२८३ विवि (वि+वि)

ईक्ष्

  • {विवीक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘विवीक्षमाणा हरितं ददर्श तन्महद् वनं नैव तु रामलक्ष्मणौ’ (रा० ३।४६।३७)। तिलककारस्तु निरीक्षमाणेति पठति। विशब्दस्य द्विरुक्तिर्नार्थवतीति जघन्यः स पाठः।