१७३ अभिपरि (अभि+परि)

  • {अभिपरी}
  • इ (इण् गतौ)।
  • ‘दृढं त्वभिपरीतोहमर्जुनेन पुनः पुनः’ (भा० द्रोण० १११।१०)। दृढमभिपरीतो यन्त्रितः। अभिपरीत उपरुद्धः।

प्लु

  • {अभिपरिप्लु}
  • प्लु (प्लुङ् प्लवनतरणयोः)।
  • ‘उवाच भीममासीनं कृपयाभिपरिप्लुतम्’ (भा० उ० ७५।३)। कृपयाविष्टम् इत्यर्थः। अनर्थकोऽभिः परिणा हि गतार्थः।

हृ

  • {अभिपरिहृ}
  • हृ (हृञ् हरणे)।
  • ‘न मन्त्रवता यज्ञाङ्गेनात्मानमभिपरिहरेत्’ (बौ० ध० १।७।१५।७)। आत्मानं बहिर्न कुर्यात्। यज्ञपात्रस्याग्नेश्चान्तरतो न भवेदित्यर्थः।
  • ‘अपरेणोत्तरां वेदिं स्तम्बयजुर्हरन्नाध्वर्युमभिपरिहरति’ (प्रतिप्रस्थाता) (आप० श्रौ० ८।२।५।१२)। अध्वर्योर्बहिर्न नयति। स्तम्बयजुस्तृणपांसून्।