२२५ उपवि (उप+वि)

ऊह्

  • {उपव्यूह्}
  • ऊह् (ऊह वितर्के)।
  • ‘समोप्पापरं खरं पूर्वस्मिन्नुपव्यूहति’ (सत्या० श्रौ० २४।६।२)। उपव्यूहति निक्षिपति।

मुच्

  • {उपविमुच्}
  • मुच् (मुच्लृ मोक्षणे)।
  • ‘अश्वै र्वाऽनडुद्भिर्वान्यैरन्यैरश्रान्ततरैरुपविमोकं यान्ति’ (ऐ० ब्रा० ४।४।५)। उपविमोकम् उप समीपे छायादीनां विमुच्य।
  • ‘तद्यथा दीर्घाध्व उपविमोकं यायात्’ (ऐ० ब्रा० ६।२३)। उक्तोऽर्थः।

स्था

  • {उपविस्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘दिशो वा अस्य (आदित्यस्य) बुध्न्या उपमा (=मानानि) विष्ठास्ता ह्येष उपवितिष्ठते’ (श० ब्रा० ७।४।१।१४)। उपवितिष्ठते ऽवलम्बते। सकर्मकोत्र व्युपाभ्यामुपसृष्टो धातुः।