२१५ उपाङ् (उप+आङ्)

अज्

  • {उपाज्}
  • अज् (अज गतिक्षेपणयोः)।
  • ‘आ सखायः सबर्दुघां धेनुमजध्वमुप नव्यसा वचः’ (ऋ० ६।४८।११)। उपाजध्वम् उपागच्छत।

  • {उपे}
  • इ (इण् गतौ)।
  • ‘धेनुर्वागस्मानुप ष्टुतैतु’ (ऋ० ८।१००।११)। सुष्ठु स्तुता धेनुर्वागस्मान् उपैतु उपागच्छतु इत्युक्तं भवति।
  • ‘ऋतं वर्षिष्ठमुप गाव आगु’ (ऋ० ३।५६।२)।
  • ‘तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव’ (छां० उ० २।१।२)।
  • ‘त आ यन्तु प्रब्रुवाणा उपदेम्’ (अथर्व० १।७।५)। उक्तोऽर्थः।
  • ‘गान्धर्वेण विवाहेन मामुपैहि वराङ्गने’ (भा० आदि० १७२।१९)। उपैहि मिथुनी भव।

कृ

  • {उपाकृ}
  • कृ (डुकृञ् करणे)।
  • ‘लोके यशः स्फीतमुपाकरोतु’ (भा० वन०)। उपाकरोतु आहरतु, प्राप्नोतु।
  • ‘रोहिण्यां छन्दांस्युपाकुर्यात्’ (आप० श्रौ० ७।१२।६)। संस्कारपूर्वकं वेदाध्ययनमारभेतेति सूत्रार्थः।
  • ‘ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकुर्यात्’ (तै० सं० ३।१।२।८)। उपाकुर्यात् उपक्रमेत।
  • ‘व्रतानि व्रतपतय उपाकरोम्यग्नये’ (कौ० सू० ४२।१७)। उक्तोऽर्थः।
  • ‘परागेव स्तोत्रमुपाकरोति’ (श० ब्रा० ४।२।५।७)। उपाकरोति पठति।
  • ‘उप ते गा इवाकरम्’ (ऋ० १०।१२७।८)। उपेत्य स्तुतिभिरभिमुखी करोमीत्यर्थ इति सायणः।
  • ‘व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु’ (रा० २।३२।२१)। उपाकुरु देहि।
  • ‘उपाकुरुष्व तद्राजंस्तस्मान्मुच्यस्व संकटात्’ (भा० वन० २७७।२१)। उक्तोऽर्थः।
  • ‘येनैव राजन्नर्थेन तदेवास्मा उपाकुरु’ (भा० उ० ८७।१५)। उपाकुरु अर्पय।
  • ‘यदा वा अध्वर्युरुपाकरोति वाचैवोपाकरोति’ (ऐ० ब्रा० २।१५ )। उपाकरोत्यभिसम्बोधयति प्रेषयति।
  • ‘सोऽन्यद् वृत्तमुपाकरिष्यमाणः’ (श० ब्रा० १४।७।३।१)। उपाकरिष्यमाण आरप्स्यमानः।
  • ‘यत्तत्पूर्वमुपाकुर्वन्नस्त्रं मामब्रवीत्कृपः’ (भा० द्रोण० १४७।२४)। उपाकुर्वन् अध्यापयन्, ग्राहयन्, अभिविनयन् (अस्त्रे), शिक्षयन्।
  • ‘उपाकृतेषु पवमानेष्बोदृचः’ (ऐ० ब्रा० ५।३३)। उपाकृतेषु प्रारब्धेषु प्रक्रान्तेषु। उदृक् समाप्तिः।
  • ‘अनुपाकृतवेदस्य कर्तव्यो ब्रह्मयज्ञकः’ (वीरमित्रोदये पृ० ४३९ समुद्धृतं जैमिनिवचनम्)। अनुपाकृतवेदो विधिवदनारब्धवेदाध्ययनः। उपाकृतः पशुरसौ योऽभिमन्त्र्य ऋतौ हत इत्यमरः। उपामन्य क्रियते हन्यत इत्युपाकृत इति स्वामी।
  • ‘तस्मा उपाकृताय नियोक्तारं न विविदुः’ (ऐ० ब्रा० ७।१६)। बहिर्युक्तया प्लक्षशाखया मन्त्रपुरःसरं समुपस्पृश्य स्वीकार उपाकरणम् इति तत्र याज्ञिकाः।
  • ‘अनुपाकृतमांसानि देवान्नानि हवींषि च’ (मनु० ५।७)। पशुयागादौ मन्त्रबहुलेन पशोः स्पर्शनमुपाकरणम्। तद्रहितः पशुरनुपाकृतस्तस्य मांसानि।
  • ‘उपाकृतं शशमानं यदस्थात् प्रियं देवानामप्येतु पाथः’ (अथर्व० २।३४।२)। उपाकृतमानीतमाहृतं प्रापितम्।
  • ‘दृष्ट्वा च सर्वान् मञ्चानुपाकृतान्’ (वि० पु० ५।२०।२४)। उपाकृतान् विधिवत् स्थापितान्।
  • ‘साक्षाद्रामेण यो बाल्ये धनुर्वेद (सप्तम्यन्तम्) उपाकृतः’ (भा० कर्ण० २।१३)। उपाकृतोऽभिविनीतः, शिक्षितः (धनुर्वेदम्)।
  • ‘उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः। प्रयच्छन्तीह ये कामान्देवत्वमुपयान्ति ते’ (भा० द्रोण० १४७।२१-२२)॥ उपाकृत्य उपादाय।
  • ‘श्रावण्यां प्रोष्ठपद्यां वाप्युपाकृत्य यथाविधि’ (मनु० ४।९५)।
  • ‘श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं प्रदोषे नाधीयीत’ (आप० ध० १।९।१)। विधिवदुपाकर्म कृत्वेत्युक्तं भवति।
  • ‘शिबिः…प्राणान् प्रियस्य तनयस्य च। ब्राह्मणार्थमुपाकृत्य’ (भा० अनु० १३७।४)। उयाकृत्य दत्त्वा।
  • ‘तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव’ (भा० वन० ७७।१७)। उपाकर्तुं दातुम्।
  • ‘सोमे च ग्रहं गृहीत्वोपाकरणात्’ (का० श्रौ० ३।३।१७)। सोमरसाधारभूतः पात्रविशेषो ग्रहः। उद्गातृभिः क्रियमाणस्य स्तोत्रस्य प्रारम्भ उपाकरणमिति विद्याधरकृता वृत्तिः।
  • ‘अथातोऽध्यायोपाकरणम्’ (आश्व० गृ० ३।५।१)। अध्यायस्य वेदाध्ययनस्योपाकरणं प्रारम्भो येन कर्मणा तदध्यायोपाकरणम्।
  • ‘पुरा प्रातरनुवाकस्योपाकरणात्’ (छां० उ० २।२४।३) उक्तोऽर्थः।
  • ‘एतानि सर्वाणि स्यानानि तूर्णमुपाकुरुषे’ (नि० ५।२५।२)। उपेत्याभिमुख्येन कुरुष इत्यर्थः।

क्रम्

  • {उपाक्रम्}
  • क्रम् (क्रम पादविक्षेपे)।
  • ‘ततः सत्त्वान्युपाक्रामन्बहूनि’ (भा० वन०)। उपाक्रामन् उपरि पतन्।
  • ‘पश्चात्तप्यसे तदुपाक्रम्य वाक्यम्’ (भा० सभा० ५६।१५)। उपाक्रम्य संस्मृत्य।

ख्या

  • {उपाख्या}
  • ख्या (ख्या प्रकथने, चक्षिङ आदेशो वा)।
  • ‘यदुताहं त्वया पृष्टो वैराजात् पुरुषादिदम्। यथासीत्तदुपाख्यास्ये प्रश्नानन्यांश्च कृत्स्नशः’ (भा० पु० २।९।४५)॥ उपाख्यास्य वर्णयिष्ये प्रतिवक्ष्ये।
  • ‘ज्ञानविज्ञानयुक्तानां निरुपाख्या निरञ्जना। कैवल्या या गतिर्देव परमा सा गति र्भवान्’ (भा० अनु० १६।६४)॥ निरुपाख्या द्रष्टुमशक्या। दृशोरगोचरः।
  • ‘द्वितीये चानुपाख्ये’ (पा० ६।३।८०)। उपाख्यायते प्रत्यक्षत उपलभ्यत इत्युपाख्यः। घञर्थे कविधानम्। ततोऽन्योऽ नुपाख्यो ऽनुमेयः। नाचिकेतसमुपाख्यानम्। अल्पपरिमाणमाख्यानम् उपाख्यानम्।

गम्

  • {उपागम्}
  • गम् (गम्लृ गतौ)।
  • ‘यदयं कृत्यवान्प्राप्तः कृत्यं चैतदुपागतम्’ (रा० ४।४।३)। उपागतं निष्पन्नप्रायम्। (पूर्तेः) समीपमागतमित्यक्षरार्थः।
  • ‘तपोनिधिं वेत्सि न मामुपागतम्’ (शा० ४।१)। उपस्थितमिति पाठान्तरम्। स्पष्टोर्थः। दावादमुपागतः (दासः) इति मिताक्षरा। कुलक्रमागतः, पितृपैतामह इत्यर्थः।

घ्रा

  • {उपाघ्रा}
  • घ्रा (घ्रा गन्धोपादाने)।
  • ‘उपाघ्राति च यो गन्धान् रसांश्च पृथग्विधान्’ (भा० वन० १४५०४)। उपाघ्राति जिघ्रति। नार्थ उपाङ्भ्याम्।
  • ‘शवगन्धमुपाघ्राति सुरभिं प्राप्य यो नरः’ (भा० शां० ११७१६)। उक्तोऽर्थः।
  • ‘ततस्तं मूर्ध्न्युपाघ्राय’ (हरि० १।२५।४५)। उपाघ्राय चुम्बित्वा।

चर्

  • {उपाचर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘यथा बद्धवत्सोपाचरेदेवमेतं ग्रहमुपाचरतः’ (अध्वर्युप्रतिप्रस्थातारौ) (श० ब्रा० ४।२।४।२२)। उपाचरतः प्रत्यागच्छतः प्रतिनिवर्तेते।
  • ‘उप नः पितवा चर’ (ऋ० १।१८७।३)। हे पितो नोऽस्मानुपाचर उपगच्छेत्याह।
  • ‘निशाचरास्तूग्रमुपाचरन्ति’ (त्वाम्) (वामन पु० ७०।५३)। उपाचरन्ति व्यवहरन्ति व्यपदिशन्ति। उदाहरन्ति।
  • ‘वणिजो वाराणसीं जित्वरीत्युपाचरन्ति’ (पा० ४।३।८३ सूत्रे भाष्ये)। उक्तोऽर्थः।
  • ‘समवाये तु दोषाणां पूर्वं पित्तमुपाचरेत्’ (सुश्रुत० उत्तर० ४०।९६ )। उपाचरेत् चिकित्सेत्।
  • ‘नास्ति रोगो विना दोषैर्यस्मात्तस्माद् विचक्षणः। अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत्’ (सुश्रुत०)।
  • ‘ततस्तमुपावर्त्य तावन्तमेव कालं तथाविधेनैव कर्मणोपाचरेत्’ (चरक० सूत्र० १५।८)।
  • ‘ततः साध्यं परीक्षेत पश्चाद् भिषग् उपाचरेत्’ (वैद्यजीवने १।८)। उक्तोऽर्थः।
  • ‘त्रिवर्गं चाप्युपाचरेत्’ (भा० शां० २८।४३)। उपाचरेत् अनुतिष्ठेत्।

दा

  • {उपादा}
  • दा (डुदाञ् दाने)।
  • ‘उपादत्स्व यदत्र वसु मन्यसे’ (भा० वन० ८५९५)। उपादत्स्व गृहाण, आत्मसात्कुरु।
  • ‘प्रत्यर्थिनो हस्तादुपादत्ताङ्गलीयकम्’ (राज० ६।३३)। उपादत्त आच्छिनत्, आमृशत्, आक्षिपत्।
  • ‘यत्परस्य कुत्सार्थमुपादीयते’ (पा० ५।३।९५ सूत्रे भाष्ये)। उपादीयते उपन्यस्यते उदाह्रियते कथ्यते।
  • ‘एकान्तं समुपागम्य ततः शेषमुपाददे’ (रा० गोरे० सं० २।५६।३१)। उपाददे प्रारेभे।
  • ‘तेन ह्युपात्तं सकलं सर्वज्ञानमितस्ततः’ (भा० द्रोण० ३३।१५)। उपात्तमात्तं सङ्गृहीतम्।
  • ‘भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा’ (याज्ञ० २।१२१)। उपात्ता प्रतिग्रहेण विजयेन क्रयेण वा लब्धा।
  • ‘उपात्तयज्ञः’ (हरि० ३।२।३९)। उपात्त उपसंहृत इति नील०।
  • ‘उपात्तवर्णे चरिते पिनाकिनः’ (कु० ५।५६)। उक्तोऽर्थः। वर्णः प्रशस्तिर्वर्णनं वा। उपात्तो निर्मदो हस्तीति हलायुधः।
  • ‘पुनरस्मानुपादाय तथैव व्रज भारत’ (भा० आदि० १५०।२५)। उपादाय सहादाय।
  • ‘अपि प्रेष्यानुपादाय सर्वे स्मसुखोषिताः’ (रा० २।९२।६)। प्रेष्यान् परिचारकानप्यादाय, तानूरीकृत्य, तानभ्यन्तरीकृत्य, तैरपि सहेत्यर्थः।
  • ‘शीघ्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः। वधूं कुन्तीमुपादाय।’ उक्तोऽर्थः।
  • ‘वृद्धबालानुपादाय चातुर्वर्ण्ये समागते’ (भा० उ० ७३।३३)।
  • ‘चकार न पुरा कश्चिन्न कर्ता न करिष्यति। उपादाय सुरान्सेन्द्रान् इदमन्यत्र राघवात्’ (रा० ५।९५।३२)॥
  • ‘तस्मान्न निश्चयाद्वक्तुं धर्मः शक्यो हि केन चित्। देवानृषीनुपादाय स्वायम्भुवमृते मनुम्’ (मात्स्य पु० १४३।२८)॥ इह सर्वत्र उपादायेत्यस्यान्तर्भावयित्वेत्येवार्थः।
  • ‘पितामहैराचरितं तथैव प्रपितामहैः। अद्योपादाय तं मार्गम्’ (रा० २।१७।८-९)। उपादाय आस्थाय आश्रित्य।
  • ‘चित्रकूटमुपादाय राज्यभ्रष्टोसि मे श्रुतः’ (रा० ३।७।८)। उक्तोऽर्थः।
  • ‘प्रजापतिमुपादाय नृपाणां जयशालिनाम्’ (रा० १।५।१)। उपादाय=आरभ्य, उपक्रम्य। ततः प्रभृतीत्यर्थः।
  • ‘उपादातुं पुष्पाणि फलानि च’ (रा० ३।९।२०)। उपादातुमवचेतुम्।
  • ‘कथं तु देवा हविषा गयेन परितर्पिताः। पुनः शक्ष्यन्त्युपादातुमन्यैर्दत्तानि कानि चित्’ (भा० वन० ८५३७)॥ उपादातुं प्रत्येषितुमभ्युपैतुम्।
  • ‘सर्वत्रैव प्रथमं पुत्रोपादानात्’ (शङ्खलिखितौ)। पुत्रकीर्तनादित्यर्थः। उपादानेप्यामिषम् इत्यमरः। उपादानमुत्कोचः।
  • ‘नोपादानं विनोद्भवः’ (विष्णु० पु० १।१७।५८)। मूलमन्तरेण नोत्पादः कश्चिदस्तीत्याह।
  • ‘उपादानादुपादेयं हि नातिरिक्तम्’ (छां० उ० ३।१४।१ इत्यत्र गोपालानन्द स्वामी)। उपादानं प्रकृतिः।
  • ‘वाक्योपादानहेतोस्तु वक्ष्यामि विदिते सति’ (भा० उ० २०।३)। वाक्योपादानहेतोः=वचनारम्भाय, भवद्भिः किंचिद् वक्तव्यमिति हेतोः।
  • ‘अग्रिमाणां क्षितिभुजामुपादानं मनोहरम्’ (भा० शां० २९।१८)। उपादानमुपादेयं श्रोतुं योग्यम्।

दिश्

  • {उपादिश्}
  • दिश् (दिश अतिसर्जने, दिशिरुच्चारणक्रिय इति भाष्यम्)।
  • ‘भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम। यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश’ (भा० )॥ उपादिश निर्दिश, अतिसृज वा।
  • ‘इति राज्ञ उपादिश्य विप्रा जातककोविदाः’ (भा० पु० १।१२।२९)। उपादिश्य निवेद्य विज्ञाप्य, अनुशिष्य।

द्रु

  • {उपाद्रु}
  • द्रु (द्रु गतौ)।
  • ‘आ मा पूषन्नुप द्रव शंसिषं नु ते’ (ऋ० ६।४८।१६)। मामुपाद्रव माम्प्रति त्वरस्व।

धा

  • {उपाधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘मा त्वं प्रोत्साहिता पापैः…। भर्तारं लोकभर्तारमसद् धर्ममुपादध’ (रा० २।३५।३०)। मा ग्राहयेति भूषणम्।
  • ‘नगरमपाहितमग्निनाऽभिवीक्ष्य’ (भा० शां० २१९।५०)। उपाहितं परिगतं परीतम्। उद्दालको हारुणिः। उदीच्यान्वृतो धावयाञ्चकार।
  • ‘तस्य निष्क उपाहित आप्त’ (श० ब्रा० ११।४।१।१)। निष्क उपाहित आसेत्यस्यायमर्थः– यो मां ब्रह्मोद्यं (शास्त्रप्रवचनं वा) जेता तस्य निष्क उपहारः प्रदास्यत इत्येवंरूपो ऽभिसन्धिरुपसंवादो वा विज्ञापितो ऽभूत्। गोपथब्राह्मणे (३।६) प्ययं सन्दर्भः स्थित ईषद्भेदेन।
  • ‘स्तम्भश्चेष्टा–प्रतीघातो भयरागाद्युपाहिताः’ (अग्निपु० ३३९।१८)। उपाहितो जनितः। उपाहितः संयोजित इत्यमरः।
  • ‘उपाहितां वक्षसि पीवरस्तने’ (भारवौ)। उक्तोऽर्थः।
  • ‘संकुलोपाहितवेदसमाप्तिच्छर्दिश्राद्धमनुष्ययज्ञभोजनेष्वहोरात्रम्’ (गौ० ध० २।७।३४)। उपाहितोऽग्निदाहः। अग्न्युत्पात उपाहित इति वैजयन्ती।
  • ‘न ह्युपाधेरुपाधिर्भवति विशेषणस्य वा विशेषणम्’ (पा० १।३।२ सूत्रे भाष्ये)। एक आत्मा। देहाद्युपाधिरचितो भेदः। यथैक आकाशः। घटाद्युपाधिरचितो भेदः। घटाकाशः। मठाकाशः। साध्यव्यापकत्वे साधनाव्यापकत्वमुपाधिरिति नैयायिकाः। यथा पर्वतो धूमवान् वह्नेरित्यत्र वाक्ये आर्द्रेन्धनसंयोग उपाधिः।
  • ‘काष्ठाहरणे शाकाहरणमुपाधिः क्रियते’ (मी० शा० भा० ४।३।२०)। उपाधिर्ना धर्मचिन्तेत्यमरः।
  • ‘उपाधिर्न मया कार्यो वनवासे जुगुप्सितः’ (रा० २।१११।२९)। उपाधिः प्रतिनिधिः।
  • ‘मृतायामपि भार्यायां वैदिकाग्निं न हि त्यजेत्। उपाधिनापि तत्कर्म याज्जीवं समापयेत्’ (गो० स्मृ० ३।९)। उक्तोऽर्थः।
  • ‘पापेनोनोपाधिना वने। अनेन…’ ( रा० ३।४३।५)। अनेन पापेन मृगरूपोपाधिना निमित्तेन।
  • ‘कुटुम्बव्यापृतस्तु यः। स्याद् अभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयमित्यमरः।’

ध्मा

  • {उपाध्मा}
  • ध्मा (ध्मा शब्दाग्निसंयोगयोः)।
  • ‘प्रीतः शङ्खमुपाध्मासीत्’ (हरि० २।९९।१)। अपूपुरदित्यर्थः।

नी

  • {उपानी}
  • नी (नीञ् प्रापणे)।
  • ‘स्रजो ध्रुवं कृष्णमुपानयन्ति’ (हरि० २।९५।१७)। उपानयन्ति उपहरन्ति।
  • ‘समिज्जलादिकं चास्य (गुरोः) कल्यं कल्यमुपानयेत्’ (वि० पु० ३।९।६)। उक्तोऽर्थः।
  • ‘मम शोकमुपानयन्’ (रा० ६।८२।३)। उपाहरन् आहरन् जनयन्।
  • ‘मृष्टमन्नमुपानीतमश्नाति न हि तं (=लक्ष्मणं) विना’ (रा० १।१८।३१)। उपानीतमुपहृतं निवेदितम्।
  • ‘विमानैर्विविधैश्चित्ररुपानीतैः सुरोत्तमैः’ (भा० वि० ५६।१८)। उपानीतैः समीपमानीतैः।
  • ‘उदकान्तमुपानीय मत्स्यम्’ (भा० वन० १२७५६)।
  • ‘उपानीय ततो गङ्गां रसातलम्’ (रा० १।४४।४२)।

पत्

  • {उपापत्}
  • पत् (पत्लृ गतौ)।
  • ‘हंसाविव पततमा सुताँ उप’ (ऋ० ५।७८।१)। उपापततम् उपर्यन्तिक उड्डयेथाम्।

यम्

  • {उपायम्}
  • यम् (यम उपरमे)।
  • ‘त्रिरात्रो यद् व्यशीर्यत तमेतैः सामभिरभिषज्यन् गायत्रपार्श्वेनोपायच्छन्’ (पञ्च० ब्रा० १४।९।२७)। उपायच्छन् अवाष्टभ्नन् इति केलेंडो भाषान्तरकृत्। शिथिलावयवानां। (सोमानाम्) पुनः सन्धानार्थमुपादानमकुर्वन्नित्युत्तरवाक्यार्थ इत्यन्ये।
  • ‘नोपायध्वं भयम्’ (भट्टि० ७।१०१)। भयं मास्म सूचयत, मा कार्ष्टेति जयमङ्गला। सर्वथाऽ स्थाने भट्टिप्रयोगः। नात्रारादपि किमपि हिंसात्मकं गन्धनं सूचनं पैशुन्यमस्ति। तत्र सत्येव यमेः कित्त्वमात्मनेपदं चेति वृत्तिकारः।

या

  • {उपाया}
  • या (या प्रापणे प्रापणमिह गतिः)।
  • ‘आ नो देवेभिरुप देवहूतिमग्ने याहि’ (ऋ० ७।१४।३)। उपायाहि उपागच्छ।
  • ‘उपायातं दाशुषे रथेन वहन्ता’ (ऋ० ७।७१।२)।
  • ‘प्रद्युम्नोऽयमुपायाति भीतः’ (भा० वन० १८।२२)। उक्तोऽर्थः।

रम्

  • {उपारम्}
  • रम् (रमु क्रीडायाम्)।
  • ‘तपसोऽग्र्यादुपारम’ (रा० गोरे० सं० १।६७।११)। उपारम विरम।
  • ‘दृष्ट्वान्तरं ज्योतिरुपारराम’ (कु० ३।५८)। उपारराम विरराम। समाधे र्व्युत्थित इत्यर्थः।
  • ‘उपारमत तत्सैन्यं सरथाश्वनरद्विपम्’ (भा० द्रोण० १४७।५२)।
  • ‘दानप्रवृत्तेरनुपारतानाम्’ (रघु० १६।३)। अनुवृत्तधनोत्सर्गाणाम् इत्यर्थः।

रुद्

  • {उपारुद्}
  • रुद् (रुदिर अश्रुविमोचने)।
  • ‘निशातुषारै र्नयनाम्बुकल्पैः…उपारुरोदेव नदत्पतङ्गः’ (शिशु० )। उपारुरोद=अल्पाश्रुमोचनं कृतवान्।
  • ‘उपारुरोदेव नदत्पतङ्गः कुमुद्वतीं तीरतरुर्दिनादौ’ (भट्टि० २।४)। उपारुरोद विललाप परिदेवयाञ्चक्रे, अनुशुशोच।

लक्ष्

  • {उपालक्ष्}
  • लक्ष् (शम लक्ष आलोचने)।
  • ‘अध्रुवा सर्वमर्त्येषु श्रीरुपालक्ष्यते भृशम्’ (भा० शल्य० ६५।२०)। उपालक्ष्यते लक्ष्यते। नार्थ उपाङ्भ्याम्।

लभ्

  • {उपालभ्}
  • लभ् (डुलभष् प्राप्तौ)।
  • ‘तं यदि स्वरेषूपालभेत’ (छां० उ० ४।२२)। स्वरस्त्वया दुष्प्रयुक्त इति दूषणं दद्यात्।
  • ‘अपराधेषु चैनं सततमुपालभेत’ (आप० ध० १।८।२९)। इदमयुक्तं त्वया कृतमिति शिष्यं दोषिणं दर्शयेत्।
  • ‘पयोधरविस्तारयितृकमात्मनो यौवनमुपालभस्व’ (शा० १)। उपालभस्व अपराद्धं विजानीहि, दोषेण गच्छेत्यर्थः।
  • ‘केचिदस्मदुपालम्भे मतिं चक्रुर्हि तापसाः’ (भा० उ० १७६।२)। उपालम्भे दोषदाने।
  • ‘यत्त सम्यगुपक्रान्तं कार्यमेति विपर्ययम्। पुमांस्तत्रानुपालभ्यो दैवान्तरितपौरुषः’ (का० नी० सा० १२।१९)॥ अनुपालभ्यो न दोषेण गन्तव्यः, नापराद्धो मन्तव्यः।
  • ‘सौर्यः पशुरुपालम्भ्यः सवनीयस्य’ (शां० श्रौ० ११।१३।८)। उपालम्भ्योतिरिक्त आलभ्यः। पाणिनीयास्तु प्रशंसायां गम्यमानायां नुममिच्छन्ति।

वह्

  • {उपावह्}
  • वह् (वह प्रापणे)।
  • ‘आ च वहासि ताँ इह देवाँ उप प्रशस्तये’ (ऋ० १।७४।६)। उपावहासि समीपं प्रापय।
  • ‘अग्ने पत्नीरिहा वह देवानामुशतीरुप’ (ऋ० १।२२।९)। उपावह समीपमानय, उपानय।

विश्

  • {उपाविश्}
  • विश् (विश प्रवेशने)।
  • ‘प्रीतिश्च मनुजव्याघ्र दुर्योधनमुपाविशत्’ (भा० आदि० १३६।११)। उपाविशत् आविशत्, व्याश्नुत।

वी

  • {उपावी}
  • वी (वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु)।
  • ‘आ नो देवानामुप वेतु शंसः’ (ऋ० १०।३१।१)। उपावेतु उपागच्छतु। शंसः स्तोतव्यः (इन्द्रः)।

वृत्

  • {उपावृत्}
  • वृत् (वृतु वर्तने)।
  • ‘यतरान्वै न इयमुपावर्स्यति ते भविष्यन्ति परेतरे’ (=परा इतरे) (श० ब्रा० १।४।१।३४)। अस्मानुपैष्यति, अस्मासु सन्निधास्यत इति उपावर्त्स्यतीत्यनेनाह।
  • ‘ते देवा अब्रुवन्नुप न आवर्तस्व हव्यं नो वहेति’ (तै० सं० ५।४।९।४३)। उपावर्तस्व समीपमेहि, सन्निधत्स्व।
  • ‘सेडा मनुमुपावर्तत’ (तै० सं० १।७।१)।
  • ‘नृत्तं गीतमुपाववर्त’ (श० ब्रा० ३।२।४।६)। नर्तनान्गायनांश्चोपेयायेत्याह।
  • ‘देवान्वा एष उपावर्तते यो दीक्षते’ (श० ब्रा० ३।१।१।१०)। देवानुपैति, देवतासान्निध्यमधिगच्छतीत्यर्थः।
  • ‘अथ स्तीर्णां वेदिमुपावर्तते’ (श० ब्रा० १।३।४।१०)। वेद्याः समीपमावर्तत इत्यर्थः।
  • ‘पुनरेवैनं वामं वसूपावर्तते’ (तै० ब्रा० १।१।२।२)। उपावर्तते प्रतिनिवर्तते।
  • ‘यदुपावर्तते सोऽवभृथः’ (आप० ध० २।७।१०)। (अतिथिम्) अनुव्रज्य प्रत्यावर्तनमुपावर्तनमित्युज्ज्वला।
  • ‘तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः’ (रा० १।२।१९)। उपावर्तत न्यवर्तत।
  • ‘यावदहमाश्रमवासिनः प्रत्यवेक्ष्योपावर्ते तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः’ (शा० १)। उक्तोऽर्थः।
  • ‘समाहितचित्तस्य प्रज्ञाविवेक उपावर्तते’ (यो० सू० १।२० भा०)। उपावर्तते जायते।
  • ‘भूतिमेवोपावर्तते’ (तै० ब्रा० ३।८।३।३)। ऐश्वर्यमेव प्राप्नोतीत्याह।
  • ‘रात्रिं कथं चिदेवेमां सौमित्रे वर्तयामहे। उपावर्तामहे भूमावास्तीर्य स्वयमार्जितः’ (रा० २।६३।४)॥ उपावर्तामहे लोठिष्यामः, शयिष्यामहे।
  • ‘दग्धौ दग्धौ पुनः पादावुपावर्तयतानघ’ (भा० शल्य० ४८।२३)। उपावर्तयत समीपमानयत्।
  • ‘तांश्चाहं विक्रीय च्छगलिका विंशतिमात्रा उपावर्तयिष्यामि’ (तन्त्रा० ५।१)। उपावर्तयिष्यामि आत्मसमीपं प्रापयिष्यामि।
  • ‘तं चेदस्मिन्नन्ते मानसः शारीरो वा व्याधिः कश्चित्तीव्रतरः सहसाभ्यागच्छेत् तमेव तावदस्योपावर्तयितुं यतेत’ (चरक० सूत्र० १५।८)। उपावर्तयितुं निवर्तयितुं शमयितुम्।
  • ‘सन्ध्याकाल उपावृत्ते मुहूर्त्त चातिदारुणे’ (भा० उ० १०।३४)। उपावृत्ते उपस्थिते।
  • ‘अथ भैक्षचर्यादुपावृत्तः’ (बौ० ध० २।१०।१८।७)। उपावृत्तः प्रत्यावृत्तः।
  • ‘उपावृत्तेषु पार्थेषु सर्वास्वेव वधूषु च’ (भा० आश्रम० १८।१२)। उपावृत्तेषु निवृत्तेषु।
  • ‘सेयं रत्नसमाकीर्णा मही सवनपर्वता। उपावृत्ता महाराज त्वामद्य निहतद्विषम्’ (भा० शल्य० ६०।४६)॥ उपावृत्ता प्रतिनिवृत्ता। उपागता।
  • ‘प्रवासादुपावृत्तेन काश्यपेन’ (शा० ४)। उक्तोऽर्थः।
  • ‘स तं पुरोहितमुपादायोपावृत्तः’ (भा० आदि० ३।२०)। (स्वदेशं) प्रत्यावृत्तः। त्रिषूपावृत्तलुठितौ परावृत्ते मुहुर्भुविः (अमरः)।
  • ‘उपावृत्तमदः (नागः) क्षिप्रमभ्यवर्तत वेगिनः’ ( )। उपावृत्तमदः=जातमदः।
  • ‘उपावृत्त्योत्थितां दीनां वडवामिव वाहिताम्’ (रा० २।२०।३४)। उपावृत्त्य परावृत्त्य, लुठित्वा।
  • ‘अथ जिष्णुरुपावृत्त्य क्षुरधारेण कार्मुकम्। चकर्त भीष्मस्य’ (भा० वि० ६४।२७)। उपावृत्त्य समीपमेत्य।
  • ‘उपावर्त्य यथान्यायं’ (हयान्) (भा० द्रोण० १००।१५)। उपावर्त्य परिलोठ्य, आवर्त्य।
  • ‘तिष्ठतात्रैव सन्तुष्टा नोपावर्तितुमर्हथ’ (रा० ३।२०।१०)। उपावर्तितुमुपसर्प्तुम् (उपस्रप्तुम्)। उपावर्तितुं पलायितुमिति तु कतकः। तद् वितथम्। उत्तरार्धे यदि प्राणैरिहार्थो वो निवर्तध्वं निशाचराः इति श्रवणात्। कतकव्याख्याने पूर्वा निषेधोक्तिरुत्तरया प्रकृतोक्त्या व्याहन्येत।
  • ‘सहस्रं त उपावृतः’ (अथर्व० ६।७७।३)। उपावृतः समीपदेशप्राप्त्युपाया इति सायणः।
  • ‘करभोरु करोति मारुतस्त्वदुपावर्तनशङ्कि मे मनः’ (रघु० ८।५३)। पुनरागमन उज्जीवने मे मनः शङ्ककं करोतीत्युक्तं भवति।

व्यध्

  • {उपाव्यध्}
  • व्यध् (व्यध ताडने)।
  • ‘तस्य न कुतश्चनोपाव्याधो भवति’ (तै० ब्रा० १।७।७)। उपाव्याधो बाधः।

शंस्

  • {उपाशंस्}
  • शंस् (आङः शसि इच्छायाम्)।
  • ‘तत्कुलीनोपाशंसुः’ (कौ० अ० १।१४।३)। उपाशंसुः कामुकः, उपाश्रित इत्यर्थः।
  • ‘श्व उपाशंसनीयः कालः’ (नि० १।६।१)। उपाशंसनीयः=आशासितव्यः, आशंसायोग्यः, एषणीयः।

श्रि

  • {उपाश्रि}
  • श्रि (श्रिञ् सेवायाम्)।
  • ‘पौरजानपदान्सर्वान्संश्रितोपाश्रितांस्तथा’ (भा० शां० ८७।२४)। उपाश्रिता व्यवहिताः सन्तः श्रिताः। संश्रिता अनन्तराः सन्तः श्रिताः।
  • ‘महत्सोपाश्रयं भेजे रावणः परमासनम्’ (रा० ६।११।१७)। उपाश्रयः प्रतिश्रय उपधानम्।
  • ‘विषादयन्ति नात्मानं सत्त्वोपाश्रयिणो नराः’ (भा० वन० ७९।१४)। सत्त्वोपाश्रयिणः सत्त्वं धैर्यं तदुपाश्रयन्ते श्रयन्ते इत्येवं शीलाः।

सञ्ज्

  • {उपासञ्ज्}
  • सञ्ज् (षञ्ज सङ्गे)।
  • ‘चेकितान उपासङ्गं धनुः काश्य उपाहरत्’ (भा० सभा० ५३।९)। उपासङ्गो निषङ्गः, तूणीरः। उपाहरत् प्राभृतकमिति दत्तवान्।
  • ‘उपासङ्गो हयगजवाह्यस्तूण इति’ (भा० उ० १५५।३) इत्यत्र नीलकण्ठः।
  • ‘सोपायः सोपनिषदः सोपासङ्गः सनिश्चयः’ (भा० शां० ३२०।६३)। उपासङ्गः=ध्यानाङ्गानि यमादीनि।
  • ‘उपासङ्गानाचरद् दक्षिणेन वराङ्गानां नकुलश्चित्रयोधी’ (भा० उ० ४८।२४)। वराङ्गानां शिरसामुपासङ्गान् उच्चयान्।

सद्

  • {उपासद्}
  • सद् (षद्लृ विशरणगत्यवसादनेषु, आङः षद पद्यर्थे)।
  • ‘भीमसेनमुपासेदुः प्रवणादिव कुञ्जरम्’ (भा० शल्य० २६।९)। उपासेदुः संशिश्रियुः।
  • ‘पितामहमुपासेदुः पर्वते गन्धमादने’ (भा० भीष्म० ६५।४२)। उपासेदुः=उपासाञ्चक्रिरे।
  • ‘का पूर्वाहुतिः किमुपासीषदः’ (श० ब्रा० ११।५।३।३)। किं न्यधा इत्यर्थः।

सिध्

  • {उपासिध्}
  • सिध् (षिध गत्याम्)।
  • ‘वार्धक्षत्रिरुपासेधत् प्रवणादिव कुञ्जरः’ (भा० द्रोण० ४२।८)। उपासेधत् अवारयत्। प्रवणात् प्रवणं निम्नदेशः, तं प्राप्य। वार्धक्षत्रिर्जयद्रथः।

हन्

  • {उपाहन्}
  • हन् (हन हिंसागत्योः)।
  • ‘दक्षिणानुरूनुपाघ्नाना एतेनैव मन्त्रेण’ (श० ब्रा० २।६।२।१५)। उपाघ्नाना आघ्नन्तः प्रहरन्तः, ताडयन्तः।

हि

  • {उपाहि}
  • हि (हि गतौ वृद्धौ च)।
  • ‘पुरं दिदृक्षुभि र्जानपदैरुपाहितैः’ (रा० २।६।२८)। उपाहितैः समेतैः।

हृ

  • {उपाहृ}
  • हृ (हृञ् हरणे)।
  • ‘आज्ञापयतु भवान् किं ते प्रियमुपहरामि गुर्वर्थम्’ (भा० आदि० ३।९३)। उपहरामि ददामि प्रदिशामि।
  • ‘ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि। उपाजह्रुः सहामात्यं द्रोणाय भरतर्षभ’ (भा० १३८।६३)॥ उपाजह्रुः=उपजह्रुः=उपनिन्युः।
  • ‘अहः कस्मादुपाहरन्त्यस्मिन्कर्माणि’ (नि० २।२०।३)। उपाहरन्ति=अनुतिष्ठन्ति।
  • ‘नष्टं नष्टमुपेक्षस्व प्राप्तं प्राप्तमुपाहर’ (यो० वा० ४।४६।७)। उपाहर उपभुङ्क्ष्व, परिगृहाण।
  • ‘पाण्डवानां च वासांसि द्रौपद्याश्चाप्युपाहर’ (भा० सभा० ६८।३८)। आच्छिद्य (अवरोप्य) आत्मसमीपं प्रापयेत्यर्थः।
  • ‘गाण्डीवमुक्तै र्विशिखैरुपाहरे’ (भा० पु० १।७।१६)। उपाहरे=अपहरे छिनद्मि, कृन्तामि। उभावप्युपाङावस्थाने।
  • ‘ब्राह्मणस्य प्रतिश्रुत्य न मया तदुपाहृतम्’ (भा० अनु० ९।१२)। उपाहृतमुपहृतं प्रत्तम्।
  • ‘दुर्बलस्य तु कुतः प्रज्ञा पुरस्तादनुपाहृता’ (भा० शां० १४२।७)। अनुपाहृता ऽनुपात्ता ऽनुपयुक्ता ऽशिक्षिता।
  • ‘स्त्रीचापलादेतदुपाहृतं मे (=मया) धर्मं च वक्तुं तव कः समर्थः’ (रा० ३।९।३३)॥ उपाहृतं व्याहृतम्। उक्तम्।
  • ‘उपाहृतं तद्वचनं सुदारुणम् (रा० ३।५९।२७)। उक्तोऽर्थः।
  • ‘उपाहृतमनुबुद्धं निखातं वैरम्’ (अथर्व० १०।१।१९)। उपाहृतं व्यवहृतम्, क्रियया निर्वृत्तम्।

ह्वे

  • {उपाह्वे}
  • ह्वे (ह्वेञ् स्पर्धायां शब्दे च)।
  • ‘न भयान्न च कार्पण्यान्न लोभात्त्वामुपाह्वये’ (भा० शां० १५१।१७)। उपाह्वये शिष्यं करोमि।