१७५ अभिप्र (अभि+प्र)

अन्

  • {अभिप्राण्}
  • अन् (अन प्राणने)।
  • ‘अपहाय मुखमभिप्राणन्’ (सत्या० श्रौ० २४।१।१३)। अभिप्राणन् उच्छ्वसन्। मुखमपहाय=मुखमन्यतो नीत्वा।

  • {अभिप्रे}
  • इ (इण् गतौ)।
  • ‘ब्रह्म विद्वान् ब्रह्मैवाभिप्रैति’ (कौ० ब्रा० उ० १।४)। अभिप्रैति गच्छति।
  • ‘अभिप्रेत मृणत सहध्वम्’ (अथर्व० ३।१।२)। अभिप्रेत आभिमुख्येन शत्रून् गच्छत।
  • ‘प्रेह्यभिप्रेहि प्रभरा सहस्व’ (तै० ब्रा० २।४।७।४)। अभिप्रेहि=अभिलक्ष्य प्रतिष्ठस्व।
  • ‘यज्ञो देवलोकमेवाभिप्रैति तदनूची दक्षिणा’ (श० ब्रा० १।९।३।१)।
  • ‘स्वर्गं हं वा एते लोकमभिप्रयन्ति य उपसद उपयन्ति’ (शां० ब्रा० ८।९)। उक्तोऽर्थः।
  • ‘कर्मणा यमभिप्रैति स सम्प्रदानम्’ (पा० १।४।३२)। अभिप्रैति सम्बन्द्धुमिच्छति।
  • ‘अथोत्तरतः परिश्रितं भवति। तदभिप्रयन्तो जपन्ति’ (श० ब्रा० १४।१।२१५)। तदभिप्रयन्तस्तद् उद्दिश्य यान्तः।
  • ‘पूर्वैरभिप्रेतो गतो मार्गोऽनुगम्यते’ (रा० २।२१।३५)। अभिप्रेतः प्रतिपन्नः स्वीकृतः। उताधीतं विनश्यति। अप्याध्यातं विनश्यति।
  • ‘आध्यातमभिप्रेतम्’ (नि० १।६।१)। अभिप्रेतं चिन्तितम्, मनसेष्टम्।
  • ‘किमभिप्रेतमनया’ (भर्तृ० १।९४)। सा किं विवक्षति, किं चिकीर्षति, किमभिमन्यते इत्यर्थः।
  • ‘स्वां च पत्नीमभिप्रेताम्’ (रा० ४।२९।४)। अभिप्रेतां प्रियाम्, इष्टाम्।
  • ‘यथाभिप्रेतमनुष्ठीयताम्’ (हितोप०)। यथाभिप्रेतं यथेच्छम्। यथा ते छन्दस्तथा क्रियतामित्यर्थः।
  • ‘त्वं प्रभास्त्वमभिप्रेतं त्वं नस्त्राणमनुत्तमम्’ (भा० आदि० २३।१८)। अभिप्रेतं बुद्धिवृत्तिरिति नीलकण्ठः।
  • ‘कथं रामो महाबाहुः स तथाऽवितथक्रियः। भक्तं जनमभिप्रेत्य प्रवासं तपसे गतः’ (रा० २।४७।५)॥ अभिप्रेत्य चिन्तयित्वा मनसिकृत्य। अभित्यज्य प्रवासं तापसो गत इति पाठान्तरम्। तत्र त्यजेरभिना संयोगोऽपूर्वः।
  • ‘तमागतमभिप्रेत्य शृगालोप्यब्रवीद् वचः’ (भा० आदि० १४०।४०)। अभिप्रेत्य ज्ञात्वा।
  • ‘तं तमर्थमभिप्रेत्य ययौ वाक्यमुदीरयन्’ (रा० २।४९।१७)। अभिप्रेत्य विषयीकृत्य।
  • ‘भगवांस्तमभिप्रेत्य’ (भा० पु० १०।३८।३६)। तस्याभिप्रायमवेत्येत्यर्थः। तच्छब्दस्तन्मनीषिते वर्तते इति कवेरभिप्रायः।
  • ‘स्वरितजितः कर्त्रभिप्राये क्रियाफले’ (पा० १।३।७२)। कर्तारमभिप्रैति गच्छतीति कर्त्रभिप्रायं कर्तृगम्। कर्मण्यण्।
  • ‘अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत्’ (पञ्चत० १।१५८)। अभिप्रायाः प्रयोजनानि व्यवसितानि कृत्यानि चिकीर्षितानि।
  • ‘तेषां स्वं स्वमभिप्रायमुपलभ्य पृथक् पृथक्’ (मनु० ७।५७)। अभिप्रायं मतं दर्शनम्।
  • ‘रोषनिर्जितजीमूतो मनोभिप्रायशीघ्रगः’ (भा० द्रोण० १०।१७)। अभिप्रायो गतिः।
  • ‘मनोभिप्रायशीघ्रगः’ (रथः) (भा० द्रोण० ९९।१२)। उक्तोऽर्थः।
  • ‘संभारमाहरति गोरभिप्रायाद् वनस्पतीनाम्’ (कौ० सू० ७)। अभिप्राय इच्छा कामः।
  • ‘सभां प्रचक्रे कर्तुं पाण्डवानां महात्मनाम्। अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः’ (भा० सभा० १।१८)॥ उक्तोऽर्थः।
  • ‘यत्र (सभायां) दिव्यानभिप्रायान् पश्येम हि कृतांस्त्वया’ (भा० सभा० १।१३)। अभिप्रेयन्ते संकल्प्यन्त इत्यभिप्राया विषयाः।
  • ‘तत्र दिव्यानभिप्रायान् ददर्श कुशिकस्तदा’ (भा० अनु० ५४।२)। अभिप्रायान् काम्यानर्थान्।
  • ‘विश्वकर्मकृतैर्दिव्यैरभिप्रायैरलङ्कृताम्’ (द्वारकाम्) (हरि० २।९८।८)। उक्तोऽर्थः।
  • ‘तस्माद् गर्भश्चतुर्थे मास्यभिप्रायमिन्द्रियार्थेषु करोति’ (सुश्रुत० शारीर० ३।१४)। अभिप्राय इच्छा।
  • ‘अभिप्रायं तु जानामि रावणस्य दुरात्मनः। सीतां प्रति…’ (रा० ६।८४।१०)॥ अभिप्रायोऽभिलाषः कामः।
  • ‘यदि तस्यामभिप्रायो भार्यात्वे तव जायते’ (रा० ३।३४।२२)। उक्तोऽर्थः।
  • ‘यस्य सर्वं तदा ह्यन्नं मनोभिप्रायगं शुचि’ (भा० द्रोण० ५५।४१)। मनइच्छानुकूलम्।
  • ‘सा तदर्थमना देवी तमभिप्रायमागतम्’ (रा० २।११।११)। अभिप्रायमागतमानुकूल्यं प्राप्तम्।

क्षल्

  • {अभिप्रक्षल्}
  • क्षल् (क्षल शौचकर्मणि)।
  • ‘अभिप्रक्षालितो यं मणिः’ (विक्रम० ५)। सम्यक् शोधित इत्यर्थः। अभिप्रयोरेकतरः शक्यः परिहर्तुम्।

गाह्

  • {अभिप्रगाह्}
  • गाह् (गाहू विलोडने)।
  • ‘वाजाँ अभि प्र गाहते’ (ऋ० ९।९९।२)।

गै

  • {अभिप्रगै}
  • गै (गै शब्दे)।
  • ‘इन्द्रमभि प्र गायत’ (ऋ० १।५।१)।
  • ‘कण्वा अभि प्र गायत’ (ऋ० १।३७।१)।
  • ‘तम्वभि प्र गायत पुरुहूतं पुरुष्टुतम्’ (ऋ० ८।१५।१)।
  • ‘पवमानमवस्यवो विप्रमभि प्र गायत’ (ऋ० ९।१३।२)। सर्वत्राभिष्टुतेत्येवार्थः।

तप्

  • {अभिप्रतप्}
  • तप् (तप सन्तापे)।
  • ‘आर्तं च सौमित्रिमभिप्रतप्तम्’ (रा० २।२१।५५)। अभिप्रतप्तं वेदनामनुभवन्तम्।

दृ

  • {अभिप्रदृ}
  • दृ (दृ विदारणे)।
  • ‘यथौघः पर्वतश्रेष्ठमासाद्याभिप्रदीर्यते’ (भा० कर्ण० ७८।३८)। नानाधाराभिर्विभक्तो भवतीत्यर्थः।

नक्ष्

  • {अभिप्रणक्ष्}
  • नक्ष् (णक्ष गतौ)।
  • ‘प्र यो नक्षते अभ्योजसा क्रिविम्’ (वालखिल्य० ३।८)। नक्षते नक्षति=अभिभवति।

नी

  • {अभिप्रणी}
  • नी (णीञ् प्रापणे)।
  • ‘उत प्रणेष्यभि वस्यो अस्मान्’ (ऋ० १।३१।१८)। अभिप्रणेषि स्वाभिमुखं नय प्रापय।
  • ‘जज्वाल लोकस्थितये स राजा यथाध्वरे वह्निरभिप्रणीतः’ (भट्टि० २।४)। अभिप्रणीतः संस्कृत इति जयमङ्गला। वेदिं प्रति नीत इति संस्कृतशार्मण्यकोषः।

नु

  • {अभिप्रणु}
  • नु (णु स्तवने)।
  • ‘इमा उ त्वा शतक्रतोऽभि प्र णोनुवुर्गिरः। इन्द्र वत्सं न मातरः’ (ऋ० ६।४५।२५)। अभिप्रणोनुवुः शब्दयन्ति, अभिवाश्यन्ते, आकारयन्ति।
  • ‘त्वाभि प्र णोनुमो जेतारमपराजितम्’ (ऋ० १।११।२)। पुनः पुनर्भृशं वा स्तुम इत्यर्थः।
  • ‘इमा अभि प्र णोनुमो विपामग्रेषु धीतयः’ (ऋ० ८।६।७)। पुनः पुनर्गृणीम इत्यर्थः।

पच्

  • {अभिप्रपच्}
  • पच् (डुपचष् पाके)।
  • ‘अनलेनाभिप्रपच्यमानानां महाभूतानां सङ्घातो घनः संजायते’ (सुश्रुत० १।३२२।६)। स्पष्टोऽर्थः।

पद्

  • {अभिप्रपद्}
  • पद् (पद गतौ)।
  • ‘शोकेनाभिप्रपन्नस्य जीविते चापि संशयः’ (रा० ४।७।१३)। अभिप्रपन्नोऽभिपन्नोभिगत आक्रान्तो व्याप्तः।

भू

  • {अभिप्रभू}
  • भू (भू सत्तायाम्)।
  • ‘ईजानमिद् द्यौर्गूर्तावसुरीजानं भूमिरभि प्रभूषणि’ (ऋ० १०।१३२।१) प्रभूषणि प्रभवने निमित्तभूते सति। भूषयते र्वेदं रूपम् इति सायणः।

मन्

  • {अभिप्रमन्}
  • मन् (मन ज्ञाने, मनु अवबोधने)।
  • ‘भूमिरिति त्वाभिप्रमन्वते जनाः’ (अथर्व० ६।८४।१)। अभितः प्रबुध्यन्त इत्यर्थः।

मृष्

  • {अभिप्रमृष्}
  • मृष् (मृष तितिक्षायाम्)।
  • ‘मा नो अग्ने सररूपा पित्र्याणि प्र मर्षिष्ठा अभि विदुष्कविः सन्’ (ऋ० १।७१।१०)।
  • ‘यत्र सुपर्णाः… अनिमिषन्तो वेदनेनाभिस्वरन्तीति वा ऽभिप्रयन्तीति वा’ (नि० ३।१२।१)। अभिप्रयन्ति=आभिमुख्येन प्रयान्ति।

या

  • {अभिप्रया}
  • या (या प्रापणे, प्रापणमिह गतिः)।
  • ‘उत्तरतोऽभिप्रयायी जयति’ (तै० सं० ५।३।५।२३)। अभिप्रयायी प्रस्थायी।
  • ‘रथं समास्थाय वायोः सलोकतामभिप्रयाति’ (जै० ब्रा० १।२६)। अभिमुखः सन्प्रति प्रतिष्ठत इत्यर्थः।
  • ‘अभिप्रयामि सङ्ग्रामे यदहं युद्धदुर्मदान्’ (भा० वि० ४४।१४)। अभिप्रयामि प्रार्थयेऽवस्कन्दामि।

युज्

  • {अभिप्रयुज्}
  • युज् (युजिर् योगे)।
  • ‘देवास्तृतीयसवनात् प्रातः सवनमभिप्रायुञ्जत’ (शां० ब्रा० १४।५)। अगृह्णन्, आक्रामन्, अभ्यभवन् (असुरान्)।
  • ‘देवाश्चातुर्मास्यैरभि प्रायुञ्जत’ (तै० ब्रा० १।५।६।३)।
  • ‘आकूत्य हि पुरुषो यज्ञमभिप्रयुङ्क्ते’ (तै० सं० ६।१।२।२)। उक्तोऽर्थः।

वृत्

  • {अभिप्रवृत्}
  • वृत् (वृतु वर्तने)।
  • ‘यत्र भागीरथीं गङ्गां यमुनाऽभिप्रवर्तते’ (रा० २।५४।१)। गङ्गया सम्भेदमापद्यते, गङ्गामुपतिष्ठते, गङ्गामुपश्लिष्यतीत्यर्थः।
  • ‘एतां ते दिशं रथोऽभिप्रवर्तताम्’ (ऐ० ब्रा० ८।१०)। अभिलक्ष्य प्रयात्वित्यर्थः।

श्वस्

  • {अभिप्रश्वस्}
  • श्वस् (श्वस प्राणने)।
  • ‘तान् (देवान्) अभिप्राश्वसीत् (वृत्रः)। तस्याश्वसथाद् ईषमाणा विश्वे देवा अद्रवन्’ (ऐ० ब्रा० ३।२०)। अभिप्राश्वसीद् अभिलक्ष्य प्रश्वासमकरोत्।

सृ

  • {अभिप्रसृ}
  • सृ (सृ गतौ)।
  • ‘तस्मादु ह न प्रतीचीनशिराः शयीत। नेद् देवानभिप्रसार्य शया इति’ (श० ब्रा० ३।१।१।७)। देवाभिमुख्येन पादौ प्रसार्येत्यर्थः।

स्कन्द्

  • {अभिप्रस्कन्द्}
  • स्कन्द् (स्कन्दिर् गतिशोषणयोः)।
  • ‘तद्यथा गिरिशिखराद् गर्तमभिप्रस्कन्देत्’ (शां० ब्रा० २६।१)। खातमभिप्रपतेदित्यर्थः। अतटप्रपातो विवक्षितः।

स्था

  • {अभिप्रस्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘यदा सुषुप्तो भवति। तदा न कस्यचन वेद, हिता नाम नाड्यो द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते’ (श० ब्रा० १४।५।१।२१)। अभिप्रतिष्ठन्तेऽभिप्रवर्तन्ते।
  • ‘ता अभिप्रस्थापयन्नुवाच’ (छां० उ० ४।४।५)। प्राजन्, कालयन्, प्रेरयन्।

स्रु

  • {अभिप्रस्रु}
  • स्रु (स्रु गतौ)।
  • ‘नातपति प्रस्रावयेत नेदेतममभिप्रस्रावया इति’ (श० ब्रा० १४।१।१।३३)। अभिप्रस्रावयेत् आभिमुख्येन मेहेत्।

  • {अभिप्रइ}
  • इ (इण् गतौ)।
  • ‘तथैतदत्रोक्तं व्यक्तमव्यक्तं वा सत्त्वमात्मत्वेनाभिप्रतीत्य’ (यो० सू० २।५ भाष्ये)। अभिप्रतीत्य प्रतीत्य विज्ञाय मत्वा।