।
  • ‘वज्रमसुरेभ्य उदयच्छत्’ (ऐ० ब्रा० २।३१)। उदयच्छत्=अवागुरुत।
  • ‘परस्य दण्डं नोद्यच्छेत्’ (मनु ४।१६४)। भारमुद्यच्छते उत्क्षिप्य वहतीत्यर्थः। वेदमुद्यच्छति वेदाध्ययन उद्यमं करोतीत्यर्थः।
  • ‘साष्टाक्षरा गायत्री प्रातः सवनमुदयच्छत्’ (ऐ० ब्रा० ३।२८)। उद्यमो निर्वाह इति षड्गुरु०।
  • ‘उद्यच्छन्यद्वदादित्यस्तमः सर्वं व्यपोहति। तद्वत्कल्याणमातिष्ठन्सर्वं पापं व्यपोहति’ (अङ्गिराः)॥ उद्यन्, उदयमानः। कल्याणं प्रायश्चित्तम्।
  • ‘उद्यच्छमाना गमनाय पश्चात्’ (रघु० १६।२९)। उद्यच्छमाना प्रयतमाना।
  • ‘एष लोकविनाशाय रविरुद्यन्तुमुद्यतः’ (भा० आदि० २४।१५)। उद्यन्तुमुद्यत उदयोन्मुखः। उद्गन्तुमिति पाठान्तरम्।
  • ‘शक्या दैवगतिर्लोके निवर्तयितुमुद्यता’ (रा० ६।११०।२५)। उद्यता प्रारब्धा फलं प्रसोतुम्।
  • ‘अभिपन्नमिदं लोके राज्ञामुद्यतदण्डनम्’ (भा० शां० ३२।२०)। उद्यतदण्डनम् उद्धतदमनम्। पाठभ्रंशोत्र भाति।
  • ‘कुपितेन च राजा तस्य प्राणेषूद्यतो दण्डः’ (दशकु०)। उद्यतो निपातितः।
  • ‘मधुमदोद्यमिता वनिता’ (कि० ९।६६)। समीरिता, प्रयुक्ता उद्दीपिता।
  • ‘ततोहं स्वयम् उद्यम्य हयांस्तान् वातरंहसः’ (भा० उ० १८२।१८)। उद्यम्य संयम्य।
  • ‘उद्यम्य यु कुञ्जरं पार्थस्तस्थौ परपुरञ्जयः’ (भा० द्रोण० १४०।८५)।
  • ‘पाणिमुद्यम्य’ (शा० कविवचनम्)। बाहुमूर्ध्वं कृत्वा। उद्बाहर्भूत्वा।
  • ‘उद्यम्याग्निमाहवनीय उद्यतहोमं जुहोति’ (आप० श्रौ० ७।२।६।५)। आहवनीयाज्ज्वलन्तमिध्ममुद्गृह्णाति त्वद् उद्यमनम् इति धूर्तस्वामी।
  • ‘उद्यम्योद्यम्य मे दम्यौ विषमेणैव धावतः’ (भा० शां० १७७।११)। उद्यम्योत्प्लुत्येति नील०।
  • ‘तां चापदं घोरतरां प्रवदन्ति मनीषिणः। यदुद्यम्य महत्कृत्यं भयादपि निवर्तते’ (भा० सौ० ६।२५)॥ उद्यम्य उद्योगं प्रक्रम्य, कृत्यनिष्पत्तौ व्यापृत्य।
  • ‘स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति’ (भा० आदि० ४०।७)। ऋषये जरत्कारवे देयेत्युद्यतो भूत्वा।
  • ‘नाशक्नोत् त्रिष्टुप् त्र्यक्षरा माध्यन्दिनं सवनमुद्यन्तुम्’ (ऐ० ब्रा० ३।२८)। उद्यन्तुम्=निर्वोढुम्। निर्वर्तयितुम्।
  • ‘यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः’ (भा० आदि० २०२।१४)। उद्यमः सङ्ग्रामः।
  • ‘शिक्यपाशं प्रतिमुञ्चते षडुद्यामम्’ (का० श्रौ० १६।५।६)। उद्यामा रज्जवः। उद्यम्यते यैस्त इति व्युत्पत्तेः।
  • ‘स्रुगुद्यमननिपातनयोः’ (३।२।९ सूत्रे वार्तिकम्)। उद्यमनमुद्ग्रहणम्।
  • ‘आवर्जयत वैदेहीं दण्डस्योद्यमनेन च’ (रा० ५।२२।३८)। उद्यमनम् अवगूरणम्।
  • ‘यदि कामयेतावार्षुकः स्यादित्युत्तानेन निमृज्याद् वृष्टिमेवोद्यच्छति’ (तै० सं० ६।४।५)। उद्यच्छति ऊर्ध्वमाकर्षति।
  • ‘इन्द्रस्य त्वा बाहुभ्यामुद्यच्छे’ (तै० सं० १।१।२)। उद्यच्छे उत्क्षिपामि।
  • ‘उदु ष्य देवः सविता ययाम हिरण्ययीममतिं यामशिश्रेत्’ (ऋ० ७।३८।१)। उद्ययान उद्यच्छति उद्गमयति।
  • ‘प्रजापतिमुखाभिरेवैनं देवताभिरुद्यच्छते’ (तै० ब्रा० ३।८।११।१)। एनमश्वमेधम्। उद्यच्छते ऽ नुतिष्ठति। व्याप्रियते उद्युङ्क्त इति त्वक्षरार्थः।
  • ‘तमृगुदयछत्’ (तै० सं० ६।१।२)। उद्गृह्यानयदित्यर्थः।

या

  • {उद्या}
  • या (या प्रापणे)।
  • ‘तद्विसृष्टाः खमुद्ययुः’ (कु० ६।९४)। उधयुरुत्पेतुः।
  • ‘पतत्युद्याति’ (गीत० ४।१९)। उद्याति उत्तिष्ठति।
  • ‘हाहाकारो न चोद्ययौ’ (राज० ८।१७१)। नोत्तस्थावित्यर्थः।
  • ‘विरोधोऽन्योन्यमुद्ययौ’ (राज० ४।६८७)। उद्ययौ उत्पेदे संववृते।
  • ‘त्वामुद्यातितराम्’ (मार्क० ६९।६०)। सुदूरमतिशेते।
  • ‘उद्यानं ते पुरुष नावयानम्’ (अथर्व० ८।२।६)। उद्यानम् ऊर्ध्वं गमनम्, उद्गमनम्। मृत्युपाशादिति शेषः।
  • ‘उद्याने क्रियमाणे तु मत्स्यानां तत्र रज्जुभिः’ (भा० शां० १३७।१४)। उद्याने ग्रथने। उद्यानमिति सांशयिकः पाठः। व्रतोद्यापनं व्रतसमाप्तिः। सर्वदोद्यापनं पार्थ पादपानां प्रशस्यते (भविष्ये)। अर्थे सन्देहः।
  • ‘स राजा दिवमुद्ययौ’ (कथा० २८।९२)। दिवमारुरोहेत्यर्थः।

याच्

  • {उद्याच्}
  • याच् (टुयाचृ याच्ञायाम्)।
  • ‘मह्यमेतद् ददस्वेति तद्रत्नमुदयाचत’ (बृ० श्लो० सं० ५।४१)। उदयाचत बलवत्प्रार्थयत बाढमवरयत।

यु

  • {उद्यु}
  • यु (यु मिश्रणामिश्रणयोः)।
  • ‘उत् पूषणं युवामहेऽभीशूँरिव सारथिः’ (ऋ० ६।५७।६)। उद्युवामहे उद्योजयामः।
  • ‘महीनां पयो सि इति दर्भपुञ्जीलाभ्यां नवनीतमुद्यौति’ (आप० श्रौ० १०।२।६।१२)। उद्यौति उद्याच्छति।
  • ‘विष्णोः स्तूपो सीति कर्षन्निवाहवनीयं प्रति प्रस्तरमपादत्ते नोद्यौति न प्रयौति’ (आप० श्रौ० २।३।८।५)। नोद्यौति नोद्यच्छति।
  • ‘अग्निष्टे निशमयतु यदि ते मन उद्युतम्’ (अथर्व० ७।१११।२)। उद्युतं क्षुभितं विह्वलं व्याकुलम्। उद्यतमिति सायणः पठति। ग्रहविकारेणोद्भ्रान्तमित्येवं च व्याख्याति।

युज्

  • {उद्युज्}
  • युज् (युजिर् योगे)।
  • ‘स ह तत एव शर्यातो मानव उद्युयुजे नेदपरं हिनसानीति’ (श० ब्रा० ४।१।५।७)। उद्युयुजे उच्चचाल, गन्तुं दध्रे, गमनाय मनो दधे।
  • ‘तदहरेव पौर्णमासेन हविषेष्ट्वोद्युञ्जीरन्’ (लाट्या० श्रौ० १०।१६।६।७)। उद्युञ्जीरन् गन्तुमिति शेषः।
  • ‘यथा हस्ती हस्तिन्याः पदेन पदमुद्युजे’ (अथर्व० ६।७०।२)। उद्युजे संयुनक्ति। अव्यवहितमनुसरति गजीमित्यर्थः।
  • ‘भवन्तमभियोक्तुमुद्युङ्क्ते’ (दशकु० ३)। उद्युङ्क्ते संनह्यते, उज्जृम्भते, यतते। उद्युक्तो विद्यान्तमधिगच्छति। उद्युक्त उद्योगपरायणः।
  • ‘आखण्डलोद्योजितकाण्डाः चण्डाम्बुवाहाः’ (प्र० च)। उद्योजिताः प्रेरिताः प्रणुन्नाः।
  • ‘यदि चोद्योजयिष्यामि भर्तारं (सुग्रीवं) रामकारणात्’ (रा० ५।३०।१५)। उद्योगं कारयिष्यामीत्यर्थ।

युध्

  • {उद्युध्}
  • युध् (युध सम्प्रहारे)।
  • ‘ता (प्रजाः) अस्मा उदवायोधंस्तासां मन्युमवाशृणात्’ ( )। उदयोधन्=उदयुध्यन्त संप्रजिहीर्षया क्रोधप्रयुक्ता वा समासदन्।
  • ‘उद्योधन्त्यभि वल्गन्ति तप्ताः फेनमस्यन्ति बहुलांश्च बिन्दून्’ (अथर्व० १२।३।२९)। आप इति शेषः। उद्योधन्ति उद्युध्यन्ते ऊर्मिमत्य आपः संघट्टन्ते।

रञ्ज्

  • {उद्रञ्ज्}
  • रञ्ज् (रञ्ज रागे)।
  • ‘यस्मान्मे मन उदिव रारजीति’ (अथर्व० ६।७१।२)। भृशं संरज्यते।

राज्

  • {उद्राज्}
  • राज् (राजृ दीप्तौ)।
  • ‘यस्मान्मे मन उदिव रारजीति’ (अथर्व० ३।७१।२)। उद्रारजीति भृशमुद्दीप्यते।

रिच्

  • {उद्रिच्}
  • रिच् (रिचिर् विरेचने)।
  • ‘उत ते शतान्मघवन्नुच्च भूयस उत् सहस्राद् रिरिचे कृष्टिषु श्रवः’ (ऋ० १।१०२।७)। उद्रिरिचे=उद्रिक्तम्, अतिरिक्तं बभूव।
  • ‘ममैवोद्रिच्यते जन्म…तव जन्मनः’ (भा०)। उद्रिच्यते ततोऽतिशायि भवति।
  • ‘उदिन्न्वस्य रिच्यतेंशः’ (अथर्व० २०।५९।३)। अभ्यधिको भवतीत्यर्थः।
  • ‘उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः’ (भा० भीष्म० ६।३९)। उद्रिच्यते उत्कृष्टतरं भवति।
  • ‘शिखरैः खमिवोद्रिक्तैः।’ (रा० गोरे० २।१०३।४)। खमुद्रिक्तैर्गगनातिगैः।
  • ‘उद्रिक्तचेता महामना मनस्वी’ (कथा० ३२।७३)।
  • ‘अनुद्रिक्तावनूनौ’ (मार्क० पु० ४६।५)। अनुद्रिक्तौ=अनभ्यधिकौ।
  • ‘वाजिनोद्रेकेण दिशः प्रतियजति’ (भा० श्रौ० ८।४।३)। उद्रेकः शेषः।
  • ‘उद्रेकेण पशुबन्धवद् दिशः प्रतीज्य’ (आप० श्रौ० ८।१।३।१२)। उक्तपूर्व एवार्थः। स्थालीस्थमग्निसंयोगाद् उद्रेकि सलिलं यथा (वि० पु० २।४।८९)। उद्रेकि उत्सेकि उत्सेचनवत्।
  • ‘तेषामुद्रिक्तचित्तानामभिषेकाम्बुभिः समम्। विवेको विगलत्योघेनोह्यमान इवाखिलः’ (कथा० ९२।५५)॥

रुच्

  • {उद्रुच्}
  • रुच् (रुच दीप्तावभिप्रीतौ च)।
  • त्वमग्ने क्रतुभिः…उदरोचथाः (अथर्व० १३।३।२३)। उदरोचथा उच्चैरदीप्यथाः।

रुध्

  • {उद्रुध्}
  • रुध् (रुधिर् आवरणे)।
  • ‘मेधावी राजा सर्वेभ्यो माऽन्तेभ्य उदरौत्सीत्’ (श० ब्रा० १४।७।१।४१)। बहिष्पराणुदत्, बलाद् बहिरकरोत्।
  • ‘यो वै संवत्सरस्यावरोधनं चोद्रोधनं च वेद स वै स्वस्ति संवत्सरस्य पारमश्नुते’ (ऐ० ब्रा० ४।२२)। उद्रोधनमन्त्योंशः।

लङ्घ्

  • {उद्लङ्घ्}
  • लङ्घ् (लघि गतौ)।
  • ‘को हि स्वशिरश्छायां विधेश्चोल्लङ्घयेद् गतिम्’ (कथा० ५२।२११)। उल्लङ्घयेत् अतिक्रामेत्। अम्भोभिरुल्लङ्घिततुङ्गरोधसः (नद्यः)। उक्तोऽर्थः।

लप्

  • {उल्लप्}
  • लप् (लप व्यक्तायां वाचि)।
  • ‘यानेव शब्दान् वयमुल्लपामः।’ उच्चारयामः, व्याहरामः।
  • ‘श्रुता मयाऽऽर्यपुत्रस्योल्लापाः’ (उत्तर० ३)। व्याहृतानि, वचनानि।
  • ‘खलोल्लापाः सोढाः कथमपि तदाराधनपरैः’ (भर्तृ० ३।६)। उल्लापा उपालम्भाः। काक्वा वर्णनमुल्लापः। (वैजयन्ती)।

लम्ब्

  • {उल्लम्ब्}
  • लम्ब् (रबि लबि अबि शब्दे लबि अवस्रंसने च)।
  • ‘पादेनैकेन गगने द्वितीयेन च भूतले। तिष्ठाम्युल्लम्बितस्तावद् यावत्तिष्ठति भास्करः’ (मृच्छ० २।११)॥ उल्लम्बित ऊर्ध्वं लम्बितः। उत्थित ऊर्ध्वकायः।
  • ‘राजद्वारि स चीरिकाम्…उदलम्बयत्’ (कथा० ५१।१३०)।
  • ‘उल्लम्ब्य तरौ क्षिप्रं वधकैरवशो हतः’ (कथा० ६४।५३)। ऊर्ध्वं लम्बयित्वा।
  • ‘तस्मिन्नुल्लम्बितमृतः कोप्येकः पुरुषः स्थितः’ (कथा० ७५।४८)। उल्लम्बित उद्वध्य लम्बितः।

लस्

  • {उल्लस्}
  • लस् (लस शब्दे, शिल्पयोगे च)।
  • ‘उल्लसद्विस्मयौत्सुक्यसाहस–’ (कथा० २२।१०८)। उल्लसद् आविर्भवत्, उत्पद्यमानम्।
  • ‘उल्लासितः खड्गः शूद्रकेणापि’ (हितोप०)। उल्लासित उद्भ्रमितः।
  • ‘उल्लासयन्त्यः श्लथबन्धनानि गात्राणि’ (ऋतु० ६।८)। उल्लासयन्त्य उत्क्षिपन्त्यः, नर्तयन्त्यः।
  • ‘न तेषां युगपद् राजन् ह्रास उल्लास एव वा’ (भा० पु० ७।१।७)। उल्लासो वृद्धिः।

लाघ्

  • {उल्लाघ्}
  • लाघ् (लाघृ सामर्थ्ये)।
  • ‘उल्लाघयत्यातुरमौषधं हि’ (तन्त्रा० २।३।८८)। समर्थं गदान्निर्गतं करोतीत्याह।
  • ‘अम्भोजानि घनाघनव्यवहितोप्युल्लाघयत्यंशुमान्’ (राज० ४।३६५)। उल्लाघयति विकासयति।

लिख्

  • {उल्लिख्}
  • लिख् (लिख अक्षरविन्यासे)।
  • ‘दक्षिणेनान्वाहार्यपचनं सकृदुल्लिखति’ (श० ब्रा० २।४।२।१३)। रेखां करोतीत्यर्थः।
  • ‘दुर्योधनः स्मितं कृत्वा चरणेनोल्लिखन्महीम्’ (भा० वन० १०।२९)। उल्लिखन्नुत्किरन्।
  • ‘भूमौ चोल्लिखति’ (का० श्र० ७।३।२८)। शृङ्गेण भूमौ रेखां करोतीत्येवार्थः।
  • ‘स (चित्रकृत्) स्तम्भं वीक्ष्य सुश्लक्ष्णं तत्र गौरीं समालिखत्। रूपकरोपि शस्त्रेण क्रीडयैवोल्लिलेख तम्’ (कथा० ३७।९)॥ उल्लिलेख उत्कीर्णवान्।
  • ‘अलौकिकत्वादमरः स्वकोषे न यानि नामानि समुल्लिलेख’ (त्रिकाण्ड०)। न समुल्लिलेख न उल्लिलेख न न्यास, नोज्जहार।
  • ‘अथाममलसीभूतं साध्यं त्वरितमुल्लिखेत्’ (अष्टाङ्ग० सूत्र० ८।१५)। उल्लिखेत् उद्वमेत्।
  • ‘जलद-संहतिमुल्लिखन्त्यः’ (शिशु० ५।२०)। विदारयन्त्य इत्यर्थः।
  • ‘खमिवोल्लिखन्’ (रा० ३।१५।२५)। मृद्नन्। समासादयन्नियर्थः।
  • ‘विषाणोल्लिखितस्कन्धः’ (हितोप० ३।१३९)। उल्लिखितो घृष्टः।
  • ‘संस्कारोल्लिखितो महामणिरिव क्षीणोपि न लक्ष्यते’ (शा० ६।५)। संस्कारः शाणः। संस्क्रियतेऽनेनेति। उल्लिखितो घृष्टः, तीक्ष्णीकृतः, निशायितः।
  • ‘इति स्वहस्तोल्लिखितश्च मुग्धया रहस्युपालभ्यत चन्द्रशेखरः’ (कु० ५।५८)। उल्लिखित आलिखित चित्रेऽर्पितः।
  • ‘शृङ्गाभ्यां तदुदरमुल्लिख्य’ (पञ्चत०)। विदार्येत्यर्थः।
  • ‘स्वशृङ्गाग्रप्रहारेण तस्योदरमुल्लिख्य तस्मात्कथमप्युत्थितः’ (तन्त्रा० १।१३)। उक्तोर्थः। विरुद्धक्रियोल्लेखे।
  • ‘समं तद् वृत्त्यसम्भवे’ (भामह-विवरणे सन्देहसंकरोदाहरणम्)। उल्लेखो वर्णनम्।
  • ‘संमार्जनोपाञ्जनेन सेकेनोल्लेखनेन च। गवां च परिवासेन भूमिः शुध्यति पञ्चभिः’ (मनु० ५।१२४)॥ उल्लेखनेन खात्वा कतिपयमृदपनयनेन। मासपञ्चतिथीनां च निमित्तानां च सर्वशः। उल्लेखनमकुर्वाणो न तस्य फलभाग्भवेत् (शब्दकल्पद्रुमे समुद्धृतं तिथ्यादितत्त्वम्)। उल्लेखनं कीर्तनम्।
  • ‘लङ्घनोल्लेखने शस्ते’ (चरके चि० २१।४४)। उल्लेखनं वमनम्।
  • ‘क्षुत्तृष्णोल्लेखनस्वेदरूक्षपानान्नभेषजम्’ (अष्टाङ्ग० सूत्र० १६।३३)। उक्तोऽर्थः।
  • ‘पीत्वा च मद्यमपि चेक्षुरसप्रगाढम्। निःशेषतः क्षणमवस्थितमुल्लिखेच्च’ (सुश्रुत० उत्तर० ४७।१७)। उल्लिखेत् वमेत्।
  • ‘कृत्वाप्यनन्यसामान्यमुल्लेखं नोद्गिरन्ति ये’ (कथा० ७८।११५)। उल्लेखो लेखः, उत्कीर्य लेखो वा।
  • ‘इत्यौत्सुक्यकृतोल्लेखा साऽवतीर्य नभोन्तरम्’ (कथा० २८।५९)। औत्सुक्यकृतोल्लेखा औत्कण्ठ्यस्पृष्टा।
  • ‘आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति’ (रघु० ६।३२)। यत्नोस्लिखितः प्रयत्नेन शाणे घृष्टः।
  • ‘समीक्ष्योल्लेखनं वापि कारयेल्लवणाम्बुना’ (चरक० चि० १७।८२)। उल्लेखनं वमनम्।

लिह्

  • {उल्लिह्}
  • लिह् (लिह आस्वादने)।
  • ‘मणिः शाणोल्लीढः समरविजयी हेतिनिहितः’ (भर्तृ० २।३५)। तीक्ष्णीकृत इत्यर्थः।

ली

  • {उल्ली}
  • ली (लीङ् श्लेषणे)।
  • ‘जटाभिरुल्लापयते।’ पूजामधिगच्छतीत्यर्थः।
  • ‘श्येनो वर्तिकामुल्लापयते।’ न्यक् करोति अभिभवति, उदाकुरुते।
  • ‘बालमुल्लापयते। वञ्चयते विप्रलभते।’ इति पा० १।३।७० इत्यत्र वृत्रावुदाहृतयः।
  • ‘ततस्तां चिबुके शौरिरुल्लापनविधानवित्’ (वि० पु० ५।२०।९)। उल्लापनविधानम् ऋजूकरणविधिः।

लुप्

  • {उल्लुप्}
  • लुप् (लुप्लृ छेदने)।
  • ‘घृतादुल्लुप्तं मधुना समक्तम्’ (अथर्व० ५।२८।१४)। उल्लुप्तं बलादुद्धृतम्।

लोक्

  • {उल्लोक्}
  • लोक् (लोकृ दर्शने)।
  • ‘दूराद् ददर्श नृपतिः स वनस्पतीन्द्रमुल्लोक्यमानमधिराजमिवान्यवृक्षैः’ (अवदा० महाकपिजा० ७)। उल्लोक्यमानम् ऊर्ध्वं विलोक्यमानम् उद्वीक्ष्यमाणम्।
  • ‘अप्यत्र ज्ञायन्ते पुत्रकृतका वृक्षाः। जानामि जानामि। अवलोकितपत्रका उल्लोकयितव्याः सम्प्रति संवृत्ताः’ (प्रतिमा० ७)। उल्लोकयितव्या ऊर्ध्वमुत्क्षिप्य दृशं द्रष्टव्याः। स्थाने कवेरुदः प्रयोगः।

वच्

  • {उद्वच्}
  • वच् (वच परिभाषणे)।
  • ‘यथेन्द्र उद्वाचनं लब्ध्वा’ (अथर्व० ५।८।८)। उद्वाचनः कश्चिदसुरः।
  • ‘उद्विवक्षा या निवृत्तमधिकृत्य विचार्यते’ (ऐ० ब्रा० षड्गुरुशिष्योक्तिः)। निगदव्याख्यातम्।

वद्

  • {उद्वद्}
  • वद् (वद व्यक्तायां वाचि)।
  • ‘अथैक उद्वदति’ (श० ब्रा० ३।२।१।३९)। उद्वदति उच्चैर्वदति।
  • ‘अधस्पदान्म उद्वदत मण्डूका इवोदकात्’ (ऋ० १०।१६६।५)।
  • ‘यावन्तो यज्ञायुधानामुद्वदतामुपाशृण्वन्’ (तै० ब्रा० ३।२।५।९)।
  • ‘औलूखलानुद्वादयते’ (श० ब्रा० ४।३।३।१९)। उच्चैर्वादयते इत्यर्थः।
  • ‘प्रणीतासु प्रणीयमानासु वाचं यच्छत्या हविष्कृत उद्वादनात् यदि वदेद् वैष्णवीं जपेत्’ (वै० श्रौ० २।२।३)। उद्वादनमुच्चैर्भाषणम्।
  • ‘तस्माद् बृहतः स्तोत्रे दुन्दुभीन् उद्वादयन्ति’ (जै० ब्रा० १।१४२)। उद्वादयन्ति उच्चैर्वादयन्ति।

वप्

  • {उद्वप्}
  • वप् (डुवप बीजसन्ताने)।
  • ‘असुरास्त्वा न्यखनन् देवास्त्वोदवपन्’ (अथर्व० ६।१०९।३)। उदवपन् उदहरन्।
  • ‘प्राचः पांसूनुद्वपति’ (का० श्रौ० ६।२।१०)। अवटात् प्राच्यां निष्कासयति।
  • ‘लाङ्गलमुदिद् वपतु गामविम्’ (अथर्व० ३।१७।३)। उद्वपतु उत्खनतु।
  • ‘देवस्त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिः सुबाहुरुत शक्त्या’ (वा० सं० ११।६३)। उद्वपतु परास्यतु (भस्म तावकमित्यभिप्रैति)।
  • ‘निखातं वसूदिद् वपति दाशुषे’ (ऋ० ८।५५।४)। उद्वपति उदस्यति, उत्क्षिपति।
  • ‘यद् विद्वांसा निधिमिवापगृह्ळमुद्दर्शतादूपथुर्वन्दनाय’ (ऋ० १।११६।११)। उदूपथुः=उद्वापं चक्रथुः।
  • ‘कथं हि लाङ्गलमुद्वपेदन्यत्र धान्यविक्रयात्’ (वसिष्ठ० २।३६)। उद्वपेत्=उत्पादयेत्। गवादीनिति शेषः।
  • ‘तान् धिष्ण्यानुद्वापयाञ्चक्रुः’ (श० ब्रा० ३।६।१।२७)। पर्याभावयन्, अवमूर्ध्नोऽ कुर्दन्। धिष्ण्यान्कुण्डान्।
  • ‘व्रीहियवैस्तिलसर्षपैरपामार्गैः सदापुष्पीभिरुद्वाप्य’ (शां० गृ० ३।१।३)।

वम्

  • {उद्वम्}
  • वम् (टुवम उद्गिरणे)।
  • ‘गुणा अनुक्ता अपि ते स्वयं यान्ति प्रकाशताम्। छाद्यमानापि सौगन्ध्यमुद्वमत्येव मालती’ (तन्त्रा० २।१७)॥ उद्वमति निष्ठीव्यति उद्गिरति परिमलमित्याह।
  • ‘सा… तत्-संश्रुतौ वरौ। उद्ववामेन्द्रसिक्ता भूर्बिलमग्नाविवोरगौ’ (रघु० १२।५)।
  • ‘कर्कोटो विषं तीक्ष्णं मुखात्सततमुद्वमन्’ (भा० वन० ७२।३०)। समावुद्वान्तनिर्मदौ (अमरः)। हस्तिनमुद्दिश्य वचनम्। निर्मदो गज उद्वान्त उच्यत इत्यर्थः।

वस्

  • {उद्वस्}
  • वस् (वस निवासे)।
  • ‘चरुं श्रपयित्वाऽभिधार्योद्बास्यति’ (श० ब्रा० २।५।३।५)। अग्नेः सन्तापादपनयति। अधः श्रयतीत्यर्थः।
  • ‘अथैतदाज्यमधिश्रित्योदगुद्वासयेत्’ (गो० गृ० १।७।२७)। उक्तोऽर्थः।
  • ‘उद्वासयन्ति पशुम्’ (श० ब्रा० ३।८।३।९)। अपाकुर्वन्ति, व्याकुर्वन्ति, अपनयन्ति।
  • ‘स दैवतगणाँल्लोकानुदासयति दर्पितः’ (हरि० १।५८।२५)। उद्वासयति विनाशयति, विध्वंसयति, उद्वर्तयति।
  • ‘किमुद्वास्यमानं कियुद्वासितम्’ (श० ब्रा० ११।५।३।२)। अग्नेः सकाशाद् दूरं नीयमानम्।
  • ‘राक्षसोद्वासितां नगरीम्’ (हरि० ६२६६)। उज्जासितामित्याह।
  • ‘स्वभवनं राक्षसैरिवोद्वासितम्’ (अवदा० अविषह्य० जा०)। उक्तोऽर्थः।
  • ‘(अहीन्द्रम्) ह्रदात् प्रसह्योद्वास्य’ (भा० पु० १०।२६।१२)। उद्वास्य निर्णुद्य, निर्गमय्य।
  • ‘समानमा हविषामुद्वासनात्’ (भा० श्रौ० ६।१७।७)। उद्वासनमधः श्रयणम्।
  • ‘गार्हपत्य आज्यमधिश्रित्योद्वास्य’ (श० ब्रा० १२४।४।७)। उद्वास्य=अपनीय। पृथक् कृत्वा।
  • ‘अत्रोद्वासनमाहवनीयश्रापिणः’ (का० श्रौ० २।७।२४)। उद्वासनमग्नेरपनयनम्।
  • ‘न स्युर्विटा अथ कुतर्कपथस्थिताश्च नित्योद्वसेषु निरयेषु मृगाश्चरेयुः’ (राज० ५।३७९)। उद्वसो निर्वास्तव्यः, अनध्युषितः। उद्वसेष्विति निरयविशेषणम्।
  • ‘तस्य धर्मविरोधेन यथा तत्क्षेत्रमुद्वसेत्’ (स्कन्दपु० का० ४।४६।३)। उद्वसेत् विनश्येत्, उत्सीदेत्।
  • ‘घोरं तालवन दैत्यश्चरत्युद्वासयन् प्रजाः’ (हरि० १।५४।७५)। उद्वासयन् उज्जासयन्, उद्वर्तयन्।
  • ‘सर्पं तमुदवासयत्’ (भा० पु० १०।१६।१)। उदहरत्, निरगमयत्, निरक्रमयत्।
  • ‘आत्मनियमाः सहयमा कतिपयाहर्गणेन वियुज्यमानाः किल सर्व एवोदवसन्’ (भा० पु० ५।८८)। उत्सन्ना अभूवन्।

वह्

  • {उद्वह्}
  • वह् (वह प्रापणे)।
  • ‘समाप्तामूद्वहन्ति’ (गो० गृ० २।२।१७)। ऊद्वहन्ति=उद्वहन्ति=प्रापयन्ति=नयन्ति=उद्गृह्य उच्चित्य नयन्तीत्यर्थः।
  • ‘उत्त्वा वहन्तु मरुतः’ (अथर्व० १८।२।२२)। उन्नयन्तु, उत्कर्षन्त्वित्यर्थः।
  • ‘उत्त्वा यज्ञा ब्रह्मपूता वहन्ति’ (अथर्व० १३।१।४३)। ऊर्ध्वं नयन्तीत्याह।
  • ‘अपः समुद्राद् दिवमुद्वहन्ति’ (अथर्व० ४।२७।४)। उक्तोऽर्थः।
  • ‘उदु त्यं जातवेदसं देवं वहन्ति केतवः’ (ऋ० १।५०।१)। उदितचर एवार्थः।
  • ‘युवं भूज्युमव-विद्धं समुद्र उदूहथुरर्णसः’ (ऋ० ७।६९।७)। उदूहथुः=उज्जह्रथुः।
  • ‘श्यावाश्वमार्वनानसं सत्रमासीनं धन्वोदवहन्’ (पञ्च० ब्रा० ८।५।९)। उदवहन् उदगमयन्।
  • ‘उद्वहेयं भुजाभ्यां हि मेदिनीमम्बरे स्थितः’ (रा० ३।५५।९)। उत्त्थापयेयमित्यर्थः।
  • ‘उद्ववाह शरान्धोरान्रावरणस्य सुतं प्रति’ (रा० ६।७०।९)। उद्ववाह=उदुवाह तूणीरान्निश्चकर्ष रावणिं प्रत्यसिष्यामीति।
  • ‘श्रियमुद्वहति मुखं वालातपरक्तकमलस्य’ (विक्रम० ४।४२)। उद्वहति धत्ते।
  • ‘काषायमुद्वहति यो न च निष्कषायः’ (सौन्दर० ७।४९)। उद्वहति, धत्ते, परिधत्ते, वस्ते।
  • ‘अपक्रमेद्धि कालज्ञः समर्थो युद्धमुद्वहेत्’ (हरि० २।३९।८)। निर्वहेद् आचरेदित्याह।
  • ‘उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम्’ (मनु० ३।४)। उद्वहेत्=परिणयेत्, उपयच्छेत, परिगृह्णीत।
  • ‘नोद्वहेत्कपिलां कन्याम्’ (मनु० ३।८)। उक्तोऽर्थः।
  • ‘तमुद्वहन्तं पथि भोजकन्याम्’ (रा० ७।३५।७०)। उद्वहन्तमपहरन्तम् अपवाहयन्तम्।
  • ‘तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन्’ (भा० आदि० ९४।१५)। उद्वहन् उन्नयन्।
  • ‘उदूढलोकत्रितयेन’ (शिशु० १।३६)। उदूढं धृतम्।
  • ‘आत्मानमुद्वोढुमशक्नुवत्यः’ (रघु० १६।६०)। उद्वोढुमवलम्बितुम् उत्तम्भितुम्। अथोद्वाहः। तत्र वरस्य गृहे बध्वा नयनम्। तद्यथा वधूवरौ यानमारोहयति (अथर्ववेदीय चतुर्दशकाण्डभूमिकाया उपक्रमे सायणः)।
  • ‘स्त्रियाश्चोद्वहने’ (पा० गृ० १।१०)। अनन्तरोदित एवार्थः।
  • ‘भारोद्वहनस्विन्नाश्च तथेमे रथवाजिनः’ (रा० ६।८९।१५)। उद्वहनं कर्षणम्।
  • ‘भविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः’ (रा० १।१३।५६)। कुलोद्वहा वंशसमुन्नतिकराः।
  • ‘अभिपन्नस्तु राजेन्द्र स म्बो वृष्णिकुलोद्वहः’ (भा० वन० १६।१८)। वृष्णिकुलोद्वहो वृष्णिदायादः, वृष्णिवंशसन्तानः।
  • ‘शवोद्वहमु ह र्त मन्यन्ते यस्तानि प्रतिगृह्णाति’ (श० ब्रा० १२।५।२।१४)। शवानां कुणपानां वोढारम्।
  • ‘यदा गतोद्वाहमकूजनाक्षं सुवर्णतारं रथमाततायी’ (भा० उ० ४८।२८)। गतोद्वाहमपगतोद्वृत्तगतिमनुकूलगतिमित्यर्थः।
  • ‘उत्तीर्णो वा कथं भीमाः सरितः कूलमुद्वहाः’ (भट्टि० ४।२२)। कूलमुद्वहास्तटाप्लाविनीः, रोधः प्रवाहिणीः।
  • ‘राज्यमुद्वक्ष्यति नृपः स्वयम्’ (कथा० ८६।१६)। राज्यधुरां वक्ष्यतीत्युक्तं भवति।
  • ‘यदीमाविदं रोहिताश्वावश्माचितं कूलमुद्वहातः’ (पञ्च० ब्रा० १४।३।१३)। उद्वहातः=ऊर्ध्वम् उपरि नयेताम्। अश्माचितं कूलम्। तस्योपरि शकटस्य वहनं कर्षणं दुष्करमिति यदिशब्दोऽभिसन्धौ। उद्वहात इति पञ्चमो लकारः।
  • ‘स यद्यनुपश्येद् उदूह्य पूर्वमपरं निदध्यात्’ (ऐ० ब्रा० ७।६)। उदूह्य (आहवनीयस्थानात्) उद्धृत्य। उदूह्येत्यत्र दीर्घश्छान्धसः।
  • ‘उद्वहन्तो महावृक्षान्’ (रा० ६।४।२७)। उद्वहन्त उत्क्षिपन्त उद्धरन्तः। वानरा इति शेषः।

वा

  • {उद्वा}
  • वा (वा गतिगन्धनयोः)।
  • ‘अग्निर्वा उद्वान् वायुमनुप्रविशति’ (ऐ० ब्रा० ८।२८)। वातवेगेन निर्वाणतां गच्छन्नित्याह। उद्वानमुपशमनम्।

विज्

  • {उद्विज्}
  • विज् (ओविजी भयचलनयोः)।
  • ‘अपां वेगासः पृथगुद् विजन्ताम्’ (अथर्व० ४।१५।३)। उद्विजन्तामुच्चलन्तु। इह विजिः शारीरे चलने कम्पने वर्तते, लोके तु मानसे प्रायेण।
  • ‘शयानस्य हि ते भूमौ कस्मान्नोद्विजते वपुः’ (हरि० २।३१।३५)। भयान्न वेपत इति विवक्षति।
  • ‘न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम्’ (गीता० ५।२०)। उद्विजेत्=उद्विजेत=ग्लायेत्, विमनायेत।
  • ‘संमानाद् ब्राह्मणो नित्यमुद्विजेत विषादिव’ (मनु० २।१६२)। उद्विजेत त्रस्येत्, बिभीयात्।
  • ‘कच्चिन्नोग्रेण दण्डेन भृशमुद्विजसे प्रजाः’ (भा० सभा० ५।४४)। उद्विजसे उद्वेजयसि, त्रासयसि, भाययसि। अन्तर्भावितण्यर्थकोत्र विजिः। प्रायेणाकृतकृत्यत्वान्मृत्योरुद्विजते जनः। विभेतीत्यर्थः।
  • ‘उद्वेजयति भूतानि क्रूरवाग् धनदोपि सन्’ (का० नी० सा० ३।२३)। वित्रासयति उत्त्रासयति। उद्वेजयति सूक्ष्मोपि चरणं कण्टकाङ्कुरः। व्यथयतीत्यर्थः।
  • ‘उद्वजयति जिह्वाग्रं कुर्वश्चिमचिमां कटुः’ (बाग्भट० १०।५)। सुश्रुते (२।२२।१४) नष्टसंज्ञस्य (जलप्रोक्षणेन) संज्ञाप्रतिलम्भनेऽर्थे उद्विजेः प्रयोगो ण्यन्तस्य।
  • ‘नोद्विग्नश्चरते धर्मं नोद्विग्नश्चरते क्रियाम्’ (भा० आदि० ४१।२८)। उद्विग्नोऽशान्तः, अस्वस्थचित्तः।
  • ‘नायमुद्विजितुं कालः स्वामिकार्याद् भवादृशाम्’ (भट्टि० ७।९२)। उद्विजितुं विचलितुम्, आत्मानं परिहर्तुम्।

वी

  • {उद्वी}
  • वी (वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु)।
  • ‘वज्रो धावन्ती वैश्वानर उद्वीता’ (ब्रह्मगवी) (अथर्व० १२।५।१८)। उद्वीता उदजिता।

वृ

  • {उद्वृ}
  • वृ (वृञ् वरणे)।
  • ‘वेगं चक्रे महावेगः क्रोधादुद्वृत्यचक्षुषी’ (भा० द्रोण० २१।१५)। उद्वृत्य विस्फार्य उत्पाट्य।
  • ‘न खल्वगृहीतमुद्वरति रमणीयं वस्तु’ (हास्य० १)। उद्वरति वृणुते। विरल उदो योगो वृङा च वृञा च।
  • ‘उद्वृतमन्त्रो दूतप्रणिधिः’ (कौ० अ० ११६।१)। उच्चैरत्यन्तं वृतो निर्धारितो मन्त्रो येन स तथोक्तः। उद्धृतमन्त्र इति पाठान्तरम्।
  • ‘उद्वृत्य नयने सहसा दन्तान् कटकटाय्य च’ (रा० ६।८०।१)। उद्धृत्य विस्फार्य। रोषेण महताविष्ट इति पाठान्तरम्।

वृत्

  • {उद्वृत्}
  • वृत् (वृतु वर्तने)।
  • ‘तं यत्र देवा अघ्नंस् तस्य मूर्घोद्ववर्त’ (श० ब्रा० ४।४।३।४)। विपफाल, विदीर्णतां जगाम।
  • ‘नास्यास्माल्लोकात्प्रजोद्वर्तते’ (श० ब्रा० १४।५।१।५)। नोद्वर्तते नोत्सीदति, नावसानमुपैति।
  • ‘यदा वृक्ष आविर्मूलो भवत्यथोद्वर्तते’ (ऐ० ब्रा० २।३।६।१०)। उद्वर्तते शीर्यते, निपतति, पराभवति।
  • ‘अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः।’ (ऋ० ८।१४।१, वा० सं० सं० १९।७१)। उदवर्तयः=अच्छिनः। उत्पूर्वो वृतिश्छेदने वर्तत इत्युवटः।
  • ‘अथ चेद्वेदनां दद्यात्तिलैरुद्वर्तयेत्ततः’ (का० सं० चि०)। उद्वर्तयेत्, मर्दयेत्।
  • ‘देव्यङ्गमुद्वर्तयते कराभ्याम्।’ (वामन पु० ५४।५७)। उक्तोऽर्थः।
  • ‘उद्वर्ततामन्तकाले समुद्राणामिव स्वनः’ (हरि० १३६७६)। उद्वर्ततां क्षुभ्यतां क्षोभमाणानां क्षुभ्नताम्, आन्दोल्यमानानाम्।
  • ‘मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव’ (भा० वन० २०४।२७, हरि० १।११।५१)। उद्वर्तयन् उज्जासयन् प्रध्वंसयन्।
  • ‘उद्वर्तयिष्यंस्त्रिदशेन्द्रसेनाम्’ (हरि० ३।५१।९१)। उन्मूलयिष्यन्नित्यर्थः।
  • ‘अपामुद्वृत्तानामुपदिशन्त्या स्थितिपदम्’ (मुद्रा० ३।८)। मर्यादातटमतिक्रम्य वहमानानाम् इत्यर्थः।
  • ‘मकरालयाश्चोद्वृत्तवेलाः’ (वामनपु० ९१।९)। अतिक्रान्तमर्यादा इत्याह।
  • ‘वारयामास संक्रुद्धो वेलेवोद्वृत्तमर्णवम्’ (भा० द्रोण० १६५।२३), उद्वृत्तोऽतिप्रवृद्धोदकोच्चयः।
  • ‘नामृष्यत महाबाहुः क्रोधादुद्वृत्तलोचनः’ (भा० द्रोण० १३१।४२)। उद्वृत्तलोचनो विस्फारिताक्षः, उत्क्षिप्तप्रेक्षणः।
  • ‘उद्वृत्तनाभिं…विद्यात्’ (कौ० अ० ४।६)। उद्गतनाभिमित्यर्थः।
  • ‘मेघाविव यथोवृत्तौ दक्षिणोत्तरवर्षिणौ’ (भा० शल्य० १०।१०)। उद्वृत्तौ=उत्थितौ।
  • ‘गर्जन्तमुद्वृत्तशिताग्रदंष्ट्रम्’ (रा० ६।५९।९५)। उद्वृत्ता (दंष्ट्राः) उन्नता उदञ्चिताः। सुश्रुते (२।२७४।१७) उद्वृत्तमित्युच्छ्रनमप्याह।
  • ‘उद्वृत्तं सततं लोकं राजा दण्डेन शास्ति वै’ (भा० आदि० ४१।२७)। उद्वृत्तमत्याचारम् अपचरितवन्तम्। उच्छृङ्खलम्।
  • ‘अद्य ते बलमुद्वृत्तं शमयेग्निमिवाम्भसा’ (रा० ४।९।७८)। उद्वृत्तमुद्धतं दृप्तम्।
  • ‘क्वचित् उद्वृत्तमृगपतिनादभीतेव कण्टकता…भूमिः’ (काद० विन्ध्याटवीवर्णने)। उक्तोऽर्थः।
  • ‘उद्वर्तितेक्षणः’ (कथा० २९।८०)। उच्छूननेत्रः।
  • ‘व्यायामक्षुण्णगात्रस्य पद्भ्यामुद्वर्तितस्य च’ (पा० ६।१।६३ सूत्रे वृत्तौ)। उद्वर्तितः कारितचेष्टः।
  • ‘अरण्यरुदितं कृतं शवशरीरमुद्वर्तितम्’ (तन्त्रा० १।८।१०५)। उद्वर्तितमुत्खातम्।
  • ‘उद्वर्तितमिदानीं प्रियसख्या रसान्तरेण लज्जालुत्वम्’ (महावीर० २)। उद्वर्तितमपोहितं व्यावर्तितम् व्यपवर्तितम्।
  • ‘उद्वृत्त्य नयने क्रुद्धो दिधक्षुरिव पाण्डवान्’ (भा० शल्य० ३२।४५)। उद्वृत्त्य=उत्क्षिप्य।
  • ‘अब्रवीत्तुभ्यं (=तव) क्रोधादुद्वृत्त्य चक्षुषी’ (भा० भीष्म० ५८।४१, द्रोण० २१।१५)। उक्तोऽर्थः।
  • ‘विघूर्ण्य चोद्वर्त्य च सागराम्भः’ (अवदा० जा० ३२)। उद्वर्त्य=उच्छाल्य।
  • ‘चटुलशफरोद्वर्तनप्रेक्षितानि’ (मेघ० ४२)। उद्वर्तनानि उत्प्लुतयः, इतस्ततः उच्चलनानि।
  • ‘अतितीक्ष्णश्च काकश्च’ (भा० उ० ३५।४७)। अत्र नीलकण्ठ आह– काकः काकवत् क्षतोद्वर्तनेन दुःखितस्यापि दुःखप्रद इति। इहोद्वर्तनेन चञ्च्वा प्रतोदनमुत्करणमुत्खननं वाऽभिप्रेतम्।
  • ‘या न जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः’ (भा० वि० २०।२३)। गात्रमुद्वर्त्यत उत्साद्यते मलं त्याज्यतेऽनेनेति सुरभिचन्दनादिमर्दनद्रव्यम्।
  • ‘नाक्रामेद् रक्तविण्मूत्रष्ठीवनोद्वर्तनादि च’ (याज्ञ० १।१५२)। उक्तोऽर्थः। वरोद्वर्तनार्थं चन्दनं समर्पयामि। इहोद्वर्तनं लेपक्रियामाचष्टे। उद्वर्तनमुत्सादनम् इत्यमरः।
  • ‘उद्वर्त इव सत्त्वानां समुद्राणामभूत् स्वनः’ (रा० ६।४४।१८)। उद्वर्तः संवर्तः, सम्प्लवः, प्रलयकालः। उद्वर्तः प्रमाणमुदाहरणं वा ग्रन्थान्तरादुद्धृतम्। उद्वर्तो हि ग्रन्थः समधिकफलमाचष्ट इति शब्दकल्पद्रुमे।
  • ‘भीमसेनद्वितीयश्च लोकमुद्वर्तयिष्यति’ (भा० उ० १३७।३)। लोकं शत्रुजनमाकुलीकरिष्यतीत्याह।
  • ‘स्वस्थानाद् वस्तितद्वृत्तः’ (माधव० ३१।२१)। उद्वृत्त ऊर्ध्वं गतः, उत्सृप्तः।
  • ‘…उद्वृत्तापवृत्तफलयोनयः’ (सुश्रुतै० सूत्र० ११।१७)। उद्वृत्तफलः स्थानादूर्ध्वगताण्डः।
  • ‘ओष्ठौ रक्तावनुद्वृत्तौ’ (अष्टाङ्ग० शारीर० ३।११०)। अनुद्वृत्तौ बहिरनिर्गतौ।
  • ‘कर्पूरकरम्बितभसितोद्वर्तितसकलतनूः’ (भोज० ४४ श्लोकतः परम्)। उद्वर्तिता मर्दिता। भसितं भस्म।
  • ‘यद्भविष्यस्तु जालान्तरुद्वर्तनविवर्तने। कुर्वन्…।’ (कथा० ६०।१८६)॥ उद्वर्तनमुत्पतनम्।
  • ‘उद्वर्तनं परिक्षेपो विक्षेपः परिवर्तनम्। विसर्पणं च हस्तस्य’ (ना० शा० ४।२४७-४८)॥ उद्वर्तनमुत्पातनम्।

वृह्

  • {उद्वृह्}
  • वृह् (वृहू उद्यमने)।
  • ‘उद् वृह रक्षः सहमूलमिन्द्र’ (ऋ० ३।३०।१७)। उद्वृह=उद्धर।
  • ‘स चापि केशौ हरिरुद्ववर्ह शुक्लमेकमपरं चापि कृष्णम्’ (भा० आदि० १९७।३२)। उद्ववर्ह=उज्जहार।
  • ‘उद्ववर्हात्मनश्चैव मनः सदसदात्मकम्’ (मनु० १।१४)। उद्धृतवानित्यर्थः।
  • ‘शम्ये उद्वृहति’ (श० ब्रा० ३।३।४।२५)। उक्तोऽर्थः।
  • ‘विनिः श्वसंश्चासिमुद्ववर्ह’ (भा० कर्ण० ७०।२३)। उत्खातवान्, कोषादाकृष्टवान्।
  • ‘उद्ववर्ह सितं खड्गमाददानः शरावरम्’ (भा० द्रोण० १४।५६)।
  • ‘कोशादसिं काञ्चनभक्तिचित्रं बिलादिवाशीविषमुद्ववर्ह’ (बुद्ध० ६।५६)। उद्यतवान्, निरकृक्षत्।
  • ‘असीनुद्ववृहुर्दीप्तान्’ (भट्टि० १४।८)। उक्तोऽर्थः।
  • ‘उद्ववर्ह शरं नीलस्तस्य गात्रगतं तदा’ (रा० ४।२३।१७)। उज्जहारेत्यर्थः।
  • ‘अथ नीवीमुद्वृह्य नमस्करोति’ (श० ब्रा० २।४।२।२४)। जघनवासोग्रन्थिं विस्रंस्येत्यर्थः।

वे

  • {उद्वे}
  • वे (वेञ् तन्तुसन्ताने)।
  • ‘आदित्यं पञ्चभी रश्मिभिरुदवयन्’ (तै० ब्रा० १।२।४।२)। उदवयन् उदनह्यन्, उच्चैर्भागेऽबध्नन्नित्यर्थः।

वेप्

  • {उद्वेप्}
  • वेप् (टुवेपृ कम्पने)।
  • ‘द्यावापृथिवी हविषि गृहीत उदवेपेताम्’ (तै० ब्रा० ३।२।४)। उदवेपेताम् उदकम्पेताम्, बलवत् अव्यथेताम्। गृहीतहविष्कः किं वोद्दिश्य यक्ष्यतीत्यज्ञानाल्लोकयोः कम्पः प्राप्त इति सायणः।
  • ‘उद्वेपते ते हृदयं मनस्ते प्रतिसीदति’ (भा० उ० ७५।१८)।
  • ‘उद्वेपमाना मनसा चक्षुषा हृदयेन च’ (अथर्व० ५।२१।२)। उद्वेपमाना उत्कम्पमाना भृशमुद्विजमाना।

वेष्ट्

  • {उद्वेष्ट्}
  • वेष्ट् (वेष्ट वेष्टने)।
  • ‘छिन्ना भुजाः…उद्वेष्टन्ते विचेष्टन्ते पतन्ति चोत्पतन्ति च’ (भा० कर्ण ५२।२५)। उद्वेष्टन्ते उच्छ्रिता भवन्ति।
  • ‘महाभुजगसंकाशा बाहवः परिघोपमाः। उद्वेष्टन्ति विचेष्टन्ति संचेष्टन्ति च सर्वशः’ (भा० द्रोण० ८९।१९)॥ उक्तोऽर्थः।
  • ‘पिण्डिकोद्वेष्टकट्यूरुपाद रुक्सदनानि च’ (चरक० चि० १६।१४)। पिण्डिकोद्वेष्टः पिण्डिकापीडा। जङ्घापिण्डनिस्तोदः।

वै

  • {उद्वै}
  • वै (पै ओवै शोषणे)।
  • ‘यदा वा अग्निरुद्वायति’ (छां० उ० ४।३।१)। उद्वायति शाम्यति।
  • ‘अध चेत् सर्वेऽग्नय उद्वायेयुः किं वा ततो भयमागच्छेत्’ (गो० ब्रा० पू० ३।१३)। यस्याहवनीयेऽनुद्वाते (अनुद्वाने ) गार्हपत्य उद्वायेत्। उक्तोऽर्थः।

व्यध्

  • {उद्व्यध्}
  • व्यध् (व्यध ताडने)।
  • ‘शिखरैः खमिवोद्विद्धैः’ (रा० २।९४।४)। गगनोल्लेखिभिरित्याह।
  • ‘दशव्याममथोद्विद्धं निष्पत्रमकरोत्तदा’ (भा० वन० ११।३९)। उद्विद्धमुत्पाटितम्।

व्रज्

  • {उद्व्रज्}
  • व्रज् (वज व्रज गतौ)।
  • ‘अध्यायमुदव्रजत्’ (पञ्च० ब्रा० १२।११।१०)। अध्ययनाय निरगादित्यर्थः।

शल्

  • {उच्छल्}
  • शल् (शल गतौ)।
  • ‘उच्छलच्छीकराच्छाच्छनिर्झराम्भःकणोक्षितः’ (काव्या० १।४८)। उच्छलन्त उद्गच्छन्त उत्पतन्तः (कणाः)।
  • ‘तारुण्यवातोच्छलितां रूपाब्धेर्लहरीमिव’ (कथा० ५७।७५)। उच्छलिता उद्गमिता, उत्क्षिप्ता। अतिरुचिरोत्प्रेक्षा कवेः।

शास्

  • {उच्छास्}
  • शास् (शासु अनुशिष्टौ)।
  • ‘नू मे ब्रह्माण्यग्ने उच्छशाधि’ (ऋ० ७।१।२०)। उत्कर्षेण शोधितानि कुरु।

शिष्

  • {उद्शिष्}
  • शिष् (शिष असर्वोपयोगे)।
  • ‘मामीषां कञ्चनोच्छिषः’ (वा० सं० १७।४५)। माऽवशिष्टं कुर्वित्याह।
  • ‘एतदेव तत उच्छिष्यते वागित्येव’ (ऐ० ब्रा० ५।३)। परिशिष्यते, उर्वरितं भवतीत्यर्थः।
  • ‘येषां दाराः प्रतीक्षन्ते सुवृष्टिमिव कर्षकाः। उच्छेषपरिशेषं हि तान्भोजय युधिष्ठिर’ (भा० अनु० १३।४९)॥ उच्छेषं भक्तशेषम् उच्छिष्टम्।
  • ‘इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत्। तेषां त्रय उदशिष्यन्त’ (पञ्च० ब्रा० १३।४।७)। उदशिष्यन्त अवाशिष्यन्त अवशिष्टा अभूवन्।
  • ‘मा तस्योच्छेषि किंचन’ (तै० ब्रा० २।४।१।२)। किमपि शिष्टं माभूत्।
  • ‘यदाज्यमुच्छिष्यते’ (तै० ब्रा० १।१।९।३)। उक्तोऽर्थः।

शी

  • {उच्छी}
  • शी (शीङ् स्वप्ने)।
  • ‘तद्ये एते अभितः। पुच्छकाण्डं शिखण्डास्थे उच्छयाते’ (श० ब्रा० ४।५।७।५)। उच्छयाते उद्गते भवतः।

श्रथ् श्रन्थ्

  • {उच्छ्रथ्|उच्छ्रन्थ्}
  • श्रथ श्रन्थ् (श्रथ श्लथ हिंसायाम्, श्रन्थ विमोचनप्रतिहर्षयोः)।
  • ‘उदुत्तमं वरुण पाशमस्मदवाधर्मं वि मध्यमं श्रथाय’ (अथर्व० ७।८३, ३।१८, ४।६९)। उच्छ्रथाय=उच्छ्रथान=ऊर्ध्वमुन्मोचय। पाशभेदेन क्रियायामुपसर्गभेदोऽतिहृदयङ्गमः। उत्तममूर्ध्वभागे स्थितं पाशमुच्छ्रथानेत्याह, अधोभागे स्थितमवाचीनमवश्रथानेति, मध्यमं च विश्रथानेति।

श्रि

  • {उच्छ्रि}
  • श्रि (श्रिञ् सेवायाम्)।
  • ‘उच्छ्रयस्व महते सौभगाय’ (ऋ० ३।८।२)। वर्धस्वेत्यर्थः।
  • ‘उच्छ्रयस्व वनस्पते वर्ष्मन् पृथिव्या अधि’ (ऋ० ३।८।३)। प्रांशुर् उन्नतो भवेत्याह। इहोभयत्रोत्पूर्वः श्रयतिरकर्मकः। तमुच्छ्रयति।
  • ‘उच्छ्रयस्व वनस्पत ऊर्ध्वः’ (श० बा० ३।२।१।३५)। उच्छ्रितं करोतीत्यर्थः।
  • ‘उच्छ्रयस्व बहुर्भव’ (अथर्व० ६।१४२।६)। उत्तिष्ठेत्याह (धान्यं यवमभिसम्बोध्य)।
  • ‘ऊर्जस्वती घृतवती पयस्वत्युच्छ्रयस्व’ (अथर्व० ३।१२।२)। उद्गता भवेत्याह।
  • ‘विजयसहजमश्त्रै र्वीर्यमुच्छ्राययिष्यन्’ (महावीर० १।८)। वर्धयिष्यन्नित्यर्थः। ध्वजमुच्छ्रयति। उन्नमयतीत्यर्थः।
  • ‘द्विपाद उच्छ्रिताश्चेरुः’ (श० ब्रा० ३।७।३।१)। उत्थिताः सन्तः चक्रमुः।
  • ‘भुजावुच्छ्रित्य शस्त्रं च शब्देन महता ततः’ (भा० शल्य० १२।२८)। उच्छ्रित्य उत्क्षिप्य उद्यम्य प्रगृह्य, उन्नमय्य।
  • ‘उच्छ्रित्य बाहू दुःखार्ता ताश्चान्याः प्रापतन्भुवि’ (भा० आश्व० ६६।२७)। दुःखार्ता पृथा। उक्तोऽर्थः।
  • ‘शक्यं चानेन किञ्चिदेव काष्ठमुच्छ्रित्यानुच्छ्रित्य वा पशुरनुबन्धुम्।’ (भाष्ये पस्पशायाम्)। उच्छ्रित्य सन्तक्ष्य।
  • ‘दम्भो धर्म ??जोच्छ्रयः’ (भा० वन०)। उच्छ्रय उन्नयनम्।
  • ‘शक्रपाते तथोच्छ्रये’ (याज्ञ० १।१४७)। शक्रध्वजस्यावरोपणदिवसे उच्छ्रायदिवसे चाहोरात्रमनध्याय इति स्मरत्गृषिः।
  • ‘दोषोच्छ्रयोपशान्त्यर्थम्’ (सुश्रुत० २।४।१४)। उच्छ्रयोऽभ्युत्थानमुपचयः। कियानस्यागारस्योच्छ्रायः (इति वयम्)। ऊर्ध्वमानम्, उत्सेध इत्यर्थः।
  • ‘ययौ च तत्प्रवहणं क्षणमूर्ध्वमधः क्षणम्। उच्छ्रायपातपर्यायं धनिनां दर्शयन्निव’ (कथा० २५।४४)॥ उच्छ्रायः समुन्नतिः। मूले दर्शयद् इत्युचितम्। तथा सति च्छन्दोभङ्गप्रसङ्ग इत्यन्यत्।
  • ‘अनित्यपतनोच्छ्राया विचित्रा भाग्यवृत्तयः’ (राज० ५।२६२)। उच्छ्राय उत्पतनम्।
  • ‘सो ऽ ग्नि र्दिविस्पृगूर्ध्व उदश्रयत’ (ऐ० ब्रा० ३।४२)। ऊर्ध्व उदश्रयत ऊर्ध्व उन्नतः सन् उपरितनं देशमाश्रितवानित्यर्थः।
  • ‘उदु ज्योतिरमृतं विश्वजन्यं विश्वानरः सविता देवो अश्रेत्’ (ऋ० ७।७६।१)। उदश्रेत् उच्छ्रयति उच्चैः स्थापयति।
  • ‘समीपतः स्थितं तेजो बलमुच्छ्रयते भृशम्’ (रा० ३।९।१५)। उच्छ्रयते वर्धयति।
  • ‘उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमार्तिमान्’ (चरक० चि० १७।५८)। उच्छ्रिताक्षः उच्छूननेत्रः।

श्रु

  • {उच्छ्रु}
  • श्रु (श्रु श्रवणे)।
  • ‘तस्मिन्मृते न दोषोस्ति द्वयोरुच्छ्रावणे कृते’ (याज्ञ० ३।२२७ मिताक्षरायामुद्धृतं विष्णुवचनम्)। उच्छ्रावणमुच्चैः श्रावणम्।

श्वञ्च्

  • {उच्छ्वञ्च्}
  • श्वञ्च् (श्वच श्ववि गतौ)।
  • ‘उच्छ्वञ्चस्व पृथिवि मा निबाधथाः’ (अथर्व० १८।३।५०)। उच्छूनावयवा पुलकिता भवेति सायणः।

श्वस्

  • {उच्छ्वस्}
  • श्वस् (श्वस प्राणने)।
  • ‘कुतो वायं प्रश्वसिति उच्छ्वसित्यपि वा पुनः’ (भा० आश्व० २०।४२)।
  • ‘वैरूपाक्षमारभ्योच्छ्वसेत्’ (खा० गृ० १।२।२१)। निरुद्धप्राणः स्यादित्यर्थः।
  • ‘नाद्याप्युच्छ्वसिति’ (उत्तर० ३)। सुखानुभूतेर्गमकं निश्वासं न करोति। न प्रकृतिं प्रत्यापद्यत इति त्वार्थिकोऽर्थः।
  • ‘त्वत्सन्निधावुच्छ्वसितीव चेतः’ (कि० ३।८)। उच्छ्वसिति हृष्यति मोदते।
  • ‘नोच्छ्वसिति तपनकिरणैः कुमुदम्’ (विक्रम० ३।१६)। नोच्छ्वसिति न विकसति। नोन्मीलति।
  • ‘आत्मेच्छया न शक्यमुच्छ्वसितुमपि’ (काद० १७५)। उच्छ्वसितुं प्राणितुम्। उच्छब्दो नार्थे विशेषं करोति।
  • ‘उच्छ्वसितालकं मुखम्’ (रघु० ८।५५)। विकीर्णचूर्णकुन्तलम्। पर्याकुलमूर्धजम्।
  • ‘किञ्चित् समुच्छ्वसितपत्रलेखम्’ (कु० ३।३८)। समुच्छ्वसितं प्रमार्जितम्।
  • ‘केयूरबन्धोच्छ्वसितैर्नुनोद’ (रघु० ६।६८)। उच्छ्वसितानि स्फुरणानि स्पन्दनानि।
  • ‘दशमुखभुजोच्छ्वासित-प्रस्थसन्धेः’ (मेघ० वा ६०)। उच्छ्वासितः शिथिलितः।
  • ‘एकोच्छ्वासात्ततः कुण्डं पिबति स्म महागलः’ (भा० आदि० १२८।७१)। एकोच्छ्वासात् सकृन्निश्वस्य, सकृदवानन्नित्यर्थः।
  • ‘यदि सुरभिमवाप्स्यस्तन्मुखोच्छ्वासगन्धम्’ (विक्रम० ४।६४)।
  • ‘अश्रु च कपोलपतितं दृश्यमिदं वर्णकोच्छ्वासात्’ (शा० ६।१५)। उच्छ्वास उच्छूनता, स्फीतता। जलोच्छ्वासाः परीवाहा इति कोषः। तटाकादेरुत्पीडकस्य जलातिरेकस्य निर्गमद्वाराणि।

सञ्ज्

  • {उत्सञ्ज्}
  • सञ्ज् (षञ्ज सङ्गे)।
  • ‘उत्सक्ताः पाण्डवा नित्यं तेभ्योऽसूये द्विजोत्तम’ (भा० आदि० १४०।३)। उत्सक्ताः=उत्कर्षेण सर्वत्र व्याप्ताः। उत्सङ्गोऽङ्को भवति। पुत्रपूर्णोत्सङ्गा। सौधोत्सङ्गः। राजसदनतलम्।
  • ‘स हि (व्रणः) अल्पेनाप्यपचारेणाभ्यन्तरमुत्सङ्गं कृत्वा भूयो विकरोति’ (सुश्रुत० १।५।३६)। व्रणाशये हि चिरकालपूयावस्थानेनाममवदारितमन्तः-प्रदेशान्तरं निम्नमुत्सङ्गतुल्यत्वादुत्सङ्ग इत्युच्यते इति डल्हणः।
  • ‘सपूतिमांसं सोत्सङ्गं सगतिं पूयगर्भिणम्। व्रणं विशोधयेत्’ (अष्टाङ्ग० ३९।४७)। उत्सङ्ग उन्नतिर्भवतीति टीकाकारः। सोऽस्य विभ्रमः।
  • ‘सर्वोत्सङ्गं साधु मन्येत तेभ्यः’ (भा० उ० २८।६)। सर्वेषामुत्सङ्गं समीपं स्वधर्मसंयोगमापदनापदोरुचितम् इति नीलकण्ठः। सर्वोच्छेदमिति पाठान्तरम्।
  • ‘संमाननोत्सञ्जनाचार्यकरणभृतिविगणनव्ययेषु नियः’ (पा० १।३।३६)। उत्सञ्जनमुत्क्षेपणम्। अक्षिपात्रप्रान्तेऽन्तः पिटकोत्सङ्गिनीति शब्द्यते।

सद्

  • {उत्सद्}
  • सद् (षद्लृ विशरणगत्यवसादनेषु)।
  • ‘दिवो मानं नोत्सदन्त्सोमपृष्ठासो अद्रयः’ (ऋ० ८।६३।२)। नोत्सदन् नोदसदन् नोदस्राक्षुरित्याह।
  • ‘उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्’ (गीता० ३।२४)। उत्सीदेयुर्विनश्येयुः परिभवेयुः।
  • ‘तं वै परिष्यन्द उत्सादयेत्’ (श० ब्रा० ९।२।१।१९)। उत्सादयेत्=उपरि धारयेत् उपरिष्टान्निदधीत।
  • ‘अग्नौ त्वेवोत्सादयेत्’ (श० ब्रा० ९।२।१।२०)। उत्सादयेत् अधिश्रयेत्।
  • ‘उभाभ्यां चरिते प्रवर्ग्यमुत्सादयति’ (का० श्रौ० ८।३।१८)। प्रवर्ग्यपात्राणि तत्स्थानान्निष्कासयतीत्यर्थः।
  • ‘उत्सन्नमिव हींदं शिरः’ (श० ब्रा० १४।३।१।१)। उत्सन्नमुद्गतं (शरीरात्)।
  • ‘तेषामुत्सन्ना विधयः’ (का० श्रौ० )। उत्सन्ना विरताः, उच्छिन्नाः, अस्तं गताः।
  • ‘तथा युक्तमपि चैतन्नात्यर्थोत्सन्नपित्ते ज्वरे…प्रदेयम्’ (चरक० वि० ३।४५)। उत्सन्नं प्रवृद्धम्। इहोत्सन्नशब्दोऽवसन्नप्रतियोगी।
  • ‘तेऽग्निमन्वविन्दन्नृतुषूत्सन्नम्’ (तै० ब्रा० १।३।१।१)। वेषमाच्छाद्यावस्थितमित्याह।
  • ‘उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः’ (भा० द्रोण० ८२।१०)। उत्सादितो मर्दितः।
  • ‘गौरसर्षपकल्केन साज्येनोत्सादितस्य च’ (याज्ञ० १।२७७)। उत्सादितस्य=उद्वर्तिताङ्गस्य।
  • ‘गौरसर्षपकल्कः सिद्धार्थपिष्टम्। उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजने’ (मनु० २।२०९) ॥ उत्सादनमुद्वर्तनं मर्दनम्। पादाभ्यां यन्मर्दनं तदुत्सादनमुच्यत इत्यापटेकृतकोषे यशोधरवचनम्।
  • ‘उत्सादनार्थं लोकानाम्’ (भा० वन० १०३।९)।
  • ‘उत्सादनं विनाशनम्।’ (सुश्रुत० १।१३४।९) क्षतसंरोपणे क्षतसंरोहणाभ्युपाये वोत्सादनशब्दो व्यवहृतः।
  • ‘उदस्याग्निः सीदेत्’ (तै० सं० १।४।१०)। उत्सीदेत् गत एव स्यात्।
  • ‘स समुत्सन्नमरुणं मण्डलं कफरक्तजम्’ (सुश्रुतै० नि० अ० १३)। उत्सन्नमुद्गतम्।
  • ‘उत्सन्नः सलिलनिभोऽथ पिष्टशुक्लो बिन्दुः’ (सुश्रुतै० उत्तर० ४।१०)। उत्सन्न उच्छूनः।
  • ‘ते ऽ ग्निमन्वविन्दन्नृषूत्सन्नम्’ (तै० ब्रा० १।३।१।१)। उत्सन्नं वेषान्तरं कृत्वा स्थितम्।
  • ‘शनैश्चोत्सादितस्तत्र स्नानशालामुपागमत्’ (भा० अनु० २०।३)। उत्सादितः चालित इति नीलकण्ठः। उद्वर्तित इति तु मम भाति।
  • ‘शर्करामुत्सादेन’ (तै० सं० ५।७।१२)। उत्साद उच्चैः प्रदेशः (मेध्याश्वस्य)।
  • ‘घर्मायोत्साद्यमानायानुब्रूहि’ (सत्याषाढश्रौ० २४।५।४)। उत्साद्यमानः संसाद्यमानः। समित्यर्थ उच्छब्दो व्यत्ययेन।

सह्

  • {उत्सह्}
  • सह् (षह मर्षणे)।
  • ‘पितृभ्यश्चोदकदानं यथोत्साहम्’ (गौ० ध० १।५।५)। यथोत्साहं यथाशक्ति।
  • ‘तवानुवृत्तिं न च कर्तुमुत्सहे’ (कु० २।६५)। नोत्सहे न धृष्णोमि, नालमस्मि।
  • ‘अज्ञवन्नोत्सहेथास्त्वम्’ (भट्टि० १९।१६)। अज्ञवन्माऽवसद इत्याह। शब्दमर्यादया तु नायमर्थः सुलभः।
  • ‘क्षणमप्युत्सहते न मां विना’ (कु० ४।३६)। नोत्सहते=निर्वृतिं न लभते।
  • ‘मन्दोत्साहः कृतोस्मि मृगयापवादिना माढव्येन’ (शा० २)। उत्साहोऽभिलाष औत्सुक्यम्।
  • ‘ममोत्साहभङ्गं मा कृथाः’ (हित० ३)। उत्साहः क्रियासामर्थ्यम्।
  • ‘यद्येतावतीं दक्षिणां नोत्सहेत’ (सत्या० श्रौ० २३।२।४५)। दातुमिति शेषः। नोत्सहेत न शक्नुयात्।

सि

  • {उत्सि}
  • सि (षिञ् बन्धने)।
  • ‘मुक्षीजयेव पदिमुत्सिनाति’ (ऋ० १।१२५।२)। उद्गम्य सिनाति बध्नातीत्याह।
  • ‘उन्मुञ्च पाशांस्त्वमग्न एषां त्रयस्त्रिभिरुत्सिता येभिरासन्’ (अथर्व० ६।१२।२)।
  • ‘येभिः पाशैः परिवित्तो विबद्धोऽङ्गेऽङ्ग आर्पित उत्सितश्च’ (अथर्व० ६।११२।३)। उत्सित ऊर्ध्वं बद्धः। सायणस्तूत्थित इति पठति।

सिच्

  • {उत्सिच्}
  • सिच् (षिच क्षरणे)।
  • ‘उद्वा सिञ्चध्वमुप वा पृणध्वम्’ (ऋ० ७।१६।११)। उत्सिञ्चवध्वम् आमुखं पूरयत।
  • ‘(यां सुरां) सिञ्चन्ति परिषिञ्चन्त्य् उत्सिञ्चन्ति पुनन्ति च’ (वा० सं० २०।२८)।
  • ‘अनु तीर्थमप उत्सिञ्चेत्’ (बौ० ध० २।३।५।३)। उत्क्षिपेत्, ऊर्ध्वं क्षिपेदित्यर्थः।
  • ‘न तस्योत्सिषिचे मनः’ (रघु० १७।४३)। नोत्सिषिचे उत्सेकं गर्वं नाविशदित्यर्थः।
  • ‘भव्योस्मि भवितेत्येवं विचिन्त्योत्षिचे च सः’ (राज० ८।२८५५)। उक्तोऽर्थः।
  • ‘स्तूयमाना नोत्सिच्यन्ते’ (काद०)। सम्भावितात्मानो न भवन्ति, आहोपुरुषिकां न संविदन्तीत्याह।
  • ‘उत्सिच्यमाने पयसि’ (भा० पु०)। ऊष्मणा फेनायमाने।
  • ‘अर्थवन्तो न चोत्सिक्ताः’ (भा० द्रोण० १४४।२६)। उत्सिक्ता गर्विताः।
  • ‘बालवृद्धातुराणां च साक्ष्येषु वदतां मृषा। जानीयादस्थिरां वाचमुत्सिक्तमनसां तथा’ (मनु० ८।७१)॥ उत्सिक्तमनसां चलचित्तानाम्, अव्यवस्थितमानसानाम्। उत्सिक्तमनसः प्रकृत्यैवोपप्लुता अधीरधिय इति मेधातिथिः।
  • ‘दर्पमुत्सिक्तमेतत्ते फाल्गुनो नाशयिष्यति’ (भा० द्रोण० १५९।१२)। उत्सिक्तं प्रवृद्धम्।
  • ‘अनुत्सिक्तं वै देवानां हविः’ (श० ब्रा० ३।२।२।१९)। अनुत्सिक्तं बाह्यवस्तुनाऽसम्पृक्तम्।
  • ‘तद्धैक उत्सिच्य छर्दयन्ति’ (श० ब्रा० १२।४।२।९)। उत्सिच्य=आमुखं पूरयित्वा।
  • ‘ताः (अपः) उत्सिच्योत्तरेण गार्हपत्यं सादयति’ (श० ब्रा० १।१।१।१८)।
  • ‘तत्प्रत्ययमुदकमुत्सिच्य’ (आप० ध० २।६।१५।९)। उत्सिच्य=उत्क्षिप्य।
  • ‘उत्सेच्या कलशीभिः’ (चन्द्रिका) (विद्ध०)। उत्सेच्या क्षारयितव्या, क्षारणार्हेत्यर्थः।
  • ‘तेषाम् (सत्त्वरजस्तमसाम्) अन्यतमोत्सेके विधानमुपदिश्यते’ (भा० शां० १६।१४, आश्व० १२।५)। उत्सेकोतिरेक उद्रेकः।
  • ‘वैराग्यवासनोत्सेकः श्लोकेनानेन सूच्यते’ (राज० ४।३८९)। उक्तोऽर्थः।
  • ‘नोत्सेकात्प्रवदाम्यहम्’ (रा० ५।३।१०)। उत्सेको गर्वः।
  • ‘उपदा विविशुः शश्वन्नोत्सेकाः कोसलेश्वरम्’ (रघु० ४।७०)।
  • ‘अनुत्सेकः खलु विक्रमालङ्कारः’ (विक्रम० १)। अनुत्सेको गर्वाभावो विनयः शालीनता।
  • ‘मामकस्यास्य सैन्यस्य हृतोत्सेकस्य संजय। अवशेषं न पश्यामि’ (भा० कर्ण० ७।१)। उत्सेको हृदयोल्लासः। उत्सेको जलौघश्च। केदारान् प्रति प्रापितोदकस्य क्षुद्रसरस इवेति नीलकण्ठः।
  • ‘तेषां प्रमादसुप्तप्रलापाः, कामादिरुत्सेकः’ (कौ अ० १।१५।११)।
  • ‘आचार्याणां चोदकोत्सेचनमुभयत्र’ (गो० गृ० ३।३।१२)। उदकोत्सेचनं जलाञ्जल्युत्क्षेपणम्। उत्सेचनं सेकपात्रं भवत्युदकोदञ्चनम्।
  • ‘अथ या एताः स्रुचो निर्णिज्योदीचीरप उत्सिञ्चति तेन ऋषीन् प्रीणाति’ (जै० ब्रा० १।४१)। उत्सिञ्चति उत्क्षिपति। आवर्जयति बहिर्गमयति।
  • ‘कूप उत्सिच्यमानो हि भवेच्छुद्धो बहूदकः’ (स्कन्दपु० मा० कौ० २।२।६१)। उत्सेकः परीवाह उदञ्चनमुद्धारः।
  • ‘कामादिरुत्सेकः स्वाः प्रकृतीः कोपयति’ (कौ० अ० ९।७।१)। उत्सेकोऽतिरेकः। अतिरिक्तः सेव्यमानः कामादिरित्यर्थः।
  • ‘पद्मं बहुरजश्चन्द्रः क्षयी ताभ्यां तवाननम्। समानमपि सोत्सेकम्…’ (काव्यादर्शे २।३०)। सोत्सेकं सोत्कर्षम् अधिकोत्कर्षशालि।

सिध्

  • {उत्सिध्}
  • सिध् (षिध गत्याम्)।
  • ‘तस्मादुत्सेधं प्रजा भयेऽभिसंश्रयन्ति’ (श० ब्रा० १३।२।२।९)। उत्सेध उन्नतभूप्रदेशो वप्रादिः।
  • ‘उत्सेधमेति भूकोषकोटस्थोऽङ्कुरोत्करः’ (यो० वा० ४।३६।२०)। उत्सेधमेति ऊर्ध्वां गतिं गच्छति, उच्चैरुतिष्ठति।
  • ‘पयोधरोत्सेधविशीर्णसंहति’ (वल्कलम्) (कु० ५।८)। उत्सेध औन्नत्यम्।
  • ‘सोत्सेधैः स्कन्धदेशैः’ (मुद्रा० ४।७)। उक्तोऽर्थः।
  • ‘मामकस्यास्य सैन्यस्य हतोत्सेधस्य सञ्जय। अवशेषं न जानामि…’ (भा० कर्ण० ९।९३)॥ उत्सेध उत्कर्षः।
  • ‘व्रातेन जीवति’ (पा० ५।२।२१)। अत्र वृत्तौ नानाजातीया अनियतवृत्तय उत्सेधजीविनः सङ्धा व्राता इति स्थितम्। उत्सेधः शरीरम्। उत्सेधेन शरीरायासेन ये जीवन्ति त उत्सेधजीविनः।
  • ‘…त्वङ्मांससंश्रयम्। उत्सेधं संहतं शोफं तमाहुः’ (अष्टाङ्ग० १३।२१-२२)। उत्सेधः शोफ इत्यनर्थान्तरम्।
  • ‘अथोत्सेधनिषेधौ पापवस्यस्यैवोत्सिद्ध्यै च निषिद्ध्यै च’ (जै० ब्रा० २।१४३)।
  • ‘उत्सेधेन वै देवाः पशूनुदसेधन् निषेधेन पर्यगृह्णन्’ (पञ्च० ब्रा० १५।९।११)। उत्सेध उन्नतप्रदेशः। उदसेधन् अपाक्रमयन्।

सिव्

  • {उत्सिव्}
  • सिव् (षिवु तन्तुसन्ताने)।
  • ‘पुनरुत्स्यूतं वासः’ (तै० सं० १।५।२)। उत्स्यूतं छिन्नं सत् सूचीतन्तुभ्यां स्यूतम्। संहितच्छिद्रमित्यर्थः।

सू

  • {उत्सू}
  • सू (षूङ् प्राणिप्रसवे, षूङ् प्राणिगर्भविमोचने)।
  • ‘तमुत्सवे प्रसवे च साहसिम्’ (ऋ० १।१०२।१)। उत्सवः प्रक्रमः प्रारम्भः। उत्सूत उत्सूयते वा हर्षमित्युत्सवो महः।

सृ

  • {उत्सृ}
  • सृ (सृ गतौ)।
  • ‘तत उत्सारयामास शैलाञ्शतसहस्रशः’ (हरि० १।६।११)। उत्सारयामास पराणुनोद।
  • ‘धृष्टमुत्सार्यते सर्वस्तोपवनगतो जनः’ (स्वप्न० १।२)। उत्सार्यतेऽपसार्यते दूरं प्रेर्यते।
  • ‘दूरमुत्सृतः’ (बृ० श्लो० सं० ३।३३)। उत्सृतोऽपसृतोऽपसृप्तः।
  • ‘घृताक्तश्चीरवासास्त्वं मध्येनोत्सर्तुमिच्छसि’ (भा० वि० ४९।१५) (समिद्धं पावकम्)। उत्सर्तुमुत्स्रप्तुमुत्क्रम्य गन्तुम्।
  • ‘एक एकान्तमुत्सार्य रहो वचनमब्रवीत्’ (भा० उ० १८९।२०)। उत्सार्य=अपनीय एवमयं दोषो दूरमुत्सारितो भवति (इति वयम्)। अपास्तो भवतीत्यर्थः।
  • ‘आर्य किं कृतेयमुत्सारणा’ (स्वप्न० १)। लोकापसारणा।
  • ‘दूरमुत्सारणं तत्र कारयामास धर्मवित्’ (रा० ६।११४।२०)। उक्तोऽर्थः। शिबिकात उद्गमनेऽवतरणे साहाय्यकरणमप्युत्सारणं भवति। उत्सारणायामधिकृतो रक्षापुरुष उत्सारक उच्यते।
  • ‘यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युत्सृतीः पुनः’ (मनु०) उत्सृतिर्जात्युत्कर्षः।

सृज्

  • {उत्सृज्}
  • सृज् (सृज विसर्गे)।
  • ‘क्रतूंरुत्सृजते वशी’ (अथर्व० ६।३६।२)। उद्गतावयवान् निर्मिमीत इत्यर्थ इति सायणः।
  • ‘व्यलीकनिश्वासमिवोत्ससर्ज’ (कु० ३।२५)। उत्ससर्ज मुमोच।
  • ‘नियतमात्मानमुत्स्रक्ष्यामि’ (काद०)। प्राणान्मोक्ष्यामीत्याह।
  • ‘तद्यथाऽनः सुषमाहितम्। उत्सर्जत् यायात्’ (श० ब्रा० १४।७।१।४२)। उत्सर्जत् उद्घ्नत्, संघर्षत्।
  • ‘गच्छ निद्रे मयोत्सष्टा देवकीभवनान्तिकम्’ (हरि० २।२।२७)। उत्सृष्टाऽऽज्ञप्ता।
  • ‘शास्त्रातिगौरवभयादेतल्लक्षणमुत्सृष्टम्’ (नि० १।३।२ उपोद्घाते दुर्गः)। उत्सृष्टं त्यक्तं परिहृतम्।
  • ‘बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम्’ (पञ्चत० १।२०६)। उत्सृष्टा प्रयुक्ता व्यापारिता।
  • ‘उत्सृज्य सर्वगात्रेभ्यो भूषणानि महायशाः’ (भा० वन० ६१।५)। उत्सृज्य अवरोप्य।
  • ‘एतमेव शब्दमुत्सृज्याधीयीत’ (आप० ध० १।३।१०।१८)। उत्सृज्य उच्चार्य।
  • ‘आत्मानं यूपमुत्सृज्य’ (भा० शां० ९७।१०)। उत्सृज्य उच्छ्रित्य।
  • ‘सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः’ (रघु० १।१८)। उत्स्रष्टुं मोक्तुम्। प्रतिदातुमित्यर्थः।
  • ‘तोयोत्सर्गद्रुततरगतिः’ (मेघ० १९)। तोयोत्सर्गः=वारिमोचनम्।
  • ‘वातमूत्रपुरीषशुक्रोत्सर्गैः’ (सुश्रुत० १।९८।१२)। उत्सर्गस्त्यागः।
  • ‘श्रीलक्षणोत्सर्गविनीतवेषाः’ (कु० ७।४५)। उत्सर्गः=अवमोचनम् अवरोपणम्।
  • ‘वृषोत्सर्गः’ (पा० गृ० ३।९) अप्रतिरुद्धसंचाराय वृषभमोचनम्।
  • ‘अन्नस्य सुबहून् राजन्नुत्सर्गान्पर्वतोपमान्’ (भा० आश्व० ८५।३८)। उत्सर्गा राशयः।
  • ‘यद् गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम्। तस्योत्सर्गेण शुध्यन्ति…’ (मनु० ११।१९३)॥ उत्सर्गस्त्यागः। आत्मनानुपयोग इत्यर्थः।
  • ‘असिद्धवदत्राभात्’ (पा० ६।४।२२)। अत्र वृत्तिः—असिद्धवचनमुत्सर्गलक्षण-भावार्थमादेशलक्षणप्रतिषेधार्थम् इति। उत्सृज्यते निवर्त्यत आदेशेन इत्युत्सर्गः स्थानीति पदमञ्जरी।
  • ‘अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः’ (कु० २।२७)।
  • ‘अपवादैरिवोत्सर्गं व्यावर्तयितुमीश्वरः’ (रघु० १५।७)। उत्सर्गः सामान्यशास्त्रम्।
  • ‘मित्रमुत्सर्गे’ (मनु० १२।१२१)। उत्सर्गः पाय्विन्द्रियम्।
  • ‘उत्सर्गे तु प्रधानत्वात्’ (मी० सू० ३।७।१९)। उत्सर्गः परिक्रय इति शबरस्वामी।
  • ‘पुष्ये तु च्छन्दसां कुर्याद् बहिरुत्सर्जनं द्विजः’ (मनु० ४।९६)। गृह्यानुसारेण च्छन्दोध्ययनविरामविधिं कुर्यात्।
  • ‘उच्चैः स्विष्टकृतमुत्सृजति’ (तै० ब्रा० १।३।१।६)। स्विष्टकृन्मन्त्रमुच्चारयतीत्यर्थः।
  • ‘रक्षांसि वा एतद्यज्ञं सचन्ते यदन उत्सर्जति’ (तै० सं० ५।२।२।१०)। अनः शकटम्। उत्सर्जति उत्सृजति सङ्क्रीडति कूजति शब्दं करोति।
  • ‘प्राणानामुत्सृष्ट्यै’ (तै० सं० ५।१।८)। उत्सृष्टिरुत्सर्गस्त्यागः।
  • ‘उत्सर्गं वै प्रजापतिरेतैः कर्मभिः स्वर्गं लोकमैत्’ (शां० ब्रा० ८।२)। उत्सर्गमुत्सृज्य विरम्य विरामं कृत्वा। णमुलन्तमेतत्।

सृप्

  • {उत्सृप्}
  • सृप् (सृप्लृ गतौ)।
  • ‘अधरोऽधर उत्तरेभ्यो गूढः पृथिव्या मोत्सृपत्’ (अथर्व० ६।१३४।२)। मोत्सृपत् ऊर्ध्वं मा गमत्।
  • ‘तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम्’ (भा० वन० ७५।९)। उत्सर्पति उन्नमति दीर्घं भवति।
  • ‘नोत्सर्पेत न शुष्येत सरिद्भिरिव सागरः’ (भा० पु० ११।८।६)। उत्सर्पेत=वर्धेत।
  • ‘मायाभिरुत्सिसृप्सत इन्द्रं द्यामारुरुक्षतः’ (अथर्व० २०।२९।४)। उत्सिसृप्सत उत्सर्पणमिच्छत इत्यर्थः।
  • ‘उत्सिसृप्सन्ति ये दिवम्’ (भा० पु० ८।११।५)। दिवमतिक्रम्य मुक्तिं सप्तुं गन्तुमिच्छन्तीत्यर्थः।
  • ‘किमुत्सृप्यापाः’ (श० ब्रा० ११।५।३।४)। उत्सृप्य=अपसृप्य। अपसृत्य।
  • ‘अपसर्पिणी न तेषां वै न चैवोत्सर्पिणी द्विज’ (वि० पु० २।४।१३)। उत्सर्पिणी वृद्धिमती उत्कर्षवती। उत्सर्पिणी खलु महतां प्रार्थना। महती खलु महतां व्यपाश्रयणा याच्ञा भवतीत्याह। न हि महान्तः क्षुद्रमर्थं याचन्ते इत्यभिप्रायः।
  • ‘यां पर्यस्तमुत्सर्पेत्’ (चन्द्रमाः) (शां० ब्रा० ३।१)। उत्सर्पेत् उदियात्। पर्यस्तम् उपास्तमयम्।
  • ‘दानधर्मस्यानुत्सर्पणान्न तुष्टिमुपजगाम’ (अवदा० जा० २)। अनुत्सर्पणात् अवर्धनात्।
  • ‘अन्धो भग इत्याहुरनुत्सृप्तो न दृश्यते’ (नि० १२।१४।१)। अनुत्सृप्तोऽनुद्गूर्णोऽनभ्युद्यतः।

स्तम्भ्

  • {उत्तम्भ्}
  • स्तम्भ् (स्तम्भु सौत्रो रोधनार्थो धारणार्थो वा)।
  • ‘स्कन्धोत्तम्भिततीर्थवारिकलशाः’ (वेणी० ६)। उत्तम्भिता धृताः।
  • ‘प्राणेन हीदं सर्वमुत्तब्धम्’ (बृ० उ० १।३।२३)। उत्तब्धम् विधृतम्।

स्था

  • {उत्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम्। महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात्’ (ऋ० १०।१०३।९)॥ उदस्थात् उदक्रमीत्, उत्थितोऽभूत्।
  • ‘आ पर्जन्यस्य वृष्ट्योदस्थामा मृता वयम्’ (अथर्व० ३।३१।११)। उत्थिता उल्लाघा अभूमेत्यर्थः।
  • ‘उद्वहन् मुदमुदस्थित क्रतौ’ (शिशु० १४।१७)। उदस्थितेत्युत्पूर्वस्य तिष्ठतेर्लुङि रूपम्। उत्थित उद्युक्तोऽभूदित्यर्थः।
  • ‘मुक्तावुत्तिष्ठते जनः’ (कि० ११।१३)। उत्तिष्ठते उद्युङ्क्ते।
  • ‘यत्रान्या ओषधयो म्लायन्ते अथैते (यवाः) मोदमाना इवोत्तिष्ठन्ति’ (श० ब्रा०)। उत्तिष्ठन्ति वर्धन्ते। यत्र वसन्तर्तौ। अनशनादुत्तिष्ठति। अनशनं समापयतीत्यर्थः।
  • ‘अस्माद् ग्रामाच्छतमुत्तिष्ठति’ (पा० १।३।२४ वृत्तौ)। उत्तिष्ठति उत्पद्यते।
  • ‘सोमस्योत्तिष्ठमानस्य पौर्णमास्यां बलिं हरेत्’ (भा० अनु० १३४।४)। उदयमानस्य चन्द्रस्येत्यर्थः।
  • ‘शुनं नो अस्तु चरितमुत्थितं च’ (अथर्व० ३।१५।४)। उत्थितमुत्पन्नं लाभयुक्तं धनम्।
  • ‘क्षमावन्तश्च धीराश्च धर्मकार्येषु चोत्थिताः’ (भा० अनु० २३।८८)। उत्थिता उद्युक्ताः।
  • ‘निरीक्ष्य चानुत्थितां सेनां तां च गङ्गां शिवोदकाम्’ (रा० २।८३।२२)। अनुत्थितां गमनेऽनुद्योगाम्।
  • ‘त्रिभिर्वर्षैः सदोत्थाय कृष्णद्वैपायनो मुनिः। महाभारतमाख्यानं कृतवानिदमद्भुतम्’ (भा० आदि० ६२।५२)॥ उत्थाय उद्यम्य।
  • ‘स्वाध्यायोत्थं योनिमन्तं प्रशान्तम्’ (व० धर्मशा० ५।३०)। स्वाध्याये वेदानुवचने उत्तिष्ठत उद्युङ्क्त इति स्वाध्यायोत्थः।
  • ‘मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः’ (शा० २।५)। उत्थानमुद्योगः। सुश्रुते (२।७।१।१७) उत्थानं विरेचनमाह।
  • ‘पुण्याहे दीक्षा क्रयः प्रसव उत्थानम्’ (का० श्रौ० ७।१।२५)। उत्थानं समाप्तिः।
  • ‘प्रक्रमोत्थाने विरोधे’ (का० श्रौ० ७।१।२६)। उक्तोऽर्थः।
  • ‘पूर्वोत्थायी चरमं चोपशायी’ (भा० आदि० ९१।२)।
  • ‘उत् संहायास्थाद् व्यृतूँरदर्धररमतिः सविता देव आगात्’ (ऋ० २।३८।४)। उत्संहायास्थात् संहायोदस्थात् (सर्वो लोकः) शय्यां परित्यज्योत्तिष्ठिति।
  • ‘उद् विप्राणां देवया वाचो अस्थुः’ (ऋ० ५।७६।१)। उदस्थुरुदैरत।
  • ‘उदतिष्ठत रामस्य समग्रमभिषेचनम्’ (रा० २।१४।५४)। उदतिष्ठत उपस्थितमभूत्। उदोऽनूर्ध्वकर्मणीत्यात्मनेपदम्।
  • ‘कः पुनरसुराणां पराभवः प्रत्यवाययोगः, यद्योगादद्यापि नोत्तिष्ठन्ति (पस्पशायां हेलयो हेलय इति कुर्वन्त इत्यत्र भाष्यदीपिका)। नोत्तिष्ठन्ति न संजीवन्ति।
  • ‘उत्तिष्ठमानस्तु परो नोपेक्ष्यो भूतिमिच्छता’ (शिशु० २।१०)। उत्तिष्ठमानो वर्धमानः।
  • ‘चित्रं यदत्र पतितः पुनरुत्थितिं न प्राप्नोति पुल्कसजनोपि किमग्रजन्मा’ (स्कन्दपु० का० ४।३०।७३)। पुनरुत्थितिं पुनर्देहसम्बन्धं पुनर्भवमिति यावत्। अविशेषेण सर्वोप्यपवृज्यत इत्याह।

स्ना

  • {उत्स्ना}
  • स्ना (ष्णा शौचे)।
  • ‘आर्द्रः प्रथस्नुर्भुवनस्य गोपाः शृत उत्स्नाति जनिता मतीनाम्’ (तै० ब्रा० ३।७।५।३)। उत्स्नाति जलादुत्तरति, निर्गच्छति।
  • ‘त उत्स्नाय रयिमभिप्र तस्थुः’ (ऋ० २।१५।५)। उक्तोऽर्थः।

स्नै

  • {उत्स्नै}
  • स्नै (ष्णै वेष्टने)।
  • ‘उष्णिगुत्स्नाता भवति’ (नि० ७।१२।६)। उत्स्नाता उद्वेष्टिता।

स्मि

  • {उत्स्मि}
  • स्मि (ष्मिङ् ईषद्धसने)।
  • ‘उत्स्मयन्तस्तदा पार्थमिदं वचनमब्रुवन्’ (भा० वन० २४४।१३)। स्मितं कुर्वन्त इत्यर्थः। उच्छन्दः स्मितस्य प्राकट्यमाह।
  • ‘परां च प्रीतिमगमदुत्स्मयंश्च पिनाकधृक्’ (भा० शां० २८३।५०)। उक्तोऽर्थः।
  • ‘उत्स्मयन्प्रणतः प्राह कुन्तीं वैकर्तनो वृषः’ (भा०)। उत्स्मयन् उत्पन्नविस्मयः।
  • ‘आदाय शुक्लाम्बरमाल्यदाम जगाम कुन्ती सुतमुत्स्मयन्ती’ (भा० १८८।२७)। ** (उत्तमपतिलाभाद्)। अत्यन्तं गर्वं कुर्वती।**
  • ‘लोकान्स मां व्यसृजदुत्स्मयन्तीं तदन्ते’ (भा० पु० १।१६।३३)। उत्स्मयन्तीम्=अभिमानिनीम्। उत्स्मयो विस्मयः स्मयो गर्वः।

हन्

  • {उद्धन्}
  • हन् (हन हिंसागत्योः)।
  • ‘इयती ह वा इयमग्रे पृथिव्यास प्रादेशमात्री… ताम् एमूष इति वराह उज्जघान’ (श० ब्रा० १४।१।२।१२)। उज्जघान उद्धृतवान्। उच्चखान।
  • ‘मा त्वा (शकुन्तिम्) श्येन उद्वधीन्मा सुपर्णः’ (ऋ० २।४२।२)। उद्धन्ति।
  • ‘यदेवास्या अमेध्यम्। तदपहन्ति’ (तै० ब्रा० १।१।३)। भूमेरूर्ध्वभागं खनित्रादिना खनतीत्युक्तं भवति।
  • ‘यावत्येव निवप्स्यन्स्यात्तावदुद्धन्यात्’ (श० ब्रा० १३।८।१।२०)। उक्तोऽर्थः। अधिदेवनं काष्ठादिनोद्धन्ति। उच्चैर्हन्तीत्यर्थः।
  • ‘उद्व ऊर्मिः शम्या हन्तु’ (अथर्व० १४।२।१६)। उद्धन्तु=उत्कीलयतु।
  • ‘तेषामेतान् दक्षिणान्ग्रहानुज्जघ्नुः’ (श० ब्रा० ४।२।४।१९)। उज्जघ्नुः पातयामासुः, भ्रंशयामासुः।
  • ‘उद्धते वा अवोक्षितेऽग्निमादधति’ (श० ब्रा० ६।४।४।१८)। उद्धते उत्थित उन्नते प्रदेशे।
  • ‘बभूव तिमिरं घोरमुद्धतं रोमहर्षणम्’ (रा० ३।२३।८)। उद्धतं सान्द्रम् प्रवृद्धम्।
  • ‘लाङ्गूलमुद्धतं घुन्वन्’ (भट्टि० ९।७) उद्धतमुदस्तमुदञ्चितम्।
  • ‘आत्मोद्धतैरपि रजोभिरलङ्घनीयाः’ (शा० १।८)। उद्धतैरुत्थापितैः।
  • ‘अनुगन्तुमशक्तास्त्वां मूलैरुद्धतवेगिनः’ (रा० २।४५।३०)। उद्धतवेगिनः=अत्यन्तं हतवेगाः।
  • ‘यथाग्निरुद्धतशिखः कक्षं दहति सानिलः’ (वि० पु० ६।७।७४)। उद्धतशिख उत्थितार्चिः, उदर्चिः।
  • ‘तेन चोद्धतहस्तेन तात मा मेति वारितः’ (बृ० श्लो० सं० ७।५४)। उद्धतहस्तेन=उन्नमितकरेण।
  • ‘सभाया मध्येऽधिदेवनमुद्धत्यावोक्ष्याक्षान् निवपेत्’ (आप० ध० २।२५।१२)। लगुडादिनाऽऽहत्येत्याह।
  • ‘न प्राची वेदिरुद्धत्या’ (आप० श्रौ० ८।४।१३।५)। उद्धत्या उद्धननीया उत्खननीया।
  • ‘उद्धातः प्रणवो यासाम्’ (कु० २।१२)। उद्घातः प्रारम्भ उपक्रमः।
  • ‘आकुमारकथोद्धातं शालिगोप्यो जगुर्यशः’ (रघु० ४।२०)। उक्तोऽर्थः।
  • ‘अनुद्घातमुखं रथमुपस्थापय। अनुद्धातस्तिमितगतिः’ (रथः) (शा० )।
  • ‘ययावनुद्धातसुखेन सोऽध्वना’ (शिशु० १२।२)। उद्धातः प्रतिघातः।
  • ‘एतावद्भिः श्वासप्रश्वासैः प्रथम उद्घातः’ (यो० सू० २।५० सूत्रभाष्ये)। उद्घातो नासिकया श्वसनम्।
  • ‘आशाप्रतिबद्धचित्तः पिशितलोभतया गोमायुस्तज्जिघृक्षुः सम्पीडितोद्धातात् सद्यः पञ्चत्वमगमत्’ (तन्त्रा० १।३)। उद्धातः क्षतम्।
  • ‘केनाप्युद्घातेन काञ्चनमालां वीणायोग्यां कुर्वतीं प्रेक्ष्य शिक्षितुकामासीत्’ (प्रतिज्ञा० २)।
  • ‘यत्र काष्ठे काष्ठं निधाय तक्ष्यते स उद्धनः’ (पा० ३।३।८० वृत्तौ)।
  • ‘वेदिस्तु संमार्जनखननोद्धननादिसंस्कारविशेषैः परिष्कृता भूमिः’ (कुतूहल० १।३।५)।
  • ‘अन्धानामुद्धतिर्येयं सा दृश्यायैव जायते’ (यो० वा० ५।८२।२०)। उद्धतिरौद्धत्यं वैयात्यम् उच्छृङ्खलता।
  • ‘यद् उद् घ्नन्तो जिहिंसिम क्रूरमस्याः’ (आप० श्रौ० ४।५।५)। उद् घ्नन्त उच्चैः प्रहरन्तः।
  • ‘ददाह प्रमथानीकं वनमग्निरिवोद्धतः’ (मात्स्य० १४०।३८)। उद्धत उत्थित उदर्चिः।
  • ‘सङ्घोद्घौ गणप्रशंसयोः’ (पा० ३।३।८६)। उद्धन्यत उत्कृष्टो ज्ञायत इत्युद्घः।
  • ‘योऽस्य मूर्धानमुदहन्’ (पञ्च० ब्रा० ६।५।१)। उदहन् ऊर्ध्व आहतवान्।

हा

  • {उद्धा}
  • हा (ओहाङ् गतौ)।
  • ‘तासामास्थानादुज्जिहतामोषधयः सुपिप्पलाः’ (वा० सं० ११।३८)। उज्जिहताम् उद्गच्छन्तु।
  • ‘अपां वा आस्थानादुज्जिहत ओषधयः सुपिप्पलाः’ (श० ब्रा० ६।४।३।२)। उक्तोऽर्थः।
  • ‘आविर्भूतानुरागाः क्षणमुदयगिरेरुज्जिहानस्य भानोः’ (मुद्रा० ४।२२)। उज्जिहानस्य उदयमानस्य आक्रममाणस्य।
  • ‘शिरसा यूपमुज्जिहीते’ (का० श्रौ० १४।५।१०)।
  • ‘सौमित्रिरक्षिभ्रुवमुज्जिहानः’ (भट्टि० ३।४७)। अत्राप्योहाङ् सकर्मकः। ऊर्ध्वं नयने उत्क्षिपन्नित्यर्थः।
  • ‘उदातैर्जिहते बृहद् द्वारो देवी र्हिरण्ययीः’ (ऋ० ९।५।५)। उज्जिहत उद्गच्छन्ति।
  • ‘कथमिव बत लज्जा तस्य नैवोज्जिहीते’ (रुक्मिणी० १।२३)। उज्जिहीते उदयते।
  • ‘परितापहरां हरस्तदानीं द्युनदीं तामधुनापि नोज्जिहीते’ (स्कन्दपु० का० ४।४४।६)। उज्जिहीते जहाति त्यजति। अत्र ओहाङः प्रयोगे किमपि स्वातन्त्र्यं पुराणकारस्य।

हा

  • {उद्धा}
  • हा (ओहाक् त्यागे)।
  • ‘अस्य लोकस्योद्धानाय’ (पञ्च० ब्रा० १८।११।१०)। उद्धानमत्यन्ताय हानं परित्यागः।

हृ

  • {उद्धृ}
  • हृ (हृञ् हरणे)।
  • ‘यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति’ (मनु० ७।११०)। उद्धरति उन्मूलयति उद्वर्तयति आवृहति।
  • ‘एष तेऽद्य शिरः कायाद् उद्धरामि सुदुर्मते’ (भा० द्रोण० १५९।९)। उद्धरामि अपहरामि।
  • ‘वृषरूपं समास्थाय उज्जहार महारथम्’ (भा० कर्ण० ३४।१०१)। उदञ्चयामास, उन्नमयामासेत्यर्थः।
  • ‘आगमस्तु कृतो येन सोऽभियुक्तस्तमुद्धरेत्’ (याज्ञ० २।२८)। उद्धरेद् भावयेत् साधयेत्। अभियुक्तः पृष्टः।
  • ‘प्रेहि प्रेहि पथिभिः पूर्व्येभिरिति पञ्चानां तृतीयामुद्धरेत्’ (आश्व० श्रौ० ६।१०)। उद्धरेत्=त्यजेत्। तेऽब्रुवन्।
  • ‘अग्नयः स्विष्टकृतोऽश्वस्य वयमुद्धारमुद्धरामहै…ते लोहितमुदहरन्त’ (श० ब्रा० १३।३।४।२)। भागविशेषमाददीमहि, ते लोहितं शोणितमाददत।
  • ‘स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत्’ (मनु० ४।५८)। ऊर्ध्वं कुर्यात्। वाससो बहिष्कुर्यादित्यर्थः।
  • ‘शल्यं निखातमुदहारयतामुरस्तः’ (रघु० ९।७८)।
  • ‘गुर्वर्थं दारुमुज्जिहीर्षन्’ (व० धर्मशा० १४।१३)।
  • ‘उद्धृतासि वराहेण कृष्णेन शतबाहुना’ (तै० ब्रा० १०।१।८)। उद्धृता=उन्नीता, उदञ्चिता।
  • ‘उद्धृते दक्षिणे पाणावुपवीत्युच्यते द्विजः’ (मनु० २।६३)। वस्त्रात्सूत्राद्वा बहिष्कृत इत्याह।
  • ‘तत्रोद्धृतममत्रेभ्यः’ (पा० ४।२।१४)। अत्र वृत्तिः–शराब उद्धृत ओदनः शारावः। भुक्तोच्छिष्टमुद्धृतमुच्यते यस्योद्धरणमिति प्रसिद्धिः। भुक्त्वा चोज्झितमुद्धृतम् इति शाश्वतः।
  • ‘पञ्च पिण्डाननुद्धृत्य न स्नायात्परवारिषु’ (याज्ञ० १।१५९)। अनुद्धृत्य=अदत्त्वा, अन्युप्य अनिरुप्य।
  • ‘विषमस्थं हि राजानं शत्रवः परिपन्थिनः। बहवोप्येकमुद्धर्तुं यतन्ले पूर्वतापिताः’ (भा० शां० १३८।५)॥ उद्धर्तुमुन्मूलयितुम्।
  • ‘सैषा कामदुघैवेन्द्रस्योद्धारः’ (श० ब्रा० ४।२।३।६)। उद्धारस्तत्कृते पूर्वक्लृप्तो भागः। अपोद्धार इति यावत्।
  • ‘राज्ञश्च दद्युरुद्धारम्’ (मनु० ७।९७)। उद्ध्रियत इत्युद्धारः। जितधनादुत्कृष्टधनं सुवर्णरजतकुप्यादीति कुल्लूकः।
  • ‘सोऽस्योद्धारो यथा श्रेष्ठस्योद्धारः’ (श० ब्रा० ३।९।४।९)। उद्धारो विशिष्टोंऽशः।
  • ‘स महान् भूत्वा देवता अब्रवीद् उद्धारं म उद्धरत’ (तै० सं०)। सर्वेभ्यो भागेभ्यो य उद्ध्रियते श्रेष्ठाय दातुं सोऽधिकोंश उद्धारो नामेति भट्ट-भास्करः।
  • ‘यत्नाभावे तूत्कर्षो भवति नोद्धारः’ (आश्व० गृ० १।४।७ इत्यत्रानाविलायां हरदत्तः)। स्यादृणं पर्युदञ्चनम्। उद्धार इत्यमरः।
  • ‘आवापोद्धाराभ्याम्’ (सा० द० १०)। उद्धार उद्वापः।
  • ‘शल्योद्धरणम्’ (सुश्रुत० १।१४।३)।
  • ‘कण्टकोद्धरणे नित्यमातिष्ठेत्द्यत्नमुत्तमम्’ (मनु० ९।२५२)। चौरसाहसिकादिनिराकरण इत्यर्थः। सुश्रुते (१।१७१।२१) परिधानीयावरोपणेप्युद्धरणशब्दप्रयोगः।
  • ‘स बन्धुर्यो विपन्नानामापदुद्धरणक्षमः’ (हित०)। उद्धरणं परित्राणम्।
  • ‘जग्धस्य मोहाद्धि विशुद्धिमन्धसो जुगुप्सितस्योद्धरणं प्रचक्षते’ (भा० पु० ४।४।१८)। **उद्धरणं वमनम्, छर्दनम्। का० श्रौ० (१।३।२६) इत्यत्र गार्हपत्यादग्नेराहवनीयस्य प्रणयनमुद्धरणमुक्तम्।
  • ‘पुरा सम्भेदाच्छायानामाहवनीयमुद्धरेत्’ (ऐ० ब्रा० ७।१२)। उद्धरेत् गार्हपत्यादाहरेत्।
  • ‘नोद्धरेत्प्रथमं पात्रं पितॄणामर्घ्यपातितम्’ (आश्व० गृ० ४।७।१४)। नोद्धरेत् नापनयेत् (समवनयमदेशात्)।
  • ‘तस्मात् स्त्रियं जातां प्रास्यन्त्युत् पुमांसं हरन्ति’ (तै० सं० ६।५।१०)।
  • ‘प्राप्ते च समये तं स भोगपुष्टं धरागृहात्। उज्जहार…’ (कथा० ४०।६८)॥ उज्जहार उद्धृतवान् निरकासयत्।
  • ‘शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः’ (रा० ३।३४।२२)। उद्ध्रियतामुत्क्षिप्यताम् उदच्यताम् उन्नम्यताम्।
  • ‘क्रमादव्याहतं प्राप्तं पुत्रैर्यन्नर्णमुद्धृतम्’ (याज्ञ० २।५१ मिताक्षरायामुद्धृतं नारदवचनम्।) नोद्धृतं न विगणितम् (ऋणम्)।
  • ‘समर्घ धान्यमुद्धृत्य महर्घ यः प्रयच्छति। सहि बार्धुषिको नाभ…’ (स्कन्दपु० का० ४।४०।९०)॥ उद्धृत्य आदाय। समर्घमल्पमूल्यम्। शकन्ध्वादित्वात्पररूपम्।
  • ‘मार्कण्डेयादिभिः प्राप्य कीर्त्युद्धारं च सत्तम’ (स्कन्द पु० मा० कौ० २।१२।८)। कीर्त्तेरुद्धारः प्रत्यापत्तिः।
  • ‘अपि ते ब्राह्मणा भुक्त्वा गताः सोद्धरणान् गृहान्’ (भा० अनु० ६०।१४)। स्वामिन्यागते दास्यामीति याचमानेभ्यो बालकेभ्य आशाप्रदर्शनमुद्धरणमिति नीलकण्ठः।

हृष्

  • {उद्धृष्}
  • हृष् (हृष तुष्टौ, हृषु अलीके)।
  • ‘उद्धर्षन्तां मघवन् वाजिनानि’ (अथर्व० २।१९।६)। उत्कृष्टहर्षयुक्तानि स्युरित्याह।
  • ‘उद्धर्षय मघवन्नायुधानि’ (वा० सं० १७।४२)। उद्गतहर्षान्नो योधान्कुर्वित्यर्थः।
  • ‘योधानुद्धर्षयामास’ (भा० शां० ९९।२)। समुत्साहयामास।
  • ‘इत्यब्रवीद्धृषीकेशः पार्थमुद्धर्षयन् गिरा’ (भा० उ० ५९।३०)। समुत्साहयन्नित्यर्थः।
  • ‘शीतेनोद्धृषितस्य माषशिमिवच्चिन्तार्णवे मज्जतः’ (राज० ३।१८१)। उद्धृषितस्य रोमाञ्चितस्य। अनर्थक उच्छब्दः, केवलेनापि हृषितशब्देन हृष्टलोमा कण्टकितगात्र उच्यते। हृषित इति हृषु अलीक इत्यस्य निष्ठायामिटि रूपम्।
  • ‘निदर्शनान्युपायांश्च बहून्नुद्धर्षणानि च’ (भा० उ० १३५।३२)। उत्साहजनकानि वाक्यानि।
  • ‘कृतमुद्धर्षणं पूर्वं मया वः सीदतां नृपाः’ (भा० आश्रम० १७।१)। उद्धर्षणम् उत्साहवर्धनम्।
  • ‘हितमुद्धर्षणं चैव उवाच प्रथितं वचः’ (रा०)। उक्तोऽर्थः।
  • ‘अमर्षजनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत्’ (रा० ६।५२।६)। उद्धर्ष उत्कृष्टो हर्षः।
  • ‘आपूर्यत बलोद्धर्षैर्वायुवेगैरिवार्णवः’ (रा० ६।७४।३५)। उद्धर्ष उद्रेकः।
  • ‘उद्धर्षय मघवन्नायुधान्युत् सत्वनां मामकानां मनांसि’ (ऋ० १०।१०३।१०)। उद्धर्षय उच्चैर्हृष्टानि कुरु।

हृष्

  • {उद्धृष्}
  • हृष् (हृष गतौ च्छान्दसः)।
  • ‘अथ यदुच्च हृष्यति नि च हृष्यति तदस्य’ (अग्ने:) मैत्रावरुणं रूपम्’ (ऐ० ब्रा० ३।४)। उद्धृष्यति उद्गच्छति। निहृष्यति नीचैर्गच्छति। अत्र भट्टभास्करः– यस्मादयमग्निर्दाहारम्भे दाह्यसंयोगादुद् धृष्यति ऊर्ध्वज्वालो भवति। अथ भस्मीकृतदाह्यो निहृष्यति निभृतज्वालो भवति। ज्वलतोग्नेरौन्नत्यमुद्धर्षः। ज्वालाशान्त्या नीचत्वं निहर्ष इति सायणः।

ह्वे

  • {उद्ध्वे}
  • ह्वे (ह्वेञ् स्पर्धायां शब्दे च)।
  • ‘उदह्वमायुरायुषे क्रत्वे दक्षाय जीवसे’ (अथर्व० १८।२।२३)। उदह्वम् उच्चैः स्वरेणाह्वयामि।