१७४ अभिपर्या (अभि+परि+आ)

धा

  • {अभिपर्याधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘तदेवैनदभिपर्याधाय विष्यन्दयेत्’ (श० ब्रा० १२।४।२।५)। अभिपर्याधाय परिगतं कृत्वा, आवेष्ट्य।

वृत्

  • {अभिपर्यावृत्}
  • वृत् (वृतु वर्तने)।
  • ‘यथाकर्मर्त्विजो न विहारादभिपर्यावर्तेरन्’ (बौ० ध० १।७।१५।१२)। न व्यावर्तेरन्नित्यर्थः।