जि-धातुः

जि (अभिभवे, भ्वादिः) इति द्विकर्मकः धातुः । अभिभवः = ग्रहणानुकूलः व्यापारः ।

यस्य ग्रहणं भवति, तत् प्रधानं कर्म । यस्मात् ग्रहणं क्रियते तत् गौणकर्म ।

प्रधानकर्मणः नित्यं कर्मकारकम् एव, अतः कर्तरि प्रयोगे तस्य द्वितीया विभक्तिः एव विधीयते । गौणकर्मणः तु कर्मकारकम् (द्वितीया विभक्तिः) अपि सम्भवति, अपादानकारकम् (पञ्चमी विभक्तिः) अपि सम्भवति ।

अतः “देवदत्तः यज्ञदत्तं शतं जयति”, “देवदत्तः यज्ञदत्तात् शतं जयति” इति उभयथा साधु ।

एवमेव, “देवदत्तः प्रतिस्पर्धिनं पदकं जितवान्” , “देवदत्तः प्रतिस्पर्धिनः पदकं जितवान्” इति उभयथा साधु ।

अस्मिन् वाक्ये वस्तुतः पदकंं प्रतिस्पर्धिनः अधीनं नास्ति अपितु आयोजकानाम् अधीनं वर्तते । तथापि उभौ अपि स्पर्धकौ “एतत् पदकं ममैव” इति चिन्तयतः, अतः एकेन पदके प्राप्ते सति अन्यस्मात् तस्य निवृत्तिः भवति इति विचिन्त्य अत्र अपादानकारकस्य प्रयोगः साधुत्वं प्राप्नोति ।

केवलम् गौणकर्मणः प्रयोगः क्रियते चेदपि वाक्यं साधु एव — “देवदत्तः प्रतिस्पर्धिनं जितवान्” इति ।

एवमेव - “रामः रावणं जयति, रामः रावणं पराजयते” — इत्येतानि वाक्यानि सङ्गच्छन्ते ।