२२१ उपनिस् (उप+निस्)

कॄ

  • {उपनिष्कॄ}
  • कॄ (कॄ विक्षेपे )।
  • ‘घण्टापथः संसरणं तत्पुरस्योपनिष्करम् इत्यमरः।’ उपनिष्कीर्यते सैन्यमत्रेति स्वामी।

क्रम्

  • {उपनिष्क्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘आज्यं गृहीत्वोपनिष्क्रामति’ (श० ब्रा० ३।५।३।१३)। उपनिष्क्रामति=निष्क्रामति=निर्याति।
  • ‘आश्रमादुपनिष्क्रान्तमृषिमुत्तमतेजसम्’ (रा० २।९२।४)। आश्रमाददूरनिष्क्रान्तमित्याह। आश्रमान्निर्गत्यादूरे वर्तमानम्।
  • ‘उपनिष्क्रम्य नगरात्प्रत्यगृह्णात्परन्तप’ (भा० सभा० २९।१२)। उक्तोऽर्थः।