११८ विसम् (वि+सम्)

आप्

  • {विसमाप्}
  • आप् (आप्लृ व्याप्तौ)।
  • ‘ननु चोक्तं निर्ज्ञातस्यार्थस्य समाप्तिर्वा भवति विसमाप्तिर्वा’ (५।३।६७ सूत्रे भाष्ये)। अत्र नञर्थो विशब्द इति कैयटः।

कट्

  • {विसंकट्}
  • कट् (कटे वर्षावरणयोः)।
  • ‘विसंकटपुरद्वारकूटकुट्टिम-मण्डिते’ (शि० भा० ९।५०)। विसंकटं विशालम्। सोऽयमुपसर्गकृतोऽर्थबाधः।

चर्

  • {विसंचर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘विसंचारि निरालम्बं पञ्चद्वारं चलाचलम्’ (मनः) (भा० शां० १९५।९)। विसंचारि विशेषेण संचरणशीलम्।

ज्ञा

  • {विसंज्ञा}
  • ज्ञा (ज्ञा अवबोधने)।
  • ‘आख्यातु नो भवाञ्शीघ्रं विसंज्ञाः स्मेह सर्वशः’ (भा० वन० १४२।५३)। विसंज्ञा भ्रान्ताः।

धा

  • {विसंधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘विसहितजानुः।’ कण्डितसन्धिर्जानुरित्यर्थः। विर्विरोधे।

युज्

  • {विसंयुज्}
  • युज् (युजिर् योगे)।
  • ‘एतयर्चा विसंयुक्तः काले च क्रियया स्वया’ (मनु० २।८०)। विसंयुक्तो विप्रयुक्तः।
  • ‘लज्जानता विसंयोगदुःखस्मरणविह्वला’ (भट्टि० २०।२०)। विसंयोगो वियोगो विप्रयोगः।

वद्

  • {विसंवद्}
  • वद् (वद व्यक्तायां वाचि)।
  • ‘विसंवदेन्नरो लोभात्’ (मनु० ८।२१९)। विरुद्धं ब्रूयादित्यर्थः। कृतं समयं लङ्घयेदित्यार्थिकोऽर्थः।
  • ‘शकटदासस्तु मित्रमिति विसंवदन्त्यक्षराणि’ (मुद्रा० ५)। संवादीनि न भवन्ति, विसदृशानि सन्तीत्याह।
  • ‘कमलानां मनोहराणामपि रूपाद्विसंवदति शीलम्’ (मुद्रा० १।१९)। विसंवदति भिद्यते।
  • ‘सिद्धानां न विसंवदन्ति वाचः’ (राम० १४।१००)। श्रुतं दृष्टं वार्थं न विरुन्धन्ति न ते मिथ्या वदन्तीत्यर्थः।
  • ‘मनोरथस्य पुष्पं दर्शयित्वा न फले विसंवदति’ (माल०)। विसंवदति विप्रलभते।
  • ‘न भवति भवति च नचिरं चिरं चेत्फले विसंवदति। कोपः सत्पुरुषाणाम्…’ (रविगुप्तवचनम्)॥ फले विसंवदति फलाद् वञ्चयत आत्मानम्। फलवान्न भवतीत्यर्थः।
  • ‘सा (परिषद्) यं धर्मं निश्चिनुयात्तं धर्मत्वेन स्वीकुर्यान्न विसंवदेत्’ (मनु० १२।११० इत्यत्र कुल्लूकः)। न विरुन्ध्यादित्यर्थः।
  • ‘रमणीयः खल्ववधिर्विधिना विसंवादितः’ (शा०)। मिथ्या कारित इत्यर्थः।
  • ‘इह विसंवादयत्यात्मानमन्त्यजोहमिति’ (अवि० १)। विसंवादयति विप्रतिषेधति।
  • ‘न चेद्विसंवादमुपैति दैवम्’ (अवि० २।८)। विसंवादं विरोधम्।
  • ‘विद्याविसंवादकृताः कलहाः प्रादुरभवन्’ (हर्ष० १)। विसंवादो वैषम्यं भेदः। प्रलम्भनं विसंवादनं मिथ्याफलाख्यानम् इति संमाननशालीनीकरणयोश्च (पा० १।३।३६) सूत्रे वृत्तिः।
  • ‘प्रतिज्ञाविसंवादनमनुचितत्वान्न व्यवस्यति ते मतिः’ (अवदा० सुत० जा०)। प्रतिश्रवमिथ्याकरणमित्याह।
  • ‘अविसंवादनं दानं समयस्याव्यतिक्रमः’ (भा० उ० ३८।३६)। अविसंवादनम् अविद्यमानविप्रलम्भम्।
  • ‘अविसंवादिता शौर्यं भक्तिज्ञत्वं कृतज्ञता’ (का० नी० सा० ८।९)। शब्दच्छलादतिसन्धानं विसंवाद इति टीका।
  • ‘अविश्वास्यो हि विसंवादकः स्वेषां परेषां च भवति’ (कौ० अ० १३।५।६)। विसंवादको मृषावादी मिथ्याफलाख्यायी।
  • ‘उपजापं वा विसंवादयन्ति’ (कौ० अ० ७।५।१५)।
  • ‘बलवतश्चानभिजातस्योपजापं विसंवादयन्ति’ (कौ० अ० ८।२।२४)। विसंवादयन्ति विफलयन्ति।
  • ‘सत्यवागविसंवादकः’ (कौ० अ० १।१८।६)। यः प्रतिज्ञातं न मिथ्या करोति सोऽविसंवादकः।

स्था

  • {विसंस्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘विसंस्थिते’ (यज्ञे) (बौ० ध० १।७।१५।१८)। असमाप्ते इत्यर्थः। विर्विरोधे। संस्थितः समाप्तो भवति।
  • ‘नेष्टारं विसंस्थितसंचरेणानुप्रपद्य’ (आश्व० श्रौ० ५।१९।८)।