२८५ परि

अस्

  • {पर्यस्}
  • अस् (असु क्षेपे)।
  • ‘एवं सुहृद्भिः पर्यस्तः पुण्यश्लोकशिरोमणिः’ (भा० पु० १०।७१।३१)। पर्यस्तः परिवेष्टितः।
  • ‘इदं नु मायिनं हुव इति पर्यासः’ (ऐ० ब्रा० ५।४)। पर्यासः समाप्तिः।

  • {परी}
  • इ (इण् गतौ)।
  • ‘कस्मात्सामान्यादिति कालानुवादं परीत्य’ (नि० १२।१३।३)। परीत्य परिज्ञाय।
  • ‘प्रभुर्गात्राणि पर्येषि’ (पञ्च० ब्रा० १।२।८)। पर्येषि व्याप्नोषि।
  • ‘वैदिक तूदाहरणं पर्येप्यं यद्यस्ति क्वचित्।’ (नि० १।५) इत्यत्र स्कन्दस्वामी। पर्येष्यं मृग्यम्।

काल्

  • {परिकाल्}
  • काल् (काल क्षेपणे)।
  • ‘परिकाल्य कुरून् सर्वान् शरवर्षैरवाकिरन्’ (भा० भीष्म० ११९।८४)। परिकाल्य पराणुद्य प्रद्राव्य।

खन्

  • {परिखन्}
  • खन् (खनु अवदारणे)।
  • ‘कण्टकिक्षीरिणस्तु समूलान् परिखायोद्वासयेत्’ (आश्व० गृ० २।६।५)। परिखाय परित उत्खाय। परितः खननेनोत्पाट्येत्यर्थः।

गम्

  • {परिगम्}
  • गम् (गम्लृ गतौ)।
  • ‘मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः’ (रा० ४।६७।११)। परिगन्तुं परिभ्रमितुम्। असङ्गेन=अविलम्बेन।

ग्रह्

  • {परिग्रह्}
  • ग्रह् (ग्रह उपादाने)।
  • ‘अटवीपर्वताश्चैव नद्यस्तीर्थानि यानि च। सर्वाण्यस्वामिकान्याहुर्नहि तत्र परिग्रह’ (भा० अनु० ६६।३५-३६)॥ परिग्रहः स्वामित्वम्।
  • ‘अयं चाद्य मया दृष्टः परदारपरिग्रहः (रा० ५।११।३९)। परदारा एव परिग्रहो ऽ वरोधः।
  • ‘शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम्। सत्येन परिगृह्णाति स वीरः पुरषोत्तमः’ (रा० ४।३०।७२)॥ परिगृह्णाति पालयति रक्षति।
  • ‘उभयतोऽध्वर्युं पात्रेण परिगृह्णाति’ (का० श्रौ० ९।१३।११)। पात्रमादाय परिगच्छतीत्यर्थः।

छद्

  • {परिच्छद्}
  • छद् (छद अपवारणे)।
  • ‘बाला एव तास्त्यक्त्वा वैराग्येण पितुर्गृहम्। श्मशानं शिश्रियुः पृष्टा जगदुश्च परिच्छदम्’ (कथा० २८।१४)॥

तन्

  • {परितन्}
  • तन् (तनु विस्तारे)।
  • ‘अहतपक्षेण (=अहतवस्त्रैकदेशेन) परितत्य’ (का० श्रौ० २१।३।६)। परितत्य सर्वतो वेष्टयित्वा।

तप्

  • {परितप्}
  • तप् (तप सन्तापे)।
  • ‘परितापेन समृद्धिभावम्… वाञ्छन्ति’ (तन्त्रा० १।१३।१५३)। परितापेन परपीडया।

दा

  • {परिदा}
  • दा (डुदाञ् दाने)।
  • ‘जवस्ते… श्येने वात उत योऽचरत् परीत्तः’ (अथर्व० ६।९२।२)। रक्षणार्थं दानं परिदानम्। परीत्तः (=यो जवः) रक्षणाय दत्तः।

धा

  • {परिधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘परि वो विश्वतो दध ऊर्जा घृतेन पयसा’ (ऋ० १०।१९।७)। परिदधे परिपुष्णाति।

नी

  • {परिनी}
  • नी (णीञ् प्रापणे)।
  • ‘मुखत एवैनान् यज्ञस्य परिणयति’ (पञ्च० ब्रा० १७।३।२)। परिणयति प्रापयति (ब्राह्मणत्वम्) इति सायणः।

भी

  • {परिभी}
  • भी (ञिभी भये)।
  • ‘अथापि नेत्येष इदित्येतेन सम्प्रयुज्यते परिभये’ (नि० १।११)। परिशब्द ईषदर्थः। तद्यथा परिमधुरमपर्याप्तमिति दुर्गः।

वृत्

  • {परिवृत्}
  • वृत् (वृतु वर्तने )।
  • ‘वर्वर्ति चक्रं परि द्यामृतस्य’ (ऋ० १।१६४।११)। परिवर्वर्ति सततं परिवर्तते।

श्रि

  • {परिश्रि}
  • श्रि (श्रिञ् सेवायाम्)।
  • ‘परिश्रितेषु देयः स्यान्मधुपर्क इति ध्रुवम्’ (गृह्यासङ्ग्रहे २)।

सद्

  • {परिषद्}
  • सद् (षद्लृ विशरणगत्यवसादनेषु)।
  • ‘परिषीदन्ति परितः सीदन्त्यत्रेति परिषत्।’

स्कृ

  • {परिस्कृ}
  • स्कृ (डुकृञ् करणे, सुट्)।
  • ‘गोभिर्भगं परिष्कृतम्’ (ऋक्तन्त्रे ४।५।८)। परिष्कृतं प्रचुरम्। पर्युप भूषणप्राचुर्यवाक्येषु।

स्था

  • {परिष्ठा}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘याश्चिद् (अपः) वृत्रो महिना पर्यतिष्ठत्’ (ऋ० १।३२।८)। परिक्रान्तवान् अरुणद्वा।

स्पन्द्

  • {परिस्पन्द्}
  • स्पन्द् (स्पदि ईषच्चलने)।
  • ‘सुखसाधनानि च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते’ (यो० सू० भा० २।१५)। परिस्पन्दते चेष्टते।

हृ

  • {परिहृ}
  • हृ (हृञ् हरणे)।
  • ‘अलोभशीलमपरिहार्यम्’ (का० सू० १।५।३३)। अपरिहार्यं परेण हर्तुं न शक्यते ऽनुरक्तत्वात्।