कर्तरि क्तः

कर्मणि

सामान्य-रूपेण क्त-प्रत्ययः नित्यम् कर्मणः विशेषणरूपेण प्रयुज्यते । यथा — रामेण पाठः पठितः । कृष्णेन फलं खादितम् ।

कर्तरि

परन्तु केषाञ्चन धातूनां विषये कर्तुः विशेषणरूपेण अपि क्त-प्रत्ययः प्रयुज्यते — “३.४.७२ गत्यर्थाकर्मकश्लिषशीङ्स्थासजनरुहजीर्यतिभ्यश्च” -

  • गत्यर्थकाः धातवः - रामः ग्रामं गतः ।
  • अकर्मकाः धातवः
    • कृृष्णः हसितः । वृक्षः वर्धितः । देवदत्तः आसितः ।
  • विशेषाः सोपसर्गाः धातवः
    • हरिः लक्ष्मीम् आश्लिष्टः, शेषम् अधिशयितः, वैकुण्ठमधिष्ठितः शिवम् उपासितः, हरिदिनम् उपोषितः, रामम् अनुजातः, गरुडम् आरूढः, विश्वम् अनुजीर्णः ।

विशेषाः

  • “प्र + आप्” इति धातुः गत्यर्थकरूपेण स्वीक्रियते । तत्कथम् इति चेत् — गतिः इत्युक्ते उत्तरदेश-संयोगानुकूलव्यापारः, अतः तत्र उत्तरदेशस्य प्राप्तिः अस्ति एव । अतएव “देवदत्तः गङ्गां प्राप्तः” इति प्रयोगः साधुत्वं प्राप्नोति ।

    • पक्षे, प्राप्ता गङ्गा येन — इति सिद्धान्तकौमुदी ।
    • प्रपूर्वः आपॢँ व्याप्तौ, व्याप्तिः अपि इह सूत्रे गतिशब्देन विवक्षिता — इति तत्त्वबोधिनी ।
  • श्रिञ् सेवायाम् (भ्वादिः) इति धातुः गत्यर्थकरूपेण स्वीक्रियते । अतएव “कृष्णं श्रितः” इति कर्तरि प्रयोगः साधुत्वं प्राप्नोति । २.१.२४ द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः इति सूत्रे “श्रित” इति ग्रहणम् एव अस्य ज्ञापकम् । “श्रयतेः गतिविशेषार्थकत्वात् गत्यर्थाकर्मकेति कर्तरि क्तः” — इति अत्र बालमनोरमा ।

  • नमँ प्रह्वत्वे शब्दे (भ्वादिः) इति धातुः दुर्घटवृत्तौ गत्यर्थक-रूपेण स्वीकृतः अस्ति ।

    • “सोमनाथबन्धुमहं नतो जगदीश्वरम् इत्यत्र कर्तरि क्तः” — इति दुर्घटवृत्तिः ।
    • नमनम् गतिभेदः इति वैशेषिकाः अपि मन्यन्ते — “भ्रमणाकुञ्चनप्रसारणोर्ध्वज्वलननमनादयो गतिविशेषाः” — इति ।
  • आ+ रुह् इति धातुः गत्यर्थकः न स्वीक्रियते । यदि अस्य धातोः गत्यर्थकत्वम् अङ्गीक्रियेत, तर्हि ३.४.७२ गत्यर्थाकर्मकश्लिषशीङ्स्थासजनरुहजीर्यतिभ्यश्च इत्यस्मिन् सूत्रे “गत्यर्थक” शब्देनैव तस्य ग्रहणे जाते, तत्र रुह्-धातोः पुनः ग्रहणं व्यर्थं स्यात् । अतएव बालमनोरमायाम् अस्य अर्थः “उपरि आक्रान्तवान्” इति गतिभिन्नः दत्तः अस्ति ।

स्थितस्य गतिः

  • “स्थितस्य गतिः चिन्तनीया” इति न्यायेन पीतः, विदितः आदिषु स्थलेषु प्रयुक्तस्य कर्तरि-क्त-प्रत्ययस्य पञ्चभिः प्रकारैः समाधानं क्रियते।

पीतः

पीतप्रतिबद्धवत्सा = पीतः प्रतिबद्धः च वत्सः यस्याः, सा । अत्र पीतः इत्यत्र कर्तरि-क्त-प्रत्ययः कृतः अस्ति । पीतः वत्सः = सः वत्सः यः पानं कृतवान् इत्याशयः ।

अपीतेषु इत्यत्र कर्तरि-क्त-प्रत्ययः कृतः अस्ति । पीतः वृक्षः = सः वृक्षः यः पानं कृतवान् इत्याशयः।

वस्तुतस्तु, पा (पाने) इति धातुः गत्यर्थकः नास्ति, अकर्मकः नास्ति, श्लिषादिषु अपि न परिगण्यते । अतः ३.४.७२ गत्यर्थाकर्मक… इति सूत्रेण अस्मात् धातोः कर्तरि क्त-प्रत्ययः नैव सम्भवति । तर्हि, पीतः इत्यत्र कर्तरि-क्त-प्रत्ययः कथं समर्थनीयः — इति प्रश्नः ।

अच्

वत्सस्य विशेषणरूपेण प्रयुक्तः “पीतः” इति शब्दः तद्धितान्तः स्वीकर्तव्यः । पीतम् (= पानम्) अस्य अस्ति सः = पीत + अच् (५.२.१२७ अर्शआदिभ्योऽच्) → पीत । पानक्रियां करोति सः पीतः वत्सः इत्याशयः ।

पीतं (पानम्) अस्य अस्ति इति पीतः । पीतवान् इत्यर्थः । अर्श आदिभ्योऽच् इति अच्-प्रत्ययः । पीता गावः, भुक्ताः ब्राह्मणाः इति महाभाष्ये दर्शनात्
— रघुवंशस्य व्याख्याने मल्लिनाथः ।

अकारः मत्वर्थीयः । विभक्तम् एषाम् अस्ति इति विभक्ताः, पीतम् एषाम् अस्ति इति पीताः
— ३.४.६७ कर्तरि कृत् इत्यत्र भाष्यम् ।

कर्मधर्मोपचारः

“कर्तरि कर्मधर्मोपचारः मन्तव्यः ।” कर्मपदस्य अनुपस्थितौ तस्य धर्मम् (कर्मत्वम्) कर्तरि आरोप्य +++(लक्षणया)+++ कर्मपदस्य विशेषणरूपेण प्रयुक्तः शब्दः कर्तुः विशेषणरूपेण अपि प्रयोक्तव्यः । अतः ‘पीतः’ इति कर्मणः विशेषणम् ‘वत्सः’ इति कर्तृपदेन सह प्रयुज्यते ।

उत्तरपदलोपः

उत्तरपदलोपः स्वीकर्तव्यः = पीतोदकः इत्येव पीतः ।

उत्तरपदलोपः स्वीकर्तव्यः । पीतम् उदकम् येन सः = पीतोदकः = पीतः इत्याशयः ।

उत्तरपदलोपः अत्र द्रष्टव्यः - विभक्तधनाः विभक्ताः, पीतोदकाः पीताः इति । अत्र लोपशब्दार्थम् आह कैयटः —‌गम्यार्थस्य अप्रयोगः एव लोपः अभिमतः ।+++(5)+++

विभक्ताः भ्रातरः इत्यत्र च धनस्य यद्विभक्तत्वं तद् भ्रातृषु उपचारितम् ।
पीतोदकाः गावः इत्यत्र अपि उदकस्य पीतत्वम् गोषु आरोप्यते — इति मल्लिनाथः ।

अविवक्षया अकर्मकत्वम्

कर्मणः अविवक्षायाम् अकर्मकत्वं स्वीक्रियते = पीतवान् इत्येव पीतः ।

सकर्मकधातोः कर्मणः अविवक्षायाम् अकर्मकत्वं स्वीक्रियते । अतः पा-धातोः कर्मपदस्य अनुपस्थितौ अकर्मकत्वं स्वीकृत्य “पीतः” इति ३.४.७२ गत्यर्थाकर्मक… इत्यनेनैव कर्तरि क्तः सम्भवति ।

सकर्मकादपि अविवक्षिते कर्मणि कर्तरि क्तः — इति मल्लिनाथः ।

अत्र अकर्मकग्रहणेन अविवक्षितकर्मका अपि गृह्यन्ते
— ३.४.६९ लः कर्मणि च.. इत्यत्र बालमनोरमा ।

धातोरर्थान्तरे वृत्तेर्
धात्वर्थेनोपसंग्रहात् ।
प्रसिद्धेरविवक्षातः
कर्मणोऽकर्मिका क्रिया —‌ १.३.३९ समो गम्यृच्छि.. इत्यत्र पदमञ्जरी ।

६.१.२०७ आशितः कर्ता इत्यत्र काशिका —
आशेः अयम् आङ्पूर्वाद् अविवक्षिते कर्मणि कर्तरि क्तः ।

णिच्-कल्पनम्

अन्तर्भावितण्यर्थे प्रयोगः = पायितः इत्येव पीतः ।

पा-धातोः प्रेरणार्थकः अर्थः णिच्-प्रत्ययं विना एव ग्रहीतव्यः । इत्युक्ते, मूलधातुना एव णिजन्तस्य निर्देशः क्रियते इति मन्तव्यम् । पायितः = पीतः इत्याशयः । इत्थं दुर्घटवृत्तौ ३.४.७०‌ तयोरेव कृत्यक्तखलर्थाः इत्यत्र।

विदितः

किरातार्जुनीयस्य प्रथमे श्लोके “सः वर्णलिङ्गी विदितः समाययौ” इति विद्-धातोः कर्तरि-क्त-प्रत्ययः प्रयुक्तः अस्ति। विदितः = विदितवान् इत्यर्थः । अत्र कर्तरि-क्त-प्रत्ययः कृतः अस्ति ।

वस्तुतस्तु, विद् (ज्ञाने) इति अदादिगणस्य धातुः गत्यर्थकः नास्ति, अकर्मकः नास्ति, श्लिषादिषु अपि न परिगण्यते ।

कर्मधर्मोपचारः

तत्र ‘कर्तरि कर्मधर्मोपचाराद् विदितवृत्तान्तः विदितः’ ‌— इति मल्लिनाथः ।