०३६ समवा (सम्+अव+आङ्)

या

  • {समवाया}
  • या (या प्रापणे)।
  • ‘यावद् यावदुदकं समवायात् तावत्तावदन्ववसर्पासीति’ (श० ब्रा० १।८।१।६)। समवयायात्=अधो यायात्।

सृज्

  • {समवासृज्}
  • सृज् (सृज विसर्गे)।
  • ‘अथ मातृभिर्वत्सान्समवासृजन्ति’ (शा० ब्रा० १।५।४।३)। संयुञ्जन्ति=मातृभिर्वत्सानां संसर्गमभ्यनुजानन्ति।